१९ पिण्ड-दानम्

विश्वास-प्रस्तुतिः

अथ पिण्डदानम् ।

तच् च पाकेन1 पायसेन सक्तुभिर् मूलेन फलेन वा कार्यम् । पिण्डार्थं वेदिं कृत्वा वामं जान्व् [१७३] आच्य अपसव्येन दर्भमूलेन दक्षिणाग्रां रेखां कृत्वैवं द्वितीयां कृत्वापः स्पृष्ट्वा रेखाग्रे उल्मुखे निधायोदपात्रेणाद्यरेखामूलमध्याग्रेषु काश्यपगोत्रास्मत्पितरमुकदास वसुरूपावनेनिंक्ष्वैवं पितामहप्रपितामहयोर् दत्वा द्वितीयरेखायां मातामहादिभ्यस् त्रिभ्यो दत्वा सकृदाच्छिन्नकुशान् दक्षिणाग्रान् रेखाद्वये निक्षिप्य मध्वाज्यसर्वव्यञ्जनोपेतम् अन्नम् अग्नौकरणशेषसहितं पात्रे कृत्वा षट् पिण्डान् कृत्वा पितृतीर्थेन काश्यपगोत्रास्मत्पितरमुकदास एतत् ते ऽन्नं स्वधा एष ते पिण्डो न मम इति वा दत्वा इदं पित्रे । ततः कुशान् अन्तर्धाय काश्यपगोत्रास्मत्पितामहेत्यादिना त्रिभ्यो दत्वा । लेपभुग्भ्यो दर्भमूलेषु करं मार्जयित्वैवं मातामहादित्रिभ्यो दत्वा करौ प्रक्षाल्याचम्योदङावृत्यामन्त्रं प्राणान् आयम्य । वसन्ताय नमः । ग्रीष्माय नम इत्य् एवं षट् ऋतून् नमस्कृत्वापसव्येन पितृभ्यो नम इत्य् अञ्जलिं बध्वैवं मातामहेभ्यो नम इति । ततो वामावर्तेनोदङ्मुखः श्वासं नियम्य पुनरावृत्य पितृभ्यो नमः । मातामहेभ्यो नम इति नत्वा । काश्यपगोत्रास्मत्पितरमुकदास प्रयवनेनिंक्ष्वेति प्राग्वत् षट्सु पिण्डेषु प्रत्यवनेजनं दत्वा नीवीं विसृज्य । पितृभ्यो नमः । मातामहेभ्यो नमः । इति नत्वा । पितृभ्यो नमः मातामहेभ्यो नम इति प्रतिपिण्डं सूत्राणि दत्वा । पितृभ्यो नम इत्य् अवनेजनशेषं पिण्डपात्रक्षालनजलं2 वा पितृपिण्डेषु प्रदक्षिणं निषिच्यैवं मातामहेभ्यो नमः । ततो देवताभ्यः पितृभ्यश् चेति त्रिर् जप्त्वा पिण्डेषु पित्रादिनाम्ना गन्धपुष्पधूपदीपनैवेद्यफलताम्बूलदक्षिणा निवेद्य कर्मपात्रजलं सुप्रोक्षितम् अस्तु । शिवा आपः सन्तु इति दैवे दत्वा सौमनस्यम् अस्तु पुष्पाणि । अक्षतं चारिष्टं चास्तु अक्षताः । अपसव्येन पितृभ्यो मातामहेभ्यश् च दत्वा स्वमूर्ध्नि दीर्घम् आयुर् अस्तु । पुष्टिर् अस्तु । वृद्धिर् अस्तु । यच्च् छ्रेयस् तद् अस्तु । यत् पापं तत् प्रतिहतम् अस्तु । भूमौ द्विपचतुष्पदेभ्यः शान्तिर् अस्तु । अस्त्व् इति द्विजाः । ततः पुरूरवार्द्रवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यः यद् दत्तम् आमान्नादि तद् अक्षय्यम् अस्तु । एवं काश्यपगोत्रस्यास्मत्पितुरमुकदासस्य यद् दत्तम् इत्यादि । एवं पितामहादौ मातामहादौ च अस्त्व् अक्षय्यम् इति विप्राः । अघोराः पितरः सन्तु एवं मातामहाः गोत्रं नो वर्धताम् । दातारो नो ऽभिवर्धताम् । सन्ततिश् च नो वर्धताम् । श्रद्धा च नो मा व्यगमत् । बहुदेयं च नो ऽस्तु । अन्नं च नो बहु भवेत् । अतिथींश् च लभेमहि । याचितारश् च नः सन्तु । मा च याचिष्म कञ्चन । तथास्त्व् इति विप्राः । ततः पित्रादिभ्यो मातामहादिभ्यश् च स्वधोच्यताम् । अस्तु स्वधेति विप्राः । कुशान् पिण्डेषु न्यस्यार्घ्यपात्रम् उत्तानं कृत्वा देवानां3 सुवर्णं पितॄणां रजतं दक्षिणां दत्वा नानानामगोत्रेभ्यः आमान्नं हिरण्यं च दत्वा पिण्डान् उद्वास्याघ्राय विश्वेदेवाः प्रीयन्ताम् इति ब्रूहीत्य् उक्त्वा वाचयित्वा । एवं पित्र्ये कृत्वा सव्येन स्वस्ति भवन्तु ब्रुवन्तु । स्वस्तीत्य् उक्ते सम्पूर्णतां वाचयित्वा कुशैर् उत्तिष्ठन्तु पितरः विश्वेदेवैः सहेत्य् उद्वास्य मण्डले प्रदक्षिणीकृत्य नमस्कृत्य विसर्जयेत् ।

