विश्वास-प्रस्तुतिः
[१६५]
अथ शूद्रस्य पार्वणश्राद्धप्रयोगः ।
(तत्र पूवदिनकृत्यम्)
स चोपदेष्टृब्राह्मणवशाद् अनियतशाखया कार्य इति मदनपालः । तन् न, अनियतस्य धर्मत्वायोगात् । तेन शूद्रा वाजसनेयिन इति गौडग्रन्थे दक्षोक्तेर् हरिहरभाष्यादि-संवादाच् छिष्टाचाराच् च माध्यन्दिनशाखयोच्यते । कर्ता पूर्वेद्युर् निरामिषं सकृत् भुक्त्वा, प्रदोषे परेद्युः प्रातर् वा द्विजगृहं गत्वा मण्डले तम् उपवेश्य सव्येन दक्षिणं जान्व् आच्य शूद्रः प्रणतिपूर्वकम् इति वचनात् प्रणम्य देशकालौ स्मृत्वा श्वः करिष्यमाण-पार्वणश्राद्धे पित्रादित्रयमातामहादित्रयविश्वेदेवार्थं त्वाम् अहं निमन्त्रये । यद् वा क्षणं दत्वा भवद्भिः प्रसादः कार्य इति फलं ताम्बूलं वा दत्वैकं द्वौ वा विप्रौ निमन्त्र्य । तथा निमन्त्रितो अस्मीति वा तेनोक्ते,
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश् च मया च श्राद्धकर्मणि1 ॥
पूर्वदिने तु
सर्वायासविनिर्मुक्तैर् कामक्रोधविवर्जितैः ।
भवद्भिर् भवितव्यं नः श्वोभूते श्राद्धकर्मणि ॥
इति जपेच् छृणुयाद् वा । ततस् तथैवापसव्येन वामं जान्वाच्य श्वः करिष्यमाणश्राद्धे पितृस्थाने त्वाम् अहं निमन्त्रये । निमन्त्रितो ऽस्मि । एवं पितामहस्थाने प्रपितामहस्थाने च । एवं मातामहादिस्थाने त्रय इति षट् वैश्वदेविके चत्वार इति दश । तत्र वैश्वदेवपक्षे ऽष्टौ । एको दैवे तन्त्रेण पित्रादाव् एको मातामहादौ वैक इति त्रयो वा । यद् वा षण्णाम् एको दैवे चैक इति द्वौ । तद् आमान्नं षोढा विभज्य यद्य् अपि दर्शे मातृमध्यं नवदैवत्यं मातामह्यन्तं द्वादशदैवत्यं वा श्राद्धम् उक्तम् अस्ति तथापि देशाचाराद् व्यवस्था । षट्दैवतम् एव तु बहुसम्मतम् । सर्वथा विप्रालाभे दर्भवटून्निधायापि श्राद्धं प्रैषप्रत्युक्तिपूर्वं कृत्वा तद् आमान्नं विप्राय दद्याद् अग्नौ वा क्षिपेत् । सर्वत्रामन्त्रितो ऽस्मीति प्रत्युक्तिर् अक्रोधनैर् इति च ।
मूलम्

मराठी
यानन्तर शूद्राचा पार्वणश्राद्धप्रयोग साङ्गतो.
