२१ प्रसवाशौचम्

विश्वास-प्रस्तुतिः

[१७६]

अथ प्रसवाशौचम् ।

संवर्तः

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।

पुत्रपदात् कन्यापि । यत् तु हारलतायाम्

सूतके तु मुखं दृष्ट्वा जातस्य जनकस् ततः ।
कृत्वा सचैलं स्नानं तु शूद्रो भवति तत्क्षणात् ॥

ब्राह्मोक्तेर् मुखदर्शनोत्तरं पुनः स्नानपरत्वम् उक्तं तत् परास्तम्1 । मूलैक्येन दृशेर् ज्ञानपरत्वात् । गौडास् तु सापत्नमातुः प्राक् स्नानाद् अस्पृश्यत्वम् । अन्याश् च मातरस् तद्वत् तद्गृहं न व्रजन्ति चेद् इति ब्राह्मणाद् इत्य् आहुः । अङ्गिराः

नाशौचं सूतके पुंसः संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥

संसर्गो मैथुनं शयनासनादिकम् इति माधवः । स्पर्श इति गौडाः । तन् न,

संस्पर्शे सूतिकायास् तु स्नानम् एव विधीयते ।

इत्य् अङ्गिरसोक्तेः । एवकाराद् बालस्पर्शे न दोषः । व्यासः

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥

अत्र विशेषः षष्ठीपूजादि च प्राग् उक्तम् । प्रयोगपारिजाते तु पुम्प्रसवे2 दशाहः कन्याप्रसवे तु त्र्यहः,

स्त्रीजन्मनि सपिण्डश् च सोदकश् च त्र्यहाच् छुचिः ।
स्त्रीषु त्रिपुरुषं ज्ञेयं सपिण्डत्वं द्विजोत्तमाः ॥

इत्य् अग्निस्मृतेर् इत्य् आह । गौडास् तु वाग्दानोत्तरं कानीनकन्याविषयं चैतद् इत्य् आहुः ।

मूलम्

[१७६]

अथ प्रसवाशौचम् ।

संवर्तः

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।

पुत्रपदात् कन्यापि । यत् तु हारलतायाम्

सूतके तु मुखं दृष्ट्वा जातस्य जनकस् ततः ।
कृत्वा सचैलं स्नानं तु शूद्रो भवति तत्क्षणात् ॥

ब्राह्मोक्तेर् मुखदर्शनोत्तरं पुनः स्नानपरत्वम् उक्तं तत् परास्तम्1 । मूलैक्येन दृशेर् ज्ञानपरत्वात् । गौडास् तु सापत्नमातुः प्राक् स्नानाद् अस्पृश्यत्वम् । अन्याश् च मातरस् तद्वत् तद्गृहं न व्रजन्ति चेद् इति ब्राह्मणाद् इत्य् आहुः । अङ्गिराः

नाशौचं सूतके पुंसः संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥

संसर्गो मैथुनं शयनासनादिकम् इति माधवः । स्पर्श इति गौडाःतन् न,

संस्पर्शे सूतिकायास् तु स्नानम् एव विधीयते ।

इत्य् अङ्गिरसोक्तेः । एवकाराद् बालस्पर्शे न दोषः । व्यासः

प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥

अत्र विशेषः षष्ठीपूजादि च प्राग् उक्तम् । प्रयोगपारिजाते तु पुम्प्रसवे2 दशाहः कन्याप्रसवे तु त्र्यहः,

स्त्रीजन्मनि सपिण्डश् च सोदकश् च त्र्यहाच् छुचिः ।
स्त्रीषु त्रिपुरुषं ज्ञेयं सपिण्डत्वं द्विजोत्तमाः ॥

इत्य् अग्निस्मृतेर् इत्य् आह । गौडास् तु वाग्दानोत्तरं कानीनकन्याविषयं चैतद् इत्य् आहुः ।

मराठी

यानन्तर जननाशौच साङ्गतो.

याविषयी संवर्त प्रणतो-“पुत्र झाल्यास पित्यास सचैल स्नान.” येथे पुत्रपद आहे ह्मणून, कन्येचेंहि ग्रहण होतेम्. में हारलतेत साङ्गितले आहे की, “सूतकाम्त जन्मलेल्या पु. त्राचे मुख बापाने पाहून, सचैल स्नान केल्यावर, तत्क्षणीं तो शुद्ध होतो,” असे ब्राम पुराणवचन आहे ह्मणून, पुत्रमुग्वदर्शनानन्तर पुनः स्नानपरत्व होते ते खण्डित केले. कारण, मूलवाक्याचे ऐक्य करून पाहतां दर्शन शब्द पुत्रनन्मज्ञानपर आहे, अवलोकनपर नाही, असे सिद्ध होते. याविषयी गोड तर-‘सापत्न मातेस स्नानापूर्वी अस्पृश्यत्व आहे का रण ‘अन्यमाता तद्वत त्याच्या गृहाम न जातील तर. अस्पृश्य होतात.’ या ब्राप्रवचना वरून, सिद्ध होते" असे ह्मणतात. अङ्गिरा ह्मणतो-“जर, खियाञ्चा समर्ग न करील, तर पुरुषास सूतकाम्त आशौच नाही. कारण, अशुचित्व ते रनाम (रक्तास) आहे, व तं पु. रुषास नाही.” येथे सम्मर्गशब्दानेम्, मैथुनाचे ग्रहण करावम्. “एकत्र शयन व बमणे हा संसर्ग.” असे माधव ह्मणतो. “जे सम्मर्ग ह्मणने स्पर्श," असं गोड ह्मणतात ते योग्य नाही. कारण-“बाळन्तिणीचा स्पर्श झाल्यास स्नानच करावं,” असी आङ्गिरसोक्ति आहे. ह्मणून, स्पर्शदोष स्नानाने मुक्त होतो. तेथे आशौचसम्बम्ध नाही. पूर्वोक्त वचनान्त, “स्मानमेव” असा एवकार आहे; ह्मणून, बाळन्तिणीच्या स्पर्शाचाच दोष, बालम्पर्शदोष नाहीम्; अम्मं सिद्ध होते. व्यास ह्मणतात-“सुतकाम्त पुत्र आल्याम, प्रथम ६।१० व्या दिवशी आ शौचदोष नाही.” एतत्सम्बन्धी विशेष व षष्ठीपूनादि पूर्वी साङ्गितले आहे. प्रयोगपारिजा ताम्त " मुलगा झाल्यास १०, कन्या माल्यास ३ दिवम आशौच आहे." कारण, “कन्या माल्यास सपिण्ड व सोदक ३ दिवसान्नी, शुद्ध होतात. हे स्त्रीविषयक सपिण्डत्व ३ पुरुषप यम्त जाणावें,” असी अनिस्मृति आहे, ह्मणून, पूर्ववत् धरावे असे सणतात. गौर तर, “हे वचन, वाग्दानानन्तर, विवाहापूर्वी प्रसूत होऊन, कन्या झाल्यास, त्रिदिनाशौचविष. यक आहे,” असें ह्मणतात.


  1. प्- स्नानपरत्वं परास्तं ↩︎ ↩︎

  2. प्- पुंसप्रसवे ↩︎ ↩︎