२२ मृताशौचम्

विश्वास-प्रस्तुतिः

[१७७]

अथ मृताशौचम् ।

हारीतः: “जाते1 मृते मृते जाते वा सपिण्डानां दशाहम्” । नालच्छेदोर्ध्वं मृत इत्य् अर्थः, “नाड्यां छिन्नायाम् आशौचम्” इति तेनैवोक्तेः । नालच्छेदात् पूर्वं मातुर् नास्पृश्यतेति शुद्धितत्त्वे । नालच्छेदात् पूर्वं मृतौ तु बृहन्मनुः

जीवन् जातो यदि ततो मृतः सूतक एव तु ।
सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥

शावनिमित्तं स्नानमात्रम्, “प्राङ् नामकरणात् सद्यः शौचम्” इति शङ्खोक्तेः । नामकरणं चौलं च कालोपलक्षणम् इति मेधातिथि-हरदत्त-गौडादयः । नेति माधवादयः । नामोत्तरं दन्तोत्पत्तेः प्राक् दाहे सति सपिण्डानाम् अहः । दाहाभावे स्नानमात्रम्, “आ दन्तजन्मनः सद्यः” इति याज्ञवल्क्योक्तेः । दन्तोर्ध्वं त्रिवर्षात् प्राक् चूडाभावे ऽहः । अत्राग्निदाने त्र्यह इति माधवः । त्रिवर्षात् प्राग् ऊर्ध्वं वा सचूडे त्र्यह एव । अब्दोर्ध्वं त्व् अचूडे ऽपि त्र्यहः । इदं सपिण्डानां पित्रोस् तु दशाहोर्ध्वं मृते बाले सर्वत्र त्रिरात्रम् । बालानाम् अजातदन्तानां त्रिरात्रेण शुद्धिर् इति कश्यपोक्तेः,

बैजिकाद् अभिसम्बन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ।

इति मनूक्तेश् चेति मिताक्षरा-माधवादयःशुद्धितत्त्वादयो गौडास् त्व् एतत् त्रिरात्रं शूद्रपरं द्विजानां त्व् अजातदन्ते एकाहः । जातदन्ते त्रिरात्रम्,

अजातदन्तमरणे पित्रोर् एकाहम् इष्यते ।
दन्तजाते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ॥

इति कौर्मात्,

अनूढानां तु कन्यानां तथा वै शूद्रजन्मनाम् ।

इति त्र्यहानुवृत्तौ शङ्खोक्तेः,

त्रिरात्रं तु भवेच् छूद्रे षण्मासे ऽपि शिशौ मृते ।

इति मत्स्यसूक्ताच् च । जातदन्ते शूद्रे तु पञ्चाहः । यथाह अङ्गिराः

शूद्रे त्रिवर्षसूने तु मृते शुद्धिस् तु पञ्चभिः ।
अत ऊर्ध्वं मृते शूद्रे द्वादशाहो विधीयते ॥
षड्वर्षान्तम् अतीतो यः शूद्रः सम्म्रियते यदि ।
मासिकं [१७८] तु भवेच् छौचम्

इत्य् आङ्गिरसभाषितम् ॥

तेनानूढभार्ये निर्गुणे शूद्रे मृते त्रिवर्षोर्ध्वं द्वादशाहः । षडब्दोर्ध्वं मासः । यत् तु, “अनूढभार्यः शूद्रस् तु” इति शङ्खोक्तं षोडशाब्दोर्ध्वं मासाशौचम्, तत् सगुणसच्छूद्रपरम् । कृतोद्वाहे तु सर्वत्र षडब्दात् प्राग् अपि मासः । यत् तु, “तुल्यं वयसि सर्वेषाम्” इति व्याघ्रोक्तेः शूद्रे न्यूनाशौचं तद् दाक्षिणात्यपरम्2 । अन्यदेशे प्रागुक्तकौर्मोक्ता व्यवस्थेत्य् आहुः । तत् “तुल्यं वयसि सर्वेषाम्” इत्य् एतद्विरोधाच् छिष्टविगानाच् चाङ्गिरसादीनि नादर्तव्यानीति विज्ञानेश्वर-मदनपारिजातादयः । षोडशाब्दमध्ये विवाहाभावे त्रिरात्रम् । तत्सत्त्वे मासः । ऊर्ध्वं विवाहाभावे ऽपि मास इत्य् अपरार्क-मदनपालादयः । कन्यानां तु चौलात् प्राक् मृतौ स्नानम्,

