०४ शूद्-रसमान-धर्माः

विश्वास-प्रस्तुतिः

[२५३]

अथ शूद्रसमानधर्माः ।

तथा कुण्डगोलदाव् अपि शूद्रसमौ । तथा च स्मृतिकौमुद्यां देवलः

द्वितीयेन तु यः [२५४] पित्रा सवर्णायां प्रजायते ।
सवर्णोद इति ज्ञेयः शूद्रधर्मा च जातितः ॥
व्रतहीनास् त्व् असंस्कार्याः सवर्णास्व् अपि ये सुताः ।
उत्पादिताः सर्वर्णेन व्रात्या इति बहिष्कृताः ॥ इति ।

तत्रैव मनुः

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
अमृते जारजः कुण्डो मृते भर्तरि गोलकः ॥

ननु कुण्डगोलकयोर् अब्रह्मणत्वे कथं श्राद्धे निषेधः । स हि ब्राह्मणः श्राद्धसम्पदे इत्य् उक्तेर् ब्राह्मणमात्रप्राप्तौ तेषां मध्ये केषाञ्चिन् निषेधार्थः । यद् आह याज्ञवल्क्यः

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥

इति, तयोश् चाब्राह्मण्ये प्राप्त्यभावान् निषेधो व्यर्थः । तथा स्मृत्यर्थसारे ब्राह्मे च तयोः संस्कार्यत्वम् उक्तम् । केचिद् आहुर् द्विजैर् जातौ संस्कार्यौ कुण्डगोलकाव् इति । तद् अपि न युज्यते इति ।

उच्यते । “ब्राह्मण्यां ब्राह्मणाज् जातो ब्राह्मणः” इति भ्रमप्राप्तस्य श्राद्धे निषेध इति विज्ञानेश्वरः । कुण्डगोलकयोः संस्कार्यत्वं श्राद्धे निषेधश् च क्षेत्रजपरः, शास्त्रानुज्ञानात् । अन्यस्याब्राह्मणत्वेन प्राप्त्यभावाद् उपाधेयसङ्करे ऽप्य् उपाधेर् असङ्कराद् इत्य् अपरार्कःकल्पतरौ कात्यायनः

सुखार्थं या प्रवृत्ता स्त्री न भर्तुः सुतकाम्यया ।
पुत्रं तु जनयेद् एवं निन्द्या पापा च सा स्मृता ॥ भर्तृगोत्रं समुत्सृज्य नारी यद्य् अन्यम् आश्रयेत् ।
निन्द्यैव सा स्मृता लोके परपूर्वेति चोच्यते ॥
परपूर्वा तु यत्र स्यात् तत्र स्यान् नाश्रितः प्रभुः ।
क्रमाद् ऋते तु धर्मार्थं लब्ध्वा वा स्वामिनो भवेत् ॥
निरोद्धव्या च ताड्या च परपूर्वापराधतः ।
चौरहस्तान् नदीवेगाद् दुर्भिक्षाद् देशविप्लवात् ॥
विनिस्तीर्य सकान्ताराल् लब्धा त्यक्ता क्रमागता ।
आसां भोगे न दोषः स्याद् इति शास्त्रविनिश्चयः ॥
स्वामिदत्ता तु गृह्णीयाद् देया चेन् न त्व् अतो ऽन्यथा ।
दीयमानम् अथात्मानं या नारी नानुमोदते ।
न सा देया न च ग्राह्या विधिर् एष स्मृतो बुधैः ॥
न चोत्तमां न चाकामां तथा पुत्रवतीं न च ।
ईदृशीं त्व् अनुरूपेण निष्क्रयेण प्रमीलयेत् ॥

यमः

जारजातः सवर्णायां कुण्डो जीवति भर्तरि ।
मृते तु गोलको नाम जातिहीनौ च तौ स्मृतौ ॥
असवर्णासु नारीषु द्विजैर् उत्पादिताश् च ये ।
परपत्नीषु सर्वासु कुण्डास् ते गोलकाः स्मृताः ॥
मातृवर्णा न ते प्रोक्ताः पितृवर्णा न च स्मृताः ।
अविवाह्याः सुताश् चैषां बन्धुभिः पितृमातृतः ॥

स एव

कृच्छ्रं सान्तपनं कुर्याद् धत्वा सङ्कीर्णयोनिजम् ।
सूतं हत्वातिकृच्छ्रं तु कुण्डं गोलकम् एव च ॥

