३९ प्रेतपिण्डाः

विश्वास-प्रस्तुतिः

[२२०]

अथ प्रेतपिण्डाः ।

ते चामान्नेनैवेति हलायुधः । चरुणेत्य् अन्ये । यद्य् अपि हेमाद्रौ पारस्करेण “शूद्रे त्रिंशत् प्रकीर्तिता” इत्य् उक्तम् । तथापि,

प्रेतेभ्यः सर्ववर्णेभ्यः पिण्डान् दद्याद् दशैव च ।

इति तेनैवोक्तेर् दशैव । अन्ये तु “यावद् आशौचं प्रेतस्योदकं पिण्डं च दद्युः” इति विष्णूक्तेस् त्रिंशद्विंशतिपञ्चदशरात्रपक्षेषु तत्सङ्ख्यया पिण्डा इत्य् आहुः । हेमाद्रौ ब्राह्मे तु विप्रान् येषु दशपिण्डपक्षेन्त्यपिण्डोत्कर्ष उक्तः ।

देयस् तु दशमः पिण्डो राज्ञां वै द्वादशे ऽहनि ।
वैश्यानां वै पञ्चदशे मासे शूद्रेषु दीयते1

सद्यःशौचे । त्र्यहादौ तु तत्रैव हि ।

सद्यःशौचे प्रदातव्याः सर्वे ऽपि युगपत् तथा ।
त्र्यहाशौचे प्रदातव्याः प्रथमे ह्य् एक एव हि ॥
द्वितीये ऽहनि चत्वारस् तृतीये पञ्च चैव हि ॥

शातातपः

आशौचस्य च ह्रासे ऽपि पिण्डान् दद्याद् दशैव तु ।
आशौचोत्तरं दाहे पर्णशरे चाशौचह्रासः ॥

अत्र देशकर्तृद्रव्यैक्यं ज्ञेयम्,

प्रथमे ऽहनि यद् द्रव्यं तद् एव स्याद् दशाहिकम् ।
यत्राद्ये दीयते पिण्डस् तत्र सर्वं समापयेत् ।

इति क्रियानिबन्धे व्यासोक्तेः । ब्राह्मे

प्रथमे ऽहनि यो दद्यात् प्रेतायान्नं समाहितः ।
अन्नं नवसु चान्येषु स एव प्रददात्य् अपि ॥

दाहकर्तैव दशाहं कुर्याद् इति मिताक्षरायाम्शुद्धितत्त्वे वायवीये ऽपि ।

असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
यश् चाग्निदाता प्रेतस्य पिण्डं दद्यात् स एव हि ॥

कर्तृमृतौ तु तत्रैव बृहस्पतिः

एवं क्रियाप्रवृत्तानां यदि कश्चिद् विपद्यते ।
तद्बन्धुना क्रिया कार्या सर्वैर् वा सहकारिभिः ॥

अन्येन शेषः कार्य इति गौडाः । आदितः सर्वम् इत्य् अन्ये । आदित्यपुराणे

उपतिष्ठताम् अयं पिण्डः प्रेतायेति समुच्चरेत् । इति ।

मराठी

आतां प्रेतपिण्ड साङ्गतो.

