विश्वास-प्रस्तुतिः
अथ स्त्रीधर्माः ।
एवं द्विजस्त्रियो ऽपि । तासाम् अपि तस्या यावद् उक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वाद् इति षाष्ठन्यायेनानधिकारात् । श्रौतस्मार्तकर्मण्य् अग्निसाध्ये ऽधिकारो ऽस्त्य् एव । कामश्रुतिगतस्य पुंस्त्वस्योद्देश्यविशेषणस्य षाष्ठन्यायेनाविवक्षितत्वात्, “पाणिग्रहणाद् धि सहत्वं कर्मसु तथा पुण्यफलेषु च” इत्य् आपस्तम्बोक्तेश् च । सूतसंहितायाम् अपि ।
द्विजस्त्रीणाम् अपि श्रौतज्ञानाभ्यासे ऽधिकारिताम् ।
वदन्ति केचिद् विद्वांसः स्त्रीणां शूद्रसमानताम् ॥
इति । “स्त्रीशूद्राश् च सधर्माण” इति स्मृतेश् च । संस्कारा अपि शूद्रवत् तूष्णीम् ।
अमन्त्रिका तु कार्येयं स्त्रीणाम् [२३९] आवृद् अशेषतः ।
इति मनूक्तेः ।
तेनाधिकारी भवेच् छूद्रः पूर्तधर्मे न वैदिके ।
इति जातूकर्ण्योक्तेः,
बहिर्वेदि च यद् दानं तत् पौर्तिकम् उदाहृतम् ।
इति व्यासोक्तेश् च, शूद्रवत् तुलादिषोडशमहादानप्रासादजलाशयोत्सर्गादाव् अप्य् अधिकारः, फले वाक्यगतस्य पुंस्त्वस्य षाष्ठनीत्याविवक्षितत्वात् । ततः सधवानां पत्यनुमत्या पृथग् अप्य् अधिकारः, अग्निसाध्यत्वाभावात् । विधवानां तु स्वातन्त्र्याद् अस्त्य् एवाधिकारः । एतच् च विज्ञानेश्वरेण व्यवहाराध्याये सविस्तरम् उक्तम् । अत एव तुलादौ ।
पुमान् प्रद्युम्नवत् स स्यान् नारी स्यात् पार्वतीसमा ।
इति स्त्रीणां फलश्रवणम् । न चैवं शूद्रधर्मत्वात् पञ्चयज्ञा अपि स्त्रीणां स्युर् इति चेत्, शृणु ।
पञ्चयज्ञविधानं तु गृही नित्यं न हापयेत् ।
इति शङ्खाद्य्उक्तेर् यजेतेत्यादौ कर्त्रैकत्ववत् पुंस्त्वस्य विवक्षितत्वान् न स्त्रियाः प्रसक्तिः । न च नित्ये कार्ये श्रुतिर् अस्ति । येन तद्गतपुंस्त्वाविवक्षया स्त्रिया अप्य् अधिकारः स्यात् । नित्यत्वानुपपत्त्या प्रत्यवायाभावस्य कल्प्यत्वात् । वचनात् परं नित्ये ऽधिकारः । यथा मदनरत्ने स्कान्दे ।
प्रत्यहं तर्पणं कार्यं भर्तुः कुशतिलोदकैः ॥
इति । श्राद्धेष्व् अपि नित्यनैमित्तिककाम्येष्व् अपुत्राया भवत्य् एवाधिकारः
भार्यापिण्डं पतिर् दद्यात् भर्त्रे भार्या तथैव च ।
इति शङ्खोक्तेः,
अपुत्रानाशनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत् पिण्डं कृत्स्नम् अंशं लभेत च ।
इति वृद्धमनूक्तेश् च । एतत् सविस्तरं निर्णयसिन्धाव् उक्तम् । यत्र फलश्रवणं विष्णुशिवपूजनादौ तत्राधिकारो ऽस्त्य् एव । एवं व्रतादाव् अपि । तस्माच् छूद्रसमत्वे ऽपि स्त्रीणां न पञ्चयज्ञाः । किं तु भोजनकाले ग्रासमात्रं घृतप्लुतम् अग्नौ क्षिपेत् । यस्य तेषाम् अग्रतो ऽन्नं सिद्ध्येत् स वह्नौ कृत्वाश्नीयाद् इति पृथ्वीचन्द्रोदये गोभिलोक्तेर् इति दिक् । विस्तरापत्तेर् बहु नोच्यते ।
मूलम्

मराठी
आतां स्त्रीधर्म साङ्गतो.
विप्रस्त्रियांसहि शूद्रासारखाच वेदोक्त कर्माचा अधिकार नाही. त्याम्महि-" तीस जेवढे साङ्गितले आहे ते कम व ब्रह्मचर्य विहित आहे. " या पूर्वमीमांसेच्या सहाव्या अध्यायस्थ न्यायानं पतिसह अग्निसाध्य श्रौतकाविषयीं व स्मृत्युक्त काविषयी अधिकार आहेच. कारण कामश्रतिगत1 घुम्त्वाचं व उद्देश्यविशेषणाचे पूर्वोक्त न्यायाने अविवक्षितत्व आहे. व “पाणिग्रहणास्तव इतर कर्म व पुण्यफलाविषयीं पतीशी तिची बरोबरी आहे.’’ असी आपस्तम्बोक्ति आहे. मृतसंहितेतही-“द्विजस्त्रियाम्स वेदार्थज्ञान व त्याच्या अभ्यामा विषयी अधिकार आहे. व कित्येक विद्वान्, स्त्रियाम्स त्या शूद्रसम अमें ह्मणतात, ’’ असे साङ्गितले आहे. " स्त्रिया व शूद्र हे समानधर्मे होत, " असी स्मृतिहि आहे. अत एव तिचे संस्कारही शूद्रवत् तूप्णी करावे.-” हे पूर्वोक्त संस्कार स्त्रियाम्स सर्व अमं त्रक करावे, " असी मनूक्ति आहे. यावरून,-” शूद्र पूर्त-(धर्मार्थ वापीकृपत डागादि करणें ) धर्माविषयी अधिकारी आहे. वैदिकाविषयीं नाही,’ असी जातूकोक्ति आहे.