तो, “याज्ञिक चालविणाऱ्या पुरोहिताची जी शाखा असेल, त्या शाखेने करावा,” असे मदनपाल ह्मणतो, ते योग्य नाहीम्; कारण, में अनियमित असेल त्याम धर्मत्वाचा असम्भ व आहे. याकरितां" - शूद्र, वाजसनेयी होत," असे गौडग्रन्थाम्त दक्षवचन असून हरिहर भाष्यादिकाञ्चाही तसाच अभिप्राय असून, शिष्टाचार तदनुसारच आहे झणून, हा प्रयोग, माध्यन्दिनीयशाखेने चालवावा. तो असा की,-श्राद्धक ने पूर्व दिवशी मांसरहि. त, एक वेळ दिवसाच जेवून, त्याच दिवसी प्रदोषकाली, किंवा श्राद्धदिवसीं प्रातःकाळी ब्राह्मणाञ्च्या घरी जाऊन, मण्डलावर त्याम्स बसवून, डाव्या बाजूस उजवा हात गुडम्यान्तून घेऊन,-“शूद्राने नमस्कारपूर्वक आमन्त्रण द्यावें.” असे वचन असल्यामुळे ब्राह्मणाम्स नम स्कार करून, देशकाल स्मरून - श्वः करिष्यमाण - (श्राद्धदिनीच आमन्त्रण करायाचें असेल तर, श्वः येथे अद्य ह्मणावेम्) पार्वणश्राद्धे पितृत्रयमातामहादित्रयविश्वेदेवार्थं त्वामहं निमन्त्रये । असे ह्मणावेम्. अथवा हे ह्मणून क्षण देऊन,- भवद्भिः प्रसादः कार्यः ह्मणून फल किंवा ताम्बूल देऊन, एक किंवा दोन ब्राह्मणाम्स आमन्त्रण देऊन, बहुत बरें (अथवा निमन्त्रितोस्मि) असे त्याने मटल्यावर,-
अक्रोधनः शौचपरैः सततं ब्रह्मचारिभिः ॥
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ १ ॥
हा मन्त्र ह्मणावा. पूर्व दिवसीं आमन्त्रण करायाचे असेल तर,
सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः ॥
भवद्भिर्भवितव्यं नः श्वोभूते श्राद्धकर्मणि ॥ १ ॥
मणून प्रार्थना करावी. नन्तर त सेम्च अपमव्याने डाव्या गुडन्याच्या आम्त हात घेऊन,- श्वः करिष्यमाणश्राद्धे पितृस्थाने त्वामहं निमन्त्रये । अमें मटल्यावर ब्राह्मणाने निमन्त्रितोऽस्मि असे ह्मणावे. असेञ्च-पिता महमपितामहमातामहादि ३ स्थाने ह्मणून पूर्ववत् निमन्त्रण द्यावे. हे ब्राह्मण पितृ. स्थानी ६ व वैश्वदेविक ४ मिळून १०, अथवा वैश्वदेवपक्षी पित्रादि ६ व दैव २ मिळून ८, देवस्थानी १ पित्रादि १ मातामहादिस्थानी १ मिळून ३, किंवा पित्रादिद च्या स्थानी १ व देवस्थानी १ असे दोनन ब्राह्मण असावे. यान्तून पाहिने त्या पक्षाने साङ्गावे. आमान्नाचे ६ भाग करावे. जरी दर्शश्राद्धान्त, मातृमभ्य ९ देवत्य व माता मह्यम्त १२ दैवत्य श्राद्ध माङ्गितले आहे तरी, त्यान्नी देशानागनुमार व्यवस्था जाणावी. पइदैवत हेच बहुत शिष्टाम्स मान्य आहे. मर्वथा विप्र न मिळाल्यास दर्भबटु ठेवून, प्रेप व प्रतिवचनयुक्त श्राद्ध करून, विप्राम्म आमान्ने द्यावी. किंवा अग्नीत घालावी. सर्वत्र ब्राह्म. णान्नीं-आमन्त्रितोऽस्मि अमें प्रतिवचन दिल्यावर “अक्रोध०” ? अथवा “सर्वायास वि०” २ या मन्त्रान्नी प्रार्थना करावी.