अचूडायां तु कन्यायां सद्यः शौचं विधीयते ।

इत्य् आपस्तम्बोक्तेः । इदं त्रिपुरुषमध्ये । चौलोत्तरं वाग्दानात् प्राग् एकाहः ।

अविशेषेण वर्णानाम् अर्वाक् संस्कारकर्मणः ।
त्रिरात्रात् तु भवेच् छुद्धिः कन्यास्व् अह्ना विधीयते ॥

इत्य् अङ्गिरसा त्रिरात्रविषये अहोविधानात्, “अहस् त्व् अदत्तकन्यासु” इत्य् उक्तेश् च, इदं त्रिपुरुषमध्ये, “अप्रत्तानां स्त्रीणां त्रिपुरुषी विज्ञायते” इति वसिष्ठ्ओक्तेः । गौडास् त्व् इदं वाग्दानोत्तरम्,

अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम्

इति कौर्मोक्तेर् इत्य् आहुः । वाग्दानोत्तरं प्राक् विवाहान् मृतौ भर्तृकुले पितृकुले च सप्तपुरुषावधि त्रिरात्रम्,

अवारिपूर्वं प्रत्ता तु या नैव प्रतिपादिता ।
असंस्कृता तु सा ज्ञेया त्रिरात्रम् उभयोः स्मृतम् ॥

इति मरीच्य्उक्तेः ।

मूलम्

मराठी

यानन्तर मृताशौच साङ्गतो.

याविषयीं हारीत ह्मणतो-" अपत्य जन्मून मेलें अथवा पोटाम्त मरून, जन्मले तर, सपिण्डाम्स १० दिवस अशौच. प्रथम पक्षी नालच्छेदानन्तर मेल्यास दहा दिवस; कारण, नालच्छेदापूर्वी अशौच3 नाही. " असे त्यानेच मटले आहे. " नालच्छेदापूर्वी मातेस अस्पृ. श्यता नाही," असें शुद्धितत्त्वाम्त साङ्गितले आहे.

