विश्वास-प्रस्तुतिः
[२३३]
अथ सपिण्डनम् ।
भविष्ये ।
द्वादशे ऽहनि षण्मासे त्रिपक्षे वा त्रिमासि वा ।
एकादशे ऽथ पूर्णे ऽब्दे मङ्गलस्याप्य् उपस्थितौ ॥
विष्णुः: “मासिकार्थवद् द्वादशाहं श्राद्धं कृत्वा त्रयोदशे ऽह्नि वा कुर्यात्” ।
मन्त्रवर्जं हि शूद्राणां द्वादशे ऽहनि कीर्तितम् ।
इति स्मृत्यन्तरं च । एतद् दर्शश्राद्धकारिशूद्रपरम् इत्य् अपरार्के कल्पतरौ च । आशौचोत्तरं द्वादशस्व् अहःसु द्वादश मासिकानि कृत्वा द्वादशे सपिण्डनम् । अधिकमासे तु त्रयोदश इत्य् अर्थः । विस्तरो निर्णयसिन्धौ ज्ञेयः ।
मूलम्

मराठी
यानन्तर सपिण्डी साङ्गतो.
भविष्यपुराणान्त-" १२ व्या दिवसी, त्रिपक्षी, ३ मासान्नी किंवा ६ मासान्नी, ११ व्या मासी अथवा वर्ष पुर झाल्यावर सपिण्डी करावी. कदाचित् मध्ये मङ्गलकार्य करण्याचं प्राप्त आल्यास मध्येच करावी,’ असे साङ्गितले आहे. विष्णु ह्मणतो-" मासिक शब्दाच्या अर्था प्रमाणे प्रतिमासी किंवा द्वादशाहश्राद्धे करून, तेरावे दिवसीं सपिण्डी करावी, " " अमन्त्रक १२ वे दिनी शूद्रान्नी सपिण्डी करावी,’ असे स्मृत्यन्तरही आहे. “हे दर्शश्राद्धकर्त्या शू द्राविषयी आहे " असें अपराकाम्त व कल्पतरूम्त साङ्गितले आहे. आशौचानन्तर प्रतिदिनी एक एक असें १२ दिवसपर्यम्त १२ मासिके करून, त्याच दिवसीं सपिण्डी करावी. अधिक मास असल्यास मासिकें १३ करावी. एतत्सम्बन्धी विस्तार निर्णयसिन्धूत पहावा.
विश्वास-प्रस्तुतिः
[२३४]
अथ प्रयोगः ।
देशकालौ स्मृत्वा काश्यपगोत्रस्यास्मत्पितुर् अमुकप्रेतस्य प्रेतत्वनिवृत्त्या वस्वादिपितृलोकप्राप्त्यर्थम् एकोद्दिष्टपार्वणोभयात्मकं सपिण्डीकरणश्राद्धं करिष्ये इत्य् उक्त्वा अस्मत् पितुर् अमुकप्रेतस्य स्थाने क्षणं दत्वा भवद्भिः प्रसादः कार्तव्य इत्य् एकं ततः सव्येन कामकालसञ्ज्ञकविश्वेदेवस्थाने क्षणं दत्वेत्यादि । द्वौ दैवे । दैवानन्तरं वा प्रेतक्षणः । ततो ऽपसव्येनास्मत्पितुःपितुर् अमुकदासस्य वसुरूपस्य स्थाने क्षणं दत्वेत्यादि । एवम् अस्मत्पितुः पितामहस्यामुकदासस्य रुद्ररूपस्य स्थाने इत्यादि । एवम् अस्मत्पितुःप्रपितामहस्यामुकदासस्यादित्यरूपस्य । एवं षड्विप्राः कुशबटवो वा । अक्रोधनैः शौचपरैर् इति जपः सर्वत्र । प्रेतस्थाने नवश्राद्धवत् । पित्र्ये पार्वणवत् । ततः परेद्युः सङ्कल्प्य पुनः क्षणं दत्वा दैवे चतुरस्रं मण्डलं कृत्वा तद्दक्षिणे प्रेताय वर्तुलं