विश्वास-प्रस्तुतिः
अथ दुर्मरणे प्रायश्चित्तम् ।
तत्र ।
चाण्डालादिहते ऽन्तरिक्षमृते कृच्छ्रातिकृच्छ्रचान्द्रायणानि वा ।
रजस्वलासूतिकान्त्यजस्पर्शे म्लेच्छहते च कृच्छ्राब्दम् ॥
ऊर्ध्वोच्छिष्टाधरोच्छिष्टोभयोच्छिष्टचण्डालक्रव्यादस्पर्शे खट्वामरणे शवे कृमिकीटोद्भवे त्रीन् । षट् पञ्चदश वा कृच्छ्रान् चान्द्रायणत्रयं वा कृत्वा दहेत् । अन्त्यजस्पर्शे कृच्छ्राब्दं वा । प्रपाते विषे वा नव कृच्छ्रान् । शृङ्गि [२१२] विप्रशस्त्रचौराद्यैर् आत्मघाते ऽब्दम् । शवे पर्युषिते कृच्छ्रत्रयम् । आशौचमरणे ऽप्य् एवम् । मूलं तु मत्कृते निर्णयसिन्धौ ज्ञेयम् । ततः पुण्यस्तोत्रं रामकृष्णादिनामजपं कुर्यात् कारयेद् वा । ततः प्राणोत्क्रमणे जाते पुत्रो वपनं कृत्वा स्नात्वा नववस्त्रैकदेशं परिधाय तदेकदेशम् उत्तरीयं कृत्वा प्रेतस्य वपनं कृत्वा स्नापयित्वा वाससाच्छाद्य पुष्पमालाद्यैर् अलङ्कुर्यात् । मदनरत्ने गालवः ।
प्रथमे ऽहनि कर्तव्यं वपनं चानुभाविनाम् ।
प्रेतस्य केशश्मश्र्वादि वापयित्वाथ दाहयेत् ॥
मनुः ।
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
अत्र क्रियानिबन्धे गारुडे षट् पिण्डा उक्ताः ।
मृतस्योत्क्रान्तिसमये षट् पिण्डान् क्रमशो दहेत् ।
मृतिस्थाने तथा द्वारि चत्वरे तार्क्ष्यकारणात् ॥
विश्रामे काष्टचयने तथा सञ्चयने च षट् ।
तथा ।
आदौ देवास् तु षट् पिण्डा दश पिण्डा दशाह्निकाः ।
स्थाने चार्धपथे ऽतीते चितायां शवहस्तके ॥
श्मशानवासिभूतेभ्यः षष्ठं सञ्चयने तथा ।
छन्दोगपरिशिष्टे ।
दुर्बलं स्नापयित्वा तु शुद्धचैलाभिसंवृतम् ।
दक्षिणाशिरसं भूमौ बर्हिष्मत्यां निधापयेत् ॥
घृतेनाभ्यक्तम् आप्लाव्य शुद्धवस्त्रोपवीतिना ।
चन्दनोक्षितसर्वाङ्गं सुमनोभिर् विभूषयेत् ॥
हिरण्यशकलान्य् अस्य क्षिप्त्वा छिद्रेषु सप्तसु ।
मुखेष्व् अथापिधायैनं निर्हरेयुः सुतादयः ॥
सप्तच्छिद्राणि तत्रैव ।
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ।
इति । अन्यत्रोक्तम् ।
आमपात्रे ऽन्नम् आदाय प्रेतम् अग्निपुरःसरम् ।
एको ऽनुगच्छेत् तस्यार्धम् अर्धपथ्य् उत्सृजेद् भुवि ॥
ऊर्ध्वम् आदहनं कार्यम् आसीनो दक्षिणामुखः ॥
सव्यं जान्व् आच्य शनकैः सतिलं पिण्डदानवत् ।
अथ पुत्रादिर् आप्लुत्य कुर्याद् दारूच्चयं महत् ॥
तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे ।
एतद् अग्नेः पात्रन्यासोक्तेर् उत्तानत्वं साग्निपरम् । शूद्रः पुमान् अधोमुखः स्त्री तूत्ताना दाह्या । तद् उक्तं शुद्धितत्त्वे हारलतायां चादिपुराणे ।
स्वगोत्रजैर् गृहीत्वा तु चिताम् आरोप्यते शवः ।
अधोमुखो दक्षिणदिक्चरणस् तु पुमान् अपि ॥
