विश्वास-प्रस्तुतिः
[२००]
अथ मृतदोषे ।
हेमाद्रौ षट्त्रिंशन्मत-कौर्मयोः ।
व्यापादयेद् य आत्मानं स्वयम् अग्न्युदकादिभिः ।
विहितं तस्य नाशौचं नापि कार्योदकक्रिया ॥
भविष्ये ।
स्वेच्छया मरणं विप्राः शृङ्गिदंष्ट्रिसरीसृपैः ।
अन्त्यान्त्यजविषोद्बन्धैर् आत्मना चैव ताडनैः ॥
पाखण्डम् आश्रिताश् चैव महापातकिनस् तथा ।
स्त्रियश् च व्यभिचारिण्य आरूढपतितास् तथा ॥
न तेषां स्नानसंस्कारो न श्राद्धं न सपिण्डनम् ।
ब्राह्मे ।
एतानि पतितानां तु यः करोति विमोहितः ।
तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर् न चान्यथा ॥
इदं कामतः । अज्ञाने त्व् अर्धम् । स्पर्शाश्रुणोर् ज्ञानतस् त्रिरात्रम् । अज्ञाने एकोपवास इत्यादि निर्णयसिन्धौ ज्ञेयम् । इदं दर्पाद् बुद्धिपूर्वकृते1 ज्ञेयम् । अबुद्धिपूर्वं प्रमादहते तु सर्वं कार्यम्,
अथ कश्चित् प्रमादेन म्रियेताग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥
इत्य् अङ्गिरसोक्तेः । प्रमादमरणे त्रिरात्राशौचम् इति शुद्धितत्त्वादयो गौडाः । दशाहाद् इति दाक्षिणात्याः । अस्यापवादो हेमाद्रौ भविष्ये ।
प्रमादाद् इच्छया वापि न कुर्यात् सर्पतो मृते ।
नागपूजां विना नेत्य् अर्थः । तत्र प्रमादमृते दुर्मरणनिमित्तं दानाद्य् उक्तं शातातपेन ।
व्याघ्रेण निहते विप्रे विप्रकन्यां विवाहयेत् ।
सर्पदष्टे नागबलिर् देयः सर्पश् च काञ्चनः ॥
इत्यादिना । तन् निर्णयसिन्धौ ज्ञेयम् । सर्पदष्टे ऽपि व्यासः ।
सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
व्यासाय दत्वा विधिवत् पितुर् आनृण्यम् आप्तवान् ॥
हेमाद्रौ भविष्ये ।
पञ्चम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत् ।
क्षीराज्यपात्रमध्यस्थं पूज्यं विप्राय दापयेत् ॥
प्रायश्चित्तम् इदं प्रोक्तं नागदष्टस्य शम्भुना ।
दर्पात् सर्पमृते नारायणबलिनास्य समुच्चयः । तथा वैद्यमरणे ऽपि न दोषः । [२०१]
वृद्धः शौचस्मृतेर् लुप्तः प्रत्याखातम् इषत्क्रियः ।
आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनाम्बुभिः ॥
तस्य त्रिरात्रम् आशौचम् ।
द्वितीये तूदकं कृत्वा चतुर्थे श्राद्धम् आचरेत् ।
इति वृद्धगार्ग्योक्तम् । अपरार्के ब्रह्मगर्गः।
यो जीवितुं न शक्नोति महाव्याध्युपपीडितः ।
सो ऽग्न्युदकं महायात्रां कुर्वन् नामुत्र दुष्यति ॥
तच् च प्रयागभिन्ने देशे रोगिणाम् एव । तद् अपि जीर्णवानप्रस्थस्यैवेति विज्ञानेश्वरादयः । प्रयागे त्व् अरोगिणाम् अपि । विशेषतः शूद्रस्यान्यत्रापि,
अब्राह्मणो वा स्वर्गादिमहाफलजिगीषया ।