इति श्रीकमलाकरभट्टकृतौ शूद्राणां पार्वणश्राद्धप्रयोगः ।

मूलम्

मराठी

आतां पिंडदान सांगतो. पकाशानें पायस, सासूचे पीठ, मूळें, अथवा फलं यांनी करावें. पिंडांस वेदि करून, डाव मांडी इन अपराध्यानं दर्भमूळानं उत्तरेपासून दक्षिणेस १ रेषा ओइन, उदक स्पर्शन रेखामी पेटते दर्भ ठेवून, उदकपात्राने प्रथम रेषेचे मूल मध्य व अम यांवर काश्यप० अमुक० वसूनां अवनेनिश्व असंच पितामहप्रपितामहांस मध्ये व शेवटी देऊन, द्वितीय रेषेवर असेंच मातामहादि तिघांस देऊन, १ वेळ तोडलेले दर्भ दक्षिणाय दोनी रेषांवर ठेवून, मध, तूप, व सर्व व्यंजने (भाजीपाला वगैरे) यांनी युक्त अमीकरणशेष अग्रसहित अन पात्रांत घालून, ६ पिंड करून पितृतीथीनं काश्यपगोत्रास्मत्पितरमुकदास एतत्तेऽन्नं स्वधा अथवा एष ते पिंडो न मम खणून पिंड देऊन “इदं पित्रे” नावें असें सर्वांस यावे. नंतर दर्भमूलांवर लेपभुग्भ्यः णून हात धुवून, मातामहादि तिघांस देऊन, हात धुवून, आचमन करून, अमंत्रक प्राभायाम करून,

वसन्ताय नमः । ग्रीष्माय नमः | वर्षाभ्यो नमः । शरदे नमः | हेमन्ताय नमः | शिशिराय नमः