त्रिकोणं वा कृत्वा क्रमेण पाद्यं दत्वाचम्य । कामकालसञ्ज्ञका विश्वेदेवाः समाध्वम् । समास्व । प्रेतस्य पितृपितामहप्रपितामहाः समाध्वम् इत्य् आसनेषूपवेश्य नीवीबन्धं1 कृवोपक्रान्तं श्राद्धकर्म करिष्ये । कुरुष्वेत्य् उक्ते । कामकालसञ्ज्ञकानां विश्वेषां देवानाम् इदम् आसनम् । सुखासनम् । अत्रास्यतां धर्मो ऽसि । दैवे क्षणः क्रियतां । तथा प्राप्नुवानि । एवं द्वितीयदैवे । ततो द्वे अर्धपात्रे सम्पन्ने इत्य् उक्त्वा कामकालसञ्ज्ञकान् विश्वान् देवान् भवत्सु आवाहयिष्ये । आवाहयेत्य् उक्ते । कामकालेभ्यो नमः । आगच्छन्तु महाभागा इति वाऽऽवाह्य कामकालसञ्ज्ञका विश्वे देवा इदं वो ऽर्घ्यम् इति विप्रद्वये दत्वा पात्रं न्युब्जं कृत्वा गन्धं पुष्पं धूपं दीपम् आच्छादनानि दत्वा सम्पूर्णतां वाचयित्वा । अपसव्येनास्मत् पितुः काश्यपगोत्रस्यामुकप्रेतस्येदम् आसनम् उपतिष्ठताम् । स्वासनम् । प्राप्नोतु भवान् इत्यादि । ततः पितुः पित्रादीनां पार्वणवद् आसनानि दत्वा2 चत्वार्य् अर्घपात्राणि । तत्राद्ये चत्वारि पवित्राणि । त्रिषु त्रीणि । ततः काश्यपगोत्रामुकप्रेत एष ते ऽर्घ उपतिष्ठताम् इति दत्वाद्येत्यादि काश्यपगोत्रस्यामुकप्रेतस्यार्घ्यं तत्पितृपितामहप्रपितामहाद्यैः संयोजयिष्ये । संयोजयेत्य् उक्ते । एकं पवित्रं पितृपात्रे दत्वा काश्यपगोत्रामुकप्रेत स्वपित्रामुकदासेन वसुरूपेण सह संसृज्य स्वसायुज्यं गच्छेति तद् अर्घ्ये निनीयैवं तत्पितामहेन रुद्ररूपेणेति द्वितीये । स्वप्रपितामहेनादित्य-रूपेण सहेति तृतीये । ततः ।
एष वो ऽनुगतः प्रेतः पितरस् तं ददामि वः ।
शुभं भवतु शेषाणां जायन्तां चिरजीविनः ॥
इत्य् अभिमृशेत् । संसर्जनोत्तरं प्रेतायार्घ्यदानम् इति मदनपालः । ततः प्रेतपित्रादिभ्यः पार्वणवद् अर्घ्यत्रयं दत्वा न्युब्जं पात्रं कृत्वा गन्धपुष्पधूपदीपाछादनालङ्कारान् प्रेताय तत्पित्रादिभ्यश् च दत्वा पूर्णतां वाचयित्वा प्रेते प्रेताय यमाय चेयम् आहुतिर् उपतिष्ठताम् इति पाणौ हुत्वा वा तत्पित्रादिषु चाग्नौकरणं कृत्वा दैवे प्रेते तत्पित्रादिषु चामान्नानि सङ्कल्प्योच्छिष्टपिण्डं विकिरं च दत्वा गृहपाकात् पायसेन सक्तुभिर् वा प्रेताय तत्पित्रादिभ्यः [२३५] पिण्डान् दत्वाद्येत्यादि काश्यपगोत्रस्यामुकदासप्रेतस्य प्रेतत्वविमुक्त्या वस्वादिपितृलोकप्राप्त्यर्थं तत्पिण्डं तत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानां