०५ क्लीब-धर्माः

विश्वास-प्रस्तुतिः

[२५७]

अथ क्लीबधर्माः ।

तथा द्विजोत्पन्नः षण्ढो ऽपि शूद्रसमः । “वसन्ते ब्राह्मणम् उपनयीत” इत्य् उपनयनविधौ चमासाध्वर्युवद् उपादेयत्वेन विवक्षितपुंस्त्वात् स्त्रीणाम् इव तस्याप्य् उपनयनाभावात् । अष्टवर्षवाक्ये उद्देश्यत्वे ऽपि प्राप्तानुवादेन पुंस एवानुवादात् । मिताक्षरायां देवलो ऽपि ।

षण्ढको हीनलिङ्गः स्यात् संस्कारार्हश् च नैव सः । इति ।

अत एव तत्रैव वृद्धमनुः

षण्ढं तु ब्राह्मणं हत्वा शूद्रहत्याव्रतं चरेत् । इति ।

बौधायनसूत्रे स्मृत्यर्थसारे च वचनाद् उपनयनम् उक्तम् । प्रयोगपारिजाते ब्राह्मे ऽपि ।

ब्राह्मण्यां ब्राह्मणाज् जातो ब्राह्मणः स इति श्रुतिः ।
तस्माच् च षण्ढबधिरकुब्जवामनपङ्गुषु ॥

इत्याद्य् उक्त्वा,

ध्वस्तपुंस्त्वेषु चैतेषु संस्काराः स्युर् यथोचितम् । इति ।

एतच् चोक्तं प्राक् । स च सप्तविधः । तथा च गौडधृतदेवलः

षण्ढको वातजः षण्ढः पण्डः क्लीबो नपुंसकम् ।
कीलकश् चेति सप्तैव क्लीबभेदो व्यवस्थितः ॥

एषां स्वरूपम् आह स एव

तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीतुल्यः षण्ढको भवेत् ।

उन्नतकुचककूर्पहीनत्वादिधर्मक इत्य् अर्थः ।

पुमान् कृत्वा सलिङ्गानि पश्चाद् भिन्द्यात् तथैव च ।
स्त्री च पुम्भावम् आस्थाय पुरुषाचारवद्गुणः ॥
वातको नाम षण्ढः स्यात् स्त्रीषण्ढो वापि नामतः ॥

लिङ्गानि स्त्रीपुन्नपुंसकानि भिन्द्यात् त्यजेत् । कदाचित् स्त्री कदाचित् पुमान् कदाचित् षण्ढ इत्य् अर्थः । स्त्री च पुरुषवत् स्त्र्यन्तरं भुङ्क्ते शुक्रोत्सर्गं विनैव वातवशाद् इत्य् अर्थः ।

असल्लिङ्गो ऽथ षण्ढः स्यात् षण्ढस् तु म्लानमेहनः ।
अमेध्याशी पुमान् क्लीबो नष्टरेता नपुंसकः ॥

अमेध्याशी मुखमैथुनात् परशुक्राशी । अयं वैद्यके आसेक्य इत्य् उक्तः । तद् उक्तं सुश्रुते

आसेक्यो नाम भवति दम्पत्योर् अल्पवीर्ययोः ।
स शुक्रं प्राश्य लभते लिङ्गोच्छ्रायम् असंशयम् ॥
स कीलक इति प्रोक्तो यः क्लैब्याद् आत्मनः श्रियम् ।
अन्येन सह संयोज्य पश्चात् ताम् एव सेवते ॥

