विश्वास-प्रस्तुतिः
अथ मासिकानि ।
तानि कृत्वैव सपिण्डनं कार्यम् ।
श्राद्धानि षोडशादत्वा नैव कुर्यात् सपिण्डनम् ।
इति लौगाक्षिस्मृतेः सपिण्डीकरणोत्तरं पुनः कार्याणि,
यस्य संवत्सराद् अर्वाक् सपिण्डीकरणं कृतम् ।
मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ॥
इति तेनैवउक्तेः,
सपिण्डीकरणाद् अर्वाग् अपकृष्य कृतान्य् अपि ।
पुनर् अप्य् अपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥
गालवोक्तेश् च । तानि सपिण्डनात् प्राग् एकोद्दिष्टविधिनोर्ध्वं तु पार्वणेन कार्याणीत्यादि निर्णयसिन्धौ ज्ञेयम् । तान्य् आह कात्यायनः ।
द्वादश प्रतिमास्यानि आद्यषाण्मासिके तथा ।
सपिण्डीकरणं चैव इत्य् एतच् छ्राद्धषोडशम् ॥
त्रिपक्षिकाब्दिके चेति श्राद्धान्य् एतानि षोडश ॥
इति जातूकर्ण्यपाठः । आद्यम् ऊनमासिकं1 । षाण्मासिकम् ऊनषष्ठम् । आब्दिकम् ऊनाब्दिकम् । तेनामुकदासप्रेतस्य2 प्रेतत्वनिवृत्या पितृलोकप्राप्त्यर्थम् आद्यमासिकद्वितीयत्रैपक्षिक-तृतीयचतुर्थ ◦ पञ्चम ◦ षष्ठ ◦ ऊनषष्ठ ◦ सप्तम ◦ नवम ◦ दशम ◦ एकादश ◦ द्वादश ◦ ऊनाब्दिकानि श्राद्धानि स्वकालकर्तव्यानि सपिण्डीकरणाधिकारसिद्ध्यर्थम् एकादशे द्वादशे वाहन्य् अपकृष्य करिष्ये । इत्य् उक्त्वाद्यमासिकेऽयं ते क्षण उपतिष्ठताम् इत्य् एवं षोडश विप्रान् कुशबटून् वा निधायाद्यमासिके इदं ते पाद्यम् इत्य् एवं सर्वम् नवश्राद्धवत् कृत्वा षोडशामान्नानि पिण्डांश् च दद्यात् ।
मराठी
यानन्तर मासिकें साङ्गतो.
ही मासिकें करून सपिण्डी करावी. कारण “ १६ मासिकश्राद्धे झाल्यावाञ्चून स पिण्डी करूं नये,” असी लौगाक्षिस्मृति आहे. कदाचित् सपिण्डी त्वरित करणे असल्यास, अपकर्षाने १६ मासिकें करून, सपिण्डी झाल्यावर पुनः यथाकाली मासिकें करावी. कारण, “ज्याचें वर्षापूर्वी सपिण्डीकरण केले असेल त्याची मासिकें व उदकुम्भदान ही, वर्षपर्यम्त यथाकाली करावी, " असें तोच लौङ्गाक्षि ह्मणतो “कदाचित् अपकर्षाने प्रथम मासिके केली असून, नन्तर विवाहादि कर्तव्य असल्यास नान्दीश्रादानन्तर मासिकेम् करूं नये असा निषेध आहे ह्मणून, राहिलेली मासिकें पुनः विवाहापूर्वी अपकर्षाने करावी, " असें गालववचनही आहे. ती सपिण्डीपूर्वी एकोद्दिष्टविधीने, व नन्तर पार्वण विधीने करावी, इत्यादि प्रकार निर्णयसिन्धूत पहावा. ती मासिकें कात्यायन साङ्गतो “ प्रतिमहिन्याची १२, उनमासिक १, ऊनेपाण्मासिकं १, त्रैपक्षिक १, ऊनाब्दिक १, मि ळून सोळा. " याम्त सङ्कल्प पुढे लिहिल्याप्रमाणे करावे.
अमुकदासप्रेतस्य प्रेतत्वनिवृत्त्या पितृलोकप्राप्त्यर्थम् आद्यमासिक द्वितीयमासिक त्रैपक्षिक तृतीयमासिक चतुर्थमासिक पञ्चममासिक षष्ठमासिक ऊनषष्ठमासिक सप्तममासिक अष्टममासिक नवममासिक दशममासिक एकादशमासिक द्वादशमासिक ऊनाब्दिकश्राद्धानि स्वकालकर्तव्यानि सपिण्डीकरणाधिकारसिद्ध्यर्थम् एकादशे द्वादशे वा अहन्यपकृष्य करिष्ये ।
असा सङ्कल्प करून,-आद्यमासिके अयं ते क्षण उपतिष्ठतां ह्मणून, ब्राह्मण किंवां दर्भबटूस क्षण द्यावा. असेम्च दुसन्यास-द्वितीयमासिके क्षण उपतिष्ठतां-असा पूर्वोक्त श्राद्धाच्या नांवाञ्चा उह करून १६ ब्राह्मणाम्स क्षण द्यावे. असेम्च आद्यमासिके इदं ते पाचं ह्मणून पाद्य, गन्ध, पुष्प, धूप, दीप इत्यादि उपचार देऊन, बाकी सर्व नवश्राद्धवत् करून, १६ आमान्ने व पिण्ड द्यावे.
इति शूद्रधर्मतत्त्वप्रकाशे षोडशमासिकविधिः ॥
मूलम्