व “वेदीच्या बाहेर जे दान देतात त्यास पौतिक ह्मणावे,” असी व्यासोक्ति आहे. ह्म णून, शूद्रवत् अमन्त्रक तुलादि १६ महादानेम्, धर्मार्थ-घरेम्, विहिरी, तळी इत्यादिकांविषयी स्त्रियांला अधिकार आहे; कारण, फलाविषयी कामश्रुतीन्तील पुरुषत्वाचे पाष्ठन्यायाने विव क्षितत्व नाही. त्यावरून सुवासिनी स्त्रियाम्स पतिसम्मताने स्वतः कमोधिकार आहे. कारण, पूर्वोक्त कम अग्निसाध्य नाहीत ह्मणून. विधवाम्स तर स्वतन्त्रतेने अधिकार आहेच, हैं विज्ञानेश्वराने व्यवहाराध्यायाम्त सविस्तर साङ्गितले आहे. अतएव तुलादानादिकान्त– “तें देणारा पुरुष प्रद्युम्नसम व स्त्री पार्वतीसम होते,’ असे फल स्त्रियांसही साङ्गितले आहे. असे असतां शूद्रसमानधर्मत्वास्तव, स्त्रियाम्स पञ्चमहायज्ञादिकहि करितां येतील ? असें ह्मणशील तर श्रवण कर,-“गृहस्थाश्रम्याने नेहेमी पञ्चयज्ञ करणे सोडूं नये,’ असी शङ्खादिकाञ्ची उक्ति आहे. व ‘यजेत’ इत्यादि विध्यर्थक क्रियावचनान्त, क याञ्च्या एकत्वाप्रमाणेच पुरुषत्वहि विवक्षित आहे. तसी स्त्रीत्वाची विवक्षा नाही. ह्म णून, त्या कर्माविषयी स्त्रियाम्स अधिकारप्राप्ति नाही, व या नित्य कार्याविषयीं तसी श्रुतिहि नाही, की-ज्या श्रुतीने तद्गत पुंस्त्वाच्या अविवक्षेनें या कर्माचें स्त्रीपुरुषसाधा रणत्व ग्रहण केल्यास स्त्रीलाहि अधिकार सिद्ध होईल. कदाचिन् या कर्माच्या नित्य त्वाची अप्राप्ति मानल्यास, दोपाभावाचे समर्थत्व होईल. ह्मणून वचनास्तव पुढील नि त्यकर्माधिकार आहे. तेम्च मदनरत्नाम्त स्कन्दपुराणाम्त साङ्गितले आहे कीं;-“विध वास्त्रीने भर्त्याच्या उद्देशाने दर्भयुक्त तिलोदकाने नित्य तर्पण करावे.” श्राद्धान्तही नित्य, नैमित्तिक व काम्य या कर्माविषयीं अपुत्रा स्त्रीम अधिकार आहे; कारण “जमें विधुर पुरुपाने पुत्र नसल्यास स्वीस पिण्ड द्यावा (श्राद्ध करावें), तसम्च वि धवेने पुत्राभावी भाम पिण्ड द्यावा,’ असी शङ्खोक्ति आहे, व “अपुत्रा विधवा वैध व्यधर्मपालन करीत असून, म्वधर्मस्य असल्यास तिनच पतीम पिण्ड द्यावा, व त्याचे स्था वरजङ्गम द्रव्य तिलाच मिळावं,” असी मनक्ति आहे. हे मविस्तर निर्णयसिन्धूत साङ्गितले आहे. जेथें विष्णुशिवादिकाञ्ची पूजादि केल्यास फल साङ्गितलं आहे, तेथे स्त्रीस अधिकार आहेच. असाच व्रतादिकांविषयीं आहे. तम्मात् शूद्रममत्व असतांहि स्वीय पञ्चमहायज्ञा धिकार नाही; तर, त्यान्नी भोजनकाली तूप लावलेले थोडे अन्न अग्नीत घालावे. कारण, “ज्याचे जे त्याच्या पुढे अन्न शिजून तयार होईल, त्याने त्यान्तील अन्न थोडे अग्नीत वा लून, आपण भोजन करावे,” असे पृथ्वीचन्द्रोदयाम्त गोभिलवचन आहे. असो, हे यथं केवळ दिग्दर्शन मात्र आहे. वाकीचं ग्रन्थविस्तारभयास्तव येथे साङ्गत नाही.
विश्वास-प्रस्तुतिः
[२४०]
अथ स्त्रीधर्माः ।
मनुः ।
उत्पादनम् अपत्यस्य जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रा च प्रत्यक्षं स्त्रीनिबन्धनम् ॥
अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा ।
दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च ह ॥
विषयेषु च सज्जन्त्यः संस्थाप्या ह्य् आत्मनो वशे ।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ॥
पुत्रास् तु स्थाविरे भावे न स्वातन्त्र्यं क्वचित् [२४१] स्त्रियाः ।
सूक्ष्मेभ्यो ऽपि प्रमादेभ्यः स्त्रियो रक्ष्या विशेषतः ॥
द्वयोर् हि कुलयोः लोकम् आवहेयुर् अरक्षिताः ।
काले ऽदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः ॥
अगच्छन्न् इत्य् अर्थः ।
मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिताः ।
कल्पतरौ पैठीनसिः ।
अप्रमत्ता रक्षत तन्तुम् एनं मा परक्षेत्रे परबीजानि वाप्सुः ।
भार्यां रक्षत कौमारे बिभ्यन्तः पररेतसः ॥
स्त्रियो गृहदेवतास् तासां न शौचम् । न व्रतम् । नोपवासः ।
पतिशुश्रूषया गच्छन्ति परमां गतिम् ।
ब्राह्मे ।
अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ।
मनुः ।
पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
स्वापो ऽन्यगेहे वासश् च स्त्रीणां वै दूषणानि षट् ॥
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
सुरूपं वा कुरूपं वा पुमान् इत्य् एव भुञ्जते ॥
शय्यासनम् अलङ्कारं कामं क्रोधम् अनार्जवम् ।
द्रोहभावं कुकार्यं च स्त्रीभ्यः मनुर् अकल्पयत् ॥
नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मो व्यवस्थितः ।
निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रियो नित्यम् इति स्थितिः ॥
न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
अर्थस्य सङ्ग्रहे चैनां व्यये च विनियोजयेत् ॥
ग्राम्यधर्मे च पत्न्यां च परिग्राहस्य रक्षणे ॥
मनुः ।
बालया वा युवत्या वा वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं किञ्चित् कार्यं गृहेष्व् अपि ॥
पित्रा भर्त्रा सुतेनापि नेच्छेद् विरहम् आत्मनः ।
एषां हि विरहेण स्त्री गर्हिता स्यात् कुलद्वये ॥
विष्णुः ।