प्रविशेज् ज्वलनं दीप्तं करोत्य् अनशनं तथा ।
इत्य् आदिपुराणात् । इदं वृद्धादिमरणम्, यद्य् अपि
भृग्वग्निपतनैश् चैव वृद्धादिमरणं तथा ।
इति माधवीये आदिपुराणोक्तेः कलौ निषिद्धम्, तथापि प्रयागे भवत्य् एव, “ये वै तन्वां विसृजन्ति” इति श्रुतेः ।
न लोकवचनात् तात न वेदवचनाद् अपि ।
मतिर् उत्क्रमणीया ते प्रयागमरणं प्रति ॥
इति भारत-मात्स्योक्तेः ।
तत्र यो मुञ्चति प्राणान् वटमूलेषु सुन्दरि ।
सर्वलोकान् अतिक्रम्य मम लोकं प्रपद्यते ॥
इति वाराहोक्तेः । अत्र दशाहानि पूर्णशौचम् इति भाट्टाः । युक्तं तु त्रिरात्रम्, अनशनमृतोक्तेः । दिवोदासो ऽप्य् एवम् । यच् च पूर्वोक्तानाम् अशनिहतानाम् अग्निजलप्रविष्टानां भृगुसङ्ग्राम-देशान्तरमृतानां जातदन्तानां च त्रिरात्रम् इति शुद्धितत्त्वे काश्यपोक्तेः । आत्मघातिनो दाहाशौचादिनिषेधः स तदानीम् एव । वर्षान्ते तु सर्वं कुर्यात्,
गोब्राह्मणहतानां च पतितानां तथैव च ।
ऊर्ध्वं संवत्सरात् कुर्यात् सर्वम् एवौर्ध्वदैहिकम् ॥
इति हेमाद्रौ षट्त्रिंशन्मतात्। तत्रात्मवधप्रायश्चित्तं नारायणबलिश् चोक्तः । तत्रैव ।
कृत्वा चान्द्रायणं पूर्वं क्रिया कार्या यथाविधि ।
नारायणबलिः कार्यो लोकगर्गाभयान् नरैः ॥
पिण्डोदकक्रियाः पश्चाद् वृषोत्सर्गादिकं च यत् ।
एकोद्दिष्टानि कुर्वीत सपिण्डीकरणं तथा ॥
मदनरत्ने ब्राह्मे तु,
प्रमादाद् अपि निःशङ्कस् त्व् अकस्माद् विधिचोदितः ।
चण्डालैर् ब्राह्मणैश् चौरैर् निहतो यत्र कुत्रचित् ॥
तस्य दाहादिकं कार्यं यस्मान् न पतितस् तु सः ।
चान्द्रायणं ततः कृच्छ्रद्वयं तस्य विशुद्धये ॥
यद् वा कृच्छ्रान् पञ्चदश कृत्वा तु विधिना दहेत् ।
बुद्धिपूर्वकृतानां2 तु त्रिंशत्कृच्छ्रं समाचरेत् ॥
इत्य् उक्तम् । नारायणबलिस् तु मिताक्षरायां मत्कृते निर्णयसिन्धौ ज्ञेयः । विदेशमृते त्व् अस्थ्नाम्3 एव सम्भवे दाहः । तदभावे पलाशवृन्तैः । तदभावे कुशैः ।
विदेशमरणे ऽस्थीनि आहृत्याभ्यज्य सर्पिषा ।
अस्थ्नाम् अलाभे पर्णानि शकलान्य् उक्तयावृता ॥
दाहयेद् अस्थिसङ्ख्यानि ततः प्रभृति सूतकम् ।
हेमाद्रौ षट्त्रिंशन्मते ।
कुर्याद् दर्भमयं प्रेतं कुशैस् त्रिशतषष्टिभिः ।
पालाशीभिः समिद्भिर् वा सङ्ख्या चैवं प्रकीर्तिता ॥
मदनरत्ने यज्ञपार्श्वः ।
दद्याच् छिरस्य् अशीत्यर्धं4 ग्रीवायां तु दशैव तु ।
बाह्वोश् चैकशतं दद्याद् दश चैवाङ्गुलीषु च ॥
उरसि त्रिंशतं दद्याद् विंशतिं जठरोदरे ।
द्वादशार्धं वृषणयोर् अष्टार्धं शिश्न एव तु ॥
ऊर्वोश् चैकशतं दद्यात् त्रिशतं जङ्घयोर् द्वयोः ।