वसुरुद्रादित्यस्वरूपाणां पिण्डैः सह संयोजयिष्ये । संयोजयेत्य् उक्ते । प्रेतपिण्डं त्रेधा कृत्वैकभागं मधु चादाय काश्यपगोत्रामुकप्रेत त्वत्पिण्डं त्वत्पित्रामुकगोत्रेणामुकदासेन वसुरूपेण संयुनज्मि । एष ते पिण्डः । तस्मै ते स्वधा नमः । एवं द्वितीयं भागं पितामहेन रुद्ररूपेण । तृतीयं भागं प्रपितामहेनादित्यरूपेण । ततः एष वो ऽनुगतः प्रेतः इति प्रागुक्तं मन्त्रम् उक्त्वा प्रत्यवनेजनं पिण्डपूजादि कृत्वा दक्षिणां दत्वा दशदानवैतरणीदानानि कृत्वा शेषं समापयेत् । ततः पाथेयश्राद्धं कृत्वा वर्षान्तं यावत् प्रत्यहम् उदकुम्भश्राद्धं स्वकाले पुनर् मासिकानि च कुर्यात् ।
इति श्रीकमलाकरकृते शूद्रधर्मतत्त्वे और्ध्वदेहिकप्रयोगः ।
मराठी
आतां प्रयोग साङ्गतो.
कान देश काल स्मरून,
काश्यपगोत्रस्यास्मत्पितुरमुकप्रेतस्य प्रेतत्वनिवृत्त्या वस्वादिपितृलोकप्राप्त्यर्थम् एकोद्दिष्टपार्वणोभयात्मकं सपिण्डीकरणश्राद्धं करिष्ये ।
असे ह्मणून, ब्राह्मणांस - काश्यपगोत्रस्यास्मत्पितुरमुकप्रेतस्य स्थाने क्षणं दत्वा भवद्भिः प्रसादः कर्तव्यः ह्मणून एका विप्रास १ दर्भ द्यावा. त्यानं - सुकर्तव्यः असें मटल्या वर- कामकालसञ्ज्ञकविश्वेदेवस्थाने क्षणं दत्वा भवद्भिः प्रसादः कर्तव्यः । ह्मणून देवस्थानीय २ विप्राम्स निरनिराळा क्षण द्यावा. त्यान्नी पूर्ववत् प्रतिवचन द्यावे. नंतर अपसव्य करून,- अस्मत्पितुरमुकदासस्य वसुरूपस्य स्थाने क्षणं दत्वा भवद्भिः प्रसादः कर्तव्यः । असेञ्च - अस्मपितुःपितामहस्य अ०स्य रुद्ररूपस्य स्थाने क्षणं दत्वा भवद्भिः प्रसादः कर्तव्यः । अस्मत्पितुःप्रपितामहस्य अमु० आदित्यरूपस्य स्थाने क्षणं दत्वा भवद्भिः प्रसादः कर्तव्यः । ह्मणून एकेक विप्रास पूर्ववत् क्षण द्यावा. त्यान्नी प्रतिवचन द्यावे. येथे ६ ब्राह्मण किंवा दर्भबटु असावे. नन्तर–" अक्रोधनः० “॥१॥ याचा सर्वत्र जप करावा. प्रेतस्थानीय ब्राह्मणपूजा नवश्राद्धवत् करावी. पित्र्यस्थानीयाञ्ची पार्वणश्राद्धवत् करावी. नन्तर द्वितीयदिनी पूर्ववत् सङ्कल्प करून, पुनः क्षण देऊन, स व्याने देवाङ्कडे चतुष्कोण मण्डल करून, त्याच्या दक्षिणेस प्रेतार्थ त्रिकोण किंवा वतुळ करावे. अनुक्रम पाद्य देऊन, आपण आचमन केल्यावर कामकालसञ्ज्ञका विश्वेदेवाः समाध्वं ह्मणून देवस्थानीय व प्रेत समास्व ह्मणून प्रेतस्थानीय, प्रेतस्य पितृपितामहप्रपितामहाः समाध्वं - ह्मणून पितरस्थानीय विप्राञ्च्या हाताम्म हात लावून, त्याम्स आसनी बसवून, आपण कंवर बान्धून.