२५ दासाशौचम्

विश्वास-प्रस्तुतिः

[१९३]

अथ दासाशौचम् ।

तत्र स्वसाद्य् उत्पन्नस्य दासस्य स्वसपिण्डमृतौ स्नानमात्रात् स्वामिकार्ये स्पृश्यत्वम् । भक्तदासस्य त्र्यहोर्ध्वं, सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिर् इति मिताक्षरायां स्मृत्यन्तरात्,

मूल्यकर्मकराः शूद्रदासीदासास् तथैव च ।
स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥

इति शातातपोक्तेश् च । अत्रैव दत्तादित्रयोदशदासानां स्वाम्य् आशौचसमसङ्ख्यादिनोर्ध्वं स्वस्य मासाद्याशौचे सत्य् अपि स्वामिकार्ये स्पृश्यता,

दासान्तेवासिमृतकाः शिष्याश् चैकत्रवासिनः ।
स्वामितुल्येन शौचेन शुध्यति मृतसूतके ॥

इति बृहस्पतिस्मृतेः । स्वस्यादृष्टार्थकार्ये मासाद्याशौचं सर्वेषाम् अस्त्य् एव । एवं दास्या अपि । प्रसूतौ तु तस्याः स्वामिकार्ये ऽपि मासमात्रम्,

दासी दासश् च सर्वो वै यस्य वर्णस्य यो भवेत् ।
तद्वर्णस्य भवेच् छौचं दास्या मासस् तु सूतकम् ॥

इत्य् अङ्गिरसोक्तेः । षडशीताव् अपि ।

स्वामिशौचेन दासाद्याः स्पृश्या मासात् तु कर्मसु ।
योग्याः स्युर् मासतो दासी सूती चेत् स्पृश्यताम् इयात् ॥

दासास् तु नारदोक्ताः ।

गृहे जातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धप्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥

वडवा दासी तल्लोभाद् दासो जात इत्य् अर्थः । दासादेः स्वामितत्सपिण्डमरणे तु विष्णुः

पत्नीनां दासानाम् आनुलोम्येन स्वामितुल्यम् आशौचम् । मृते स्वामिन्य् आत्मीयम् ।

इति । प्रतिलोमदासादेर् नाशौचम्, “वर्णानाम् आनुलोम्येन (दास्यं न) प्रतिलोम(तः)” इति याज्ञवल्क्योक्तेः । शास्त्रातिक्रमेण दास्यकरणे ऽपि नाशौचम्, “आनुलोम्ये नाशौचम्” इति विष्णूक्तेः ।1

मूलम्

मराठी

आतां सेवकाचे आशौच साङ्गतो.

त्याम्त खदासीच्या पुत्रास त्याचे सपिण्ड मेल्यास स्नान केल्यावर यजमानाचे काम कर ण्यास तो शुद्ध होतो. भक्तदासास2 ३ दिवस; कारण, “गर्भदास तत्काल व भक्तदास ३ दि वसान्नी शुद्ध होतो, " असें मिताक्षरत अन्य स्मृतिवचन आहे.

“मजूरीने काम करणारे व शूद्रजातीय दास दासी हे स्नान, शरीरसंस्कार व गृहकर्म यांविषयीं दूषित नाहीत, " असे शातातपवचन आहे. येथेच दत्तकादि १३ दासाम्स यजमानाच्या आशौचाशी तुल्य दि वसान्नन्तर, आपले १ महिना आशौच असतांही स्वामिकायर्याविषयी स्पृश्यता आहे; कारण, “दास, शिष्य, पगार घेणारे व एकत्र वासकर्ते शिष्य, ते सूतक किंवा मृतक यजमाना. बरोबर धरल्याने शुद्ध होतात, " अशी बृहस्पतिस्मृति आहे. यावरून, स्वामिकावि षयी शुद्धि असली तरी, स्वतःच्या व्रतादि कर्माविषयी आशौच आहे. असेच दासीसही समजावेम्. ती प्रसूत झाल्यास स्वामिकार्यासहि १ मासपर्यम्त अशुचि. कारण, “दास, दासी हे ज्या वर्णाचा जो असेल त्यास यजमानाचे आशौच असते, परन्तु दासीस सूतक १ मास,” अशी आङ्गिरसोक्ति आहे. पडशीतीन्तही-” यजमानाशौचाने दासादिक पूर्वोक्त कर्मास स्पर्शार्ह होतात. परन्तु दासी प्रसूत झाल्यास १ मासानें शुद्ध होते " असे साङ्गितले आहे. दासाञ्ची लक्षणे नारदान्नी साङ्गितली आहेत. ती,-” स्वगृहीं झालेला, विकत घेतलेला, आकस्मिक मिळालेला, हिशाने आलेला, सङ्कटी पाळलेला, यजमानाने स्वाधीन ठेवलेला, ऋणमुक्त केलेला, युद्धी व घृती जिङ्कलेला, शरणागत, देशान्तरी जाण्यास निघाला असतां ठेवून घेतलेला, भक्तदास व स्वदासीच्या लोभाने झालेला दास, स्वविक्रय कर णारा असे १५ प्रकारचे दास साङ्गितले आहेत. " पूर्वोक्त दासाम्स त्याञ्चा यजमान व त त्सपिण्ड मेल्यास, विष्णु ह्मणतो-" दास व त्याञ्च्या स्त्रियाम्स यजमानतुल्य आशौच. यज मान मेल्यास स्ववर्णविहित आशौच आहे." प्रतिलोमदासाम्स ( यजमानाहून समवर्णाच्या दासाम्स ) आशौच नाही, कारण, " वर्णानुलोम्याने आशौच आहे. प्रतिलोमाम्स नाही. अ र्थात् यजमानाहून न्यूनवर्ण दासास आहे, उत्तमाम्स नाहीम्, " अशी याज्ञवल्क्योक्ति आहे. शास्त्रातिक्रम करून दास्य केले तरी आशौच नाहीम्; कारण-" आनुलोम्यास आशौच नाही," अशी विष्णूक्ति आहे.

  1. प् अद्द्स्- सर्वाशौचं रजोदर्शनं च रात्रौ जातं चेत् तदा रात्रिं त्रिभागां क्र्त्वाद्ये भागद्वये पूर्वं दिनं अन्त्ये तूत्तरं यद् वा प्राद् अर्धरात्रात् प्राग् वासूर्योदयात् पूर्वं दिनं अनन्तरं तु[तू?]त्तरम् इति पक्षत्रयं **मिताक्षराद्यैर् उक्तम् **। अत्र देशाचारतो व्यवस्था । ↩︎ ↩︎

  2. भक्तदास ह्मणजे - पिढीजादा चाकर नसून, रोजमुर्याच्या नोकरीस राहिलेला. ↩︎