भर्तरि प्रोषिते न प्रतिकर्मक्रिया । परगृहेषु नाभिगमनम् । द्वारदेशगवाक्षेष्व् अनवस्थानम् ।
याज्ञवल्क्यः ।
यत्रानुकूल्यं दम्पत्योस् त्रिवर्गस् तत्र वर्धते ।
रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्धके ॥
अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ।
भर्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ॥
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ।
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥
कुर्याच् छ्वशुरयोः पादवन्दनं भर्तृतत्परा ।
स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ॥
आशुद्धेः सम्प्रतीक्ष्यो हि महापातकदूषितः ।
क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ॥
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ।
बृहस्पतिः ।
प्रसाधनं नृत्यगीते समाजोत्सवदर्शनम् ।
मांसमद्याभियोगं च न कुर्यात् प्रोषिते प्रभौ ॥
कल्पतरौ शङ्खलिखितौ ।
प्रोषिते भर्तरि प्रेङ्खाताण्डवविहारचित्रदर्शनवनोद्यानयानविकृत-शयनोत्कृष्टपानभोजनकन्दुकक्रीडागन्धमाल्यालङ्कार-दन्तधावनाञ्जनादर्शप्रसाधनादीनाम् अनारम्भः ।
तत्रैव भारते कल्पतरौ।
एताः श्रियः स्त्रियो नाम सत्कार्या भूतिम् इच्छता ।
ललिता निगृहीता च स्त्री श्रीर् भवति भारत ॥
मनुः।
यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥
शोचन्ति जामयो यत्र विनश्यत्य् आशु तत् कुलम् ।
न शोचन्ति तु यत्रैता वर्धते तद् धि सर्वदा ॥
तस्माद् एताः समभ्यर्च्या भूषणाच्छादनाशनैः ।
जामयः स्नुषाभगिन्यादयः । कल्पतरौ दक्षः ।
जलौकेव च सर्वा स्त्री भूषणाच्छादनाशनैः ।
सुभृतापि कृता नित्यं पुरुषं ह्य् अपकर्षति ॥
जलौका रक्तम् आदत्ते केवलं सा तपस्विनी ।
इतरा तु धनं वित्तं मांसं वीर्यं बलं सुखम् ॥
साशङ्का बालभावे तु यौवने ऽभिमुखी भवेत् ।
तृणवन् मन्यते नारी वृद्धभावे स्वकं पतिम् ॥
अनपत्या भवेत् पश्चाद् यथाव्याधिर् उपेक्षितः ।
मनुः ।
विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः ।
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ॥
याज्ञवल्क्यः ।
सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सधर्मासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥
छन्दोगपरिशिष्टे ।
अग्निशिष्टादिशुश्रूषां बहुभार्यः सवर्णया ।
कारयेत् तद्बहुत्वं चेज् ज्येष्ठया गर्हिता न चेत् ॥
कात्यायनः ।
या वा स्याद् वीरसूर् आसाम् आज्ञासम्पादिनी च या ।
दक्षा प्रियंवदा शुद्धा ताम् अत्र विनियोजयेत् ॥
कल्पतरौ दक्षः।
धर्मपत्नी समाम्नाता निर्दोषा यदि सा भवेत् ।
दोषे सति न दोषः स्याद् अन्या कार्या गुणान्विता ॥
मनुः ।
संवत्सरम् उदीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्ध्वं संवत्सराद् अन्यां कृत्वा तां तु न संवसेत् ॥
अतिक्रामेत् प्रमत्तं वा मत्तं रोगार्तम् एव वा ।
सा त्रिमासात् परित्याज्या विभूषणपरिच्छदा ॥
उन्मत्तं पतितं क्लीबम् अपीनं पापरोगिणम् ।
न च द्विषन्त्यास् त्यागो ऽस्ति न च दायप्रवर्तनम् ॥
मनु-कात्यायनौ ।
विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचर्यः स्त्रिया भर्ता सततं देववत् पतिः ॥
नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् ।
पतिं संसेवते या तु तेन स्वर्गे महीयते ॥
पत्यौ जीवति या नारी उपोष्य व्रतचारिणी ।
आयुष्यं हरते भर्तुर् नरकं चैव गच्छति ॥
कल्पतरौ हारीतः ।
न प्रोषिते ऽलङ्कुर्यान् न वेणीं मुञ्चेत् ।
मदनरत्ने स्कान्दे ।
प्रसुप्तं च सुखासीनं रममाणं यदृच्छया ।
आतुरेष्व् अपि कालेषु पतिं नोत्थापयेत् क्वचित् ॥
रजोवती त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ।
स्ववाक्यं श्रावयेन् नापि यावत् स्नाता न शुध्यति ॥
सुस्नाता भर्तृवदनम् ईक्षेन् नान्यस्य कस्यचित् ।
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥
हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा ।
कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् ॥
केशसंस्कारकबरीकरकर्णविभूषणम् ।
भर्तुर् आयुष्यम् इच्छन्ती दू[[??]]रयेन् न क्वचित् सती ॥
न च दुर्भगया नार्या सखित्वं कुरुते तु सा ।
भर्तुर् विद्वेषिणीं नारीं न सम्भाष्येत कर्हिचित् ॥
नैकाकिनी क्वचिद् भूयान् न नग्ना स्नाति वै क्वचित् ।
नोलूखले न मुसले वर्धिन्यां च दृषद्य् अपि ॥
न यन्त्रके न देहल्यां मथ्नि नोपविशेत् क्वचित् ।
उक्ता प्रत्युत्तरं दद्याद् या नारी क्रोधतत्परा ॥
सा शुनी जायते ग्रामे शृगाली निर्जने वने ।
अपवादो न वक्तव्यः कलहं दूरतस् त्यजेत् ॥
गुरूणां सन्निधौ चापि नोच्चैर् ब्रूयान् न वा हसेत् ।
ताडिता ताडितुं येच्छेत् सा व्याघ्री द्वीपदंशिका ॥
भर्तारं या समुत्सृज्य मिष्टम् अश्नाति केवलम् ।
ग्रामे सा सूकरी वा स्याद् गर्दभी वा श्वविट्भुजा ।
कल्पतरौ यमः ।
ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीं तु विवासयेत् ॥
बौधायनः ।
