२८ आशौचसंपाते निर्णयः

विश्वास-प्रस्तुतिः

[१९६]

आशौचसम्पाते निर्णयः ।

तत्र पूर्णाशौचस्य द्वितीयाद्यहःसु यदि सजातीयं शावे जननं वा समं न्यूनं वा स्यात् तदा पक्षषट्के पूर्वशेषेण शुद्धिः,

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति ।

इति याज्ञवल्क्योक्तेः । इदं पूर्णाशौचे । त्र्यहाद्यल्पाशौचसम्पाते तूत्तरम् एवेति गौडाःहरदत्तो ऽप्य् एवम् । अन्ये तु तत्रापि पूर्वेण शुद्धिम् आहुः । यदा तु जनने शावं समन्यूनम् अधिकं वा तदा परम् एव कार्यम् । न पूर्वशेषाच् छुद्धिः, अस्पृश्यत्वाधिक्यात्,

शावेन शुध्यते सूतिर् न सूतिः शावशोधिनी ।

इति षट्त्रिंशन्मतात्,

मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् ।

इति कौर्माच् च । षडशीतौ तु,

स्वभावबहुसूतिस् तु न्यूनशावविशोधिनी ।

इति शावस्यापि सूत्या निवृत्तिर् उक्ता । त्र्यहादिशावमध्ये सजातीयं विजातीयं वा दीर्घकालम् उत्तरं चेत् तदा न पूर्वेण शुद्धिर् इत्य् अपरार्कःशुद्धिविवेके तु “शावेन शुध्यते सूतिर्” इत्य् अविशेषात् तत्रापि पूर्वेण शुद्धिर् उक्ता । तन् न, उत्तरस्य कालाधिक्येन बलवत्त्वात्,

यथा त्रिरात्रे ऽपक्रान्ते दशाहं प्रविशेद् यदि ।
आशौचं पुनर् आगच्छेत् तत् समाप्य विशुध्यति ॥

इति यमोक्तेर् इति माधव-हरदत्त-मिताक्षरादयः। इदं “शावेन शुध्यते सूतिर्” अस्य बाधकम्, अन्यथा वचनवैयर्थ्यात् । तेन सूत्या शावाशौचे त्रिरात्रशुद्धाव् अपि शावनिमित्तम् अस्पृश्यत्वं भवत्य् एव, “गरीयो मरणं भवेद्” इति कौर्मात् । पूर्वशेषशुद्धेर् अपवादम् आह शातातपः:

रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे शुचिस् त्र्यहात् ।

इति ।

अत्र रात्रिशब्दो ऽहोरात्रपरः । “अहःशेषे द्वाभ्यां प्रभाते तिसृभिः” इति शङ्खलिखितोक्तेः । अथ यदि दशरात्रसन्निपाते पुराद्यं दशरात्रम् आशौचम् आ नवमाद् दिवसाद् अत ऊर्ध्वं द्विरात्रेण व्युष्टायां त्रिरात्रेणेति बौधायनोक्तेश् चेति पराशर-माधव-हारलता-शुद्धितत्त्वादयगौडा अप्य् एवम् । रात्रिमात्रावशिष्टे इति तु विज्ञानेश्वरादयः । अत्र देशाचारतो व्यवस्था । विशेषो निर्णयसिन्धौ ज्ञेयः । रात्रिशेषे त्रिरात्रादिसम्पाते तु पूर्वशेषेणैव शुद्धिः । पूर्वाशौचान्तर्वर्धितद्वित्रिदिनमध्ये ऽधिकाशौचान्तरपाते तु वर्धितस्याल्पत्वाद् अधिकेनैव शुद्धिः । न च वर्धितस्य पूर्वशेषत्वम् । रात्रिशेषे पूर्वशेषशुद्ध्यपवादे नैमित्तिकावृत्तिन्यायोज्जीवनात्, अपवादाभावे उत्सर्गप्राप्तेः । अपवादान्तरम् आह शङ्खः

मातर्य् अग्रे प्रमीतायाम् अशुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणी ॥