विश्वास-प्रस्तुतिः
[१६६] ततः परेद्युः प्रातः स्थानोपलेपनं कृत्वा सचैलं स्नातः श्राद्धसामग्रीं सम्पाद्य दिनस्य षण्मुहूर्तानन्तरं द्विजान् आहूय तेषाम् अनिषिद्धदिने श्मश्रुकर्म कारयित्वा स्नानीयजलतैलामलकोद्वर्तनानि प्रेषयित्वा मध्याह्ने स्नातागतान् प्राञ्जलिस् तिष्ठन् तान् स्वागतं पृष्ट्वा सुस्वागतम् इति तैर् उक्ते द्विर् आचम्य देशकालौ स्मृत्वास्मत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानां वसुरुद्रादित्यस्वरूपाणां पार्वणश्राद्धं सदैवं सपिण्डं पार्वणविधिनामान्नेन हविषा सद्यः करिष्ये इति सङ्कल्प्य, गोमूत्रगोमयाभ्यां द्वारे प्रादेशमात्रम् [१६७] उत्तरदक्षिणयोश् चतुरस्रं वृत्तं च मण्डलं कृत्वा, तत्र,
कुशान् दैवे यवान् पित्र्ये तिलान् क्षिपेद् ।
इति मदनपालः । तत्त्वं तु शूद्रस्याभ्युक्षणं मतम् इति वचनाद् अभ्युक्षणं कृत्वोत्तरे उदङ्मुखः सव्येन पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः स्वागतम् इति पृष्ट्वा सुस्वागतम् इति तेनोक्ते गन्धपुष्पैः सव्यं शूद्रायेति वचनाद् आदौ सव्यं ततो दक्षिणम् इति पादौ सम्पूज्य पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवा इदं वः पाद्यम् अर्घ्यं च नम इति पादयोर् जलं दत्वा, एवं दैवद्वितीये विप्रे दत्वा, पित्र्यविप्रे कृतापसव्यो ऽस्मत्पितः काश्यपगोत्रामुकदास वसुरूपेदं ते पाद्यम् अर्घ्यं च नमः । एवं पितामहे प्रपितामहे च रुद्ररूपादित्यरूपेति ज्ञेयम् । एवं मातामहादित्रये च । ततो द्विर् आचान्तस् तान् आचम्य दैवे द्वौ प्राङ्मुखौ देवेभ्यो नमः इदं आसनम् आस्यताम् इति वामेनासनं स्पृष्ट्वा दक्षिणेन विप्रान् उपवेश्यैव पित्र्ये ऽपसव्येनोदङ्मुखान् । ततः प्राच्यां मातामहानां ।
श्राद्धारम्भे ऽवसाने च पादशौचे तथार्चने ।
विकिरे पिण्डदाने च द्विर् आचमनम् इष्यते ॥
ततः सव्येन कर्मपात्रं प्रपूर्य गन्धपुष्पकुशान् क्षिप्त्वा तज्जलेन,
अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्षाय नम इति श्राद्धीयद्रव्यं प्रोक्ष्य,
तिला रक्षन्त्व् असुरतो2 दर्भा रक्षन्तु राक्षसान् ।
पङ्क्तिं वै श्रोत्रियो रक्षेद् अतिथिः सर्वरक्षकः ॥
इति तिलान् विकीर्य प्रतिद्विजं दीपान् दद्यात् । आमान्नादीनां पवित्रता अस्तु । केचित् तु
सप्तव्याधा दशारण्ये3 मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥
ते ऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घम् अध्वानं यूयं किम् अवसीदथ4 ॥
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ।
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ॥
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् ।