मनुः

जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः ।
जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥

नीचायाम् उत्तमजौ संस्कार्यौ, उत्तमायां नीचजौ नेत्य् अर्थः । स्मृतिकौमुद्याम् आदिपुराणे

सवर्णासु सवर्णैस् तु ये जायन्ते परैर् अपि ।
अवरोटकसंज्ञास्1 ते व्रतसंस्कारवर्जिताः ॥

विप्रायां विप्रजा उपनेया नान्ये इति तत्रैवोक्तम् ।

चतुर्णाम् अपि वर्णानां जीवताम् अन्यसम्भवः ।
कुण्डस् तु सङ्करो ज्ञेयो मृतानाम् अथ गोलकः ॥
जातिहीनः स मातॄणां ग्राहयेत् कर्मनामनी ।

तदीयं कर्म नाम च तन्मातॄणाम् इत्य् अर्थः ।

योज्यो देवपुरे राज्ञा वर्णसङ्करभीरुणा ।

देवपुरे देवद्वारे ।

कुण्डो वा गोलको विप्रः सन्ध्योपासनमात्रवित् ॥
स्नानभोजनसन्ध्यासु देवेषु स पठेच् च तत् ।

विप्र इत्य् उक्तेस् तस्यैव सन्ध्योपनयनं च । [२५५] मिताक्षरायाम् अपि कुण्डगोलकौ यथार्हं संस्कार्याव् इत्य् उक्तम् । स्मृत्यर्थसारे प्रयोगपारिजाते ब्राह्मे च ।

एवम् एव द्विजैर् जातौ संस्कार्यौ कुण्डगोलकौ । इति ।

स्नानेति स्नानादिसमये बन्दिवद् वाक्यं पठेद् इत्य् अर्थः ।

इति कुण्डगोलकौ ।

मूलम्

मराठी

आतां शूद्रसमानाञ्चे धर्म साङ्गतो.

जशा स्त्रिया शूद्रसम तसेच कुण्डगोलकही शूद्रसम होत. त्यांविषयीं स्मृतिकौमुदीत देवल ह्मणतो-" दुसऱ्या बापापासून सवर्ण स्त्रीचे ठायीं उत्पन्न होतो; तो जातीने सवर्णोदर1 व शूद्रधर्मा असें जाणावेम्.

