विश्वास-प्रस्तुतिः
[२०६]
अथ शूद्रस्यौर्ध्वदेहिकप्रयोगः ।
तत्राधिकारिणो निर्णयसिन्धौ ज्ञेयाः । सर्वाभावे धर्मपुत्रो वा कार्यः,
अपुत्रेण सुतः कार्यो यादृक् तादृक् प्रयत्नतः ।
पिण्डदानक्रियाहेतोर् धर्मसंस्थापनाय च ॥
इति व्यासोक्तेः । दिवोदासीये ।
दृष्ट्वा स्थानस्थम् आसन्नम् अर्धोन्मीलितलोचनम् ।
भूमिस्थं पितरं पुत्रो यद् धि दानं प्रदापयेत् ॥
तद् विशिष्टं गयाश्राद्धाद् अश्वमेधशताद् अपि ।
भारते ।
शुक्लपक्षे दिवा भूमौ गङ्गायां चोत्तरायणे ।
धन्यास् तात मरिष्यन्ति हृदयस्थे जनार्दने ॥
हेमाद्रौ वाराहे ।
व्यतीपातो ऽथ सङ्क्रान्तिस् तयैव ग्रहणं रवेः ।
पुण्यकालास् तदा सर्वे यदा मृत्युर् उपस्थितः ॥
तत्रैव व्यासः ।
आसन्नमृत्युना देया गौः सवत्सा तु पूर्ववत् ।
तदभावे तु गौर् एव नरकोत्तारणाय वै ॥
मदनरत्ने जातूकर्ण्यः ।
उत्क्रान्त्यादीनि दानानि दश दद्यान् मृतस्य तु ।
गोभूतिलहिरण्याज्यवासोधान्यगुडानि च ।
रूप्यं लवणम् इत्य् आहुर् दश दानान्य् अनुक्रमात् ॥
एतानि दश दानानि नराणां मृत्युजन्मनोः ।
कुर्याद् अभ्युदयार्थं तु प्रेते ऽपि हि परत्र वै ॥
ब्राह्मे ।
ताम्रपात्रं तिलैः पूर्णं प्रस्थमात्रं द्विजाय तु ।
सहिरण्यं च यो दद्याच् छ्रद्धावित्तानुसारतः ।
सर्वपापविशुद्धात्मा लभते गतिम् उत्तमाम् ॥
उत्क्रान्तिवैतरण्यौ च दशदानानि चैव हि ।
प्रेते ऽपि कृत्वा तं प्रेतं शवधर्मेण दाहयेत् ॥
क्रियानिबन्धे गारुडे त्व् अष्टौ दानान्य् उक्तानि ।
तुलसीं सन्निधौ कृत्वा शालग्रामशिलां तथा ।
तिला लोहं हिरण्यं च कार्पासं लवणं तथा ॥
सप्तधान्यं क्षितिर् गाव एकैकं पावनं स्मृतम् ।
तिलपात्रं यथाशक्ति शय्यादानं च कारयेत् ॥
इति । परिशिष्टे ।
म्रियमाणस्य कर्णे तु पुण्यमन्त्रान् जपेत् ततः ।
मुमूर्षोर् मधुपर्कदानम् उक्तं वाराहे ।
दृष्ट्वा सुविह्वलं ह्य् एनं यममार्गानुसारिणम् ।
प्रयाणकाले तु नरो मन्त्रेण विधिपूर्वकम् ॥
मधुपर्कं त्वरन् गृह्य इमं मन्त्रम् उदीरयेत् ।
गृहाण चेमं मधुपर्कम् आद्यं संसारनाशनकरं त्व् अमृतेन तुल्यम् ।
नारायणेन रचितं भवत्प्रियाणां दाहेन शान्तिकरणं सुरलोकपूज्यम् ॥
अनेनैव तु मन्त्रेण दद्याच् च मधुपर्ककम् ।
नरस्य मृत्युकाले तु परलोकसुखावहम् ॥
दैवजानीये ऽप्य् एवम् ।
मूलम्

मराठी
आतां शूद्राचा और्वदेहिकप्रयोग साङ्गतो.