ते-“आमानानेच करावे,’ असें भट्टहलायुध ह्मणतो. “चरूने करावे,” असें अन्य मणतात. जरी हेमाद्रीम्त पारस्करानें “शूद्राने ३० पिण्ड द्यावे,” असे साङ्गितले आहे. तरी “सर्व वर्णातील प्रेताम्स १० पिण्ड द्यावे,” असे अन्यत्र त्यानेच साङ्गितले आहे ह्मणूनच १० द्यावे. अन्य कित्येक-“जोपर्यम्त आशौच असेल तोपर्यम्त प्रेतास पिण्ड व उदक द्यावे, असे विष्णुवचन आहे ह्मणून, ३० । २० । १५ रात्र आशौच पक्षाम्त आशौचरात्रिसङ्ख्याक पिण्ड द्यावे,’ असे ह्मणतात. हेमाद्रीम्त ब्रह्मपुराणाम्त “विप्रांहून अन्य वर्णान्नी दशपिण्डपक्ष घेतल्यास, शेवटील पिण्डाचा उत्कर्ष ( त्या दि. नी न देतां कालान्तरी देणे ) करावा,” असे साङ्गितले आहे. तो असा की क्षत्रियान्नी १२, वैश्यान्नी १५, शूद्रान्नी ३० सावे दिवसी १० वा पिण्ड द्यावा.” तत्काल शुद्धि व त्रिरात्र आशौच असल्यास कसे पिण्ड द्यावे, ते तेथेच साङ्गितले आहे. “तत्काल शुद्ध झा ल्यास सर्वहि पिण्ड एक वेळ, व त्रिरात्रपक्षी प्रथम दिवमी १. दुसन्या दिवमी ५, तिमन्या दिवसी ५, असे १० द्यावे.’’ शातातप ह्मणतो"आशौचक्षय झाल्यास १० पिण्ड द्यावे.” आशौचानन्तर पर्णशरदाह केल्यास आशौचाचा ह्रास होतो. येथे “देश, कती व द्रव्य यान्नं ऐक्य असावे, ह्मणने प्रथमपासून १२ दिवसपर्यम्त एकाने एकम्थानी, एकद्रव्याने सर्व कर्म करावें,” असं क्रियानिबन्धाम्त व्यासान्नं मटले आहे. ब्राह्मपुराणाम्त “नो पहिल्या दि. वमी प्रेतास अन्न देईल, त्यानेच पुढील ९ दिवस द्यावे.’ असं साङ्गितले आहे. “दाह कर. णारानेच दशाहाम्त कर्म करावं,” असे मिताक्षरेत साङ्गितलं आहे. याविषयी शुद्धितत्वाम्त वायुपुराणान्तही “सगोत्र अथवा असगोत्र, स्त्री किंवा पुरुष जो कोणी प्रताम अग्नि देईल त्यानेच पिण्डदान करावं.” असे साङ्गितले आहे. कदाचित् तो अग्निदाता मला तर. शुद्धि तत्त्वाम्त बृहस्पति ह्मणतो “असी प्रक्रिया करीत अमनां जर तो मरण पावेल, तर त्याच्या बन्धूने व मर्व साह्य करणारान्नी राहिलेली क्रिया करावी.” “दुमन्याने क्रिया क रावी ती, कल्न पहिल्यान केल्याच्या पुढली करावी,’ अभ गाण्ड ह्मणतात. “प्रशमपा सून सर्व करावी,’ असे कित्येक ह्मणतात. आदिपुराणान्त-“उपनिष्टतामयं पिण्डः प्रताय अमं ह्मणून पिण्ड द्यावा,’ असं साङ्गितले आहे.

मूलम्

[२२१]