पित्राशौचमध्ये मातृमृतौ पक्षिणीम् अधिकां कुर्याद् इति तुर्यपदार्थः । इदं दशमदिनात् पूर्वं मातृमरणे । दशम्यां रात्रौ तत्प्रभाते वा मातृमरणे द्व्यहत्र्यहयोः पक्षिण्या समुच्चय इत्य् एके । तन् न, सङ्ख्यान्तरापत्त्या त्र्यहादिश्रुतिबाधापत्तेः । अत एवैका देया षड् देया इत्यादिश्रुतसङ्ख्याबाधापत्तेः समुच्चयो निरस्तो द्वादशाध्याये । मातुर् अन्वारोहणे तु न पक्षिणी,

यदा नारी विशेद् अग्निं प्रियस्य प्रियवाञ्छया ।
तदाशौचं विधातव्यं भर्त्राशौचक्रमेण हि ॥

इति पृथ्वीचन्द्रोदये लघुहारीतोक्तेः । [१९७] मातापित्रोर् भर्तुश् चान्यसपिण्डाशौचेन निवृत्तिर् नास्त्य् एव,

श्रुत्या[[त्वा??]] तद् दिनम् आरभ्य दशाहं सूतकी भवेत् ।

इति स्मृतेः । भर्त्राशौचोत्तरम् अन्वारोहणे त्रिरात्रम्,

त्र्यहाशौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शास्त्रतः ।

इत्य् अपरार्के ब्राह्मोक्तेः । सहगमने तु सम्पूर्णम् । युद्धहतस्य सद्यःशौचे ऽन्वारोहणे ब्राह्मोक्तेस् त्रिरात्रत्वात् । भर्तुर् अपि त्र्यहेण पिण्डदानम् । एकचितौ तु सद्यःशौचम् । षडशीतौ

पूर्वाशौचेन या शुद्धिः सूतके मृतके च सा ।
सूतिकाम् अग्निदं हित्वा प्रेतस्य च सुतान् अपि ॥

तथा शावादिमध्ये पुत्रोत्पत्तौ जातकर्मादि कार्यम् एव । मातुः पक्षिणीमध्ये पितुर् एकादशाहवृषोत्सर्गादि कार्यम् एवेति देवयाज्ञिकाः

मूलम्

[१९६]

आशौचसम्पाते निर्णयः ।

तत्र पूर्णाशौचस्य द्वितीयाद्यहःसु यदि सजातीयं शावे जननं वा समं न्यूनं वा स्यात् तदा पक्षषट्के पूर्वशेषेण शुद्धिः,

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति ।

इति याज्ञवल्क्योक्तेः । इदं पूर्णाशौचे । त्र्यहाद्यल्पाशौचसम्पाते तूत्तरम् एवेति गौडाःहरदत्तो ऽप्य् एवम् । अन्ये तु तत्रापि पूर्वेण शुद्धिम् आहुः । यदा तु जनने शावं समन्यूनम् अधिकं वा तदा परम् एव कार्यम् । न पूर्वशेषाच् छुद्धिः, अस्पृश्यत्वाधिक्यात्,

शावेन शुध्यते सूतिर् न सूतिः शावशोधिनी ।

इति षट्त्रिंशन्मतात्,

मरणोत्पत्तियोगे तु गरीयो मरणं भवेत् ।

इति कौर्माच् च । षडशीतौ तु,

स्वभावबहुसूतिस् तु न्यूनशावविशोधिनी ।

इति शावस्यापि सूत्या निवृत्तिर् उक्ता । त्र्यहादिशावमध्ये सजातीयं विजातीयं वा दीर्घकालम् उत्तरं चेत् तदा न पूर्वेण शुद्धिर् इत्य् अपरार्कःशुद्धिविवेके तु “शावेन शुध्यते सूतिर्” इत्य् अविशेषात् तत्रापि पूर्वेण शुद्धिर् उक्ता । तन् न, उत्तरस्य कालाधिक्येन बलवत्त्वात्,

यथा त्रिरात्रे ऽपक्रान्ते दशाहं प्रविशेद् यदि ।
आशौचं पुनर् आगच्छेत् तत् समाप्य विशुध्यति ॥