नालच्छेदापूर्वी मेल्यास बृहन्मनु मण तो - “मूल जीवम्त जन्मून, नालच्छेदापूर्वी मेल्यास तत्सम्बन्धी सुतक, मातेस सर्व ( १० दि वस ), व पित्रादिकाम्स त्रिरात्र, व मृतकनिमित्तक केवल स्नानन करावें.” कारण " नाम करणापूर्वी मूल मेल्यास सद्यः स्नानाने शुद्ध होतात," अमें शङ्खवचन आहे अणून. " नामकरण हे चौलकालाचें उपलक्षण आहे, ’’ असें मेधातिथि हरदत्त गौड इत्यादि ह्मणतात. “हे बरोबर नाहीम्, ’’ असं माधवादि ह्मणतात. नामकरणोत्तर दाम्त येण्या पूर्वी मृतमुलाचा दाह केल्यास सापण्डाम्स १ दिवस आशीच, दाह न केल्यास स्नान; का. रण, “दाम्त येण्यापूर्वी सद्यः शुद्धि होते,” असी याज्ञवल्क्याची उक्ति आहे. दाम्त आल्या. वर ३ वर्षापूर्वी चौल न केल्यास १ दिवस. येथे-” अग्निदान केल्यास त्रिदिन," असे माधव ह्मणतो. तीन वर्षाम्पूर्वी किंवा नन्तर चौल केलेल्याचे ३ दिवस. १ वर्षानन्तर चौल न केलेल्याचेही ३ दिवस हे सपिण्डाम्स मात्र. मातापितराम्स तर दहा दिवसान्नन्तर दाम्त येण्यापूर्वी मूल मेल्यास सर्वत्र ३ दिवस. “ दम्त न आलेल्यान्नें त्रिगत्राने निवृत्त होने, " असी कश्यपोक्ति आहे, व “बैनिक सम्बन्धास्तव ३ दिवस आशौच धरावम्, " अमी मनूक्ति आहे ह्मणून मिताक्षरामाधवादिक पूर्वोक्त मिद्ध करिनान. शुद्धितस्वादि गोड नर, “हे त्रिरात्राशौच शूद्रपर आहे. द्विनाम्स दाम्त न आलेल्या एकाह व आलेल्या, त्रिरात्र; कारण, अजातदम्त अपत्यमरणी मातापितराम्स १ दिवस, व जातदन्तमरणी त्रि. रात्र आहे. हे जर निर्गुण अमनील तर " अमें कूर्मपुराणवचन आहे; व " अवि. वाहित मुलीचे शूद्राम्स ३ दिवस, ’’ असे त्र्यहाच्या अनुवृत्तीविषयी शङ्खवचन आहे. " ६ महिन्याञ्चेही अपत्य मेल्यास शूद्रास त्रिरात्र आहे, ’’ अमें मत्स्यपुराणवचन आहे. ह्मणून दन्तोत्पत्तीनन्तर ५ दिवस याविषयी अङ्गिरा ह्मणतों-” शूद्राम ३ वर्षाम्पूर्वी मेल्याम ५ दिवसान्नी, व नन्तर ६ वर्षपर्यम्त १२ दिवसान्नी शुद्धि होते. यानन्तर मेल्यास १ मास आ शौच आहे." यावरून, अविवाहित स्त्री, निगुण शूद्र ३ वर्षांवर मेल्यास १२ दिवस, ६ व र्षांवर १ महिना जाणावे. जे “अविवाहित शूद्र” अमें शङ्खाने मटल्यावरून १६ वर्षा नन्तर मेल्यास १ मास साङ्गितलें ने सगुण व मच्छूद्रपर आहे. लग्न झालेला ६ वर्षां पूर्वी मेल्यास, १ मास में " माम्स बरोबरीच्या वयाम्त समान आहे. असें व्याघ्रवचन असल्यावरून, शूद्रास, १ मासाहून कमी आशौच साङ्गितले आहे. ते दक्षिण देशापुरतेम्, अन्य देशाम्त पूर्वोक्त कूर्मवचनाम्त साङ्गितलेली व्यवस्था जाणावी, " असें ह्मणतात. तें “तुल्यं वयसि” यांसी विरोध आहे व शिष्टविचारावर अवलम्बून आहे ह्मणून-आङ्गिरसादिक वचनाचा आदर करूं नये,’ असें विज्ञानेश्वर मदनपारिजातादि ह्मणतात. “ १ वर्षाम्त लग्न न झाल्यास ३ रात्र व झाल्यास १ मास व सोळा वर्षान्नन्तर विवाह न झाला तरी १ मास आशौच धरावेम्, " असें अपराकमदनपालादि ह्मणतात. मुलीचे त्या चौलापूर्वी मेल्यास स्नान मात्र आहे. कारण, " चौल न झालेली कन्या मेल्यास सद्यःशुद्धि” असी आपस्तम्बोक्ति आहे. हे त्रिपुरुष सपिण्डाम्त जाणावेम्. मुलीचे चौलानन्तर वाग्दानापूर्वी १ दिवस धरावेम्. कारण, " वर्णविशेषावाञ्चून विवाहापूर्वी पुत्राची ३ दिवसान्नी व कन्या मरणी १ दिवसाने शुद्धि होते, " असें अङ्गिराने त्रिरात्रस्थानी कन्येविषयीं एकाहाचें विधान केले आहे. व " न दिलेल्या (विवाह न झालेल्या ) कन्येचे १ दिवस, " असे वचन आहे ह्मणून हे त्रिपुरुषाम्त जाणावेम्. कारण “अविवाहित स्त्रियाम्स त्रिपुरुषी सम्बम्ध आहे,” असें वसिष्ठवचन आहे. गोड तर, हे वाग्दानानन्तर घेण्यास योग्य आहे, कारण-" अ दत्त स्त्रियाञ्चे सापिण्ड्य पुरुषपर्यम्त आहे, " असें कूर्मपुराणवचन आहे. ह्मणून एकाह असें ह्मणतात. वाग्दानानन्तर, विवाहापूर्वी कन्या मेल्यास भर्तृपितृकुली ७ पुरुषपर्यम्त त्रिरात्र आहे. कारण “ जी वाचेनें देऊन. विधिपूर्वक दिली नाही ती असंस्कृत तन्मरणी उभयकुली त्रिरात्र, " असें मरीचिवचन आहे.

  1. प्- जात ↩︎ ↩︎

  2. प्- दक्षिणात् परम् ↩︎ ↩︎

  3. याविषयी यावन्न छिद्यते नालं तावन्नाप्नोति सूतकम् ॥ छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते ॥१॥ [ मा० स्कम्० १ ० १२ श्लो. १४ टीका पहा. ] ↩︎