विश्वास-प्रस्तुतिः
अथाशौचम्
रामकृष्णतनूजेन कमलाकरश्रमणा शूद्रधर्मान् निरूप्याथ तदाशौचं निरूप्यते
तत्र यद्य् अप्य् अस्मत्कृते **निर्णयसिन्धौ **सर्वम् उक्तम् अस्ति, तथापि तत्रत्यम् एव सङ्क्षेपेण शूद्राणां किञ्चिद् उच्यते । मूलं तु तत्रैव ज्ञेयम् ।
मूलम्

मराठी
रामकृष्णमाचा पुत्र भी कमलाकरभट्ट धर्म निरुपण करून सांप्रत त्यांचे आशय निरूपण करितो.
विश्वास-प्रस्तुतिः
तत्रादौ गर्भाशौचम् उच्यते ।
तत्र यद्यप्यस्मत्कृते निर्णयसिन्धौ सर्वमुक्तमस्ति तथापि तत्रत्यमेव सङ्क्षेपेण शूद्राणां किञ्चिदुच्यते । मूलं तु तत्रैव ज्ञेयम् ॥ आचतुर्थमासान्तं स्रावः । पञ्चमषष्ठयोः पातः । सप्तममासादि पूर्णप्रसवः । मनुः ।
रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
इदं चतुर्थपरं त्रिमासमध्ये रजस्वलात्वेनैव त्रिरात्रं सिद्धम् । मरीचिः ।
गर्भस्रुत्या यथामासम् अचिरे तूत्तमे त्रयः ।
राजन्ये तु चतूरात्रं वैश्ये पञ्चाहम् एव च ॥
अष्टाहेन तु शूद्रस्य शुद्धिर् एषा प्रकीर्तिता ॥
अचिरे त्रिमासमध्ये । उत्तमे ब्राह्मणे । अस्यार्थः स्मृतिकौमुद्यां । गर्भस्रावे त्रिमासोर्ध्वं चतुर्थमाससमं दिनचतुष्टयं सर्ववर्णसमम् । मासत्रयमध्ये त्रिदिनम् अपि सर्ववर्णसमम् । ब्राह्मणे त्रिमासमध्ये त्रिदिनान्ते त्रयो दिवसा अधिकाः । त्रय इत्य् अस्यावृत्तिर् एकशेषश् च तेन त्रिमासमध्ये त्रिरात्रान्ते विप्रे त्रिदिनं क्षत्रियादौ चतुरहादि । केचित् तु, प्रथमादिमासेष्व् अपि एकरात्राद्यनन्तरं वर्णेषु त्रिरात्राद्य् आहुः । अन्यथा पञ्चमादिमासेषु वैश्यादेः पञ्चाहादि । त्रिमासमध्ये च चतुरहादीत्य् अनौचित्यता1 स्यात् । स्रावे सपिण्डानां स्नानं पितुर् मातुर्2 यथा मासं पित्रादीनां च त्रिदिनम् । इदं निर्गुणानाम् । सगुणानां त्व् एकाहम् इति मदनपालः । इदं सर्ववर्णसमम् । तुल्ये वयसि3 सर्वेषाम् अतिक्रान्ते तथैव चेति व्याघ्रोक्तेः ।

त्याम्त प्रथम गर्भाशौच साङ्गतो.
यद्यपि मी केलेल्या निर्णयसिन्धूत हे सर्व साङ्गितले आहे, तथापि त्यान्तलेच शूद्राम्स आवश्यक असे काही सङ्क्षेपाने साङ्गतो. याचे मूल त्यान्तच पहावे. गर्भास ४ महिने होण्यापूर्वी त्याचे पतन झाल्यास स्राव, ५।६ महिन्याम्त पतन झाल्यास पात, व ७ पा सून पूर्ण प्रसव, असें ह्मणतात. मनु ह्मणतो-“गर्भस्राव झाला तर ३० दिवसान्नी स्त्री शुद्ध होते.” हे वाक्य ४ महिन्याम्त स्राव झाल्यास लागू आहे; कारण, ३ मासाञ्च्या आम्त विटाळशीपणाने ३ दिवसान्नी स्त्री शुद्ध होते. याविषयी मरीचि ह्मणतो-“चवथ्या मासी गर्भस्राव झाल्यास १ मास, व तत्पूर्वी वर्णक्रमाने विप्राम्स ३, क्षत्रियाम्स ४, वैश्यांस५ आणि शूद्राम्स ८ दिवसान्नी शुद्धि होती.” याचा अर्थ स्मृतिकौमुदीत साङ्गितला आहे. तो-“गर्भस्रावी ३ महिन्यांवर ४ मासांसम ४ दिवस सर्व वर्णास समान, ३ मामाम्त त्रिदि. न. हेही सर्व वर्णसम. ब्राह्मणाम्स ३ मासाम्त ३ दिवसान्नी अधिक झाल्यास ३ दिवस अ धिक धरावे लागते. यावरून, ३।४।५।८ दिवस वर्णक्रमाने आशौच धरावें,” असे साङ्गित लें आहे. कित्येक तर,-“प्रथम मासापासून वर्णक्रमाने त्रिरात्रादिपक्ष घ्यावे,” असे प्रण तात. नाहीतर पञ्चमादिमासाम्त वैश्यादिकाम्स ५ दिवसादि, व ३ मासाम्मध्ये ४ इत्यादि पक्ष अयोग्य होतील. असा स्राव झाल्यास सपिण्डाम्स स्नान. मातापितराम्स महिन्यान्नुसार त्रिदिन. “हें निर्गुणास, सगुणास तर १ दिवस.” असें मदनपाल प्रणतो. हे सर्व वर्णाम्स सम आहे. कारण, “अतिक्राम्त व स्त्रावाशौच सर्व वर्णास समान,” असें व्याघ्रवचन आहे।