उत्तानदेहा नारी तु सपिण्डैर् अपि बन्धुभिः ॥
इति । इदम् अन्यैर् ब्राह्मम् उक्तम् । इदं निरग्निजपरम् अपीति गौडाः । स्मृतिकौमुद्यां मदनपालस् तु ।
स दग्धव्य उपेतश् चेद् आहिताग्न्य् आवृतार्थवत् ।
इति । निरग्नेर् अप्य् आहिताग्निवद् दाहोक्तेस् तस्य च कात्यायनेन,
तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे ।
इत्य् उत्तानत्वोक्तेर् निरग्नेर् अपि तद् एवेत्य् आह । तत् त्व् अतिदेशेन कथम् उपदेशस्य बाध इति चिन्त्यम् । केचित् तु वाचनिकातिदेशस्योपदेशतुल्यत्वाद् उपेतश् चेद् इत्य् अस्य द्विजपरत्वाद् ब्राह्मे तु तत्पदाभावाच् छूद्रपरम् एवेति न द्विजानाम् उत्तानत्वम् एवेत्य् आहुः । अन्ये तु छन्दोगद्विजानाम् उत्तानत्वम् अन्येषाम् अधोमुखत्वम् इत्य् आहुः । आस्तां निरग्निद्विजवार्ता । अनुपनीतद्विजशूद्राणां त्व् अधोमुखत्वम् उदक्शिरस्त्वं चेत्य् अविवादम् । दाहस् तु शूद्रस्यामन्त्रकः । “निषेकादिश्मशानान्तो मन्त्रैर् यस्योदितो विधिः” इति मदनपालः । तत्त्वं तु वैदिकस्यैव निषेधः पौराणस् तु भवत्य् एव । स च प्रयोगे वक्ष्यते । अत एव वाराहे ।
चतुर्वर्णेषु संस्थानम् एवं भवति पुत्रिके ।
इत्य् उक्तम् । प्रचेताः ।
नग्नदेहं दहेन् नैव किञ्चिद् देयं परित्यजेत् ।
यमः ।
प्रेतं दहेच् छुभैर् गन्धैः स्नापितं स्रग्विभूषितम् ।
क्रियानिबन्धे गारुडे ।
उदधाराम् अविच्छिन्नां सिञ्चेत् कर्ता प्रदक्षिणम् ।
स्कन्धावसक्तकुम्भेन पादतः परितश् चितेः ॥
दम्पत्योर् एकदा [२१३] मृतौ तु बौधायनः ।
दाहान्तम् एकतन्त्रत्वं सञ्चयनं चैकम् उदकपिण्डदानादि पृथग् एव ।
अन्वारोहणे चैवम् । उदकदानं ब्राह्मे ।
आदौ तु वस्त्रं प्रक्षाल्य तेनैवाच्छादितैस् ततः ।
कर्तव्यं तैः सचैलं तु स्नानं सर्वमलापहम् ॥
ततः पाषाणपृष्ठे तु सर्वैर् देयं तिलोदकम् ।
त्रिंशच् छूद्राय देयास् तु प्रेतभूमिगताय च ॥
विशेषो निर्णयसिन्धौ ज्ञेयः ।
मूलम्

मराठी
यानन्तर दुर्मरणनिमित्तक प्रायश्चित्त साङ्गतो.
त्यान्त, चाण्डालादिकान्नी मारला व अन्तरिक्षाम्त ( माडीवर किंवा पलङ्गावर भूमिम्पर्श न होतां ) मेला तर. तच्छुच्यथे कृच्छ, अतिकृच्छ, व नान्द्रायण, यान्तून दोपतारतम्यान । प्रायश्चित्त करावम्. प्रेताम रजम्बला, बाळन्तीण. म्लेच्छ याञ्चा म्पर्श झाल्याम । मलेच्छान्नी मारल्याम, कृच्छाव्द प्रायश्चित्त करावे. ऊर्ध्वोच्छिष्ट1, अधरोच्छिष्ट2 व उभयोच्छिष्ट3 डाल, व हिमक पशु, याञ्चा म्पर्श झाल्याम, व बानन्यावर मेल्याम, प्रेताम किने मुङ्ग्या इत्यादि झाल्यास. ३।६।१५ कृच्छर. किंवा ३ चान्द्रायणं करून प्रेतदाह करावा.
