३६ संचयनम्

विश्वास-प्रस्तुतिः

[२१७]

अथ सञ्चयनम् ।

तच् च प्रथमद्वितीयतृतीयचतुर्थसप्तमनवमेषु शूद्राणाम् । विशेषतो दशमे ऽह्नि । तदुत्तरं भौमार्कमन्दतिथियुग्मैकपादद्विपादत्रिपादकर्तृनक्षत्रवर्जदिने कार्यम् । कर्ता देशकालौ स्मृत्वा स्वपितुः काश्यपगोत्रस्यामुकदासप्रेतस्य प्रेतत्वनिवृत्त्या उत्तमलोकप्राप्त्यर्थम् अस्थिसञ्चयनश्राद्धं करिष्ये इत्य् उक्त्वा, कुशबटुं निधाय,

इह लोकं परित्यज्य गतो ऽसि परमां गतिम् ।
मनसा वायुरूपेण विप्रे त्वाहं नियोजये ॥

अमुकप्रेतेदं त आसनम् उपतिष्ठताम् । एवम् अर्घः ।

गन्धः पुष्पं धूपदीप आच्छादनम् उपतिष्ठताम् ।

एवं क्रव्याददेवताभ्यः प्रेताय तत्सखिभ्यश् च त्रीण्य् आमान्नानि दत्वा घृतक्षीरोदकैश् चितिं प्रोक्ष्य पलाशशाखया चितेर् भस्मापोह्याङ्गुष्ठकनिष्ठाभ्यां शिरस उरसः पाण्योः पार्श्वयोः पादयोर् अस्थीन्य् आदाय [२१८] पञ्चगव्येन गङ्गोदकेन प्रक्षाल्य गन्धाद्यर्चितानि क्षौमेणावेष्ट्य नवकुम्भे निधाय शरावेण पिधाय वने वृक्षमूले वा भूमौ निखाय भस्म नद्यां क्षिप्त्वा चितिदेशे वेदिं कृत्वा तत्रावकाशमीपत्रछत्रपताकायुतं कुम्भत्रयं संस्थाप्य क्रव्याददेवताभ्यः प्रेताय तत्सखिभ्यश् च निवेद्य कुम्भेषु पिण्डान् दद्यात् । मन्त्रस् तु ।

नमः क्रव्यादमुख्येभ्यो देवेभ्य इह सर्वदा ।
श्मशानवासिनो देवाः शवानां परिकीर्तिताः ॥
तेभ्यो ऽन्नम् उदकं कुम्भम् अक्षय्यम् उपतिष्ठतु ।
ये ऽत्र श्मशाने देवाः स्युर् भगवन्तः सनातनाः ॥
ते ऽस्मत्सकाशाद् गृह्णन्तु बलिम् अष्टाङ्गम् अक्षयम् ।
प्रेतस्यास्य शुभान् लोकान् प्रयच्छन्तु च शाश्वतान् ॥
अस्माकम् आयुर् आरोग्यं सुखं च ददताच् चिरम् ।

इति प्रथमं श्मशानवासिभ्यो मध्यमं प्रेताय तद्दक्षिणे तत्सखिभ्यश् च दत्वा स्नायात् । शिष्टान्य् अस्थीनि गङ्गायां क्षिपेत् । तद्विधिस् तु । हेमश्राद्धं तर्पणं च कृत्वास्थीनि पञ्चगव्येन प्रक्षाल्य हेममुक्तारूप्यप्रवालकान्य् अस्थिमध्ये क्षिप्त्वा तीर्थं गत्वा स्नात्वा पञ्चगव्येन प्रोक्ष्य हिरण्यमध्वाज्यतिलैः सम्पूज्य1 मृत्पिण्डे निधाय दक्षिणामुखो नमो ऽस्तु धर्मायेति जलं प्रविश्य स मे प्रीतो ऽस्तु इति क्षिप्त्वा विप्रेभ्यो दक्षिणां दत्वा पुनः श्राद्धं तर्पणं च कुर्यात् । अत्र दशदानगोदानादि कुर्वन्ति । इदम् अधिमासशुक्रास्तादौ न कार्यम् । दशाहमध्ये तु न दोषः ।

मूलम्

मराठी

यानन्तर अस्थिसञ्चयन साङ्गतो.