अशुश्रूषाकरीं वन्ध्यां बन्धकीं परिहिंसकीम् ।
त्यजन्ति पुरुषाः प्राज्ञाः सद्यस् त्व् अप्रियवादिनीम् ॥
अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
मृतप्रजां पञ्चदशे सद्यस् त्व् अप्रियवादिनीम् ॥
वसिष्ठः ।
व्यवाये तीर्थगमने धर्मेभ्यश् च निवर्तते ।
व्यवायो व्यभिचारः । तीर्थं योनिः । हारीतः ।
धनधान्यक्षयकरीं स्त्रियं सद्यो विवर्जयेत् ।
नारदः ।
व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च ।
कदन्नं च कुवासश् च कर्म चावस्करोद्गतम् ॥
शङ्खः ।
नानुक्ता गृहान् निर्गच्छेन् नानुत्तरीया न त्वरितं व्रजेन् न परपुरुषं सम्भाषेत न नाभिं सन्दर्शयेद् आ गुल्फाद् वासः परिदध्यान् न स्तनौ विवृतौ कुर्यान् न हसेद् अपावृतं न भर्तारं न तद्बन्धून् वा द्विष्यान् न गणिकाधूर्तादिभिः सहैकत्र तिष्ठेत ।
स्कान्दे ।
या प्रियं प्रीणयेत् प्रीता त्रिलोकी प्रीणिता तया ।
भुक्ते भुङ्क्ते तथा पत्यौ तस्मिन् तिष्ठति तिष्ठति ॥
निद्रिते च विनिद्राति प्रथमं परिबुध्यति ।
अनलङ्कृतम् आत्मानं पत्युर् नो दर्शयेत् क्वचित् ॥
कार्यार्थं प्रोषिते पत्यौ सर्वमण्डनवर्जिता ।
न च तन्नाम गृह्णीयात् तस्याः पुण्यविवृद्धये ॥
आकृष्टापि न चाक्रोशेत् ताडितापि न सीदति ।
एवं कुरु कृतं स्वामिन् मन्यताम् इति वक्ति च ॥
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ।
पूजोपकरणं सर्वम् अप्सु संशोधयेत् स्वयम् ॥
नियमोदकवह्नींश् च पत्रपुष्पादिकं च यत् ।
सेवेत भर्तुर् उच्छिष्टमिष्टम् अन्नं फलादिकम् ॥
महाप्रसाद इत्य् उक्त्वा प्रतिदत्तं प्रतीच्छति ।
कल्पतरौ शृङ्गः ।
गृहमेधा भवेन् नित्यं भूषणानि च पूजयेत् ।
गृहकार्यपरा नित्यं पूजयेन् मार्जयेद् गृहम् ॥
नित्यं स्नानकृता वेणीं पूजयेत् पुष्पवाससा ।
पूर्वम् एव रहो गच्छेद् यावन् नान्यः प्रबुध्यते ॥
देवताराधनं कुर्यात् धूपपुष्पबलिं हरेत् ।
शङ्खलिखितौ ।
वेलानुत्सवे गन्धमाल्याभरणानि विकृतानि वासांसि बिभृयान् न परपुरुषम् अभिभाषेतान्यत्र वणिक्प्रव्रजितवृद्धेभ्यः ।
हारीतः।
स्नात्वा शुक्ले वाससी परिधाय देवागारं प्रविश्य नमस्कृत्वान्नाद्य् अभिघार्य तत्र हुते देवेभ्य उद्वाहाग्नौ देवपत्नीभ्यां हुत्वा बलिं हरेत् । कृते देवातिथ्ये यथास्वं गृहिणस् तर्पयित्वा शेषं पत्नी गुप्ते भुक्त्वा भाण्डानि निर्णेज्य प्रक्षाल्य बहिर् उत्तरपूर्वस्यां दिशि वास्तुपतये भूपतये रुद्राय नम इति निनीयैवं सायं शृतादि यथार्थसंविष्टेषु नमो भुवनपते रुद्राय भस्मसदे भस्मना रक्षां करोमीति भस्मना द्वारम् अपिधाय स्वामिसुतादीन् आत्मानं चालयेत् । यच् चान्यद् रक्ष्यं स्यात् तत् भस्मना स्पृशेद् इत्य् अर्थः । आनम्य भर्तृपादौ संविशेन् नोपविष्टा स्थित आसीत नोच्चैर् न वितर्कस्थाने नावीक्षणम् ईक्षेत् । परिमृज्य संवाहयित्वोपासीत व्यजनेनोष्णे वर्षघर्माम्भो ऽस्य गात्रेभ्यः परिमृज्यात् । ग्रामान्तरगतं भाराक्रान्तं शयानम् उद्यच्छेद् धृष्टमना अर्थेनार्चयेत् । तथा परशयनासनवस्त्राभरणानि मनसापि नाध्यवस्येद् इति । तथैकपात्र्यं मद्यमांसोच्छिष्टनिर्माल्यं चान्यत्र गुरुभर्तृसुतेभ्यः इति ।
स्कान्दे ।
तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ।
शङ्कराद् अपि विष्णोर् वा पतिर् एको ऽधिकः स्त्रियाः ॥
परशुरामप्रतापे 2 रत्नावल्यां च स्कान्दे ।
प्रातःकाले तु या नारी दद्याद् अर्घ्यं विवस्वते ।
सप्तजन्मसु3 वैधव्यं सा नारी नैव पश्यति ॥
कृत्वा तु मण्डलं बाह्ये सूर्यं तत्राक्षतादिभिः ।
पूजयेत् सततं या वै तस्यास् तुष्यन्ति देवताः ॥
प्रातःकाले तु या नारी शुचिर् भूत्वा समाहिता ।
पूजयेद् द्वारदेशं तु सर्वान् कामान् समश्नुते ॥
न ददाति यदा नारी ज्येष्ठायै प्रत्यहं बलिम् ।
भोज्याच् चैव यथाशक्ति सा प्रेत्य नरकं व्रजेत् ॥
अवश्यम् एव नारीभिर् ज्येष्ठाया बलिकर्मणा ।
प्रीणनं प्रत्यहं कार्यं पुत्रपौत्रधनेप्सुभिः ॥
कल्पतरौ भारते ।
यदैव भर्ता जानीयान् मन्त्रमूलपरां स्त्रियम् ।
उद्विजेत तदैवास्याः सर्पाद् वेश्मगताद् इव ॥
तत्रैव विष्णूक्तं [२४४] पृथ्वीं प्रति श्रीवाक्यम् ।
नारीषु नित्यं शुचिभूतिकासु स्वभर्तृभक्तप्रियवादिनीषु ।
अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥
सुमृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतासु विलोलुपासु ।
धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं जगतां विधात्री ॥
व्यासः ।
द्वारोपवेशनं नित्यं गवाक्षेण निरीक्षणम् ।
असत्प्रलापो हास्यं च दूषणं कुलयोषिताम् ॥
भारते ।
अट्टशूला जनपदाः शिवशूलाश् चतुष्पथाः ।
वनिताः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥
अस्यार्थम् आह परशुरामः ।
अट्टम् अन्नं शिवो वेदः शूलं विक्रय एव च ।
केशश् च भगम् इत्य् आहुर् वेदतत्त्वार्थदर्शिनः ॥
मनुः ।
भर्ता देवो4 गुरुर् भर्ता धर्मतीर्थव्रतानि च ।
तस्मात् सर्वं परित्यज्य पतिम् एकं समर्चयेत् ॥
भुक्ते भुङ्क्ते पतौ या तु स्वासीना वापि चासिते5 ।