वस्वादींश् च पितॄन् ध्यात्वा ततः श्राद्धं प्रवर्तये ॥
इति जपन्ति । ततो नीवीं बध्वापसव्येन च,
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यम् एव नमो नमः ॥
इति त्रिर् जप्त्वा देशकालौ स्मृत्वा काश्यपगोत्राणाम् अस्मत्पितृपितामहप्रपितामहानाम् अमुकदासानाम्, तथा काश्यपगोत्राणाम् अस्मन्मातामहप्रमातामहवृद्धप्रमातामहानाम् अमुकदासानां सदैवम् उपक्रान्तं पार्वणश्राद्धम् अहं करिष्ये । कुरुष्वेति तैर् उक्ते दक्षिणं जान्व् आच्य पित्रादित्रयमातामहादित्रयसम्बन्धिनः पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवा इदम् आसनं वो नम इत्य् ऋजुप्रागग्रकुशपत्रद्वयम् आसने दद्याद् इति ढौण्ढुपद्धतौ । षष्ठी तु युक्ता । दैवे क्षणः क्रियताम् इति कुशं दत्वा, तथेति तेनोक्ते, प्राप्नोतु भवान् इत्य् आह । प्राप्नवानीति विप्रः । एवं द्वितीयदैवे । ततो ऽपसव्येन वामं जान्व् आच्य काश्यपगोत्रास्मत्पितरमुकदास[[??]] वसुरूपेदम् आसनं ते स्वधा नम इति वा सतिलद्विर्भुग्नकुशान् दत्वा पित्र्ये क्षणः क्रियताम् इत्यादि प्राग्वत् । एवं पितामहादौ मातामहादौ च सव्येन विश्वान् देवान् आवाहयिष्ये इति पृष्ट्वावाहयेत्य् अनुज्ञातः देवद्विजकरम् अङ्गुष्ठे गृहीत्वा ।
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥
इति [१६८] स्तुत्वा5 । पुरूरवार्द्रवसञ्ज्ञकविश्वेदेवाः आगच्छतेत्य् उक्त्वा, पादादिमूर्धान्तं तिलान् विकिरेद् इति कर्कः । यवैर् अन्ववकीर्येति स्मृतेर्, यवान् इत्य् अन्ये । ततो हस्तोदकम् । एवं प्रतिपदार्थं ततो ऽपसव्येन काश्यपगोत्रान् अस्मत्पित्रादीन् अमुकदासान् एवं मातामहादींश् च आवाहये इति पृष्टे, आवाहयेति अनुज्ञातः मूर्धादिपादान्तं तिलान् विकीर्यास्मत्पितरअमुकदास काश्यपगोत्र वसुरूपागच्छ एवं पितामह रुद्ररूप प्रपितामहादित्यरूप एवं मातामहेषु । ततः देवाग्रे सव्येनैकपात्रे द्वे कुशपत्रे कृत्वा देवतीर्थेन देवेभ्यो नम इति जलं नम इति यवान् गन्धपुष्पे च क्षिपेत् । ततो ऽपसव्येन पित्र्ये षट्सु राजतताम्रखड्गपलाशपात्रादिमृन्मयपात्रेष्व् एकद्रव्येषु वा द्वे द्वे दक्षिणाग्रे पवित्रे कृत्वाद्भ्यो नम इति जलम् । तिलेभ्यो नम इति तिलान् । गन्धपुष्पाणि च क्षिप्त्वार्घ्यपात्राणि सम्पन्नानीत्य् उक्त्वा, सुसम्पन्नानीत्य् उक्ते, सव्येन दैवकरे पवित्रे दत्वा दक्षिणहस्तस्थेन पात्रेण पित्रादित्रयमातामहादित्रयसम्बन्धिपुरूरवार्द्रवसञ्ज्ञका विश्वेदेवा एष वो ऽर्घो नमः इदं वो ऽर्घ्यं नम इति वा दत्वाऽद्भ्यो नम इति स्रवद् अभिमन्त्र्यैवं द्वितीये दत्वा पात्रे पवित्रादि कृत्वा देवेभ्यः स्थानम् असीत्य् उत्तरतो