सुश्रुते त्व् अन्ये पि ।

यः पूतियोनौ जायेत स सौगन्धिकसञ्ज्ञकः ।
स योनिशेफसौगन्धम् आघ्राय लभते बलम् ॥
स्वे गुदे मैथुनाद् यस् तु [२५८] स्त्रीषु पुंवत् प्रवर्तते ।
कुम्भीकः स तु विज्ञेय ईर्ष्यकं शृणु चापरम् ॥
दृष्ट्वा व्यवायम् अन्येषां व्यवाये यः प्रवर्तते ।
ईर्ष्यकः स तु विज्ञेयः षण्ढकं शृणु पञ्चमम् ॥
यो भार्यायाम् ऋतौ मोहाद् अङ्गनेव प्रवर्तते ।
ततः स्त्रीचेष्टिताचारो जायते षण्ढसञ्ज्ञितः ॥

माधवीये तु चतुर्दश भेदा उक्ताः । ते तत्रैव ज्ञेयाः । तेषां चोपनयनव्रतचतुष्टयसमावर्तनविवाहवर्जं सर्वे संस्कारास् तूष्णीं भवन्ति, “कुमारं जातम्” इत्यादौ संस्कार्यरूपोद्देश्यगतत्वेन पुंस्त्वस्याविवक्षया स्त्रीणाम् इव षण्ढस्यापि प्राप्तेः,

तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ।

इति याज्ञवल्क्योक्तेः,

ते च स्त्रीतुल्यवाक्चेष्टाः स्त्रीधर्माणः प्रकीर्तिताः ।

इति वृद्धमनूक्तेश् च । जलाशयागमप्रासाददेवप्रतिष्ठामहादानादिष्व् अप्य् एवम्, षाष्ठन्यायेन कामश्रुतिगतस्य पुंस्त्वस्योद्देश्यगतत्वेनाविवक्षया स्त्रीणाम् इवाधिकारात् । एवं सर्वदानेषु, अहिंसादेः साधारण्याच् च । पितुः श्राद्धादौ तु नाधिकारः । “यश् चार्थहरः सपिण्डदायी” इत्य् आपस्तम्बेनार्थहरस्यैव पिण्डदानोक्तेः, षण्ढस्य च,

अनंशौ क्लीबपतितौ पङ्गुर् उन्मत्तको जडः ।

इति मन्वाद्यैर् अर्थहरत्वनिषेधात् । याज्ञवल्क्यो ऽपि ।

क्लीबाद्या नोदकं कुर्युस् तेनाव्रात्या विधर्मिणः ।

इति षण्ढाः ॥

मूलम्

मराठी

आतां क्लीवां-( नपुंसका )चे धर्म साङ्गतो.

जसे कुण्डगोलक शूद्रसम, तसेच द्विजोत्पन्न नपुंसकही शूदतुल्य आहेत. ह्मणूनच त्याम्स उपनयनादि संस्कार नाहीत. कारण,-" वसम्त ऋतूम्त ब्राह्मणाचे उपनयन करावें." या उ पनयनविधीम्त जसे-" चमसाध्वर्गीस वरांव.’ या वाक्याम्त उपादेयत्वेकरून, अध्वर्युशब्द पुल्लिङ्गी असल्यावरून घुम्त्व विवक्षित आहे; तद्वत् पूर्वोक्त उपनयनविधीन्त–‘ब्राह्मणम्’ या पुल्लिङ्गनिर्देशाने घुम्त्व विवक्षित असल्यामुळे तद्भिन्न त्रियाञ्चे जमें होत नाही तसम्च न पुंसकाञ्चेही उपनयन होत नाही. तसेच, “ ८ वर्षाञ्च्या ब्राह्मगा, उपनयन करावें." या वाक्याम्त उद्देश्यत्व असतांहि प्राप्तानुवाकरून पुरुषत्वाचाच अनुवाद केला आहे. व मि ताक्षरेम्त देवल ह्मणतो की,-“नपुंसक व हीनलिङ्ग (हिजडा) हे गम्ङ्कारास योग्य नाहीत.” ह्मणूनच, त्याच मिताक्षरत वृद्धमनु ह्मणतो-“ ब्राह्मणापासून झालेला नपुंसक मारल्याम दोपपरिहारार्थ शूद्रहत्येचे प्रायश्चित्त करावें1." बान्धायनमूत्राम्त व स्मृत्यर्थसाराम्त " त्यांस, उपनयनविधायक वचन आहे ह्मणून, ते करावे,” असं माङ्गितले आहे.