विनिद्रिते विनिद्राति सा स्त्री ज्ञेया पतिव्रता ॥
अङ्गिराः ।
आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥
रजोवतीगर्भिणीधर्माः सहगमनान्वारोहणादौ निर्णयो विधिश् च निर्णयसिन्धाव् उक्तो ऽस्माभिः ।

याविषयी मनु ह्मणतो- “मूल होणे व झालेल्याचं संरक्षण करणं आणि प्रति दिनी आल्यागेल्याचा सत्कार करणे हे, स्त्रियाम्स मुख्य बन्धन आहे. अपत्य, श्रौत किंवा म्मात अग्नीची सेवा इत्यादि धर्मकायेम्, श्वशुरादि गुरूञ्ची सेवा, व नवन्यावर अत्यम्त प्रीति ठेवणे हे स्त्रियाम्स आवश्यक आहे. आपल्या पितराञ्चा स्वर्ग ( उत्तमगति ) ज्या हेतूस्तव स्त्रि याञ्च्या आधीन आहे, त्या हेतूम्तव पुरुषानं यत्नाने त्याञ्चे रक्षण व पोषण करावे, असे मनु ह्मणतो. पुरुषान्नी नित्य स्त्रियाम्स स्वतन्त्र ठेवू नये. तसे न केल्यास चापल्यास्तव त्या विषयाम्त आसक्त होऊन, कुलदूषण करितील. ह्मणूनच त्याला स्वाधीन ठेवाव्या. कुमारद शम्त बाप, तारुण्याम्त पति व वृद्धपणी पुत्र; हे स्त्रीचे रक्षक आहेत. ह्मणून तिला कधीच कोणत्याच वयाम्त स्वातन्त्र्य नाही. लहानशा प्रसङ्गान्तही स्त्रीचे रक्षण करावे. कारण, अरक्षित स्त्रिया अधमाचरणाने बापाच्या व नवऱ्याच्या कुलास शोकप्रद हो तील, कन्येस विवाहयोग्यकाली योग्यवराम न देणारा बाप व ऋतुमती असून अदुष्ट स्त्रीशी गमन न करणारा पति आणि भर्ता मेल्यावर तिचे रक्षण न करणारा पुत्र हे लोकाम्त निन्द्य आहेत. राजाने याम्स योग्य दण्ड करावा, व त्याञ्च्या (स्त्रियाञ्च्या ) हातून कदाचित् अयोग्य कर्म घडल्यास त्याचा दोष पूर्वोक्त तिघांवर येतो.” कल्पतरूम्त पैठीनसि ह्मणतो-“हे पुरुषान्नो ! सावधपणाने स्वस्त्रियाञ्चे रक्षण करा. परकीय शेताम्त बीज पेरल्यासारखे परस्त्रीरत होऊ नका. अन्याच्या रेतास भिऊन तरी कौमारवयान्तच वस्त्रीचे रक्षण करा. स्त्रिया केवळ गृहान्तील देवता होत. याम्स शौच, व्रतेम्, उपवास इत्यादि काही करणे नको. त्या पतिसेवेनेम्च उत्तमलोकास जातात.” ब्रह्मपुराणान्त-“स्त्री, बाल व आतुर याञ्च्या शुद्धतेचा विचार करूं नये,’ असे साङ्गितले आहे. मनु ह्मणतो “सुरापान, दुर्जनाचा संसर्ग, नवन्यास सोडून राहणे, एकटीने फिरणं व एकटीने निनणे हीं ६ कर्मे स्त्रियाम्स दोषप्रद आहेत. त्या उत्तम रूप व बरोबरीचे वय इत्यादि पहात नाहीत, तर मुरुप अथवा कुरूप कसलाहि पुरुष मिळाला तरी केवळ त्याच्या उत्तम पुंस्त्वास पाहन त्यामी रत होतात. शय्या, आसन, अलङ्कार, काम, क्रोध, उद्धतपणा, दुष्टत्व, कुत्सित कर्म, ही स्त्रियाम्स स्वभावसिद्ध असतात. स्त्रियाम्म वैदिक मन्त्रान्नी कर्म करण्यास अधिकार नाही. त्या नित्य इन्द्रियाधीन असणान्या व वैदिक मन्त्ररहित आहेत. कोणीहि बलात्काराने त्याम्स रक्षण करण्यास समर्थ होत नाही. याकरितां त्याम्स धर्मोपदेशादि केल्याने रक्षण करण्यास त्या शक्य होत. स्त्रीला, पतीने द्रव्यसङ्ग्रह व त्याचा खर्च या विषयी योजावी. ग्राम्य धर्म, स्वयम्पाक, व परिवाररक्षणाविषयी योजावी. बाल, तरु ण व वृद्ध स्त्रीने स्वतन्त्रपणाने स्वगृहान्तहि काही कार्य करूं नये. लहानपणी पिता. तारुण्याम्त व सर्वकाळ पति आणि वृद्धपणी पुत्र यांशी आपला वियोग इच्छं नये. तो झाल्यास दोनीही कुळाम्स निन्द्य होईल.” विष्णु ह्मणतो-“पति परदेशी गेल्यास स्त्रीन अलङ्कार, मङ्गलस्नान, अन्याच्या घरी जाणे, द्वाराम्त व बारीत उभे राहणे इत्यादि करूं नये.” याज्ञवल्क्य ह्मणतो-“जेथें नवराबायकाञ्चे परस्पर अनुकूलत्व असेल तेथे-धर्म, अर्थ, काम, हे ३ पुरुषार्थ वाढतात. विवाहापूर्वी पित्याने, तारुण्यात पतीनेम्, आणि मातारपणी पुत्रान्नी, अथवा ते नसल्यास बान्धवान्नी स्त्रीचे रक्षण करावम्. कधीच तिला स्वातं व्य नाही. पति, बन्धु, बाप, आई, पितृव्यादिक, सासू, सासरा, दीर व आप्त यान्नी अलङ्कार, वस्त्रे, भोजन इत्यादि देऊन स्त्रियाञ्चे पालन करावेम्. नित्य अति खर्च न करणारी, गृहरक्षण करणारी, सर्वदा सन्तुष्ट, गृहकृत्याम्त हुशार, पतीस श्रेष्ठ मानून त्यावर प्रीति ठेवणारी अशी असून, तिने सासूसास-याम्स नित्य वन्दन करावेम्. पतीच्या आज्ञेत वागावेम्. हा स्त्रियाञ्चा मुख्य धर्म होय. कदाचित् पति महापातकी असल्यास तो शुद्ध होईपर्यम्त त्याची वाट पाहावी. तो परदेशी गेल्यास-क्रीडा, मङ्गलस्नान, वेणीफणी, शरीरसंस्कार, जनसमुदाय व उत्साह पहाणे, हंसणे, परगृही जाणे, ही तो येईपर्यम्त सोडावी.” बृहस्पति ह्मणतो-“वेणी घालणे, नृत्य व गायन करणे, समुदाय व उत्सव पहाणे, माम्स आणि मद्याचे सेवन ही पति प्रवासीं गेल्यास स्त्रीने व वी.” कल्पतरूम्त शङ्ख व लिखित ह्मणतात की,-“पति परदेशी गेल्यावर-हिन्दळ्यावर बसणे, ताण्डव, नृत्य व क्रीडा करणे, अनेक प्रकारची चित्रे पहाणे, बागेत फिरणे, मनाम्त काही विकार आ णून निजणे, चाङ्गल्या पदार्थाञ्चे सेवन व मिष्ट भोजन करणे, चेण्डू खेळणे-सुगन्धी तेल, पुष्पेम्, अलङ्कार, उटणे इत्यादिकाञ्चे धारण हीं करूं नयेत. दन्तधावन6 करू नये.