त्याम्त प्रथम और्ध्वदेहिक करण्याचे अधिकारी कोण, हा निर्णय निर्णयसिन्धूत पहावा. त्याम्त साङ्गितल्याम्पैकी कोणताहि अधिकारी नसल्याम, धर्मपुत्र करावा. याविषयीं-‘जसा निपुत्रिकाने स्ववंशरक्षणार्थ दत्तक पुत्र घ्यावाः तसाच प्रयत्नतः पिण्डदान, उत्तरकर्म व धर्मस्थापनेस्तव धर्मपुत्र करावा, ’’ अमें व्यासाने साङ्गितले आहे. दीवोदासीयान्त, म. रतेवेळी पित्याचे पुत्राने काय करावे, त्याविषयी साङ्गितले आहे की,-" स्वस्थानावर निश्चेष्ट पडलेला असून लवकरच मरेल असा दिसणारा व ज्याचे नेत्र अर्षे मिटलेले आहेत अशा भूमिम्थ पित्याम उद्देशून नन्निमित्त पुत्र, जे दानादि करील ते सर्व गयाश्राद्ध व १०० अश्वमेध केल्यापेक्षांहि अधिक आहे.’’ मरण्याच्या उत्तम काला विपयी भारतान्त–" शुक्रपक्षी, दिवसा. भूमीवर, गङ्गेमन्निध, उत्तरायणान्त. हृदयाम्त जनार्दनाचें म्मरण करून, त्यानं नितन करीत असतां ने दहत्याग करितील, ने परम धन्य होत, " असे साङ्गितलं आहे. हेमाद्रीत वराह पुराणान्त–’’ लगतीपात, सङ्क्रान्ति आणि सूर्यग्रहण हे ज्या वेळी मृत्यु यईल त्या वेळी पुण्यकालन होत. ’’ असं साङ्गितले, आहे. मरणोन्मुखाने काय करावं : त्याविषयीं हेमाद्रीत ज्याम मणतो " मरणोन्मु ग्वानं यथाविधि सवत्स गाय द्यावी. नाहीतर, नरकोनारणार्थ एकटी गायन दान करावी." मदनरत्नाम्न जातूकर्ण्य मणतो " मृताच्या उद्देशाने उत्क्रान्त्यादि १० दाने द्यावी. ती– उत्क्रान्तिधनु, भूमि. तीळ. सुवर्ण, आउय, वस्त्र, धान्य, गृळ, रूपं व मीट ही १० अ. नुक्रमे द्यावी. आणग्वी ही प्रत्येक मनुष्याच्या जन्मकालीं व मग्णकाली इहलोकी अ. भ्युदयार्थ व परलोकी सौग्याचे अवश्य द्यावी. " ब्रह्मपुराणाम्त " प्रस्थप्रमाण ( प्रस्थ १ शर वजनाचे) ताम्रपात्र तिळान्नी भरून सुवर्णदक्षिणामहित शत्यनमार जो देईल, तो सर्वपापमुक्त होऊन उत्तम गतीला पावेल. उत्क्रान्ति व वनरणी अमी २ गोप्रदान जो दइल, तो सर्वपापमुक्त होउन उत्तम गतीला पावल. उत्क्रान्ति व वैतरणी अमी २ गोप्रदाने व पूर्वक्ति १० कोणी मेल्यावरही तदुद्देशाने देउन शवधमान प्रेतदाह करावा. ’ क्रिया निबन्धाम्त गरुडपुराणाम्त तर–“८ च दाने साङ्गितली आहेत. तमन-प्रेताजवळ तु दमी व शालिग्राम ठेवून, तीळ, लोखण्ड, सुवर्ण, काम, मीट, मप्त धान्य, भूमि, गायी.’ ही ८ द्यावी. याम्त एकेक विशेष पुण्यप्रद आहे. अमी दाने करून ११ च दिवसी यथाशक्ति निलपात्र व शय्यादानादि करावम्, "” अमं माङ्गितले आहे. परिशिष्टाम्त " मरणोन्मुखाच्या दक्षिणकाम्त पुण्यमन्त्र (यम) जप कगवा, " अमं माङ्गितलं आहे. मु. मपर्ने मधुपर्कदान करावे, असे वराहपुगणाम्त माङ्गितले आहे. त-" यमपन्थास ना णारा व अति व्याकुळ झालेला अशा मरणोन्मुग्वाम पाहून, पुत्रादिकान्नी विधीनं मधुपर्क सत्वर घेऊन पुढील मन्त्राने दान करावा.