ते १ । २ । ३ । ४ । ७ अथवा ९ व्या दिवसी व शूद्रास विशेषतः १० वे दिवसी विहित आहे. तदनन्तर-मङ्गळ, रवि, शनि हे वार; तिथियुग्म; एकपाद, द्विपाद, त्रिपाद, व कयाचें जन्मनक्षत्र या दिवसीं करूं नये. कत्याने देशकालादि स्मरून,

अस्मत्पितुः काश्यपगोत्रस्यामुकदासप्रेतस्य प्रेतत्वनिवृत्या उत्तमलोकप्राप्त्यर्थम् अस्थिसञ्चयनश्राद्धं करिष्ये ।

असें ह्मणून पात्रांवर दर्भवटु ठेवून,-

इहलोकं परित्यज्य गतोऽसि परमां गतिम् ॥
मनसा वायुरूपेण विप्रे त्वाहं नियोजये ॥ १ ॥

अमुक तेदं त आसनमुपतिष्ठताम् ह्मणून आसन, व असेम्च अर्घ्य, गन्ध, पुष्प, धूप, दीप, आणि आच्छादनादि देऊन, असेन क्रव्याद देवता, प्रेत व त्याचे मित्र याम्स एकेक आमान्न देऊ न, तूप, दूध व उदकान्नी चितेवर प्रोक्षुन, पळसाच्या ढापीने वस्त्र दूर करून आङ्गठा, व करङ्गळी, या २ बोटान्नी मस्तक, उर, २ हात, २ पाश्चे, २ पाय याञ्ची अस्थि घेऊन, ती पञ्चगव्याने व गन्धोदकाने धुवून, गन्धाधुपचारान्नी पूजून रेशमी वस्त्राम्त गुण्डाळून नव्या कुम्भाम्त ठेवून, शरावाने (मालटी) झाङ्कून, वृक्षमूली किंवा अन्यत्र भूमीत पुरावी, चिताभम्म नदीत टाकून, तेथें वेदि करून, शमीपत्र, छत्री व पताका यान्नी युक्त ३ कुम्भ ठेवून, क्रव्याद देवता, प्रेत व त्याचे सखे याम्स एकेक कुम्भ देऊन, त्यांवर पुढील मत्रान्नी पिण्ड द्यावे. ते मन्त्र-

नमः क्रव्यादमुख्येभ्यो देवेभ्य इह सर्वदा ॥
स्मशानवासिनो देवाः शवानां परिकीर्तिताः ॥ १ ॥
तेभ्योन्नमुदकं कुम्भमक्षय्यमुपतिष्ठतु ॥
येत्र स्मशाने देवाः स्युर्भगवन्तः सनातनाः ॥ २ ॥
तेऽस्मत्सकाशाद्गृह्णन्तु बलिमष्टाङ्गमक्षयम् ॥
प्रेतस्यास्य शुभान्लोकान्प्रयच्छन्तु च शाश्वतान् ॥ ३ ॥
अस्माकमायुरारोग्यं सुखं च ददताच्चिरम् ॥

यान्नी म्मशानस्थ देवताम्स पहिला व प्रेतास २ रा, त्याच्या दक्षिणेम प्रेतस ख्याम्स ३ रा देऊन, स्नान करावे. पुरलेली अम्थि गङ्गेत टाकावी. त्याचा विधि पुढे लि हितो. तो असा की-आधी हेमश्राद्ध व तर्पण करून, ती पञ्चगव्याने धुवून, त्याम्त सोने, मोती, रुपे व पोवळे ही घालून, मोठ्या नियमाने तीर्थावर जाउन, ती पञ्चगव्याने प्रोक्षुन, सोने, मध, तूप व तीळ यान्नी संयुक्त करून, मातीच्या गोळ्याम्त घालून हाताम्त घेऊन दक्षिणाभिमुख-“नमोऽस्तु धर्माय” ह्मणून उदकाम्त प्रवेश करून,-“स मे प्री तोस्तु” ह्मणून तो गोळा तीत टाकावा. मग विप्राम्स दक्षिणा देउन तर्पण व श्राद्ध करावेम्. येथे दशदानादि व गोदानादि करितात. हे अधिकमास व गुरुशुक्रास्तादिकाम्त करूं नये. पहिल्या १० दिवसाम्त त्याञ्चा दोष नाही.

  1. प्- संयोज्य ↩︎ ↩︎