नेत्राम्त का. जळ घालू नये, आरशाम्त पहाणे, वेणीफणी करणे, इत्यादि व वी. " त्याच कल्पतरूम्त महाभारतान्त-” स्त्रिया केवळ लक्ष्मीरूपिणी आहेत. ऐश्वर्य इच्छिणाऱ्यान्नी त्याञ्चा स स्कार करावा. स्त्रीचें लालन व प्रसङ्गी निग्रह केल्यास ती लक्ष्मीच होते,” असे साङ्गितले आहे. मनु ह्मणतो–” जेथें स्त्रीचा सत्कार होतो तेथे देवता रममाण होतात. जेथें तो होत नाही तेथे सर्व कर्मे निष्फळ होतात. जेथे मुलीचे दुःख पाहून मातापितरादिक शोक करितात, तेथे ते भर्तृकुल नाश पावते. जेथे तसे होत नाहीं तें कुल नेहमी वृद्धि पा वते. ह्मणून स्त्रिया वस्त्रालङ्कारान्नी सत्कार करून पुजाव्या. " कल्पतरून्त-दक्ष ह्मणतो " सर्व स्त्रिया जळूसारख्या आहेत. अलङ्कार, वस्त्रे व भक्ष्य पदार्थ इत्यादिकान्नी पूर्ण असल्या तरी त्या पुरुषास ओढतात. जळूपेक्षा त्या अधिक आहेत ह्मटले तरी चालेल, कारण, ती केवळ रक्त ओढून घेते, आणि ही तर द्रव्य, वस्त्रालङ्कारादिक, मांस, वीर्य, बल, सुख, अर्थात् सर्वस्व हरण करते. ही बालपणीं पतीपासी साशङ्क वागते, तारुण्याम्त बरोबरीने वागते, आणि वृद्धपणी तर त्यास तृणवत् मानते. कदाचित् जर ही अनपत्या ( वाञ्जोटी) असली तर, उपेक्षा केलेल्या रोगासारखी दुःखदायक होते. " मनु ह्म णतो–" आपल्यास परदेशी जाणे असल्यास स्त्रीच्या पोटगीची व्यवस्था करून जावेम्; कारण.-उत्तमम्थितीचीही स्त्री पोट भरण्याकरितां हीनकर्मानें दृषित होईल." याज्ञ वल्क्य ह्मणतो-समानवर्ण स्त्री असल्यास अन्यवर्ण स्त्रीसह, व सवर्ण स्त्रियाम्त ती निन्द्य नसेल तर ज्येष्ठेवाञ्चून धर्मकार्ये करूम्, नयेत." छन्दोगपरिशिष्टान्त-" अग्नि व शिष्ट याञ्ची संवा बहुत स्त्रिया असलेल्यानं सवर्णस्त्रीकडून करवावी. सवर्णस्त्रिया बहुत असल्यास त्याम्त वडील्ट ( प्रथम विवाहित ) स्त्री निन्द्य नसल्यास तिजकडून, किंवा जी पुत्रवती व आज्ञा पाळणारी, स्वकार्यदक्ष व सत्य आणि प्रिय बोलणारी व शुद्ध असेल तिजकडून करवावी." कल्पतरूम्त दक्ष ह्मणतो–" जर ती निदोष असेल तर धर्मपत्नी होय. सदोष असेल तर अन्य स्त्री गुणवती व शुद्ध अशी पाहून करावी. याविषयी त्याला दोष नाही. " मनु म णतो–" आपल्याशी ढेप करणा-या स्त्रीची १ वर्ष वाट पहावी. तेवढ्यात ती नीट न वागल्यास दुसरी करून तिचा सहवास करूं नये, असावध, उन्मत्त किंवा रोगग्रस्त पतीचा अतिक्रम करणारी असल्यास ३ मामान्नी तिचे अलङ्कारादिक सर्व घेऊन, तिला बाहेर द वडावी. उन्मत्त, पतित, नपुंसक, निर्बीज व महारोगी अशा पतीचा द्वेप करणान्या स्त्रीचा त्याग करता येत नाही, व तिला दायभागही नाही. " मनु व कात्यायन ह्मणतात “पति दुष्ट, स्वच्छन्दसञ्चारी व गुणहीन कसाही असला तरी स्त्रियान्नी त्याची देववत् सेवा करावी. पतिसेवेवाञ्चून स्त्रियांस, यज्ञ, बने, उपोषणे वगैरे काही नाही. ती केवळ नवऱ्याची जी सेवा करील तिनेच स्वर्गी पूज्य होईल. जी पति जीवम्त असतां उपोषणे व व्रतादि आचरण करते, ती त्या आचरणाने भत्याञ्चे आयुष्य हरण करिते, व आपण नरकाम्स7 जाते.” कल्पतरून्त-हारीत ह्मणतो-" पति प्रवासी गेला असतां अलङ्कार धारण करूं नये, व तो जाण्यापूर्वी वेणी घातलेली असेल ती सोडून पुनः घालू नये, व केश मोक केही ठेवू नयेत." मदनरत्नाम्त स्कन्दपुराणान्त-" पति निजला असतां व सुखाने बसला असतां व स्वेच्छेनें रममाण असतां सङ्कटकाली कदापि त्यास उठवू नये. रजस्वला झाल्या वर त्रिरात्रपर्यम्त पतीच्या दृष्टी8 पडूं नये, व आपले भाषण देखील त्यास ऐकवू नये.
४ थ्या दिवसीं स्नान करून शुद्ध झाल्यावर पतीचे मुख पहावेम्. दुसऱ्या कोणाचेहि पाहूं नये. कदा चित् तो जवळ नसल्यास मनाम्त पतीचे रूप चिन्तून सूर्याचे दर्शन करावे. हळद, कुङ्कू, मैं दूर, काजळ, चोळी, ताम्बूल, व मङ्गलकारक आभरणे ( मङ्गळसूत्र, जोडवीम्, नथ इ० ), केशसंस्कार (सुगन्धिक तैलादिक लावणे ), वेणी, हातान्तील व कर्णातील अलङ्कार, हे पतीची आयुप्यवृद्धि इच्छिणाऱ्या स्त्रीने कदापि वर्ज करूं नयेत. दुर्भगस्त्रीशी मैत्री करूं नये. तसेच नवन्याशी द्वेष करणाऱ्या स्त्रीशी कधीही भाषण करूं नये. कदापि एकटें राहूं नये, व नग्न होऊन स्नान करू नये. उखळ, मुसळ, वर्धिनी ( विळी ), दगड, यन्त्र, उं बरा व रवी याञ्जवर कधी बसू नये. जी नवन्याने काही बोललें असतां रागाने उत्तर देते ती गांवाम्त कुत्री