पादाङ्गुलीषु दश दद्याद् एतत् प्रेतस्य कल्पनम् ॥
मस्तके नारिकेलं तु अलाबुं तालुके तथा ।
पञ्चरत्नं मुखे न्यस्य जिह्वायां कदलीफलम् ॥
चक्षुषोस् तु कपर्दी द्वौ [२०२] नासिकायां तु कालकम् ।
कर्णयोर् ब्रह्मपत्राणि केशे वटप्ररोहकाः ॥
नालकं कमलानां तु अन्त्रस्थाने विनिक्षिपेत् ।
मृत्तिका तु वसो धातुर् हरितालकगन्धकौ ॥
शुक्रे तु पारदं दद्यात् पुरीषे पित्तलं तथा ।
सन्धिषु तिलपिष्टं तु मांसे स्याद् यवपिष्टकम् ॥
मधु स्याल् लोहितस्थाने त्वचः स्थाने मृगत्वचा ।
स्तनयोर् गुञ्जके देये नासायां शतपत्रकम् ॥
कमलं नाभिदेशे स्याद् वृन्ताकं वृषणाश्रिते ।
लिङ्गे च रक्तमूलं तु परिधानं दुकूलकम् ॥
गोमूत्रं गोमयं गन्धं सर्वौषध्यादि सर्वतः ।
क्रियानिबन्धे गारुडे त्व् एतदन्ते ।
वृन्तं5 नाभ्यां प्रदेयं स्यात् कौपीने च त्रपु स्मृतम् ।
मौक्तिके स्तनयोर् मूर्ध्नि कुङ्कुमेन विलेपनम् ॥
प्रोषितस्य वार्ताश्रवणाभावे तु पितुः पञ्चदशाब्दानि प्रतीक्षा । तदन्यस्य द्वादशाब्दानीति मदनरत्ने उक्तम् । तत्र पत्नीपुत्रयोः पूर्वम् अगृहीताशौचयोः पूर्णाशौचम् । गृहीताशौचयोस् त्रिरात्रम् । द्वादशवर्षप्रतीक्षोत्तरं दाहे तु पुत्रादीनां सर्वेषां त्रिरात्रम् इति कल्पतरुः । पर्णशरदाहोत्तरम् अस्थ्युपलम्भे तु मदनरत्ने ब्राह्मे ।
अथ पार्णनरे दग्धे पत्रन्यासे कृते सति ।
गतेष्व् अग्निषु तद्देहो यद् ऊर्ध्वं लभ्यते क्वचित् ॥
तदार्धदग्धकाष्ठानि तानि निर्मथ्य तं दहेत् ।
यद्य् अर्धदग्धकाष्टं तु तदीयं नैव लभ्यते ॥
तदा यद् अस्थिखण्डं तु निक्षेप्तव्यं महाजले ।
मूलम्

मराठी
यानन्तर मृतदोषतः आशौचापवाद साङ्गतो.
याविषयीं हेमाद्रीत पत्रिंशन्मताम्त व कूर्मपुराणाम्त साङ्गितले आहे की,-“जो आपणच अग्नि किंवा उदकादिकान्नी आपला नाश करील, त्याचं तद्वर्णविहित आशौच व उदक क्रिया करूं नये.” भविष्यपुराणान्त-” स्वेच्छेने मरणारा किंवा शृङ्गी (बैल रेडा इत्या दिक), दंष्ट्री (वाघ, सिम्ह इत्यादि) व सरीसृप (सर्प विञ्चू इत्यादिक) यान्नी मारलेला, तसाच म्लेञ्च्छ व नाण्डालान्नी मारलेला, आपणच विष खाऊन किंवा गळफास लावून मेलेला, यांवाञ्चून अन्य कोणत्याही प्रकारें मेलेला, व पाखण्डाचा आश्रय करणारा, तसाच महापातकी असे पुरुष व व्यभिचारिणी, आरूढपतिता स्त्रिया हे मेले तर, तन्निमित्तक स्नानाग्निदानादिक संस्कार व श्राद्ध, सपिण्डी इत्यादि करूं नये,’ असे साङ्गितले आहे. ब्रह्मपुराणान्त-" पूर्वोक्त स्नानादिक, पतिताञ्च्या उद्देशानें जो करील, त्यास २ तप्तकृच्छ्र प्रायश्चित्ताविना शुद्धि होत