प्रयोगपारिजाताम्त ब्राह्मपुराणान्न–" ब्राह्मणीचठायीं ब्राह्मणापासून झालेल्यास ब्राह्मण ह्मणावं अशी श्रुति आहे. ह्मणून-नपुंसक, बहिरा, कुबडा, गिड्डा, पाङ्गळा, " इत्यादि सा गून,-" पूर्वी पुरुषत्व असून कालान्तरीं तं नष्ट झालेला, या मवास यथायोग्य संस्कार होतात," असं साङ्गितले आहे; हे आमा पूर्वीच साङ्गितले आहे. अम नपुंसक किती प्रकारचे आहेत याविषयीं गोडान्नी घेतलेले देवलवचन अम्मं आहे की-" षण्ढक, वातज, षण्ढ, पण्ड, क्लीव, नपुम्मक आणि कीटक असे नपुंसकाचे ७ भेद आहेत." याञ्ची निरनिराळी लक्षणे तोच साङ्गतो-" या ७ नपुंसकाम्त स्त्रीसारखें भाषण व चेष्टा करणारा स्त्रीच्या आका राचा ह्मणजे-स्तन उम्च असून कोपराचे अग्र न दिसणे, उरावर केश नसणे इ० स्त्रीलक्ष णाच्या नपुंसकास षण्ढक ह्मणावें १, जो स्त्री, पुरुष आणि नपुंसक लिङ्गाचा त्याग करील; ह्मणजे कधी स्त्री, कधी पुरुष व कधी नपुंसक होईल व जशी स्त्री पुरुषत्व स्वीकारून रेत त्यागावाञ्चून वायुसामर्थ्याने दुसऱ्या स्त्रीस भोगते तसे करणारा, त्यास वातज, वातक किंवा स्त्रीपम्ढ असें ह्मणावें २, असल्लिङ्ग ह्मणजे मुळीच ज्यास इन्द्रिय नाहीं तो पम्ढ ३, व निर्जीव इन्द्रियाचा तो पण्ड ४, मुखमैथुन करून घेऊन परवीर्य भक्षणारा तो क्लीब , ज्याचे रेत नष्ट झाले असेल व ज्यास इन्द्रिय असून वीर्य नाहीं तो नपुंसक ६.” पूर्वोक्त क्लीवास वैद्यशास्त्राम्त आसेक्य असे झटले आहे. त्याविषयीं सुश्रुतनामक वैद्यग्रन्थाम्त असे साङ्गि तले आहे की-" अल्पवीर्य स्त्रीपुरुषाम्पासून, आसेक्यनामक नपुंसक होतो. त्यास रेत प्राशनानं निःसंशय इन्द्रियचेतना होते." " जो नपुंसकत्वास्तव स्वस्त्रीशी दुसन्याचा संयोग करून नन्तर तिचा उपभोग करितो त्यास कीलक असें ह्मणतात ७, ” असे आहे. मु श्रुताम्त तर, नपुंसकाचे अन्यहि कित्येक भेद साङ्गितले आहेत. ते-" जो दुर्गधियुक्त यो नीत उत्पन्न होतो, त्यास सौगन्धिक ह्मणतात, व तो स्त्रीसम्भोग-काली तिच्या योनीचा वास घेउन बलाढ्य होतो २, जो पूर्वी आपल्या पश्चिमद्वाराम्त अन्य पुरुषाकडून मैथुन करवून, मग स्त्रीचे ठायीं पुरुषासारखा सम्भोगास प्रवृत्त होतो, त्यास कुम्भिक असें ह्मण तात ३, जो अन्य स्त्रीपुरुषाञ्चें मैथुन पाहून, ईयेने आपण तसे करण्यास प्रवृत्त होतो त्यास ईर्ण्यक ह्मणतात ४, जो