न्युब्जं कुर्यात् । केचिद् एतद् दैवे नेच्छन्ति । न्युञ्जता नेति ढोण्ढुः । ततो ऽपसव्येन पित्र्ये करे दक्षिणाग्रं पवित्रं दत्वा, काश्यपगोत्रास्मत्पितरमुकदास एष ते ऽर्घः स्वधा नमः इति पितृतीर्थेन दत्वाऽद्भ्यो नम इति संस्रवान् अनुमन्त्र्य तत्र पवित्रादि धृत्वैवं पितामहप्रपितामहाभ्यां मातामहादिभ्यश् च दद्यात् । ततः प्रथमे पात्रे संस्रवान् एकीकृत्य पितृवामे कर्तुर् दक्षिणे पितृभ्यः स्थानम् असीति न्युब्जं कृत्वा दक्षिणान्तं न चालयेत् । ततः सव्येन जलं दत्वा विश्वेदेवा एष गन्धो वो नमः इमानि पुष्पाणि वो नमः एवं धूपदीपाच्छादनयज्ञोपवीतालङ्कारताम्बूलानि दत्वा जलं दत्वापसव्येन काश्यपगोत्रास्मत्पितरमुकदास एष ते गन्धो नमः एवं पुष्पधूपदीपाच्छादनालङ्कारान् दत्वैवं पितामहप्रपितामहाभ्यां दद्यात् । एवं मातामहादिभ्यः । ततो ऽर्चनपूर्णतां वाचयित्वा द्विजाग्रे भुवं सम्मृज्य पलाशादिपत्रावलीर् न्यस्य गौरमृद्भस्मादिना मण्डलं कृत्वा श्राद्धीयाद् आमान्नाद् अग्रं गृहीत्वाग्नौ करिष्य इति पङ्क्तिमूर्धन्यं पृष्ट्वा कुरुष्वेत्य् उक्ते सव्येनाद्यद्विजकरे पर्युक्ष्य दर्भान् आस्तीर्यावदानधर्मेण द्विर् आदायाग्नये कव्यवाहनाय नमः इति हुत्वेदम् अग्नये कव्यवाहनायेति त्यक्त्वा पुनर् आदाय सोमाय पितृमते नमः इदं सोमाय पितृमते अपसव्यपक्षे सोमाहुतिः पूर्वम् अग्न्याहुतिर् उत्तरा । इति हुत्वा हुतशेषं पिण्डार्थम् अवशेष्य पितामहादिमातामहादिपात्रेषु तूष्णीं दद्यात् । ततो दैवे ऽन्यद् आमं दत्वा पात्राण्य् अभिघार्य दैवपूर्वम् आमं चतुर्गुणं द्विगुणं समं वा दत्वा प्रोक्ष्य दैवे दक्षिणं जान्व् आच्योपवीती दक्षिणोत्तानसव्यनीचाभ्यां पात्रम् आलभ्य विष्णवे नम इति विष्णो हव्यं रक्षस्वेति वा द्विजाङ्गुष्ठं निवेश्यैवं पित्र्ये ऽपसव्येन पात्रम् आलभ्याङ्गुष्ठे दत्वा तिलान् विकीर्योदकं स्पृष्ट्वा एवं प्रतिपात्रं कृत्वा वामेन दैवपात्रं धृत्वा दक्षिणे कुशयवजलान्य् आदाय पित्रादित्रयमातामहादित्रयश्राद्ध-सम्बन्धिपुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः इदं वः आमान्नं सपरिकरं गयेयं भूः गदाधरो भोक्ता अहं ब्रह्म ग्रहीता ब्रह्म ब्रह्मरूपम् आमं मनःकल्पितसुवर्ण-पात्रस्थम् अक्षय्यवटवच्छायास्थं पुरूरवार्द्रवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यः अक्षय्यतृप्त्यर्थं सम्प्रददे स्वाहा न मम । इदम् आमं सोपस्करम् अमृतरूपेण सम्पद्यताम् । [१६९] हव्यं नमः । काश्यां विश्वेश्वरपादे6 दत्तम् अक्षय्यम् अस्तु । गयागदाधरः प्रीतो भवतु । ततो ऽपसव्येन द्विगुणभुग्नकुशतिलजलान्य् आदाय7 वामेन पात्रं धृत्वा वामं जान्व् आच्य