अथ प्रयोगः

ऐशान्यां वेदिं कृत्वा तैजसे मृन्मये वा चरुं श्रपयित्वा सक्तुना वा तिलमधुघृतयुतं कपित्थमात्रं पिण्डं कृत्वा तिथ्याद्य्उक्त्वा (?) काश्यपगोत्रस्यामुकप्रेतस्य मूर्धाक्षिदन्तावयवसम्भूत्यै प्रथमाहिकदेहपूरकपिण्डदानं च करिष्ये । द्वितीयाहादौ द्वितीयाहादिकेत्यादि । ततः पाषाणाग्रे विष्णुं सम्पूज्य दर्भासनम् अवनेजनं कृत्वामुकप्रेतेत्यादि मूर्धावयवसम्भूत्यै देहपूरकः प्रथमाहिक एष ते पिण्ड उपतिष्ठताम् । प्रत्यवनेजनं भृङ्गराजतुलसीदलानि । पिण्डं जले क्षिपेत् । अञ्जलिदानं तूक्तम् एव । एवं दशाहम् । तत्र सङ्कल्पे विशेषः । चक्षुःश्रोत्रनासामुखावयवनिष्पत्त्यर्थम् इति द्वितीये । गलांसभुजवक्षोनिष्पत्त्यर्थम् इति तृतीये विषमश्राद्धं च । नाभिलिङ्गगुदनिष्पत्त्यर्थम् इति चतुर्थे । जानुजङ्घापादावयवसिद्ध्यर्थम् इति पञ्चमे विषमश्राद्धं च । सर्वमर्मावयवनिष्पत्त्यर्थम् इति षष्ठे । मज्जामेदोमांसस्नायुनाडी-रूपावयवसम्भूत्यै इति सप्तमे विषमश्राद्धं च । दन्तलोमनखावयवसिद्ध्यर्थम् इत्य् अष्टमे । वीर्यावयवसिद्ध्यर्थम् इति नवमे विषमश्राद्धं च । देहपूर्णत्वतृप्तताक्षुद्विपर्ययसिद्ध्यर्थम् इति दशमे । प्रत्यहम् अञ्जलिसङ्ख्ययोदकुम्भाश् च देयाः । अत्यशक्तौ तु पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् इति ज्ञेयम् । अपरार्के व्यासः

आशौचान्त्यदिने क्षौरं जनन्यां च गुरौ मृते ।

[२२२] आपस्तम्बः : “अनुभाविनां च परिवापनम्” । अनुभाविनः कनिष्ठा इति मिताक्षरा-रत्नाकरादयः । आशौचम् अनुभवतां सर्वेषां वपनम् इति शुद्धितत्वादयो गौडाः । तद् उक्तं रत्नमालायाम्

आज्ञया नरपतेर् द्विजन्मनां दारकर्ममृतसूतकेषु च ।
बन्धमोक्षमखदीक्षणेष्व् अपि क्षौरम् इष्टम् अखिलेषु चोडुषु ॥

अपरार्के व्यासः

पुत्रः पत्नी च वपनं कुर्याद् अन्ते यथाविधि ।
पिण्डदानोचितो ऽन्यो ऽपि कुर्याद् इत्थं समाहितः ॥

पुत्राणाम् आद्यन्तयोः समुच्चयश् च ज्ञेयः । दशदिने त्व् अवयवपिण्डं दत्वा त्रिकोणां वेदीं कृत्वा प्रेतसखिभ्यः प्रेताय यमाच च पिण्डत्रयं दत्वा अपूपध्वजछत्रोदकुम्भान् निवेद्य काकबलिं दत्वा अश्मानं तैलेनाभ्यज्य जले क्षिप्त्वा प्रेतस्पृष्टवाससी त्यक्त्वा पुत्रः पत्नी सर्वे प्रेताल्पवयसश् च वपनं कुर्युः । ततः स्नात्वा सर्वैः त्रिर् धर्मोदकाञ्जलिं[[लिः??]] दत्वा सर्षपकल्केन तिलामलकैर् वा स्नात्वा गृहं व्रजेयुः । दशाहमध्ये दर्शे तु माधवीये ऋष्यशृङ्गः

आशौचम् अन्तरा दर्शो यदि स्यात् सर्ववर्णिनाम् ।
समाप्तिं प्रेततन्त्रस्य कुर्याद् इत्य् आह गौतमः ॥

श्लोकगौतमः ।

अन्तर्दशाहे दर्शश् चेत् तत्र सर्वं समापयेत् ।
पित्रोस् तु यावद् आशौचं दद्यात् पिण्डान् जलाञ्जलीन् ॥

इदम् अपि त्र्यहमध्ये दर्शे । तदूर्ध्वं दर्शे तु पित्रोर् अपि तन्त्रं समाप्यम् एव,