नाही." असे साङ्गितले आहे. हे प्रायश्चित्त जाणून केल्यास. तद्विरुद्ध ह्मणजे न जाणून केल्यास १ तप्तकृच्छाने शुद्धि होते. जाणून पूर्वोक्त दोषी यां च्या प्रेताचा स्पर्श व तन्निमित्त अश्रुपात केल्यास त्रिरात्र, न जाणून केल्यास १ रात्र उपोषण करावेम्; इत्यादि विशेष प्रकार निर्णयसिन्धूत पहावा. हे पूर्वोक्त प्रायश्चित्ता दि बुद्धिपूर्वक मेलेल्याविषयी जाणावम्. तमें नसून अपघाताने व गाफलपणाने मेल्यास त्याचं उदकदानादि करावेम्; कारण.–’" कोणीहि अग्नीत किंवा उदकाम्त प्रमादाने मे ल्याम तदाशीच व उदकदानादि करावे. " असी आङ्गिरसोक्ति आहे. “प्रमादमरणीं त्रिरात्र धरावेम्, ’ असें शुद्धितत्त्वादि गौड ह्मणतात. " दशाह आशौन धरावेम्, " असे दाक्षिणात्य ह्मणतात. याचा अपवाद हेमाद्रीत भविष्यपुगणाम्त माङ्गितला आहे की, “प्र मादाने किंवा स्वेच्छेने पूर्वाक्तरीत्या जो मेला अमेल त्याची नागपूना केल्यावाञ्चून उद कदानादि क्रिया करूं नये. " त्याम्त प्रमादान मेल्यास दुर्मरणनिमित्तक दानादि शाता तपानं साङ्गितले आहे तं “ब्राह्मणाम वाघाने मारला असेल तर तन्निमित्त ब्राह्मणकन्ये ना विवाह करावा. सर्पदंशाने मेल्याम नागबलि करून सौवर्णमर्पदान करावे. ह्मणने नि दोष होतो, ’’ इत्यादि प्रकार निर्णयसिन्धूत पहावा. सर्पदंशाने मृताविषयी व्यास ह्मणतो भार किंवा यथाशक्ति सुवर्णाची नाग व अलङ्कृत गाय व्यासरूपी ब्राह्म णाम दान दिल्याने पितृऋणापासून मुक्त होतो.” हेमाद्रीत भविष्यपुराणान्त- पम्न मा तिथीस १ सुवर्णपरिमित सुवर्णाचा नाग करून दूध व तुपाने भरलेल्या पात्राम्त घालून पृना करून विप्रास द्यावा. मपदंशानं मृताम महादेवाने हैं प्रायश्चित्त माङ्गितलं आहे. ’’ अम माङ्गितलं आहे. गवान मुद्दाम मपदम्श कम्युन मल्याम पक्ति कर्म व नारायण बलि केल्यानं शुद्धि होते. तसाच वैद्यान भलतेच औषध देउन मन्याम दोष नाही. " अति थकलेला, शौनादिकानी स्मृति नष्ट झालला, वैद्याने आपला उपाय चालत नाही पणून सोडलेला व दुःखपीडित होउन, जो कड्यावरून व अग्नीत उडी टाकून, अनशनानम्, उदकाम्त बुडून, मल्यास त्याचं त्रिगत्र आशाच धरून, द्वितीय दिवशी उदकदान क कन, ४ थ्या दिवशी श्राद्ध करावं,’ अमं वृद्धगार्य ह्मणतो. अपगात ब्रह्मगर्ग - णतो की,-” महारोगानं जीवित्वाम कण्टाळलेला असून त्यानं अग्नि व उदकादिकाने प्रा. णत्याग केल्याम पग्लोकी तो दोषी होत नाही. "” असा देहत्याग प्रयागाहन इतर ठिकाणीं महारोग्यामच शास्त्रविहित आहे; परन्तु प्रयागाम्त मवाम काम्य देहत्यागविधि 6 शास्त्रोक्त आहे.
