४२ वसु-गण-श्राद्धादीनि

विश्वास-प्रस्तुतिः

[२२७]

अथ वसुगणश्राद्धादीनि ।

ततो नवश्राद्धवत् धरध्रुवाद्यष्टवसूद्देशेनाष्टाव् एकं वा विप्रम् इत्य् एवं वसुश्राद्धम् एकादशभ्य [२२८] एकस्मै वा रुद्रगणश्राद्धं विषमश्राद्धं च कृत्वाचम्य देशकालौ स्मृत्वा काश्यपगोत्रस्यास्मत्पितुर् अमुकप्रेतस्य प्रेतत्वनिवृत्त्या वस्वादिरूपप्राप्त्यर्थम् आद्यं श्राद्धम् एकादशे ऽह्न्य् एकोद्दिष्टविधिना करिष्ये इत्य् उक्त्वाद्यश्राद्धे ऽमुकप्रेतस्थाने क्षणः कर्तव्यः । तथा प्राप्नोतु भवान् प्राप्नवानि । इत्य् एकादशैकं वा विप्रं निमन्त्र्याक्रोधनैः शौचपरैर् इत्य् उक्त्वा दर्भबटुं वा निमन्त्र्य सर्वं नवश्राद्धं तु पार्वणवच् च कार्यम् । तत्र द्वारि वृत्तं मण्डलं कृत्वाचम्याभ्यर्च्यामुकप्रेतैतत् ते पाद्यम् उपतिष्ठताम् इत्य् एवं पाद्यं दत्वाचम्योदङ्मुखम् उपविश्यामुकगोत्रैष ते गन्धः पुष्पाणि धूपो दीप आच्छादनं छत्रालङ्कारादि वोपतिष्ठताम् । सम्पूर्णतां वाचयित्वाग्नौकरणं नेति बहवः । गृह्यभाष्यमते त्व् अस्ति । तदामुकप्रेताय स्वाहेत्य् आमेनैकाहुतिः । ततः सोदकुम्भम् आमान्नं सोपस्करम् अमुकप्रेतायाद्यश्राद्धे उपतिष्ठताम् । विकिरे विकल्पः । ततो वेद्यां रेखां कृत्वा उच्छिष्टपिण्डे च । इदं पिण्डासनम् अवनेजनम् अयं पिण्डः प्रत्यवनेजनं पिण्डपूजा सूत्रं च । ततः सुप्रोक्षितादि कृत्वा गोत्रं नो वर्धताम् इत्य् उक्त्वाक्षय्योदकं दत्वा दक्षिणां दत्वैकादशपक्षे आद्याय प्रेतालङ्कारवाहनादि दद्यात् । बृहस्पतिः

प्रेतालङ्कारवस्त्रादि पितुर् यद् वाहनादिकम् ।
सम्पूज्य गन्धमाल्यैस् तु श्राद्धभोक्त्रे तद् अर्पयेत् ॥

ततो ऽभिरम्यताम् इति विसर्जयेत् । शेषं नवश्राद्धवत् । तत आद्यमासिकं कुर्यात् । तत्समानतन्त्राणि षोडशश्राद्धानि वा । आद्याब्दिकम् अपीत्य् एके । अत्र पददानम् उक्तं देवजानीये गारुडे एकादशाहं प्रक्रम्य ।

तदह्नि दीयते सर्वं द्वादशाहे विशेषतः ।
पदानि सर्ववस्तूनि वरिष्ठानि त्रयोदश ॥
यो ददाति मृतस्येह जीवन्न् अप्य् आत्महेतवे ।
सुखी भूत्वा महामार्गे वैनतेय स गच्छति ॥
आसनोपानहौ छत्रं मुद्रिका च कमण्डलुः ।
भोजनं भाजनाधारो वस्त्राण्य् अष्टविधं पदम् ॥

तथा

भाजनासनदानेन मुद्रिकाभोजनेन च ।
आज्ययज्ञोपवीतेन पदं सम्पूर्णतां व्रजेत् ॥
महिषीरथगोदानात् सुखी भवति निश्चितम् ।
सर्वोपस्करयुक्तानि पदान्य् अत्र त्रयोदश ॥