सवर्ण स्त्रीचे ठायीं विवाहित असल्यावाञ्चून अन्य सवर्ण पुरुषाने उत्पन्न केलेले पुत्र अर्थात् कुण्ड व गोलक, ते संस्कारास योग्य नाहीन्त, व त्याम्स वेदव्रता धिकार नाही. ते सर्वधर्मबहिप्कृत अतएव व्रात्य होत." तेथेच मनु ह्मणतो-" परस्त्रीचे ठा यी तिचा पति जीवम्त असतां जारापासून झालेल्याम्स कुण्ड व पति मेल्यावर जारोत्पन्नाम्स गो लक नांवाचे हे २ प्रकारचे पुत्र होतात." यावर शङ्का करितात की,-कुण्ड व गोलकांस, जर विप्रत्व नाही तर, त्याञ्चा श्राद्धप्रकरणाम्त निषेध कां ? कारण, ज्याम्स मुळीच ब्राह्मण्य नाहीं अशा शूद्रादिकाञ्चा तेथे निषेध नाही. यावरून त्याम्स ब्राह्मणत्व असावे असे सिद्ध होतें आणि तो निषेध-“ब्राह्मण हा श्राद्धसम्पत्तीस कारण आहे.” असी उक्ति आहे ह्मणून, ब्रा ह्मणमात्राची प्राप्ति असताम्, त्याम्त कित्येकाञ्चा निषेध व्हावा ह्मणून आहे. उदाहरणार्थ या. ज्ञवल्क्याचे वचन घेऊम्, तो ह्मणतो की,-“रोगी, कमी किंवा अधिक अङ्गाचा, पुनर्विवाहित स्त्रीचा पुत्र, व्रतभ्रष्ट, कुण्ड, गोलक, किडक्या नखाञ्चा, आणि धुरकट दान्ताञ्चा हे ब्राह्मण श्राद्धाम्त निषिद्ध आहेत. " यावरून पूर्वोक्त रोगी व हीनाङ्गादिकाम्स ब्राह्मण्य अस ताही ते दृषित असल्यावरून निषिद्ध केले आहेत, तसेच कुण्डगोलकही असावे. असे असतां पूर्वोक्त देवलवचनाप्रमाणे त्याम्स ब्राह्मण्यच नसेल तर, श्राद्धभोजनप्राप्तिच नाही ह्मणून त्याञ्चा निषेधच व्यर्थ आहे. तसेम्च स्मृत्यर्थसाराम्त व ब्रह्मपुराणाम्त कुण्डगोलकाम्स संस्कारयोग्यत्व आहे असे साङ्गितले आहे. तें-” कित्येक धर्मज्ञ-समान वर्ण द्विजोत्पन्न कुण्डगोलकाम्स संस्कार करावे, असें ह्मणतात." हे वचनही अयोग्य हो ईल. याचे समाधान साङ्गतो-" ब्राह्मणीचे ठायीं ब्राह्मणापासून झालेला तो ब्राह्मण. या लक्षणाच्या भ्रान्तीने कुण्डगोलकाम्स प्राप्त झालेल्या ब्राह्मण्याचा श्राद्धाम्त निषेध केला आहे," असे विज्ञानेश्वर ह्मणतो. " कुण्डगोलकाञ्चे संस्कारयोग्यत्व व जो श्राद्धाम्त निषेध आहे; तो क्षेत्रजपुत्रपर आहे; कारण, तशा पुत्राविषयी शास्त्राची आज्ञा आहे ह्मणून. इत राम्स ( कुण्डगोलकाम्स ) ब्राह्मणभिन्नत्व असल्यामुळे श्राद्धप्राप्तीच्या अभावास्तव उपाधेयाचा संस्कार असला तरी, उपाधीचा सङ्कर होत नाही ह्मणून " असें अपरार्क ह्मणतो. कल्प तरूम्त कात्यायन ह्मणतो-" जी पतीस पुत्र होण्याची इच्छा न धरितां केवळ रतिसुखार्थ परपुरुषसङ्ग करून, पुत्र उत्पन्न करिते; ती निन्द्य व पापिणी होय. जर स्त्री पतीचे गोत्र सोडून अन्याचा आश्रय करील, तर ती लोकाम्त निन्द्यच होय. तिला परपूर्वा असें ह्मणतात. व ती परपूर्वा जेथे असेल, तेथे तिला आश्रय देणारा पुरुष तिचा मा लक होत नाही. जरी पतीपासून विकत घेतल्यावाञ्चून धर्मार्थ अथवा अन्य कोणत्याही रीतीने अन्य पुरुषाला स्त्री मिळाली तरी, तिच्यावर तिच्या नवऱ्याची सत्ता आहे. परपूर्वा स्त्रीने अपराध केल्यास तिला कोण्डावी, किंवा मारावी. चोरापासून सोडवून घेत लेली, नदीत बुडत असतां तारलेली, नदीच्या ओघाम्त साम्पडून मिळालेली, दुर्भिक्षाम्त अन्न देऊन जिचे प्राण वाचविले असतील ती, व देशाचे अरिष्ट आणि भयङ्कर अरण्याम्त अड चणीम्त अकस्मात् मिळालेली, आणखी नवन्याने टाकलेली, क्रमाने प्राप्त झालेली, ह्याञ्चा त्या सङ्कटापासून मुक्त करणान्याने उपभोग केला असतां त्याला दोष नाही. असा शास्त्राचा नियम आहे. जर देण्यास योग्य असलेली स्त्री तिच्या पतीने दिली असेल तर, ती घेणाराने भोगिल्यास त्याला दोष नाही. तसे नसल्यास परस्त्री भोगू नये. पति देण्यास सिद्ध असून, ती कबूल नसेल तर तिला पतीने देऊ नये, व घेणाराने घेऊं नये, असा ज्ञात्यान्नी विधि केला आहे. जी आपल्याहून उत्तम वर्णाची नसून निरिच्छ ह्मणने आपल्याकडे येण्यास नाकबूल नसेल, व पुत्रवती नसेल अशी स्त्री तिच्या किमतीला2 योग्य द्रव्य देऊन मिळवावी.” यम ह्मणतो-“सवर्ण स्त्रीचेठायीं तिचा पति जीवम्त असतां अन्यापासून कुण्ड, व पति मेल्यावर गोलक नामक पुत्र होतात, ते जातिहीन होत.