“तही वृद्ध वानप्रस्थ याम्मच योग्य आहे,’’ अमं विज्ञानश्वरादि ह्मणतात. प्रयागाम्त तर सर्व निरोग्याम्म व विशम्पतः शूद्राम्म देहत्याग योग्य आहे. “ वि. प्रभिन्न जो म्वर्गादिप्राप्तीच्या इच्छेने प्रदीप्त ग्वाईन प्रवेश करील. किंवा अनशनान देहत्याग करील, त्यास दोष नाही, ’’ असे आदित्यपुराणाम्त साङ्गितले आहे. हे वृ. द्धादिकाञ्चे मरण जरी-” भृगु व अग्निपतनान्नी वृद्धादिकाञ्चे मरण हे कलीत योग्य नाही," असी माधवीयाम्त आदित्यपुराणोक्ति असल्यावरून, कलीम्त वर्ण्य आहे तथापि प्रयागाम्त होतेच; कारण,-" प्रयागाम्त जे देहत्याग करतील, त्याम्स मोक्षप्राप्ति होते, " असी श्रुति आहे, व " लोकाञ्च्या किंवा वेदाच्या निषेधवचनावरून हे युधिष्ठिरा, प्रयागमरणाविषयी तुझी बुद्धि अन्यथा होऊ नये, " असें भारताम्त व मत्स्यपुराणाम्त साङ्गितले आहे, व " जो अक्षय्यवटमूली गङ्गायमुनासङ्गमी प्राणत्याग करितो तो सर्व लोकांला अतिक्रमण करून, माझ्या ( विष्णूच्या ) लोकास येतो." असे वराहपुराणवचन आहे. याप्र माणे मरणाराचें-" दशाहादि पूणोशौच धरावेम्, " असें भट्ट ह्मणतात. परन्तु, येथें त्रिरात्र युक्त आहे. कारण, अनशनमरणीं त्रिरात्रच उक्त आहे. दिवोदासही असेच ह्मणतो. " जो पूर्वोक्त विद्युल्लतने मृत झाला असेल, व अग्नि उदक यान्नी व भृगुपात, युद्ध, इ त्यादिकाम्न मृत, देशान्तरमृत, आणि जातदम्त याञ्चे त्रिरात्र धरावेम्, " असी शुद्धितत्त्वाम्त काश्यपोक्ति आहे. ह्मणून आत्मघातकाचें दाह व आशौचादि करण्याचा जो निषेध आहे तो पूर्वोक्त रीतीने मरताम्च तत्काल आशौच न धरण्याविषयी आहे. १ वर्षानन्तर इतरवत् सर्व कर्म करणे आवश्यक आहे; कारण,-" गायी व ब्राह्मणाकरितां मृत, तमेच पतित, याञ्चे १ वर्षानन्तर सर्व और्ध्वदेहिक करावे, " असे हेमाद्रीत पत्रिंशन्मताम्त साङ्गितले आहे. तसे आत्मघातनिमित्तक प्रायश्चित्त व नारायणवलीही तेथे साङ्गितला आहे. तो-" पूर्वी चान्द्रायण करून यथाविधि क्रिया करावी. लोकनिन्देच्या भीती स्तव नारायणबलि करून पिण्ड व उदकक्रिया, नन्तर वृषोत्सर्गादि, एकोद्दिष्ट व सपिण्डी, इत्यादि अनुक्रमें करावी." मदनरत्नाम्त ब्रह्मपुराणाम्त तर-" प्रमादानेही निःशङ्क हो उन, देवप्रेरणेनें जो अकस्मात् चाण्डाल, ब्राह्मण व चोर इत्यादिकान्नी कोठेही मरण पा वल; तर त्याचे दाहोदकदानादि सर्व करावे. ज्या हेतूस्तव तो पतित नाही. त्याच्या शुद्धीकरितां चान्द्रायण व २ किंवा १५ कृच्छ करून त्यास यथाविधि जाळावे. बुद्धिपू. वक मेल्यास ३० कृच्छ्र करावे, " असे साङ्गितले आहे. स्मृतिरत्नावलीत-" दुप्पट प्रायश्चित्त करून, वर्षाच्या पूर्वीही सर्व कर्म करावेम्, " असे साङ्गितलं आहे. नारायण बलीचा विधि मिताक्षरा किंवा निर्णयसिन्धूवरून जाणावा. परदेशी मेला तर मिळाल्याम त्याच्या आस्थीञ्चाच दाह करावा. तदभावीं पालाशविधि करावा. तसेही न झाल्याम दर्भानी तो विधि करावा. " परदेशी मेल्याम अस्थि आणून त्या तुपाने भिजवून दाह करावा. अभावी पाने किंवा शकले अस्थिसङ्ख्याक दाह करून किंवा