काश्यपगोत्रास्मत्पितरमुकदासैतत् ते आमान्नं सपरिकरं गयेयं भूरित्यादि रजतपात्रस्थम् अक्षय्यवटच्छायास्थं काश्यपगोत्रायास्मत्पित्रे ऽमुकदासाय वसुरूपायेदम् आमं सोपस्करं अक्षय्यतृप्त्यर्थं सम्प्रददे स्वधा नमः । अमृतरूपेण स्वधा सम्पद्यताम् । कव्यं नमः । काश्याम् इत्यादि प्राग्वत् । एवं पितामहप्रपितामहयोर् मातामहादिभ्यश् च दद्यात् । असंस्कृतप्रमीतेभ्य एष पिण्ड इति विकिरं दत्वा आमम् आदाय अग्निदग्धेभ्यो अनग्निदग्धेभ्यश् च एष उच्छिष्टपिण्डो न मम इति सोदकम् आमं पिण्डं दत्वा तिलोदकं दत्वा मधु मध्व् इति त्रिर् जपेत् ।

नन्तर दुसरे दिवशी सकाळी उठून, घरांत सारवणादिक करवून, सचैल स्नान करून, श्राद्धसाहित्य मिळवून १२ घटिका दिवस आल्यावर विप्राम्स बोलावून; त्या दिवसी ४।९।१४ शी इत्यादि तिथि, शनिवार इत्यादि योग नसल्यास त्या विप्राञ्ची हजा मत करवून, ऊन पाणी, सुगन्धी तेल, उटणे, इत्यादि त्याम्स देऊन मध्याह्नीं स्नान करून आलेल्या विप्राञ्च्या सम्मुख हात जोडून उभा राहून त्याम्स स्वागत प्रश्न करावा. “सुस्वागतम्" असे त्यान्नी मटल्यावर त्याम्स आसनावर बसवून, २ वेळ आचमन करून, देशकाल म्मरून, - अस्मत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानां वसुरुद्रादित्यस्वरूपाणां पार्वणश्राद्धं सदैवं सपिण्डं पार्वणविधिना आमान्नेन हविषा सद्यः करिप्ये । असा सङ्कल्प करून, “गोमूत्र व गायीच्या शेणाने गृहद्वाराम्त प्रादेशमात्र उत्तरेस व दक्षिणेस चतुष्कोण आणि वर्तुळ मण्डले करून, तेथें दर्भ, सव्याने यव, व अपसव्याने तीळ टाकावे. " अमें मदनपाल ह्मणतो. यान्तले तत्त्व तर - “शूद्रास अभ्युक्षण सम्मत आहे." या वचनावरून, अभ्युक्षण करून उत्तरेस किंवा उत्तराभिमुख बसून सव्याने - पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः स्वागतं मटल्यावर, सुस्वागतं असें वि प्राने ह्मणावे. नन्तर गन्धपुप्पान्नी-“शूद्राने डावा पाय प्रथम पूनावा.’’ या वचनावरून, प्रथम डावा, नन्तर उजवा पाय पुजून, पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः इदं वः पाद्यं चार्घ्यं च नमः । ह्मणून पायांवर उदक द्यावेम्. असेम्च देवस्थानीय २ ब्राह्मणाम्स देऊन, अपस व्याने पितृस्थानीय विप्रांस - अस्मत्पितः काश्यपगोत्र अमुकदास वसुरूप इदं ते पाद्यमर्घ्यं च नमः । ह्मणून पूर्ववत् द्यावे. असेम्च पितामह रुद्ररूप प्रपितामह आदि त्यरूप इत्यादि ह्मणून पितृत्रयीस, व असेम्च मातामहादित्रयीस देऊन, आपण २ वेळ आ चमन करून व विप्राम्स करवून, देवाङ्कडे पूर्वाभिमुख २ विप्रांस, देवेभ्यो नमः इदमासनमा स्यतां ह्मणून डाव्या हाताने आसन धरून उजव्या हाताने विप्राम्स त्यांवर बसवावे. असेम्च पितृस्थानी उत्तराभिमुख ब्राह्मणाम्स बसवावे. त्याञ्च्या पूर्वेस मातामहस्थानीयाम्स बसवावेम्. " श्राद्धाच्या आरम्भी, शेवटी, पाय धुतेवेळी, पूजेत, विकिर व पिण्डदान याम्त २ वेळ आचमन करावें." हा साधारण नियम होय. नन्तर सव्याने कर्मपात्र ( ताह्मण) उदकाने भरून, त्यान्त, गन्ध, पुष्प, व दर्भ टाकून त्या उदकानेम्,