केवळ अन्त्यजम्पर्शच झाला असेल तर, कृपर किंवा १ अब्द, ग्वाली पहन व विषाने मेल्याम ९ कृच्छ, शङ्गी पशु, ब्राह्मण, शम्त्र व नोरादिकान्नी माग्ल्याम आणि आत्मघात केल्यास १ अब्द प्रायश्चित्त करावम्. प्रेत १ । २ किंवा अधिक दिवस राहिल्याम, व आशौचाम्त मेल्यास ३ कृचर प्रायश्चित्त करून दाह करावा. याची मृलवचन मत्कृत निर्णयमित पहावी. नन्तर पुण्य कारक म्नोत्र व गमकृष्णादि नाम आपण जपावी. किंवा दुमच्याकडून जप करबन, आपण एकावी. नन्तर प्राणी क्रमण झाल्यावर. पुत्रादि अन्त्यकमाधिका-यान, सार करून. मान केल्यावर, नव्या वस्त्राचं अधे नेमून, त्याच्या भागाचं उत्तरीय करून, प्रेतान वपन कमन त्याम मान वालन, वस्त्रानं गुण्डाळून, पुप्पमालादि चालून, अलङ्कार कगा. मदनगन्नाम्त गालय ह्मणतो की,-“पहिल्या दिवशी पुत्रादिकान्नी वपन करून, प्रताचे कंशादि वपन कर. खून त्याचा दाह करावा.” प्रेत म्मशानाम्त काणच्या मागान न्यावं त्याविषयी मन मणतो “शूद्राचं प्रेत नगगच्या दक्षिण द्वागनं म्मशानाम्त न्यावं.” य क्रियानिबन्धाम्त गरुट पुराणोक्त ६ पिण्ड साङ्गितले आहेत. ते अमे की, “मृताच्या उत्क्रान्तिकाठी अनुक्रमान ६ पिण्ड दग्ध करावे. त्याञ्चा क्रम, मलल्या म्थानी १, द्वारी १. अङ्गणाम्त १. हा गरुडास उद्देशून द्यावा; म्मशानाम्त प्रेत ठेवण्याच्या जागी १, का रचल्यावर ?, व प्रेत टेविल्या वर त्याच्या हाताम्त १ मिळून ६ पिण्ड द्यावे.” तसेम्च प्रथम पूर्वोक्त ६ पिण्ड देऊन. आशौचाम्त प्रतिदिवशी एक एक असे १० द्यावे. त्याञ्चा प्रकार-“प्रेतस्थानी, अर्धमार्गावर, चितेवर, प्रेतहनी, म्मशानवासी भूतांस, व सञ्चयनप्रसङ्गी, असे ६ द्यावे. हा प्रकार पूर्वोक्ताहून भिन्न आहे.” छन्दोगपरिशिष्टान्त- “प्रेतास स्मशानाम्त स्नान घालून, शुद्ध वस्त्रे वेष्ट्रन, दक्षिणेस मस्तक करून, तें चितेवर ठेवावे. त्याच्या अङ्गास तूप लावून, स्नान घालून, शुद्ध वस्त्रे व उपवीत घालून, सर्वाङ्गीं चन्दन लावून, पुप्पान्नी भूपित करावम्. व सोन्याचे तुकडे सर्व द्वारान्तून ह्मणजे शिश्न व गुद वजे करून इतर सप्त द्वागम्त घालावे. त्याचे मुख वस्त्राने आङ्कून, पुत्रादिकान्नी म्मशानाम्त न्यावें.” सुवर्ण घालण्याची सप्त द्वारे त्यान्तच साङ्गितली आहेत ती-“२ कर्ण, २ नासिका, २ नेत्र व मुख मिळून ५,’ असे साङ्गितले आहे. “पात्राम्त आमान्न घेऊन, पुढे अग्नि करून, प्रेत म्मशानाम्त न्यावे. त्याच्या मागून आमान्न घेणाराने जाऊन अर्धमार्गी ते भूमीवर टाकावम्. कल्ने दक्षिणेस मुख करून दाहादि करावे. डाव्या गुडम्यान्तून हात घेऊन, सतिल पिण्ड द्यावा.” “नन्तर पुत्रादिकान्नी स्नान करून, चिता रचून तीवर उताणं मस्तक दक्षिणेस करून प्रेत निजवून, जाळावे.’ येथे उताणे निजवावे, असे साङ्गण्याचा हेतु इतकाच की,-“अग्निहोत्री मृत झाल्यास त्याच्या प्रेतावर २ अरणी ठेवाव्या,” असे साङ्गितले आहे. ह्मणून प्रेत उताणें निजवावेम्. परन्तु ते साग्निकाविषयी आहे. शूद्रास त्याचा अधिकार नाही ह्मणून, शूद्रपुरुपाम खाली मुख करून, व सर्व वात ल्या स्त्रियाम्स उताण्या दहन कराव्या. तेम्च शुद्धितत्त्व व हारलतत आदिपुराणाम्त साङ्गितले आहे. जसे-‘मृताच्या गोत्रजान्नी त्याचे प्रेत म्मशानाम्त नेऊन, दक्षिणेस उम करून अधोमुख चितेवर निनवावे. स्त्रीस उताणी ठेवावी. " येथे पुरुपास उत्तान नि जवावा असे आहे ते शूद्रविषयक होय. “हेच ब्राह्मणपर, " अमें अन्य ग्रन्थकारां चे मत आहे. तसेच हे “निरग्निद्विजपर,” असं गौड ह्मणतात. स्मृतिकौमुदीत मद नपाल तर,- “जरी आहिताग्नि नसेल तरी आहिताग्नीचेपरी यथाविधि त्याचा दाह क रावा असे निरग्निकाचाहि आहिताग्निवत् दाह साङ्गितला आहे. व कात्यायनानं चितेवर प्रेत उताणे दक्षिणेस मस्तक ठेवून, दहन करावम्, असं साङ्गितले आहे ह्मणून, निरग्निका सही हाच विधि आवश्यक आहे, असें ह्मणतो. ते त्याचे मत अतिदेशाने उपदेशाचा बाध कसा होतो? याविषयी विचार्य आहे. कित्येक तर- “वाचनिक अतिदेश उपदेश तुल्य आहे, व ‘उपेतश्चेत्,’ याचें द्विजपरत्व आहे. व ब्राह्मवचनाम्त तें पद नाही ह्मणून, हैं वचन शूद्रपरच आहे. केवळ ब्राह्मणांसच उत्तानत्व नाही,’ असें ह्मणतात. अन्य कित्येक तर-“छन्दोग-ब्राह्मणाम्स उत्तानत्व व इतराम्स अधोमुखत्व साङ्गितले आहे,” असें मणतात. आतां निरनिद्विनाची वार्ता असो. अनुपनीत द्विज व शूद्राम्स तर अधोमुखत्व व उत्तरेस शिर करून ठेवणे ही निर्विवाद आहेत. शूद्राचा दाह तर अमन्त्रक करावा कारण, “गर्भाधानादि विधि स्मशानाम्त मन्त्रान्नी करावा असें ज्याविषयी विधिव चन आहे त्याञ्चा समन्त्रक दाह होतो, इतराञ्चा होत नाही,” असें मदनपाल ह्मणतो. यान्तील तत्त्व तर असे की, पूर्वोक्त वचनाने वैदिकमन्त्राचाच निषेध होतो, पुराणो. क्ताचा होत नाही ह्मणून, शूद्राञ्चा पौराणमन्त्रान्नी दाहादि विधि करावा. तो दाहादिकाञ्चा प्रकार पुढे प्रयोगाम्त साङ्गेन. पौराणविधि होतो अतएव वराहपुराणान्त-” नारहि वर्णाम्त पूर्वोक्त रीतीने ( ब्राह्मणादि त्रिवर्णास वैदिक व शूद्राम्स पुराणोक्त मन्त्रान्नी) औवदेहिक विधि करतां येतो, " असे साङ्गितले आहे. प्रचेता ह्मणतो-“प्रेत नग्न जाळू नये. तर काही वस्त्र त्यावर असावेम्, व कांहीं स्मशानस्थाम्स द्यावे. " यम ह्मणतों-” प्रेतास स्नान घालून माळा गम्ध इत्यादिकान्नी भूपित करून जाळावे. " क्रियानिबन्धाम्त गरुडपुरा णान्त-” दाहकानें खान्द्यावर उदकपूर्ण मातीचा कलश घेऊन, नितेच्या प्रदक्षिण सम्. तत उदकधारा करावी, " असे साङ्गितले आहे. स्त्री व पुरुष जर, एककालीन मर तील तर त्याञ्च्या उत्तरकर्माविषयी बौधायन ह्मणतो-: शव नेल्यापासून दोघाञ्चा दाह होईपर्यम्त सर्व विधि एकतन्त्राने करावा. तसेच अस्थिसञ्चयन एकच करावेम्. उदक व पिण्डदानादि भिन्न करावे. कोणी स्त्रीने अन्वारोहण केल्यास पूर्वोक्त रीतीनेच सर्व कर्म करावे, असें ह्मणतात. " उदकदान कसे करावे त्याविषयी ब्राह्मपुराणान्त-“प्रथम वस्त्र धुवून तेम्च नेसून, सर्व मल जातील अमें सचैल स्नान करावे. नन्तर सर्वान्नी पाषाणावर तिलोदक द्यावेम्. ते शूद्राने ३० अञ्जलि द्यावम्, " असे साङ्गितले आहे. एतत्सम्बन्धी वि शेप निर्णयसिन्धूम्त पाहावा.