स गच्छति परं स्थानं महाकष्टविवर्जितः ॥
त्रयोदश पदानीत्थं प्रेतायैकादशे ऽहनि ।
दातव्यानि यथाशक्ति तेनासौ प्रीणितो भवेत् ॥
अन्नं चैवोदकं चैवोपानहौ च कमण्डलुः ।
छत्रं वस्त्रं तथा यष्टिं लोहदण्डं तथाष्टमम् ॥
अग्नीष्टिकां च दीपं च तिलान् ताम्बूलम् एव च ।
चन्दनं पुष्पदानं चोपदानानि चतुर्दश ॥
यो ऽश्वं रथं गजं वापि ब्राह्मणे प्रतिपादयेत् ।
स्वमहिम्नानुसारेण तत् तत् सुखम् अवाप्नुयात् ॥

अत्र तत्तद्दानमन्त्रा मत्कृते दानकमलाकरे ज्ञेयाः । अत्र मूलं तु चिन्त्यम् ।

मराठी

आतां वसुगणश्राद्धादिप्रयोग साङ्गतो.

यानन्तर नवश्राद्धवत् धर, ध्रुव, प्राण, अके, अग्नि, दोष, वसु, विभावसु, या अष्टवसूं च्या उद्देशाने । अथवा १ ब्राह्मणाचे पूजन करून. आमान्नं द्यावी. यास वसगणश्राद्ध असें ह्मणतात. नन्तर-मन्यु १, मनु २, महिनस ३, महान् ४, शिव ५, क्रतुध्वज ६, उग्ररेता ७, भव ८, काल ९, वामदेव १०, धृतवत ११, या एकादशरुद्रोद्देशाने ११ अथवा १ ब्राह्मणास-सदक्षिणाक आमान्ने द्यावी. यास रुद्रगणश्राद्ध ह्मणतात. हे झा ल्यावर आचमन करून देशकाल स्मरून -

काश्यपगोत्रस्यास्मत्पितुरमुकगोत्रस्य प्रेतत्वनिवृत्त्या वस्वादिरूपप्राप्त्यर्थम् आद्यं श्राद्धमेकादशेऽह्नि एकोद्दिष्टविधिना करिष्ये ।

असा सङ्कल्प करून,- अमुकप्रेतस्थाने त्वया क्षणः कर्तव्यः । तसेच- प्राप्नोतु भवान् विप्राने प्राप्नुवानि असें ह्मणावेम्. असे ११ किंवा १ विप्रास अथवा दर्भबट्स निमन्त्रण करून -

अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ॥
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ १ ॥

