विश्वास-प्रस्तुतिः
अथातिक्रान्ताशौचम् ।
तत्राशौचमध्ये ज्ञाते तच्छेषमात्रम्, “नाधिकं प्रोषिते कालशेषः स्यात्” इति याज्ञवल्क्योक्तेः । प्रसवे अतिक्रान्ताशौचं नास्त्य् एव,
नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्व् अपि ।
इति देवलोक्तेः । तत्रापि पितुः स्नानं भवत्य् एव । अशौचोत्तरं ज्ञाते तु वृद्धवसिष्ठः ।
मासत्रये त्रिरात्रं स्यात् षण्मासे पक्षिणी तथा ।
अहस् तु नवमाद् अर्वाग् ऊर्ध्वं स्नानेन शुध्यति ॥
इदं पूर्णजात्याशौचविषये एव, न तु वयोवस्थानिमित्ते । “अतिक्रान्ते दशाहे तु” इति मनूक्तेः । यत् तु माधवीये देवलः,
आ त्रिपक्षात् त्रिरात्रं स्यात् षण्मासात् पक्षिणी ततः ।
परम् एकाहम् आ वर्षाद् ऊर्ध्वं स्नातो विशुध्यति ॥
इति, तद् अनापदि ज्ञेयम् । इदं चैकदेशे । देशान्तरे तु स्नानमात्रम्,
देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ ।
सद्यः स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः ॥
इति परासरोक्तेर् इति विज्ञानेश्वरः। माधवीये विष्णुस् तु,
अर्वाक् त्रिपक्षं त्रिनिशं षण्मासाच् च दिवानिशम् ।
अहः संवत्सराद् अर्वाग् देशान्तरमृतेष्व् अपि ॥
इत्य् आह । अत्रापदनापद्भ्यां व्यवस्था । देशान्तरं त्व् आह बृहस्पतिः ।
महानद्यन्तरं यत्र गिरिर् वा व्यवधायकः ।
वाचो यत्र विभिद्यन्ते तद् देशान्तरम् उच्यते ॥
इति । वाचो देशभाषाः तद्भेद उभयशेष इति द्वाव् एव पक्षौ, वाशब्दस्यैकत्वात् । मातापित्रोस् तु सर्वत्र पूर्णम् एवाशौचम्,
पितरौ चेन् मृतौ स्यातां दूरस्थो ऽपि हि पुत्रकः ।
श्रुत्वा तद् दिनम् आरभ्य दशाहं सूतकी भवेत् ॥
इति पारस्करोक्तेः । स्त्रीपुंसयोः परस्परं सपत्न्योश् चैवम् इति स्मृत्यर्थसारे । सापत्नमातुस् तु त्रिरात्रम् । व्याघ्रः ।
तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ॥
इति ।
मूलम्

मराठी
आतां अतिक्रान्ताशीच साङ्गतो.
त्याचे सर्व दिवस होण्यापूर्वी ते समजल्यास बाकी राहिललें धरावम्. कारण,-" देशान्तरीय मृताशौच आपल्यास जेवढे दिवम धरणे असेल, त्याम्त समजल्यास शेप धरावें," अशी या ज्ञवल्क्योक्ति आहे. जननाशौच अतिक्राम्त धरूं नये; कारण,-“प्रसवाशीच त्याचे दिवस झाल्यावर धरूं नये,” अशी देवलोक्ति आहे. पित्यास मात्र देशान्तरी व कालान्तरी अ. पत्यजन्मश्रवणनिमित्तक स्नान अवश्य आहे. मृतकाशीच त्याचे दिवम माल्यावर सम जल्यास वृद्धवसिष्ठ ह्मणतो-" ३ मासपर्यम्त त्रिरात्र, ६ मासपर्यम्त पक्षिणी, ९ मासप यम्त १ दिवम, नन्तर स्नानानें शुद्ध." हे वचन पूर्ण नात्याशीचाविषयीम्च आहे. वयोवस्था निमित्तविषयकास नाहीम्; कारण,-" दशाह अतिक्राम्त झाल्यावर धरूं नये," अशी मनूक्ति आहे. जे माषवीयाम्त देवलवचन आहे की,-“दीडमासपर्यम्त त्रिरात्र, ६ पर्यम्त पक्षिणी, १ वर्षपर्यम्त १ दिक्स, नन्तर बानाने शुद्धि, " तें भापत्काल नसतां ग्राह्य आहे. हे सर्व एक देशान्त. देशान्तराम्त स्नानमात्र; कारण,-” देशान्तरी मृताचेम्, व नपुंसक, वैखानस, सन्न्यासी याञ्चें व गर्भस्रावाचे अशौच नाही. गोत्रज स्नानाने शुद्ध होतात, अशी पराशरोक्ति आहे," असें विज्ञानेश्वर ह्मणतो. माधवीयाम्त विष्णु म. णतो-" दीडमासापूर्वी त्रिरात्र, ६ मासाम्पूर्वी पक्षिणी व एक वर्षापूर्वी १ दिवस, देशान्तर असले तरी धरावेम्. " येथे आपत्ति व अनापत्ति पाहून व्यवस्था ठेवावी. देशान्तरलक्षण बृहस्पति साङ्गतो-" महानदीचे किंवा पर्वताचें व्यवधान, व भाषाभेद असेल त्यास देशां तर ह्मणावेम्. " भाषाञ्चा भेद किंवा उभयशेष हे दोनच पक्ष आहेत. मातापितराञ्चे स र्वत्र पूर्णाशौच आहे; कारण,-" ते देशान्तरी मेले तथापि पुत्राने श्रवण केल्यापासून १० दिवस आशौच धरावें;" असी पारस्करोक्ति आहे. “ स्त्रीपुरुषाम्स व सवतीम्स एकमे काञ्चे असेञ्च, " असें स्मृत्यर्थसाराम्त साङ्गितले आहे. सावत्र मातेचे त्रिरात्र.