विश्वास-प्रस्तुतिः
[२१५]
अथ प्रयोगः ।
पुत्रादिर् अपसव्येन देशकालौ स्मृत्वा काश्यपगोत्रस्यास्मत्पितुर् अमुकदासप्रेतस्य प्रेतत्वनिवृत्त्या उत्तमलोकप्राप्त्यर्थम् और्ध्वदैहिकं करिष्ये इत्य् उक्त्वा । मृतिस्थाने दर्भे काश्यपगोत्रामुकदास प्रेतेदं ते ऽवनेजनम् । एष ते पिण्डः प्रत्यवनेजनं च । एवम् उत्थापनपिण्डं दत्वा प्रेतवस्त्रे पिण्डं बद्ध्वा दक्षिणद्वारा नयेत् । द्वारे चतुष्पथे विश्रान्तौ चितायां चैव पिण्डा देयाः । ततः शुचिदेशे पञ्चभूसंस्कृते क्रव्यादसञ्ज्ञकाग्निं प्रज्वाल्य गन्धमाल्यैः सम्पूज्य प्रेतस्य वपनं कारयित्वा गन्धमाल्यैर् अलङ्कृत्य मुखसप्तच्छिद्रेषु हेमशकलान्य् अभावे आज्यं वा क्षिप्त्वा नववस्त्रवेष्टितं घृताक्तं कृत्वा चितौ उत्तरशीर्षम् अधोमुखं पुरुषम् उत्तानां स्त्रियं निनाय असौ संस्कार्यलोकाय स्वाहेति तूष्णीं वाज्याहुतिं दत्वा शिरःस्थाने ऽग्निं दद्यात् । मन्त्रस् तु वाराहे ।
कृत्वा तु दुष्कृतं कर्म जानता वाप्य् अजानता ।
मृत्युकालवशं प्राप्य नरं पञ्चत्वं आगतम् ॥
धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ।
दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु ॥
ज्वलमानं महावह्निं शिरःस्थाने प्रदापयेत् ।
चतुर्वर्णेषु संस्थानम् एवं भवति पुत्रिके ॥
चतुर्वर्णोक्तिर् अनुपनीतद्विजपरा । क्रियानिबन्धे गारुडे त्व् अन्यो मन्त्र उक्तः ।
त्वं भूतकृज् जगद्योने त्वं लोकपरिपालकः ।
उक्तः संहारकस् तस्माद् एनं स्वर्गं मृतं नय ॥
इति । ततः किञ्चिच् छवे दग्धे कुम्भम् आदाय पादतोप्रदक्षिणं त्रिः परिक्रम्य त्रिर् अश्मना कुम्भं भित्त्वा कुम्भं क्षिप्त्वानवेक्षमाणाः बालपुरःसरा जलं गत्वा पूर्वधृतं वस्त्रं प्रक्षाल्य पुनः परिधाय वामनासिकया जलम् आलोड्य वृद्धाद्याः स्नात्वा तीरे दर्भे पाषाणं निधाय ऋजुदर्भतिलपूर्णाञ्जलिं काश्यपगोत्र अमुकदासप्रेत एष ते तिलाञ्जलिर् उपतिष्ठतु । उपतिष्ठताम् इति वा । सर्वे दक्षिणामुखाः सकृत् त्रिर् वा दत्वा पुनः स्नायुः । मित्रोढानूढकन्याभागिनेयश्वश्रूश्वशुरमातामहतत्स्त्रीमातुलराज्ञ उदकदानं कृताकृतं क्लीबभर्तृगर्भस्त्रीपतितैर् उदकं न कार्यम् । [२१६] तेभ्यो ऽप्य् अन्यैः । एवं त्रिंशत् पञ्चदश दश वा दिनानि प्रत्यहं दद्यात् । प्रत्यहम् एकवृद्धिर् द्विकवृद्धिस् त्रिकवृद्धिर् वा कार्या । ततो बालपुरःसरा जलाद् उत्तीर्याधोदशं वस्त्रं निष्पीड्य गृहद्वारि स्थित्वा त्रीणि निम्बपत्राणि विदश्याचम्य