हा मन्त्र ह्मणून, पार्वणश्राद्धवत् सर्व नवश्राद्ध करावे. त्याम्त विशेष- गृहद्वाराम्त मण्डल करून, आचमन करून त्याचे पूजन केल्यावर,- अमुकप्रेतैतत्ते पाद्यमपतिष्ठताम् । ह्मणून पाद्य देऊन, आचमन करून उत्तराभिमुख बसून काश्यपगोत्रामुकप्रेत एष ते गन्धः ह्मणून गन्ध, का० प्रेत एतानि ते पुष्पाणि ह्मणून फुले, का० एष ते धृपः ह्मणून धूप, का० प्रेत एष ते दीपः ह्मणून दिवा, का प्रेतेदं ते आच्छादनं ह्मणून काही द्रव्य, का प्रेतेदं ते छत्रं ह्मणून छत्री, का० प्रेतैते तेऽलङ्काराः उपतिष्ठन्तु ह्मणून अलङ्कार, असे उपचार देऊन, का प्रेत एते गन्धपुष्पधूपदीपाच्छादनछत्रालङ्काराः सर्वे उपचाराः परिपूर्णा भवन्तु । ब्राह्मणान्नी अर्चन विधेष्वर्चितमस्तु असे ह्मणावम्. “येथे अग्नौकरण करूं नये,” असें बहुत ग्रन्थकर्ते ह्मणतात. गृह्यसूत्रभाष्य कर्त्याञ्च्या मते-" अग्नौकरण करावेम्" असे आहे. हे मत घेतल्यास- अमुकप्रेताय स्वाहा ह्मणून अमान्नाने १ आहुति द्यावी. नन्तर उदककुम्भ व उपसाहित्यासह आमान्न- अमुकप्रेताय आद्यश्राद्धे उपतिष्ठतां ह्मणून द्यावे. येथे विकिरदाना विषयीचा विकल्प आहे. नन्तर वेदीवर रेपा काढून उच्छिष्टपिडावर-इदं पिण्डासनं ह्मणून दर्भ, इदमवनेजनं ह्मणून उदक, अयं पिण्डः ह्मणून पिड, प्रत्यवनेजनं ह्मणून उदक देऊन, पिटपूजा करून मूत्र द्यावे. नन्तर मुप्रोक्षितमस्तु इ० करून, गोत्रं नो वर्धतां असे ह्मणून, अक्षय्योदक व दक्षिणा देऊन, ११ ब्राह्मण साङ्गितले असतील तर पहिल्यास प्रेताचे अलङ्कार वाहन ६० द्यावम्. याविषयी बृहस्पति ह्मणतो - “प्रेताचे अलं कार वस्त्रे व अन्य वाहनादि ज असेल त; श्राद्धभोजन करणा-या विप्राचं गन्धादिकान्नी पूजन करून त्याम्स द्यावं.” अभिरम्यतां ह्मणून ब्राह्मणाञ्चं विसर्जन करावम्. हा विशेष मागितला आहे. बाकी सर्व प्रयोग नवश्राद्धवत् करावा. नन्तर आद्यमामिक किवा ए. कतन्त्रानं १६ मासिकश्राद्धे करावी. “आद्याब्दिक श्राद्धहि करावं,” अमें कित्येक ह्मणतात. यथं पढ़ान करावं असे दवजानीयाम्त गरुडपुराणाम्त एकादशाहास आरम्भ करून माङ्गितले आहे. ते असे की,-” ११ व्या व विशेषतः १२ व्या दिनी पदसञ्ज्ञक श्रेष्ठ वस्तु, जो विप्रास मृतोद्देशाने अथवा आपण जीवम्त असतां आत्मार्थ देईल, तो मोठ्या1 यम मार्गात सुग्वाने जाईल.

पदमञ्ज्ञक वस्तु माङ्गतो - आमन, चर्मी जोडा, छत्री, आगठी, ताम्ब्या, भोजन व पात्र आणि वन्ने अमे प्रकारचे पद आहे. ह-पात्र, आमन, मुद्रिका, भोजन, आज्य व यज्ञोपवीत याञ्च्या दानानं सम्पूर्ण होते. महिपी, रथ व गाय दान केलें असतां निश्चयाने प्रेत मुग्वी होतो. मर्व उपमाहित्यांसह १३पदं जो जिवम्त असतां ग्वार्थ देतो किवा मृताम अन्यानं दिल्याम तो सहन उत्तमलोकाम जातो. असी १३पदें ११ व्या दिनी यथाशक्ति द्यावी. त्याने हा सन्तुष्ट होतो. “अन्न, उदक, उपानह, कमण्डलु, छत्र, वस्त्र, काठी, लोहदण्ड, अग्नीची वीट, दीप, तीळ, तान्दूळ, चन्दन व पुष्पें ही १४उपदाने, आणि घोडा, रथ व हत्ती ही विप्राम्स यथाशक्ति जो देईल त्यास में पाहिजे तें सुख मिळेल," अमें साङ्गितले आहे. येथे साङ्गितलेल्या दानाञ्चे मन्त्र दानकमलाकराम्त पहावे. येथे मूलवचनाञ्चा विचार करावा.

मूलम्

  1. भुमीपामन यमाच्या नगरीचा माग ९९ हजार योजन लाव आहे अस भा० स्क०५ अ० २६त सा. गितले आहे. ↩︎ ↩︎