पित्रोर् आशौचमध्ये तु यदि दर्शः समापयेत् ।
तावद् एवोत्तरं तन्त्रम्पर्यवस्येत् त्र्यहात् परम् ॥

इति गालवोक्तेः । अन्येषां तु त्र्यहमध्ये ऽपि समाप्यम् । कालामृते निर्णयामृते चैवम् । मदनरत्नपारिजातयोस् तु गालवीयम् आपदनौरसपुत्रादिपरम् । पित्रोस् त्र्यहोर्ध्वम् अपि नापकर्ष इत्य् उक्तम् । तत्र मूलं चिन्त्यम् ।

इति श्रीकमलाकरभट्टकृते शूद्रधर्मे शूद्राशौचं तत्कृत्यं च ।

मराठी

यानन्तर प्रयोग साङ्गतो.

ईशान्येस वेदि करून, तैजस व मृत्पात्राम्त चरु श्रपण करून, सक्तु, तीळ, मध, व तूप यान्नी युक्त अन्नाचा कवठाएवढा पिण्ड करून, देशकाल स्मरून-काश्यपगोत्रस्यामुकतस्य मूर्धाक्षिदन्तावयवसम्भूत्यै प्रथमाहिकदेहपूरकपिण्डदानं च करिष्ये असा १ ल्या दिवसीं सङ्कल्प करवा. पुढील दिवसीं-द्वितीयाहादिक तृतीयाहादिक इत्यादि उह करून सङ्कल्प करावा. नन्तर पाषाणावर विष्णुपूजन करून, दर्भासन व अवने जन करून, काश्य० स्यामुकमेतस्य मूर्धाव० देहपूरकः प्रथमाहिक एष ते पिण्ड उपतिष्ठतां ह्मणून पिण्ड व-प्रत्यवनेजनं ह्मणून उदक देऊन, भङ्गिराज व तुलसी पत्रे देऊन, पिण्ड उदकाम्त टाकावा. उदकदान पूर्वी साङ्गितले आहे. ही दोन्ही १० दिवसपर्यम्त असीम्च करावी. प्रत्येक दिवसास केवल सङ्कल्प मात्र विशेष आहे. तो चक्षुःश्रोत्रनासामुखावयवनिष्पत्त्यर्थम्० २ या दिवसीम्; गलांसमुजवक्षोनिष्पत्त्यर्थ ३, येथे विषम श्राद्धहि करावेम्; नाभिलिङ्गगुदनिष्पत्त्यर्थ ४; जानुजङ्घापादाक्यवसि द्ध्यर्थ ५, येथे विषम श्राद्ध करावेम्; सर्वमर्मावयवनिष्पत्त्यर्थं ६ मजामेदोमांसस्त्रायुना डीरूपावयवसम्भूत्यै ७, येथे विषमश्राद्ध करावेम्; दन्तलोमनखावयवसिद्ध्यर्थ ८ वीर्यावयवसिद्ध्यर्थ ९, येथे विषमश्राद्ध करावेम्; देहपूर्णखतृप्तताक्षुद्विपर्ययसिद्ध्यर्थ १० व्या दिवशी. असे सङ्कल्प करावे. प्रतिदिनी जितके उदकाञ्जलि तितकेच कुम्भ द्यावे. अति अशक्त असल्यास पिण्डयज्ञाची आहुति करून, प्रेतास त्रिदिन अन्न द्यावे. अपराकाम्त व्यास ह्मणतो-“मातापितर मेले असतां आशौचान्ती पुत्रानें क्षौर करावे.” आपस्तम्ब ह्मणतो-“मृताच्या आशौचाम्त त्या दिवसी अनुभावीन्नी क्षौर करावे.” “अनुभावी ह्मणजे मृताहून कनिष्ठ,” असें मिताक्षरा व रत्नाकरादि ह्मणतात. “आशौच धरणाऱ्या सर्वान्नी क्षौर करावें2” असें शुद्धितत्त्वादि गौड ह्मणतात. तेच रत्नमालेत साङ्गितले आहे. जसें " राजा व ब्राह्मण याञ्च्या आज्ञा झाल्या असताम्, दारकर्म, मृताशौच, कारागृहमोक्ष व यज्ञदीक्षा या वेळी सर्व नक्षत्रांवर क्षौर करावेम्; अर्थात् नक्षत्रादि विचार करण्याचे प्रयोजन नाही.” अपराकाम्त व्यास ह्मणतो-“पुत्र व पत्नी यान्नी आशौचान्त्यदिनी यथाविधि क्षौर करावेम्, व पिण्डदान करण्यास योग्य अशा इतरान्नीही करावें.’ याम्त पुत्राम्स आशौचाच्या आयन्ती क्षौर विहित आहे, असें जाणावेम्.