- उपक्रान्तं श्राद्धकर्म करिष्ये असें ह्मणावे. ब्राह्मणान्नीं - कुरुष्व मटल्यावर - कामकालसञ्ज्ञकानां विश्वेषां देवानाम् इदमासनं । ब्रामणान्नी स्वासनं ह्मणावे. अत्रास्यतां धर्माऽसि । ब्राह्मणान्नी - अत्रास्यामः । दैवे क्षणः क्रियतां । प्राप्नोतु भवान् । ब्राह्मणाने प्राप्नुवानि ह्मणावे. असम्च देवस्थानीय द्वि तीय ब्राह्मणास देऊन, २ अयपात्रं करून, आपण - अध्यपात्र सम्पन्ने ह्मणावम्. ब्राह्मणाने– सुसम्पन्न ह्मणावेम्. कामकालसञ्ज्ञकान् विश्वान् देवान् भवत्स्वावाहयिष्ये । प्रतिवचन - आवाहय मटल्यावर–” कामकालेभ्यो नमः" किंवा " आगच्छन्तु महा." ॥१॥ हा मन्त्र ह्मणून आवाहन करावम्. काम विश्वेदेवाः इदं वोऽर्घ्यं ह्मणून दोवाम्स एकेक पू वक्ति पात्रान्तील अन्य देऊन, ती पात्रं एकमकांवर झाङ्कून टवून, पूर्ववत् गन्ध, पुष्प, धूप, दीप, आच्छादनादि देउन, काम० देवा एते गन्धादिआच्छादनान्ता उपचाराः सर्वे परिपूर्णा भवन्तु । ब्राह्मणाने अर्चनविधौ स्वर्चितमस्तु । ह्मणावे. काने यन्न्यूनं तद्विधिवदस्तु । विप्राने - अस्तु विधिवत् अमे मटल्यावर अपमव्यान - अस्मत्पितुः काश्यपगोत्रस्यामुकप्रेतस्येदमासनमुपतिष्ठतां ह्मणून आसनार्थ दर्भ द्यावे. प्रतिवचन- स्वासनं ह्म टल्यावर प्राप्नोतु भवान् । विप्राने-प्राप्नुवानि ह्मणावे. अस्मत्पितुःपितुः काश्यपगोत्रस्यामुकदासस्य वसुरूपस्येदमासनमुपतिष्ठतां ह्मणून आसनार्थ दर्भ द्यावे. विप्रान्नी स्वासनं ह्मणावेम्. प्राप्नोतु भवान् । प्रतिवचन - प्राप्नुवानि । नन्तर अस्मत्पितुः पितामहस्य का० अमु० स्य व० रु० स्येदमासनमुपतिष्ठतां । अस्मत्पितुः प्रपितामहस्य का० अमु०स्य० आ०स्येदमासनमुपतिष्ठतां । ह्मणून आसने देऊन १४ अयपात्रे करावी. त्याम्त पहिल्यावर ४, व पुढल्यांवर ३।३ दर्भ ठेवावे. का० अमुकप्रेत एष तेऽर्घ उपतिष्ठताम्, ह्मणून प्रेतस्थानीय ब्राह्मणास अर्घ्य देऊन, अद्येत्यादि सङ्कल्प ह्मणून-का० अ० प्रेतस्यार्घ्यं तपितृपितामहप्रपितामहाद्यैः संयोजयिष्ये । प्रतिवचन - संयोजय मटल्यावर, प्रेताच्या अर्घ्यपात्रावरचं १ पवित्र त्याच्या पित्याच्या अयपात्रावर ठेवून, का०प्रेत स्वपित्रामुकदासेन वसुरूपेण सह संसृज्य स्वसायुज्यं गच्छ । ह्मणून त्या अर्ध्यात ठेवावे. असेम्च दुसरें पवित्र पिताम हाच्या अर्यपात्राम्त ठेवून, का प्रेत स्वपितामहेन रुद्ररूपेण सह संसृज्य स्वसायुज्यं गच्छ । असेम्च ३ र पवित्र प्रपितामहाच्या अर्घ्यपात्रावर ठेवून, का० प्रेत स्वप्रपितामहेन आदित्यरूपेण सह संसृज्य स्वसायुज्यं गच्छ । अस सम्मर्जन ( मिळवणें ) केल्यावर