-गृहाण चमं मधुपर्कमायं संसारनाशनकर ख मृतेन तुल्यम् ।। नारायणेन रचितं भगवत्प्रियाणां दान शान्तिकरणं मुरलोक पूज्यम् ।। १ ।। हा दिल्याने परलोकी प्रेताम सुग्व होतम्, ’’ अमें माङ्गितले आहे. देवजा. नीयनामक ग्रन्थाम्त हेच साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[२०७]
अथ प्रयोगः ।
पुत्रादिर् आसन्नमृत्युं पित्रादिं ज्ञात्वा षडब्दं त्र्यब्दं सार्धाब्दं प्रायश्चित्तं कारयेत् । यथा सप्त पञ्च त्रीन् एकं वा द्विजपर्षदम् उपवेश्यार्द्रवासाः सुवर्णरूप्ययोर् निष्कं तदर्धं वा गोस् तच्चतुर्गुणं वृषस्येत्य् एवं गोवृषमूल्यं निधाय साष्टाङ्गं प्रणम्य तैः किं ते कार्यम् इति पृष्टे मम जन्मप्रभृत्यद्ययावत् ज्ञानाज्ञानकामाकामसकृदसकृत् कायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतज्ञाताज्ञातसकलपातकातिपातकोप-पातकसङ्कलीकरणमलिनीकरनापात्रीकरणजातिभ्रंशकरप्रकीर्णपातकानां निरासार्थम् अनुग्रहं कृत्वा प्रायश्चित्तम् उपदिशन्तु भवन्तः इत्य् उक्त्वा ।
सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः ।
मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ॥
मया कृतं महाघोरं ज्ञातम् अज्ञातकिल्बिषम् ।
प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥
पूज्यैः कृतः पवित्रो ऽहं भवेयं द्विजसत्तमैः ।
इति पठेच् छृणुयाद् वा । निष्कस् तु चतुःसुवर्णः । पुत्रादिस् त्व् अस्येत्यादि वदेत् । ततः सभ्यास् तस्य शक्त्यनुसारेण प्रायश्चित्तम् अनुवादकाग्रे वदेयुः । तदा शोध्यो गन्धादिना पुस्तकस्य सभ्यानाम् अनुवादकस्य च पूजां कृत्वा, तस्मै दक्षिणां पापानुसारेण दद्यात् । गोमूल्यं निबन्धपूजात्वेन पुस्तके निवेदयेद् इत्य् आचारः । ततः सभ्याः अमुकप्रायश्चित्तेन पूर्वोत्तराङ्गयुतेन यथाशक्ति प्रत्याम्नायद्वारा चीर्णेन त्वं शुद्धो भविष्यसीत्य् अनुवादकाग्रे त्रिर् वदेयुः । शोध्यस् त्व् अनुग्रह इत्य् उक्त्वा रिकायां नद्यादौ गत्वाचम्य देशकालौ स्मृत्वा मम जन्मप्रभृतीत्यादि निरासार्थम् इत्यन्तम् उक्त्वा सभ्योपदिष्टम् अमुकप्रायश्चित्तं पूर्वोत्तराङ्गयुतम् अमुकप्रत्याम्नायद्वारा यथाकालं करिष्ये इत्य् उक्त्वा ।
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
केशान् आश्रित्य तिष्ठन्ति तस्मात् केशान् वपाम्य् अहम् ॥
इति कक्षोपस्थवर्जं केशश्मश्रुनखानि वापयित्वा ।
आयुर् बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥
इति दन्तधावनं कृत्वा, तूष्णीं स्नात्वा प्रायश्चित्ताङ्गत्वेन भस्मस्नानं करिष्ये । रुद्राय नम इत्य् उक्त्वा भस्मना स्नात्वैवं गोमयमृद्वारिगोक्षीरदधिसर्पिःकुशोदकैः स्नात्वा धौतं वासः परिधाय तिलकं घृत्वा ।
गवाम् अङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात् तस्माच् छिवं मे स्याद् इह लोके परत्र च ॥
इत्यादि गोदानं कृत्वा, पापापहमहाविष्णुप्रीत्यर्थं चतुरादियुग्मान् ब्राह्मणान् [[नानानामानाम्]] आमान्नानि दत्वा पञ्चगव्यं प्राश्नीयान् न वा । आज्यहोमस् तु न शूद्रस्य ।
आज्येनैव हि शालाग्नौ जुहुयाद् द्व्याहुतीः पृथक् ।
इति जाबालिना गृह्याग्निनियमात्, अग्नेः प्रतिनिध्यभावाच् च,
तस्माच् छूद्रं समासाद्य सदा धर्मपथे स्थितम् ।
प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥
इति पराशरोक्तेश् च । तेन विप्रद्वारा होमः परास्तः । ततस् तद्दिने उपवासी मौनी निशामतिवाह्य तीर्थयात्राद्वादशामान्नगोदानद्वादशस्नानादिप्रत्याम्नायैः प्रायश्चित्तं कृत्वा विष्णुश्राद्धान्ते गोदानानि प्राग्वत् कृत्वा पूर्वोक्तदशदानानि दद्यात् । दानमन्त्रास् तु मत्कृते दानकमलाकरे ज्ञेयाः ।

आतां प्रयोग साङ्गतो.
पुत्र व अन्य जो और्वदेहिकका असेल. त्याणे पित्रान्दिकाम्स देहशुद्यर्थ मरणापूर्वी षडब्द, व्यब्द अथवा सार्धाब्द प्रायश्चित्त द्यावे. त्याना प्रकार पुढे लिहिल्याप्रमाणे. - ७ । ५ । ३। १ किंवा विद्वान् ब्राह्मणाञ्ची सभा करून आई वस्त्र घेऊन मोन्याचा व रुप्याचा १ किंवा अध निष्क व गायीचे व तिच्या चौपट बैलाचे मूल्यद्रव्य घेऊन, ते स भेपुढे ठेवून, साष्टाङ्ग नमस्कार करावा. सभामदान्नीं-“किं ने कार्य” असे विचारल्यावर—
मम जन्मप्रभृत्यद्ययावत् ज्ञानाज्ञानकामाकामसकृदसकृत्कायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतज्ञाताज्ञातसकलपातकातिपातकोपपातकसङ्कलीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णपातकानां निरासार्थम् अनुग्रहं कृत्वा प्रायश्चित्तमुपदिशन्तु भवन्तः ।
अमें ह्मणून.-
सर्वे धर्मविविक्तारो गोप्तारः सकला द्विजाः ॥
मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ॥ १ ॥
मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् ॥
प्रसादः क्रियतां मह्यं शुभानुज्ञां प्रयच्छथ ॥ २ ॥
पूज्यः कृतः पवित्रोऽहं भवेयं द्विजसत्तमैः ॥
हे मन्त्र आपण ह्मणावे. पुत्रादिक अन्य कर्ता असेल तर पूर्वीच्या प्रार्थनेत “मम" या ठिकाणी ‘अम्य मुमपाः" अमे मणून हे मन्त्र मणून मुमूर्षम ऐकवावे. मग मभ्यान्नी तच्छत्तयनुमार व दोपतारतम्यानं अनुवादकानका प्रायश्चित्त माङ्गावम्. शुद्ध होणा-याने गन्धायुपचागन्नी प्रायश्चित्तप्रयोगपुम्नक, सभ्य व अनुवादक याञ्ची पूजा करून. त्याम्स पाप व शक्ति याञ्च्या तारतम्यान दक्षिणा द्यावी. गोनिष्क्रयद्रव्य निबन्धपनेकरितां निवेदन करावम्, अमा शिष्टाचार आहे. नन्तर मभ्यान्नी पृर्वात ५ पक्षाम्पैकी कोणत्या तरी एका पक्षाचा उल्लेख करून -