गोमयसर्षपवृषाम्बुदूर्वाग्नीन् आलभ्याश्मनि पदं निधाय गृहं प्रविशेयुः । वृद्धाः लोकापनोदनं कुर्युः । ततो मृन्मये पात्रद्वये एकाहं त्र्यहं वा प्रेतात्र स्नाहीति जलं पिबेदम् इति क्षीरं निदध्यात् । दशरात्रम् इति हेमाद्रौ । प्रत्यहं भूमौ कर्ता भोजनसमये ऽन्नं सङ्कल्पयेत् । ततस् त्र्यहम् उपवासः । क्रीतलब्धाशनं वा । अधःशय्यासनं सर्वेषां यावद् आशौचम् । प्रथमतृतीयसप्तमदशमेषु वा ज्ञातिना सह भोजनम् । तच् च दिवैव । बहिः दीपो देय इत्यादि निर्णयसिन्धौ ज्ञेयम् ।

आतां प्रयोग साङ्गतो.
पुत्रादि कर्मकल्न अपसव्याने देशकाल स्मरून, काश्यपगोत्रस्य अस्मत्पितुः ( येथे मृताचा संस्कार अन्य करणारा असल्यास, त्याने आपल्या सम्बन्धानुसार उह करावा )
अमुकदासप्रेतस्य प्रेतत्वनिवृत्त्या उत्तमलोकप्राप्त्यर्थम् और्ध्वदैहिकं करिष्ये
असे ह्मणून, मृतस्थानी दर्भावर - काश्यपगोत्रामुकदास प्रेतेदं तेऽवनेजनं ह्मणून अवनेजन देउन एप ते पिण्डः ह्मणून पिण्ड देऊन, इदं ते प्रत्यवनेजनं असें प्रत्यवनेजन द्यावे. असेम्च प्रत उचलतेवेळी उत्थापनपिण्ड देऊन, तो प्रेताच्या अङ्गावरच्या वस्त्राम्त बान्धून, प्रेत दक्षिण द्वाराने स्मशानाम्त न्यावेम्, व गृहद्वारान्त, चतुप्पथाम्त व प्रेतविश्रान्तिस्थानी पिण्ड द्यावे. नन्तर शुद्ध भूमीवर पञ्चभूसंस्कार करून, क्रव्यादनामक अग्नि स्थापन करून, तो पेटल्यावर गं धपुष्पादिकान्नी पूजून, प्रेतवपन करून, गन्धपुप्पादिकान्नी अलङ्कृत करून, पूर्वोक्त सप्त छिद्राम्त सुवर्ण, त्याच्या अभावी तूप घालून, नूतन वस्त्राने वेष्टून, तूप लावून उत्तरेस म स्तक करून, पुरुप असल्यास अधोमुख, स्त्रीस उताणी निजवून चिता प्रज्वलित करावी. अग्नीत " असौ संस्कार्यलोकाय स्वाहा” ह्मणून किंवा तूष्णीं आज्यहवन करून, मस्तकस्थानी पुढील मन्त्राने अग्नि द्यावा. तो मन्त्र वराहपुराणाम्त कथित आहे. जसे
कृत्वा तु दुष्कृतं कर्म जानता वाप्यजानता ॥
मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥ १ ॥
धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ॥
दहेयं सर्वगात्राणि दिव्यान्लोकान्स गच्छतु ॥ २ ॥
याने प्रदीप्त अग्नि शिरःस्थानी द्यावा. “ चार वर्णास हाच विधि उक्त आहे. " येथें चारहि वर्णास हाच विधि उक्त आहे, असे पटलें तें द्विनांविषयी अनुपनीतद्विजपर आहे; कारण, उपनीत द्विनाम्स वैदिकमन्त्रान्नी दाह उक्त आहे. त्यासी विरोध येईल ह्मणून वरील व्यवस्था आहे. याविषयी क्रियानिबन्धाम्त गरुड पुराणाम्त अन्य मन्त्र साङ्गितला आहे. तो-
