३३ वैतरणी-दानम्

विश्वास-प्रस्तुतिः

[२१०]

अथ वैतरणीदानम् ।

ततो वैतरणीदानम् । यथा देशकालौ स्मृत्वा मम यमद्वारस्थनद्याः सुखोत्तरणार्थं दिव्यमानुष्यसर्वसुखप्राप्त्यर्थं वैतरणीदानं करिष्ये इत्य् उक्त्वा, द्रोणप्रमाणकार्पास-शिखरोपरि ताम्रपात्रे हैमं महिषारूढं दक्षिणे लोहदण्डं वामे पाशं च दधानं यमं सम्पूज्य तत्रेक्षुदण्डमयीं नौकां पट्टसूत्रेण बद्ध्वा तत्रस्थां कृष्णधेनुं सवत्सां स्वर्णशृङ्गरौप्यखुरकांस्यदोहनकृष्णवस्त्रयुगसप्तधान्यछत्रोपानद्युतां सम्पूज्याधिवास्यापरदिने पात्रं वृत्वा सम्पूज्य प्राङ्मुख्याः घृतदुग्धकुशहेमतिलयुतं पुच्छं गृहीत्वा देशकालौ स्मृत्वा पूर्वोक्तफलोल्लेखान्ते इमां कृष्णां गां द्रोणप्रमाणकार्पासशिखरोपरिस्थहेममययममूर्तिसहितां सुवर्णशृङ्गरौप्यखुरकांस्यदोहनकृष्णवस्त्रयुगसप्तधान्यछत्रोपानहाद्युपस्करयुताम् अशक्तौ गाम् एवामुकगोत्राय तुभ्यम् अहं सम्प्रददे न ममेत्य् उक्त्वा मन्त्रं पठेत् ।

यमद्वारे महाघोरे कष्टां वैतरणीं नदीम् ।
तर्तुकामो ददाम्य् एतां तुभ्यं वैतरणीं च गाम् ॥

अधिवासने ऽयं मन्त्र इत्य् एके ।

विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।
सदक्षिणा मया तुभ्यं दत्ता वैतरणी च गौः ॥
यमद्वारे महाघोरे या सा वैतरणी नदी ।
तां तर्तुं गां ददाम्य् एनां तुभ्यं वैतरणीम् अहम् ॥

इति दत्वा दक्षिणां दत्वा धेनुं यमं विप्रं च प्रदक्षिणीकृत्य सर्वं निवेद्य ।

धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।
उत्तितीर्षुर् अहं देवि वैतरण्यै नमो नम ॥

इत्य् अनुगच्छेत् । इति वैतरणीदानम् ।

मूलम्

अधिवासने ऽयं मन्त्र इत्य् एके

मराठी

आतां वैतरणीदानप्रयोग साङ्गतो.

नन्तर वैतरणीदान करावे. ते असे की.- आचमन व देशकाल स्मरून-

मम यमद्वारस्थनद्याः सुखोत्तरणार्थं दिव्यमानुष्यसर्वसुखप्राप्त्यर्थं वैतरणीदानं करिष्ये ।

असा सङ्कल्प करून, १ द्रोणपरिमित कापसाचा ढीग करून, त्यावर ताम्रपात्राम्त रेड्यावर आरूढ, व दक्षिणहस्ती लोहदण्ड व वामहस्ताम्त पाश धारण करणारा मु. वर्णाचा यम करून, तो त्याम्त ठेवून, गन्धादिकान्नी त्याचे पूजन करून, तेथे उसाञ्ची नौका करून, रेशमाने बान्धून, तत्रस्थ सवत्स सुवर्णशङ्गाची व रौप्यखुराञ्ची आणि निची धार काढण्यास कांस्यपात्र आहे अशी गाय, काळी वस्त्रे २, सप्तधान्ये, छत्री, व चर्मी जोडा यांसहित असावी. आणि त्या गायीचे पूजन करून, पूर्व दिवशी अधिवासन करून, दुसऱ्यादिवशी दान घेणान्या विप्राम वरून, त्याचे पूजन करून, पूर्वाभिमुग्न गायीचे तूप, दृध, दर्भ. सुवर्ण व तीळ यांसहित ति पुच्छ हाताने धरून, देशकालादि स्मरण करून-यमद्वारस्थ-येथपासून मुखप्राप्त्यर्थ-येथपर्यम्त ह्मणून पुढे-

इमां कृष्णां गां द्रोण[^१]प्रमाणकार्पासशिखरोपरिस्थमुवर्णमययममूर्तिसहितां हेममयशृङ्गरौप्यखुरकांस्यदोहनकृष्णवस्त्रयुगसप्तधान्यछत्रोपानहाद्युपस्करयुतां

असं मणावम्. इतके देण्यास असमर्थ अमल्याम फक्त गायीचान उल्लेख करावा. आणि अमुकगोत्राय तुभ्यमहं सम्प्रददे न मम अमं मणून विग्रहस्ती उदक देउन. पुढील मन्त्र मणावे..

यमद्वारे महाघोरे कष्टां वैतरणीं नदीम् ॥
तर्तुकामो ददाम्येतां तुभ्यं वैतरणीं च गाम् ॥ १ ॥

“हा मन्त्र अधिवामनाम्त ह्मणावा. ’ अमें कित्येकान्ने मत आहे.

विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ॥
सदक्षिणा मया तुभ्यं दत्ता वैतरणी च गाः ॥ १ ॥
यमद्वारे महाघोरे या सा वैतरणी नदी ।
तां तर्तुं गां ददाम्येनां तुभ्यं वैतरणीमहम् ॥ २ ॥

ह्मणून गाय देऊन दक्षिणा दिल्यावर. धेनु, यम. व दान घेणारा ब्रामण, याम्म प्रदक्षिणा करून, सब निवेदन करून,

धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ॥
उत्तितीर्षुररहं देवि वैतरण्यै नमो नमः ॥ १ ॥

या मन्त्रानं गाय जात असतां तिला मागून पोहल वावी. कम ईश्वरापण करावे.

इति वैतरणीदानप्रयोगः ॥