प्रायश्चित्तेन पूर्वोत्तराङ्गयुतेन यथाशक्ति प्रत्याम्नायद्वाग चीर्णेन त्वं शुद्धो भविष्यसि
असं अनुवादकापुढेश्वळ मणावम्. घेणा-यानं ‘अनुग्रहः" अमे ह्मणून, रिक्तातिथि अमल्यास नद्यादिकांवर जाउन आनमन व दशकालसङ्कीर्तन करून - मम जन्मप्रभृति येथून-निगसाथै यथपावनों पणून. पुनः
सभ्योपदिष्टम् अमुकप्रायश्चित्तं पूर्वोत्तराङ्गयुतम् अमुकप्रत्याम्नायद्वारा यथाकालं करिष्ये
अमं ह्मणून–
यानि कानि च पापानि ब्रह्महत्यासमानि च ॥
केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ॥ 2 ॥
यान कक्षोपम्य व जून केश, मिशा. नवं वङ्गर काढवून–
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ॥
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ १ ॥
यानं आघाड्याच्या काड्यान्नी दतघांवन कमन, स्नानसम्बन्धी मन्त्रादिक न ह्मणतां स्नान करून.-प्रायश्चित्ताङ्गत्वेन भस्मस्नानं करिष्ये । अम ह्मणून- ‘रुद्राय नमः" यानं भम्मम्नान करून. अमञ्च - गोमय, मृत्तिका, उदक, गोमत्र, गोक्षीर, दही, तूप व कुशोदकान्नी स्नान करून. धौत वस्र नमन, तिलक लावून, गोदान करावम्. त्याचा मन्त्र
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ॥
यस्मात्तस्माच्छिवं में स्यादिह लोके परत्र च ॥ १ ॥
या मन्त्रान्नी गोदान करून,-पापापहा महाविष्णुप्रीत्यर्थ २ । ४।६ ३० युग्म • अनेकनामगोत्रब्राह्मणाम्म आमान्ने देउन पञ्चगव्य प्राशन करावे. अथवा न करावेम्. प्रायश्चित्ताङ्ग आज्यहोम तर, शूद्राम्म वज्यं आहे; कारण, “प्रायश्चित्त घेणाऱ्यान्नी आज्यानेच गृह्याग्नीचे ठायीं व्याहृतीन्नी निरनिराळा होम करावा,” असा जाबालीने त्याविषयीं गृह्याग्नि नियमित आहे, व शूद्रास त्याचा अधिकार नाही. इतराम्प्रमाणे प्रतिनिधि करावा तर,-अग्नीस प्रतिनिधि नाही ह्मणूनच-“यास्तव स्वधर्मनिष्ठ शूद्राम्स ज पहोमावाञ्चून प्रायश्चित्त द्यावें,” असं पराशरही साङ्गतो. यावरून विप्रद्वारा होम कर ण्याचां पक्षही खण्डित आहे. असा प्रायश्चित्तविधि करून, तद्दिनीं उपवास करून, मौन धरून, रात्र सरल्यावर तीर्थयात्रा, १२ आमान्ने, १ भूदान व १२ स्नाने याञ्चे प्रत्याम्नाय ( तन्निमित्तक कांहीं द्रव्य ) यान्नी प्रायश्चित्त करून विष्णुश्राद्ध (पूर्ववत् आमदान) करून. शेवटी गोदाने व पूर्वोक्त १० दाने द्यावी. त्याञ्चे मन्त्र मत्कृत दानकमलाकराम्त पहावे.