१० व्या दिनी अवयवपिण्ड देऊन, त्रिकोण वेदीवर प्रेतसखे, प्रेत व यम, या तिघाम्स एक एक पिण्ड देऊन, अपूप, ध्वज, छत्र व उदकुम्भ हे निवेदन करून; काकबलि देऊन, पूर्वोक्त पाषाणास तेल लावून, तो उदकाम्त टाकून,-प्रेतस्पर्श झालेली वस्त्रे टाकून पुत्र, पत्नी व प्रेतापेक्षा सर्व लहान वयाच्यान्नी वपन करावे. यानन्तर स्नान करून, सर्वान्नी यमधर्मास ३ वेळ उदकाञ्जलि देऊन, वाटलेल्या मोहन्या, तीळ व आंवळे अङ्गास लावून, पुनः स्नान करून, घरीं जावं.-कदाचित् १० दिवसाम्त दर्श आल्यास, त्याविषयी माधवीयाम्त ऋप्यशङ्गाने मटले आहे की,-“आशौ चाम्त दर्श ( अमावास्या ) आल्यास सर्व वर्णान्नी प्रेतकाञ्ची त्या दिनी समाप्ति करावी, असे गौतमाने झटले आहे.” श्लोकगौतम ह्मणतो-“दशाहाम्त दर्श आल्यास इतर सर्वाञ्चें प्रेतकर्म त्या दिनी सम्पूर्ण करावेम्; परन्तु, मातापितराम्स आशौच सरेपर्यम्त पिण्ड व उदकाञ्जलि द्यावे,” हेही पहिल्या ३ दिवसाम्त दर्श आल्यास करावे. त्यानन्तर आल्यास मातापितराञ्चेंहि कर्म त्या दिनीम्च समाप्त करावेम्; कारण,-“मातापितराञ्च्या आशौचाम्त ३ दिवसाम्पुढे जर दर्श येईल तर, पुढील कर्माचा अपकर्ष करून, दर्शदिवसीं सर्व समाप्त करावे, अशी गालवो क्ति आहे. इतराञ्चे, ३ दिवसाम्त दर्श आल्यास त्याच दिनीं समाप्त करावम्. कालामृत व निर्णयामृतान्तहि असम्च आहे. मदनरत्न व पारिजाताम्त तर-पूर्वोक्त गालववचन अपत्कालपर व औरसभिन्न पुत्रविपयक आहे. मातापितराञ्चे कर्म असल्यास ३ दिवसाम्पुढें हि दर्श आल्यास कर्माचा अपकर्ष होत नाही,’ असे साङ्गितले आहे. पण त्याचे मूल पा हावेम्.

इति शूद्रधर्मतत्त्ववप्रकाशे शूद्रस्य आशौचं तत्कृत्यं समाप्तम् ॥

अन्येन शेषः कार्य इति गौडाः । आदितः सर्वम् इत्य् अन्येआदित्यपुराणे

  1. प्- शुद्रे प्रदीयते ↩︎ ↩︎

  2. गुर्जर लोकाम्त अशी चाल अद्यापि आहे. ↩︎ ↩︎