इति यमोक्तेर् इति माधव-हरदत्त-मिताक्षरादयः। इदं “शावेन शुध्यते सूतिर्” अस्य बाधकम्, अन्यथा वचनवैयर्थ्यात् । तेन सूत्या शावाशौचे त्रिरात्रशुद्धाव् अपि शावनिमित्तम् अस्पृश्यत्वं भवत्य् एव, “गरीयो मरणं भवेद्” इति कौर्मात् । पूर्वशेषशुद्धेर् अपवादम् आह शातातपः:

रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे शुचिस् त्र्यहात् ।

इति ।

अत्र रात्रिशब्दो ऽहोरात्रपरः । “अहःशेषे द्वाभ्यां प्रभाते तिसृभिः” इति शङ्खलिखितोक्तेः । अथ यदि दशरात्रसन्निपाते पुराद्यं दशरात्रम् आशौचम् आ नवमाद् दिवसाद् अत ऊर्ध्वं द्विरात्रेण व्युष्टायां त्रिरात्रेणेति बौधायनोक्तेश् चेति पराशर-माधव-हारलता-शुद्धितत्त्वादयगौडा अप्य् एवम् । रात्रिमात्रावशिष्टे इति तु विज्ञानेश्वरादयः । अत्र देशाचारतो व्यवस्था । विशेषो निर्णयसिन्धौ ज्ञेयः । रात्रिशेषे त्रिरात्रादिसम्पाते तु पूर्वशेषेणैव शुद्धिः । पूर्वाशौचान्तर्वर्धितद्वित्रिदिनमध्ये ऽधिकाशौचान्तरपाते तु वर्धितस्याल्पत्वाद् अधिकेनैव शुद्धिः । न च वर्धितस्य पूर्वशेषत्वम् । रात्रिशेषे पूर्वशेषशुद्ध्यपवादे नैमित्तिकावृत्तिन्यायोज्जीवनात्, अपवादाभावे उत्सर्गप्राप्तेः । अपवादान्तरम् आह शङ्खः

मातर्य् अग्रे प्रमीतायाम् अशुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणी ॥

पित्राशौचमध्ये मातृमृतौ पक्षिणीम् अधिकां कुर्याद् इति तुर्यपदार्थः । इदं दशमदिनात् पूर्वं मातृमरणे । दशम्यां रात्रौ तत्प्रभाते वा मातृमरणे द्व्यहत्र्यहयोः पक्षिण्या समुच्चय इत्य् एकेतन् न, सङ्ख्यान्तरापत्त्या त्र्यहादिश्रुतिबाधापत्तेः । अत एवैका देया षड् देया इत्यादिश्रुतसङ्ख्याबाधापत्तेः समुच्चयो निरस्तो द्वादशाध्याये । मातुर् अन्वारोहणे तु न पक्षिणी,

यदा नारी विशेद् अग्निं प्रियस्य प्रियवाञ्छया ।
तदाशौचं विधातव्यं भर्त्राशौचक्रमेण हि ॥

इति पृथ्वीचन्द्रोदये लघुहारीतोक्तेः । [१९७] मातापित्रोर् भर्तुश् चान्यसपिण्डाशौचेन निवृत्तिर् नास्त्य् एव,

श्रुत्या[[त्वा??]] तद् दिनम् आरभ्य दशाहं सूतकी भवेत् ।

इति स्मृतेः । भर्त्राशौचोत्तरम् अन्वारोहणे त्रिरात्रम्,

त्र्यहाशौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शास्त्रतः ।

इत्य् अपरार्के ब्राह्मोक्तेः । सहगमने तु सम्पूर्णम् । युद्धहतस्य सद्यःशौचे ऽन्वारोहणे ब्राह्मोक्तेस् त्रिरात्रत्वात् । भर्तुर् अपि त्र्यहेण पिण्डदानम् । एकचितौ तु सद्यःशौचम् । षडशीतौ

पूर्वाशौचेन या शुद्धिः सूतके मृतके च सा ।
सूतिकाम् अग्निदं हित्वा प्रेतस्य च सुतान् अपि ॥

तथा शावादिमध्ये पुत्रोत्पत्तौ जातकर्मादि कार्यम् एव । मातुः पक्षिणीमध्ये पितुर् एकादशाहवृषोत्सर्गादि कार्यम् एवेति देवयाज्ञिकाः

मराठी

आतां आशौनसम्पाताचा निर्णय साङ्गतो.