मोहानें ऋतुकाली स्त्रीचे ठायी स्त्रीवत् व्यवहार करितो; तो त्यामुळे स्त्रीवत् चेष्टा करणारा असा षण्ढक नांवाचा होतो ५.” असे पूर्वी सां गितलेल्या आसेक्यासह पाम्च भद साङ्गितले आहेत. पराशरमाधवीयाम्त १४ भेद साङ्गि तले आहेत. ते तेथेच पहाव. अशा नपुंसकांस-उपनयन, महानाम्न्यादि ४ व्रतेम्, समाव र्तन व विवाह यांवाञ्चून सर्व संस्कार वैदिक व पौराणमन्त्ररहित, तूष्णीं करावे. कारण, " उत्पन्न झालेल्या पुत्रास संस्कृत करावा, ’’ इत्यादि वाक्याम्त संस्कार्यरूप उद्देश्यगत त्वाने पुंस्त्वाच्या अविवक्षेनें स्त्रीसारखी नपुंसकासहि जातकर्मादि संस्काराची प्राप्ति आहे. तसञ्च-" ह्या क्रिया स्त्रियाम्स तूष्णी व विवाह समन्त्रक करावा.’ अशी याज्ञवल्क्योक्ति आहे. व " ते हे नपुंसक स्त्रियांसारखे भाषण व चेष्टा करणारे अतएव स्त्रीधर्मेच आ हेत,’ अशी वृद्धमनूक्ति आहे ह्मणून. विहिरी इत्यादि जलाशय करणे, आगमोक्त करेम्, देवालय बान्धणे, देवस्थापन, तुलादि महादाने, इत्यादिकांविषयी पूर्ववत् अधि कार आहे. कारण पष्ठाध्यायस्थ न्यायानें-" स्वर्ग इच्छिणान्याने ज्योतिष्टोम यज्ञ करावा." इ० श्रुतीम्त असलेल्या पुरुषत्वाची उद्देश्यगतत्वेकरून, विवक्षा नसल्याव रून, स्त्रियाञ्चे परी नपुंसकादिकांसही अधिकार आहे. असाच सर्व दानांविषयी आहे. अहिंसादि धर्म सर्वाम्स साधारण आहेत. तरी, पितृश्राद्धादिकाञ्चा तर अ धिकार नाही. कारण, “जो बापाचे द्रव्य वेणारा असेल, त्याने त्यास पिण्ड द्यावा, ’’ असें आपस्तंवाने द्रव्य घेणारामच श्राद्ध करण्याचा अधिकार साङ्गितला आहे, व नपुंसकास-" नपुंसक व पतित, पाङ्गळा, उन्मत्त, व जड हे पितृद्रव्याचे अधि. कारी होत नाहीत.-’ इत्यादि वचनान्नी मन्वादि धर्मशास्त्रकर्त्यान्नी दायाधिकारित्वाचा निषेध केला आहे. याज्ञवल्क्यही असेच ह्मणतो की,-" नपुंसक, चोर, ब्रात्य, धर्मभ्रष्ट यान्नी पित्रादिकाञ्चे उदकदान व पिण्डदान इत्यादि करूं नये."

इति षण्ढादिनिर्णयः ॥

  1. हे वचन येथे घेण्याचे मुख्य कारण असे आहे की,-वृद्ध मनही-’ नपुंसकाम्य ब्राह्मण्य नाहीं हम्च साङ्गतो; कारण, तसे नसते तर-नमक ब्राह्मणास मारलं असतां दोपपरिहारार्थ ब्रह्महत्येचे प्रायश्चित्त साङ्गण्याचं टाकुन, शुद्रहलेचे प्रायश्चित्त साङ्गणार नव्हता. ’ हे स्पष्ट करुन दाखवावयाचे. ↩︎