जे असवर्ण स्त्रीचेठायीं व सर्व अन्य स्त्रियाञ्चेठायीं द्विजान्नी उत्पादित पुत्र त्यांसही कुण्ड व गोलक ह्मणावम्. ते मातापितराञ्च्या वर्णातील नव्हेत. याञ्च्या आईबापाञ्च्या गोत्रसम्बन्धाने सम्बन्धिकान्नी मुली करूं नयेत, व आपल्या त्याम्स देऊं नयेत." आणखी तोच ह्मणतो- “कोणी सङ्कीर्णयोनीत उत्पन्न झालेल्या पुरुषास मारला असेल तर त्याने दोपपरिहारार्थ कृच्छ्र किंवा सान्तपन प्राय श्चित्त करावम्. तसम्च सूत, कुण्ड व गोलक याम्स मारल्यास अतिकृच्छ्र प्रायश्चित्त करावें." मनु ह्मणतो- “अनार्य- ( अधम अथवा नीच ) स्त्रीचेठायीं आर्यापा सून ( श्रेष्ठवर्णापासून ) पुत्र झाल्यास, बीजाच्या उत्तमत्वास्तव तो श्रेष्ठ गुणवान् होतो. परन्तु उत्तमवर्ण स्त्रीचेठायीं अधमवर्णापासून झाल्यास, तो बीजाच्या नी चत्वास्तव अधम होतो, असा शास्त्राचा निश्चय आहे.’’ अर्थात् नीच स्त्रीचेठायीं उत्तमापासून झालेले पुत्र संस्कार करण्याम योग्य आहेत परन्तु, उत्तमस्त्रीचेठायीं नीचापासून झालेले संस्कारास योग्य नाहीत अमें सिद्ध होते. स्मृतिकौमुदीत आदि त्यपुराणान्त,- “सवर्ण स्त्रीचेठायीं मवणे परपुरुषापासून जे होतात, त्याम्म अवरोटक ( अवावटक ) ह्मणतात. ते बतेम्, संस्कार इत्यादिवनित आहेत." तमम्च “विप्रापासून, वि प्रस्त्रीचेठायीं झालेले पुत्र संस्कारास योग्य आहेत, अन्य नाहीत," असं तेथम्च साङ्गितले आहे. तें-" ४ हि वर्णाम्त पति जीवम्त असतां अन्यापासून झालेल्यांस- कुण्ड व पति मेल्यानन्तर अन्यापासून झालेल्याम्स गोलक असें ह्मणावेम्. हे जातिभ्रष्ट होतः याम्स कर्मे व नामें मातेची प्राप्त व्हावी ( अमकीचा मुलगा ह्मणावें ). याम्स वर्णसङ्करा ची भीति बाळगणान्या राजान्नी देवपूजा, व देवळान्तील झाडलोट वगैरे करण्यास ला वावे. त्याम्स नित्यकर्मापैकी सन्ध्योपासन मात्र विहित आहे. स्नान, भोजन, सन्ध्या व देव पूजा याम्त याच मन्त्राचा पाठ करावा,’ असे साङ्गितले आहे. येथे ’ विप्र’ असें झटले आहे ह्मणून. पूर्वक्ति प्रकारें ब्राह्मणापासून झालेल्या कुण्डगोलकांसच सन्ध्या व उपनयन विहित आहे, इतराम्स नाही. मिताक्षरेतही-“कुण्ड व गोलक यथार्ह संस्कारास योग्य आहेत," असं साङ्गितले आहे. तसम्च स्मृत्यर्थसार व प्रयोगपारिजाताम्त ब्रह्मपुराणान्त-“अ सेच द्विजोत्पन्न कुण्डगोलक संस्कारास योग्य आहेत,’ असे साङ्गितले आहे. वरील आ दित्यपुराणवचनान्त-‘स्नान’ शब्द आहे. यावरून राजादिकाञ्च्या स्नानकाली यान्नी बन्दि ननामारग्वें राजस्लवन करावं अमा अभिप्राय.

इति कुण्डगोलकविचारः ॥

  1. पुस्तकान्तरे अवावटकेति पाठः । ↩︎ ↩︎ ↩︎

  2. यावरून पूर्वकाली दुसऱ्याची स्त्री तिच्या नवऱ्यापासून विकत घेत असत, व तसं केले असतां तें धर्मविरुद्ध मानीत नसत, हे उघड सिद्ध होते. आणि याप्रमाणे विकत घेतलेल्या स्त्रीला गुलामासारखी बाल. गीत असत. हे पृ. २४७ ओ. ३५ याम्त माङ्गितलेल्या वचनावरून सिद्ध होते. ↩︎