त्याम्त पूर्णाशौचाच्या दुस-या दिवसापासून पुढे सजातीय सूतक किंवा मृतक सम अथवा न्यून आले असेल तर, ३ मामपर्यम्त पूर्वाशौचान्ती शुद्धि होते; कारण,-‘मृतकाम्त जन नाशौच किंवा सूतक व अन्य मृतक आल्यास पूर्वशेषाने शुद्धि होते," अमं याज्ञवल्क्य वचन आहे; परन्तु, हे पूर्णाशौचाचा सम्पात (एकाम्त दुसरे येणे) झाल्याम. “यहादि अ ल्पाशौचसम्पाताम्त तर,- उत्तराशौचानं शुद्धि,” असे गोड ह्मणतात. हरदत्तही अमेय ह्मणतो. अन्य तर, पूर्वाशौचानें शुद्धि माङ्गतात. ज्या वेळी जननाशीचाम्त सम न्यून किंवा अधिक मृतकाशीच येईल तेव्हां ते पूर्ण धरावेम्. पूर्वशेषाने शुद्धि होत नाहीम्; कारण, मृतकाम्त अस्पृश्यत्व अधिक आहे. “मृतका सूतक निवृत्त होते; पण सूनकानें मृतक निवृत्त होत नाही,” अमं पत्रिंशन्मन आहे. “मरण व जनन याञ्चा योग झाल्यास पहिले विशेष आहे,” अम्में कूर्मपुराणवनन आहे. पडशीतीत तर– “विशेषसूतकानें न्यून मृतकाची निवृत्ति होते,” अमी मृतकाची मूतकाने निवृत्ति मां गितली आहे. " ३ दिवम वगरे मृतकाम्त मनातीय अथवा विजातीय अधिक द्वितीय आशौच असेल तर, पहिल्याने शुद्धि होत नाही,” अमें अपरार्क ह्मणतो. शुदिविवे काम्त तर “मृतकार्ने सूतक निवृत्त होते, असा अविशेष आहे ह्मणून, पूर्वोक्त विषयाम्त प हिल्याने शुद्धि होते,” असे साङ्गितले आहे. ते अप्रमाण होय; कारण,-पुढल्याचा काल अधिक असल्यावरून, त्यास सबलत्व आहे. जसे-“प्रथम आलेले त्रिरात्र आशौच चालू असून, त्याम्त जर, दशरात्र येईल तर दशरात्राची समाप्ति होताम्च शुद्ध होतो असें यमाचे वचन आहे.” ह्मणून माधवहरदत्तमिताक्षरादिक हेच योग्य ह्मणतात. हे वचन-“मृतका में सूतकनिवृत्ति होते.” या पत्रिंशन्मतस्थ वाक्याचें बाधक आहे असें जाणावेम्. नाही तर वचनन्यर्थता होईल. यावरून सूतकाम्त मृतक त्रिरात्र धरल्याने शुद्धि होते, तथापि तन्नि मित्तक अस्पृश्यत्व असतेच. कारण,-“मरणनिमित्तक आशौच सूतकाहून श्रेष्ठ आहे,” असें कूर्मपुराणवचन आहे. पूर्वाशौचशेषानें शुद्धीविषयीं अपवाद शातातप साङ्गतो-" अहोरात्र शेष असेल तर २ दिवसान्नी, व १ प्रहर शेष असेल तर ३ दि. वसान्नी शुद्धि होते.” येथे जो रात्रिशब्द आहे तो अहोरात्रपर आहे. “ १ दिवस शेष असल्यास २ दिवसान्नी, सकाळी १ प्रहर शेष असल्यास ३ दिवसान्नी शुद्धि होते," अशी शङ्खलिखितोक्ति आहे. व " जर दशरात्राचा सन्निपात न होतां पहिले दशरात्र ९ दिवस झालेम्, नन्तर २ रात्रि गेल्याने शुद्ध होतो; परन्तु दुसऱ्या रात्रीच्या प्रातःकाळी तिसरे आले तर, त्रिरात्राने शुद्धि होते, " असें बौधायनवचन आहे. ह्मणून पराशर, माधव, हारलता व शुद्धितत्त्वादिक ह्मणतात. गोडही असेम्च