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ १ ॥
पुण्डरीकाक्षाय नमः" याने श्राद्धीय द्रव्य प्रोक्षन -
तिला रक्षन् त्वसुरतो दर्भा रक्षन्तु राक्षसात् ॥
पङ्क्तिं वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः ॥ १ ॥
प्रणून, तिळ विखरून प्रत्येक विप्रास दीप द्यावे. आमामादीनां पवित्रतास्तु - मटल्यावर कित्येकाञ्च्या मतीम् -
सप्त व्याधा दशारण्ये मृगाः कालञ्जरे गिरौ ॥
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे ॥ १ ॥
तेऽपि1 जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ3 ॥ २॥
हे २, व
अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ॥
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ॥ १ ॥
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं जनार्दनम् ॥
वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तये ॥२॥
हे जपावे असे आहे. नन्तर, नीवीबन्धन करून, अपमव्याने,- “देवताभ्यः पित” १ असे ३ वेळ जपून देशकाल मरून,-
काश्यपगोत्राणामस्मपितृपितामहप्रपितामहानाम् अमुकदासानां तथा मातामहप्रमातामहवृद्धप्रमातामहानाम् अमुकदासानां सदैवमुपक्रान्तं पार्वणश्राद्धमहं करिष्ये ।
नन्तर-कुरुष्व अमें न्यान्नी मटल्यावर, उजवेकडून हस्त घेऊन पि त्रादित्रयमातामहादित्रयसम्बन्धिनः पुरूरवाईवसञ्ज्ञका विश्वेदेवाः इदमासनं वो नमः । ह्मणून “पूर्वम अग्र करून, सरळ दर्भाच्या २ काड्या आसनार्थ द्याव्या." अमें-ढोण्डु (धोण्ड) पद्धतीत साङ्गितले आहे. येथे पष्ठी विभक्ति असणे युक्त आहे. दैवे क्षणः क्रियतां ह्मणून दर्भ देऊन, तथा. असें मटल्यावर — प्राप्नोतु भवान् अमें आपण, व प्राप्नवानि अमें विप्रान्नी ह्मणावेम्. अमेच दुसन्या देवस्थानीय ब्रा ह्मणाची पूजा करून, अपसव्याने डाव्या गुडघ्यान्तून हात घेउन,– काश्यपगोत्रास्मत्पितरमुकदास वमुरूपेदमासनं ते स्वधा । अथवा ते नमः ह्मणून निलमहित दर्भ घेऊन, पित्र्ये क्षणः क्रियतां ह्मणून १ दर्भ देऊन, तथा अमें विप्राने पटल्यावर - प्राप्नोतु भवान् अमें कान, व प्राप्नवानि अमें विनान्नी ह्मणावेम्. असीन पितामहप्रपितामहमातामहप्रमातामहवृद्धप्रमातामहम्थानी असणा - या ब्राह्मणाञ्ची पूजा करावी. याम्त प्रायः देवाङ्कडेम मव्य, पितराङ्कडे अपमन्य, अमण्याचा नियम आहे. नन्तर, सल्याने - विश्वान्देवानावाहयिष्ये असा प्रश्न करून आवाहय ह्मणून पितृस्थानीयविप्राज्ञा मिळा ल्यावर देवस्थानीय ब्राह्मणाचा हात आपल्या आङ्गठ्यावर घेऊन,