त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः ।
उक्तः संहारकस्तस्मादेनं स्वर्गे मृतं नय ॥ १ ॥
अमा अग्नि देऊन, प्रेत किञ्चित् ज कल्यावर पूर्वोक्त कुम्भ घेऊन, प्रेताच्या पायाम्पासून प्रारम्भ करून, ३ प्रदक्षिणा करून दग डाने ३ वेळ तो कुम्भ फोडून टाकून, तो न पाहातां बालकाम्स पुढे करून, उदकसमीप जाऊन, प्रथम नेसलेले वस्त्र धुवून, तें पुनः नेसून कमरेइतक्या पाण्याम्त जाऊन, डाव्या ना कपुडीने उदक आलोडन करून ( ३ वेळ फिरवून ), वृद्धक्रमाने स्नान करून. उदकतीरी दर्भावर पाषाण ठेवून, ऋजुदर्भ व तिळान्नी पूर्ण उदकान्नलि– काश्यपगोत्रामुकदास प्रेत एप ते तिलाञ्जलिरुपतिष्ठतु-किंवा-उपतिष्ठतां ह्मणून सर्वान्नी दक्षिणाभिमुख असून १ किंवा ३ अञ्जलि देऊन, पुनः स्नान करावे. मित्र, त्याची स्त्री. विवाहित व अविवाहित कन्या, भाचा, सासू, सासरा, आईचा बाप व त्याची स्त्री, मातुल, व स्वदेशीय राना, याम्म प्रेमानें उदक देणार तर द्यावेम्, न दिल्यास दोष नाही. नपुंसक जीना पति आहे ती व गर्भिणी स्त्री, तसेच पतित यान्नी स्वसंवन्ध्याम्स उदक देऊ नये, व यांसहि इतरान्नी देऊ नये. असे ३० । १५ किंवा १० दिवसपर्यम्त प्रतिदिवसी उदक द्यावम्. प्रतिदिनी १।२।३ असे क्रमाने उदकाञ्जलि वाढवावे अमाहि प्रकार आहे. असे उदकदान आल्यावर. बालकाम्स पुढे करून, उदकान्तून बाहेर येउन, खाली दशा करून वत्र धुवून, स्वगृहीं जाउन, द्वारी उभे रहावे. नन्तर लिम्बाची ३ पाने भान विदिशा–( आग्नेयादिक ४ )भिमुग्न आचमन करून, गोमय, मोहन्या, बैल, उदक, दुर्वा व अग्नि याञ्चा म्पर्श करून, दगडावर पाय ठेवून घराम्त जावेम्. वृद्धान्नी आपण शोक न करितां इतराम्स बोध करून त्याञ्चा शोक दूर करावा. नन्तर २ दिवमी मातीच्या २ भाड्याम्त १ किंवा ३ दिवमपयन्त-प्रेतात्र नाहि ह्मणून एकाम्त उदक, व प्रेत पिवेदं ह्मणून दुसऱ्या पात्री दृध टवीत अमावे. “असे दहा दिवस करावं,” अमं हेमाद्रीम्त साङ्गितले आहे. कर्मकत्यानं प्रतिदिनी भोजन समयीं भूमीवर सङ्कल्प करून अन्न ठेवावम्. नन्तर ३ दिवम उपवाम करावा. किंवा अन्न विकत घ्यावे, अथवा मिळालले अन्न सेवन करावम्, स्वयम्पाक करुन जेवू नये. आशौचाम्त भूमीवर निजावें व बसावेम्. १ । ३ । ७ । १० व्या दिवमी स्वज्ञातीमह दिवमा भोजन क रावेम्. रात्री करू नये. प्रेताम घराबाहेर १ वर्ष किंवा १० दिवस दीप द्यावा. इत्यादि प्र कार निर्णयसिन्धूत पहावे.