ह्मणतात. “१ रात्र मात्र शिल्लक असल्यास पूर्वोक्त व्यवस्था योग्य आहे, " असें तर विज्ञानेश्वरादिक ह्मणतात. येथे देशाचारतः व्यवस्था. यान्तला विशेष निर्णयसिन्धूत जाणावा. १ रात्र शेष राहून त्याम्त अन्य त्रिरात्रादिकाञ्चा जर सम्पात झाला तर, पूर्वशेषानेच शुद्धि. पूर्वाशौचाम्त वाढि वलेल्या २ किंवा ३ दिवसाम्त अधिक दुसरे आल्यास, वाढिवल्याचे अल्पत्व असून, त्याचे आधिक्य आहे ह्मणून द्वितीयान्ती शुद्धि होते. यावरून, वर्धिताचे पूर्वशेषत्व १ रात्रशेषाम्त पूर्वशेष शुद्धीचा अपवाद असतां नैमित्तिक आवृत्ति होत नाहीम्; कारण, तसे करणे न्यायविरुद्ध आहे. अपवादाञ्चा अभाव असल्यास उत्सर्गतः प्राप्ति होईल. या विषयीं दुसरा अपवाद शङ्ख साङ्गतो-” माता प्रथम मेली असून तिच्या आशौचाम्त जर बाप मरेल तर, पितृशेषाने शुद्ध होतो, व मातेचे पक्षिणी धरावें." यावरून, पित्राशौचाम्त जर माता मेली तर १ पक्षिणी अधिक धरावे, असा या वाक्याच्या चतुर्थ चरणाचा अभिप्राय आहे. हे १० दिवसाम्पूर्वी माता मेली तर. " दहाव्या रात्री व ११ वे दिवशी प्रातःकाळी माता मेल्यास २ व ३ दिवसाञ्चा पक्षिणीशी समुच्चय करावा, " असे कित्येक ह्मणतात, ते योग्य नाही. कारण, आशौचदिनसङ्ख्या आली तर व्यहादिक श्रुतीञ्चा बाध होईल ह्मणून, " १ द्यावी, ६ द्याव्या, " इत्यादि वर्णित सङ्ख्याञ्चा बाध येईल ह्मणून मीमांसेच्या १२ व्या अध्यायाम्त जैमिनीने समुच्चयाचा निरास केला आहे. माता अन्वा. रोहण करील तर पक्षिणी नाहीम्; कारण, " जर पतीचे प्रिय करण्याच्या हेतुनें स्त्री अ मिप्रवेश करील तर, तिचे आशौच पतीप्रमाणे धरावेम्, " अशी पृथ्वीचन्द्रोदयाम्त लघु हारीतोक्ति आहे. माता पिता व पति याञ्चे आशौच अन्यसपिण्डाशौचाने निवृत्त होत नाही, कारण, " पूर्वोक्त तिघाञ्चे मरण श्रवण झाल्या दिवसापासून, १० दिवस अशुचि रहा, " असी स्मृति आहे. व " पतीच्या आशौचानन्तर, स्त्रीने अन्वारोहण केल्यास त्रिरात्र, व त्रिदिन असेल तर ते निवृत्त झाल्यावर श्राद्ध प्राप्त होते," असी अपराकाम्त ब्रह्मपुराणोक्ति आहे. जर तिने सहगमन केले असेल तर, आशौच सम्पूर्ण धरावेम्; कारण “युद्धहताचें तत्काल शौच, व अन्वारोहणी त्रिरात्र” ब्राह्मवचनाने प्राप्त होते. पतीने पिण्डदानही ३ दिवसान्नी. एक चिति असेल तर तत्काल शुद्धि. षडशीतीत-“सूतकाम्त व मृतकाम्त जी पूर्वाशौचानं शुद्धि होते ती बाळन्तीण व अग्निदानादिक क्रिया करणारा, व मृताचे पुत्र यांवाञ्चून होते. तमेम्च मृतकाम्त पुत्र झाल्यास तत्सम्बन्धि जातकर्मादिक आशी चान्तच करावें.” “मातेच्या पक्षिणीत पित्यानें एकादशाहिक वृपोत्सर्गादिक करावें,” अमें देवयाज्ञिक ह्मणतो.