असा ऋतूंस नमस्कार करून, सव्यानं “पितृभ्यो नमः । मातामहेभ्यो नमः” । ह्मणून हात जोडून, डाव्या अंगाने उत्तराभिमुख वास कोइन पुनः पितृभ्यो नमः । मातामहेभ्यो नमः | असा नमस्कार करून, काश्यपगोत्रास्मत्पितरमुकदास प्रत्यवनेनिंक्ष्व यणून मानं पूर्ववत् पिंड वर प्रलवनेजन देऊन, नीवी विसर्जन करून, पितृभ्यो नमः । मातामहेभ्यो नमः । नमस्कार करून, याच मंत्रांनी प्रतिपिंडास सूत्रे देऊन, “पितृभ्यो नमः” । यानें अवनेजनशेष अथवा पिंडपात्रक्षालनोदक पितृपिंडावर उजवेकडून शिंपडावें. नंतर, “देवताभ्यः०” १ हा मंत्र तीन वेळ जपून पिंडांवर पित्रादिकांच्या नांवांनी गंध, पुष्प, धूप, दीप, नैवेय, फल, तांबूल, दक्षिणा देऊन, साह्मणांतील उदक देव स्थानीय विप्रांस - सुप्रोक्षितमस्तु । शिवा आपः सन्तु । णून उदक - सौमनस्यमस्तु – पुष्पे – अक्षतं चारिष्टं चास्तु - अक्षता देऊन, अपसव्याने पितरांस देऊन आपल्या मस्तकावर - दीर्घमायुरस्तु । पुष्टिरस्तु । वृद्धिरस्तु । यच्छ्रेयस्तदस्तु । यत्पापं तत्प्रतिहतमस्तु । ह्मणून अक्षतादि देऊन, भुईवर, द्विपदचतुष्पदेभ्यः शान्तिरस्तु झणून प्रत्येकास यायें विप्रांनी अस्तु ह्मणायें पुरूरवार्द्रवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः यद्दत्तमामान्नादि तदक्षय्यमस्तु । विप्रांनी अस्त्वक्षय्यम् । असेंच का० यद्दत्तमामान्नादि तदक्षय्यमस्तु असें प्रत्येकास प्रणावं. अघोराः पितरः संतु । एवं मातामहाः । गोत्रं नो वर्धतां । दातारो नोभिवर्धतां । संततिश्च नो वर्धतां श्रद्धा च नो माव्यगमत् । बहुदेयं च नोस्तु । अन्नं च नो बहु भवेत् । अतिथींश्च लभेमहि । याचितारश्च नः सन्तु । माच याचिष्म कंचन । ह्मणावें. तथास्तु विप्रांनी ह्मणून, नंतर – पित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यतां विप्रनी - अस्तु स्वधा असें ह्मणायें दर्भ पिंडांवर ठेवून पूर्वस्थापित अर्घ्यपात्रे उताणी करून, देवांस सुवर्ण पितरांस रौप्य दक्षिणा देऊन इतरांस आमा सुवर्ण दक्षिणा देऊन, पिंट ढवून हुंगून, विश्वेदेवाः प्रीयन्तामिति ब्रूहि असे ह्मणावें. प्रीताः असे विप्रां करवी ह्मणवावं असंच पित्रादिसर्वपितरः प्रीयन्तां यणून पूर्ववत् ह्मणवून सव्याने स्वस्ति भवन्तो ब्रुवन्तु असे ह्मणून स्वस्ति असे घटल्यावर धाढपूर्णता ह्मणवून दर्भानी - उत्तिष्ठन्तु पितरः विश्वेदेवैः सह ह्मणून ढळवून, प्रदक्षिणा करून, नमस्कार करून विसर्जन करावें आपण इटमित्रांसह भोजन करून, तो दिवस ब्रह्मचर्याने पाठवावा.

इति शुद्रधर्मतत्त्वप्रकाशे शूद्रस्य पार्वणश्राद्धप्रयोगः

  1. प्- गृहपाकेन ↩︎ ↩︎

  2. प्- पिण्डमात्रं क्षालनजलं ↩︎ ↩︎

  3. प्- दैवे ↩︎ ↩︎