अथवा निर्जन वनाम्त भालू होते. पतीच्या मतास अपवादरूप बोलूं नये, कलह करूं नये. तसेच सासूसासन्याञ्च्या सन्निध मोठ्याने भाषण व हास्य करूं नये. क. दाचित् अविचाराने अथवा रागाने किंवा स्वकीय अपराधास्तव पतीने मारले असता त्याला उलट मारण्याची जी इच्छा करील ती केवळ वाघीण होय. जी पतीस न घालतां आप णच मिष्टान्न भक्षण करिते ती-गांवाम्त डुकरी अथवा गाढवी किंवा विष्ठा भक्षिणारी कुत्री होते. " असे साङ्गितले आहे. कल्पतरून्त-यम ह्मणतो-" जी ऋतुस्नात असून, एकान्ती पतीजवळ जात नाही, त्या गर्भघातिनीस गांवान्तील सर्व लोकाम्स विदित करून घराम्. तून हाङ्कून द्यावी. " बौधायन ह्मणतो-" पतिसेवा न करणारी, वाञ्झ, व्यभिचारिणी व हिंसक अशीस अन्य उपायान्नी तो तिचा दुःस्वभाव जात नसल्यास काही कालाने, व अ प्रिय बोलणारीचा तत्काल बुद्धिमान् पुरुष त्याग करितात. यावाञ्चून जीस मुळीम्च मूल होत नसेल तिला न्हाण आल्यापासून १० वे वर्षी, व केवळ मुलीच प्रसवणारीस १२ वे वर्षी, आणि जिची मुलें वाञ्चत नाहीत तीस १५ वे वर्षोम्, व अप्रिय बोलणारीस तत्काल त्या गावी.’ वसिष्ठ ह्मणतो-" व्यभिचार व तीर्थ-( योनि ) गमनाविषयी (सङ्गाविषयीं ) जी धर्मापासून नष्ट होते तिचा त्याग करावा." हारीत ह्मणतो-“धन व धान्य नाश कर णाऱ्या स्त्रीस तत्काल व वी.” नारद ह्मणतो-“कदाचित् स्त्रीने व्यभिचार केल्यास, तिचे मुण्डन करून, तिला पलङ्गावर न घेता अर्थात् सङ्ग न करतां कदन्न व जाडी भरडी वस्त्रे देऊन, तिला मलमूत्रादि काढण्याच्या नीच कामास लावावी.” शङ्ख ह्मणतो- “सासूसासरे व पतीच्या आज्ञेवाञ्चून स्त्रीने घराबाहेर जाऊ नये. चोळी न घालतां राहूं नये. त्वरेने चालू नये. परपुरुषासी भाषण व त्यास आपली नाभि दा खवू नये. घोट्यापर्यम्त रुम्द व घड असें वस्त्र नेसावेम्. स्तन उघडे ठेवू नयेत. पतीसीं विनोदावाञ्चून हंसूं नये. पतीस व दीराम्स मोकळेपणाने पाहूं नये. वेश्या, धूर्त, जार, इत्यादिकांसी सहवास व भाषणादि करूं नये." स्कन्दपुराणान्त-“जी प्रियपतीस सदाचरणाने नित्य सन्तुष्ट करील, तिने सर्व त्रैलोक्य सन्तुष्ट केलेंसें होतेम्. पतीचें भोजन झाल्यानन्तर आपण जेवावेम्. तो उभा असल्यास उभे रहावेम्. तो निजल्यावर आपण निजावेम्. त्याच्या पूर्वी उठून गृहकर्म करावेम्. वेणीफणी व अलङ्कारादि धारण केल्या वाञ्चून पतीस दृष्टी पडूं नये. काही कार्याकरितां प्रवासास पति गेल्यास सर्व अलं कार वर्ज करावे. पतीचें नाम्व स्त्रीने व तिचे पतीने घेऊ नये. कदाचित् त्याने तिची निन्दा केली तरी तिने उलट निन्दा करूं नये. त्याने मारले तरी रागावू नये. नेहमी प्रसन्न असावे. त्याने असें कर ह्मणताम्च केलें असें ह्मणावेम्. एखादे वेळी काही योग्य सूचना कर्तव्य असल्यास, हे स्वामिन्! ‘हे सयुक्त आहे, आपल्यास रुचेल तर असें करावें,’ असी सूचना करावी. त्याने बोलाविल्यास हातचे काम सोडून हजर व्हावे. देव पूजेची उपकरणी वगैरे भाण्डी स्वतः घांसावी. नियमाने उदक आणणे व अग्निसेवा, पूजासाहित्य इत्यादि सेवक असला तरी आपणच करावेम्. पतीचे उच्छिष्ट अन्न व फलादिक भक्षण करावेम्. पतीने चाङ्गला वाईट काही पदार्थ दिल्याम मोठा प्रसाद मानून तो घ्यावा,” असे साङ्गितले आहे. कल्पतरूम्त ऋष्यशङ्ग ह्मणतो-“स्त्रीने नित्य गृहमेधिनी9 असावेम्, व अलङ्कार धारण करावे. गृहकृत्यांविषयीं तत्पर असावेम्. झाडलोट, सडासारवण इत्यादि गृहसेवा करावी.
नित्य वेणीफणी व पुष्पधारण करून स्नान करून, स्वच्छ वस्त्र नेसून, सासूसासरे इत्यादिक उठण्यापूर्वी उठून एकान्ती देवाची धूप, दीप, नैवेद्यादिकान्नी पूजा करावी.” शङ्ख व लिखित ह्मणतात “एकान्ती व उत्सवकाली गन्ध, पुष्पेम्, अलङ्कार, चित्रविचित्र वस्त्रे इत्यादि धारण करावी. कांहीं व्यापारसम्बन्धाने वाण्यासी, आणि सन्न्यासी, व वृद्ध यांवाञ्चून परपुरुषासी भाषण करूं नये.” हारीत ह्मणतो- “नान करून स्वच्छ वस्त्र नेसन देवघराम्त देवास नमस्कार करून, अन्नादिकांवर अभिघार- ( तूप घालून ) करून. विवाहानीत देव व देवस्त्रियाञ्च्या उद्देशाने हवन करून, बलि द्यावा. असें देवातिथ्य केल्यावर यथायोग्य घरच्या मण्डळीला तृप्त करून, शेपान्न एकान्ती आपण भक्षण करून, पात्रे घांसून, घराबाहेर उत्तरेस किंवा पूर्वम-“वास्तुपतये नमः । भूपतये नमः । रुद्राय नमः” ह्मणून, निनयन10 करावे.