एष वोऽनुगतः प्रेतः पितरस्तं ददामि वः ॥
शुभं भवतु शेषाणां जायतां चिरजीविनः ॥ १ ॥
ह्मणून म्पर्श करावा." समननानन्तर प्रेतास अर्घ्य द्यावे,’ असे मदनपाल ह्म नो. नन्तर प्रेताच्या पित्रादि ३ घाम्स पार्वणवत् ३ अर्ये देऊन, पात्रं एकमेकांवर झाङ्कन ठेवून; गन्ध, पुप्पम्, धूप, दीप, आच्छादन व अलङ्कार हे आधीं प्रेतास व नन्तर त्याच्या पितरादिकाम्स देऊन, पूर्णतावाचन करून, प्रेतम्थानीय ब्राह्मणहस्ती-प्रेतायाहुतिरुपतिष्ठतां । यमायाहुतिरुपतिष्ठतां । ह्मणून हवन करुन तत्पितृस्थानी विप्रहस्नी अग्नौकरण करावे. देव, प्रेत व तत्पित्रादिकाम्स आमान्ने सकल्पून, उच्छिष्टपिड व विकिर देउन, गृहमिद्ध पायसाने किवा सक्तन्नी, प्रेत व तत्पित्रादि तिघांला पिट देऊन, अयेत्यादि सङ्कल्प क सन,-काश्य० स्यामुकप्रेतस्य प्रेतत्वविमुक्त्या वस्वादिपितृलोकप्राप्त्यर्थं तत्पिडं तत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाममुकदासानां वसुरुद्रादित्यस्वरूपाणां पिण्डैः सह संयोजयिष्ये । प्रतिवचन - संयोजय मटल्यावर, प्रेतपिडाचे ३ भाग करून त्यातला १ व मध घेऊन, का० अमुकप्रेत त्वत्पिण्डं त्वपित्रामुकगोत्रेणामुकदासेन वसुरूपेण संयुनज्मि । एष ते पिण्डः। तस्मै ते स्वधा नमः । ह्मणून तो भाग पितृपिडाम्त मिळवावा. असम्च द्वितीय भाग व मध घेउन, का० गोत्रामुकप्रेत त्वत्पिण्डं त्वत्पितामहेनामुकदासेन रुद्ररूपेण संयुनज्मि । एष ते पिण्डः । तस्मै ते स्वधा नमः । ह्मणून पितामहपिंडांत मिळवावा. तृतीय भाग व मध घेऊन, का० त्वत्पिडं त्वत्प्रपितामहेनादित्यरूपेण सह संयुनज्मि । एष ते पिण्डः। तस्मै ते स्वधा नमः । ह्मणून प्रपितामहपिडाम्त मिळवावा. नन्तर “एष वोऽनुगतः० " ॥ १ ॥ हा पूर्वोक्त मन्त्र ह्मणून, अवनेनन, प्रत्य वनजन व पिडपूजादि करून. ब्राह्मणाम्म दक्षिणा देउन. दशदाने व वैतरणीदान करून, शेप समाप्त करावे. नन्तर पाथेयश्राद्ध करून, १ वर्षपर्यत प्रतिदिवमी उदकुम्भदान व श्राद्ध व त्या त्या काली पुनः मासिकें करावी.
इति शूद्रधर्मतत्त्वप्रकाशे और्ध्वदेहिकप्रयोगः ॥