तितक्याच पलाशस मिधाञ्चा दाह करून आशौच धरावेम्, " असे साङ्गितले आहे. हेमाद्रीत पत्रिंशन्मताम्त .. ३६० दान्नी प्रेताची आकृति करावी, " असे साङ्गितले आहे. मदनरत्नाम्त यज्ञपार्थ ह्मणतो-" मस्तकास ४०, मानेस १०, प्रत्येक हातास ५०, दहा बोटाम्म १०, उरावर ३०, पोटास २०, वृषणास ६, शिश्नास ४, माण्ड्याम्स प्रत्येकी ५०, दोन गुडघ्याम्स ३० व पायाञ्च्या बोटाम्स १०, मिळून ३६० दान्नी प्रेत कल्पून, त्याच्या मस्तकी नारळ, ताळवेवर भोम्पळा, मुखाम्त पञ्चरत्ने, जिव्हेवर केळे, २ डोळ्यांवर २ कवड्या, नाकावर कालक, कानांवर पिम्पळाची पानेम्, केशांवर वडाच्या पारम्ब्या, आन्त्रस्थानी कमळाचे देण्ठ, वसास्थानी माती, तालुस्थानी हरताळ व गन्धक, वीर्यस्थानी पारा, पुरीषस्थानी पितळ, सन्धिस्थानी तिळाञ्चे पीठ, मांसस्थानी यवाञ्चे पीठ, रक्तस्थानी मध, त्वचास्थानी हरिणचर्म, स्तनस्थानी गुञ्जा, नासिकेवर शतपत्र, नाभिस्थानी कमल, २ वृषणम्थानी २ वाङ्गी, शिश्नम्थानी ताम्बडा मुळा, परिधानार्थ १ पट्टवस्त्र, गोमूत्र. गो. मय व गम्ध आणि सर्वोषधि इत्यादि सर्वाङ्गाम लावाव्या." असा प्रेतकल्पनेचा प्र. कार साङ्गितला आहे. क्रियानिबन्धाम्त गरुडपुराणाम्त पूर्वोक्त रीतीन प्रेत कल्पिल्यावर “नाभिस्थानी तूप. कौपीनस्थानीं त्रपु ( कथिल ), स्तनस्थानी २ मोत्य, आणि मस्तकी कुङ्कुम्मलेप करावा,’ असे साङ्गितले आहे. “कोणी मनुष्य दूर देशाम गेला असून, तो जिवम्त आहे किंवा नाही हे समजत नसल्यास, मातापितरान्नी १५ व इतरान्नी १२ वर्षे वाट पाहून, त्याचं आशौचादि धरून उत्तरविधि करावा,” असे मदनरनात साङ्गितले आहे. अशा स्थळी पत्नीपुत्राम्स त्यान्नी पूर्वी आशौच घरले नसल्यास पूर्ण आशौच धरावं लागते; ग्रहण केल्यास आणखी त्रिरात्र धरावम्. “१२ वर्षे वाट पाहन दाहादि कर्तव्य अमल्यास पुत्रादि सर्व सम्बन्ध्याम्स त्रिरात्र,’ असें कल्पतरु मणतो. असा पर्णशरदाह केल्यावर, कदाचित् मृताच्या अस्थी मिळतील तर, त्याविषयी मदनरत्राम्त ब्राह्म. पुराणवचन अमें आहे की,-“पर्णमय प्रेतदाह केल्यावर किंवा पत्रं पूर्वोक्तरीतीनं देहाकृति रचल्यावर अग्नि देउन, तो विझला तर, अथवा त्याचाच देह कदाचित् मिळाल्याम पहिल्यान्तील अर्धदग्ध काष्ठाचं मन्थन करून तदुत्पन्न अग्नीने ते शरीर ना. कावम्. ती काष्ठं न मिळतील तर, त्याची अस्थि वगैरे खोल पाण्यात टाकावी; परन्तु १ वेळ सम्मत्रक पर्णशरदाह झाल्यावर प्रेत मिळाले तरी पुनः सम्मत्रक दाह होत नाही,” अमें साङ्गितले आहे.
-
इहपरलोकाम्त कांहीं उनमफलेच्छने प्रयागाम्त देहत्याग करण्याचा मप्रदाय पता होता. याविषयी पुगणादिकाम्त बरीच उदाहरण मिळतात, व ई श्रुतिप्रमाणगिद्ध आहे । “सितासित साग्ने यत्र सम्. गथे तत्राप्ठतासो दिवमुत्पतन्ति ॥ ये वै तन्वां विसृजति धीरास्ते जनासो अमृतत्वं भ. जन्ते ॥ अर्थ-मिता ह्मणजे भागीरथी आणि अमिता म्हणजे यमुना या दोन नद्या जेथ मिळाल्या आहेत, तथे हाणजे प्रयागाम्त जे मान करतात ते स्वगाला जातात; जे धर्यान दहत्याग करताना ते मोक्षाला जातात. ↩︎