तसेच सायङ्काली स्वयम्पाकादि झाल्यावर-” नमो भुवनपतये रुद्राय भस्मसदे भ स्मना रक्षां करोमि” ह्मणून भम्माने गृहरक्षा करून द्वार न झाङ्कतां-पति, पुत्र व अन्य मुलाम्बाळांला आणि आपणास तें भस्म लावावे. जे काहीं रक्षणीय असेल त्यासही लावावे. नन्तर पतीस नमस्कार करून, घराम्त बसावेम्. पति जवळ बसला असला तर उभे रहावे. उम्च स्थानी व संशय येण्यास योग्य अशा ठिकाणी बसूं नये. वक्र पणाने त्याच्याकडे पाहूं नये. पतिचरण धुवून व रगडून, उष्णकाली त्यास वारा घालावा. पर्जन्याचे व घमाचे उदक त्याच्या अङ्गास असले तर पुसावेम्. ग्रामाम्त राहून पति घरी येत असताम्, ओझे आणीत असतां व निजला असतां मोठ्या आनन्दाने त्यास मामोरे जावे, व त्या वेळी अपेक्षित पदार्थ देऊन, त्याचा सत्कार करावा. तसेच, परशयन, आसन, वस्त्र, अलङ्कार इत्यादि आपणास असावे असे मनान्तही आणूं नये. एकपात्री भोजन, मद्य, मांस, उच्छिष्टभक्षण व निर्माल्यसेवन, हीं-गुरु (श्व शुरादि ), पति व पुत्र यांशिवाय इतराञ्ची घेऊं नयेत.“स्कन्दपुराणान्त-” स्त्रीस तीर्थस्नाना ची इच्छा झाल्यास, तिने पतिचरणोदक घ्यावे; कारण तिला शङ्कर व विष्णु यांहून प तीच श्रेष्ठ आहे,’ असे साङ्गितले आहे. परशुरामप्रतापरत्नावलीत स्कन्दपुराणां त-“जी सकाळी सूर्यास अर्घ्य देईल, ती सप्त जन्मपर्यम्त वैधव्य पाहणार नाही. जी अङ्गणाम्त स्वच्छ भूमीवर सूर्यमण्डळ काहन, अक्षतादिकान्नी नित्यशः त्याचे पूजन करिते ति जवर सर्व देव प्रसाद करितात. जी प्रातःस्नान करून स्वस्थ अन्तःकरणाने गृहाच्या द्वार प्रदेशाम्त पूर्वोक्त पूजन करिते तिने सर्व मनोरथ पूर्ण होतात. जर, भोजन करण्याच्या अन्नान्तून याथशक्ति प्रतिदिनी ज्येष्ठान्दवीस बलि न देईल, तर ती मेल्यावर नरकास जा ईल. पुत्र, पौत्र, द्रव्य इच्छिणाऱ्या स्त्रियान्नी दररोज बलि देऊन, ज्येष्ठादेवीचा सन्तोष करावा," असे साङ्गितले आहे. कल्पतरूम्त महाभारतान्त-" ज्या वेळी स्त्री कांहीं मस लत करण्यास तत्पर आहे असे भर्ता जाणेल, त्या वेळी घराम्त असलेल्या साप्रमाणे तो तिनपासून भय पावेल; ह्मणून ते सर्वथा वर्ण्य करावें.“आणखी त्याच कल्पतरूम्त भारताम्त विष्णूने लक्ष्मीचे वाक्य पृथ्वीस साङ्गितले आहे. तें-“शुद्ध असून ऐश्वर्य इच्छिणाऱ्या, पतीची भक्ति करणाऱ्या व प्रिय बोलणाऱ्या, रिक्तहस्ताने न वागणाऱ्या, पुत्रवती व भाण्ड वल राखणा-या, ज्येष्ठादेवीस बलि देणाऱ्या, सडामारवणादिकानें घर स्वच्छ राखणाऱ्या, जितेन्द्रिय असणान्या, कलहत्याग करणा-या, निर्लोभिणी, धर्माचरण करीत असून सदय असणान्या, अशा स्त्रियाञ्चेठायीं मी ( लक्ष्मी) नेहमीं रहातें.” व्यास ह्मणतो “दाराम्त बसणे, नित्य बारीतून पाहणे, वाईट मनुष्यासी भाषण करणे व हंसणे ही कुल स्त्रियाम्स दूषणकारक आहेत.” भारतान्त-” कलियुगाम्त सर्व देश अट्टशूल (अन्नविक्रयी) व ब्राह्मण शिवशूल ( वेदविक्रयी), स्त्रिया केशशूलिनी ( भगविक्रयिणी ) होतील," असे साङ्गितले आहे. या वाक्यान्तील शब्दाञ्चा अर्थ परशुरामाने साङ्गितला आहे. तो " वेदाचा तत्त्वतः अर्थ जाणणारे ऋषि अन्नास अट्ट, वेदास शिव, भगास केश आणि यां च्या विक्रयास शूल असे ह्मणतात. " मनु ह्मणतो-ज्या हेतूस्तव स्त्रियाम्स देव, गुरु, धर्म, तीर्थे आणि व्रतें ही भर्ताच होय, त्या हेतूस्तव सर्वाञ्चा त्याग करून त्यान्नी नित्य एक पति सेवाच करावी; ह्मणजे त्याम्स देवादि सेवेचें फल प्राप्त होते. " पतिव्रतेचे लक्षण तोच सां गतो की,-" जी पतीने भोजन केले तर भोजन करिते, तो बसल्यास तदाज्ञेनें बसते, तो निजल्यास आपण निजते, साराम्श असे अनुकूल वागणारीस पतिव्रता ह्मणावी. " अङ्गिरा ह्मणतो-" तो दुःखित असल्यास दुःख करिते, आनन्दित असतां आनम्द पावते, तो प्रवा साम्त असतां मळकट व कृश असते, आणि मेला हे समजताम्न जी तत्काल प्राणत्याग क रील, तीच पतिव्रता होय." रजस्वला व गर्भिणीचे धम, सहगमन व अन्वारोहण याञ्चा निर्णय आणि विधि ही आमी निणयसिन्धूत साङ्गितली आहेत, ह्मणून येथे साङ्गितली नाहीत.
-
“ सायङ्काळी व प्रातःकाळी · अग्निहोत्र’ हवन करावे. ज्याला स्वर्गप्राप्तीची इच्छा असेल. त्याने — ज्योतिष्टोम’ यज्ञ करावा," इत्यादिकाम्स कामश्रुति ह्मणतात. याचे कारण की फलकामनापूर्वक कर्माची प्रवृत्ति साङ्गितली आहे. ↩︎
-
येथे — दाम्त घांसू नयेत,’ असे साङ्गितले आहे ते मामान्यतः आहे. एकन्दरीत पति प्रवासाम्त असतां ज्यान अन्तःकरणाम्त कामवासना उत्पन्न होईल ते बज करावे, इतकाच याचा हेतु आहे. दाम्त घाणेरडे ठेवावे असे नाही. ↩︎
-
ह्या वचनाम्त व्रतादिकाञ्चा निषेध केला आहे. व “हरितालिका" इत्यादि व्रते सुवासिनी स्त्रियाम्स नित्य आहेत, तेव्हां ती करावी किंवा नाही असा संशय येईल तर, त्याविषयी असें आहे की-ज्या वता दिकांविषयी विशेष विधि असेल तेथे या वचनाची प्रवृत्ति होत नाही. “विशेष वाक्यानं सामान्याचा बाध होतो." असा न्याय आहे. आणखी वरील वचनाचें-नवयाच्या सम्मताशिवाय व्रतादि करू नये. असेम्च तात्पर्य आहे. तेव्हां अर्थात् लाच्या सम्मताने व्रतादि करण्यास दोष नाही, असे सिद्ध होते. व साम्प्रत शिष्टाचारही याचप्रमाणे आहे. ↩︎
-
येथे-’ दृष्टी पडू नये,’ असे साङ्गितले आहे. यावरून ती दृष्टी पडल्यास काही पाप लागत असे नाही. तर-रजस्वलेचा सम्भोग झाल्यास त्यापासून प्रकृति बिघडते असे वैद्यशास्त्राचे मत आहे..व उभ. यताञ्ची दृष्टादृष्ट झाल्यास कदाचित् अविचाराने कामाच्या प्रेरणेने तसा प्रकार घडेल व त्यापासून वाईट परिणाम होईल तो न व्हावा, इतकेच याचे तात्पर्य आहे. ↩︎
-
घरच्या कामाविषयी झटणारी, अथवा गृहस्थाश्रमधर्म वाढविणारी. ↩︎
-
“निनयन ’ शब्दाने येथे- भाण्डी घासून ती विसळण्याञ्चे जे पाणी राहतें तें उत्तरेस किंवा पूर्वेस लोटावे इतकाच अर्थ असावा. ↩︎