आगच्छन्तु महाभागा विश्वदेवा महाबलाः ॥
ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥ १ ॥
अम ऐकवून, पुरूरवा. देवाः आगच्छन, अमें ह्मणून विप्राञ्च्या पायाम्पासून म स्तकापर्यम्त तीळ विग्वरावें अमें ककाचार्यमत आहे. “यव विश्वरावे.” अमी स्मृति आहे ह्मणून, येथें अक्षता घ्याव्या, अमें अन्य कित्यक मणतात. मग हस्तोदक द्यावेम्. अमम्च प्रतिपदार्थास तो पदार्थ दिल्यावर, उदक द्यावे. नन्तर अपमन्यानें –
काश्यपगोत्रानस्मत्पित्रादीनमुकदासान् काश्यपगोत्रान् मातामहादीनमुकदासान् आवाहये
असे विचारून आवाहय असी देवस्थानीयविप्राज्ञा घेऊन, पूर्ववत् एके काच्या पायाम्पासून मस्तकापर्यम्त तीळ विखरून, अनुक्रमानेम्, अस्मत्पितरमुकदास काश्यपगोत्र वसुरूपागच्छ १ असेम्च पितामह रुद्ररूप २ प्रपितामह आदित्य रूप ३ असेम्च मातामहादित्रयीस आवाहन करून, देवाम्पुढे सव्याने एका द्रोणावर २ दर्भ ठेवून, देवतीर्थानें - “देवेभ्यो नमः” ह्मणून पाणी, “नमः” ह्मणून यव व गन्धपुष्पेहि त्याम्त घालून, अपसव्याने पितराङ्कडे रुपें ताम्र अथवा लोह याञ्ची किंवा पलाशपत्राञ्ची किंवा मातीची ६ पात्रे ठेवून, प्रत्येकावर दक्षिणाग्र २।२ दर्भ ठेवून, “अभ्यो नमः” ह्मणून उदक, “तिलेभ्यो नमः” ह्मणून तीळ, “नमः" ह्मणून गम्ध पुष्पं वालून, अर्घ्यपात्राणि सम्पन्नानि ह्मणून सुसम्पन्नानि असे सर्व विप्रान्नी झटल्यावर सव्याने देवां पुढील अर्घ्यपात्रावरची पवित्र उजव्या हस्तावर देऊन, तें पात्र आपल्या उजव्या हस्ताम्त घेऊन, पित्रादित्रय मातामहादित्रयसम्बन्धि पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः एष वोऽर्घो नमः । अथवा इदं वोर्घ्यं नमः । ह्मणून देऊन, “अयो नमः” ह्मणून ओतीत अ. सतां अभिमन्त्रण करावे. असें देवस्थानीय द्वितीय विप्रास देऊन, ती पवित्रं पुनः पात्रावर ठेवून, देवेभ्यः स्थानमसि ह्मणून पाने उत्तरेस एकावर एक ठेवावी. कित्येक “देवाङ्क डेस, अर्घ्यदान करूं नये” असें ह्मणतात. “न्युब्जता नसावी.” असे ढोण्डु (धोण्ड) ह्मणतो. नन्तर, अपसव्याने, पितृस्थानीय विप्राचा पूर्ववत् हस्त घेऊन- काश्यपगोत्रास्मत्पितरमुकदास एष तेऽर्घः स्वधा नमः ह्मणून पितृतीर्थाने अर्घ्य देऊन,-“अद्भ्यो नमः”। याने सन्त्रवानुमन्त्रण करून पवित्रादि पूर्ववत् ठेवावी. असेम्च पितामहमातामहादिकाम्स अर्घ्य देऊन, सर्व पात्रे एकत्र करून, पितराञ्च्या वामभागी अथवा आपल्या दक्षिणभागी,- पितृभ्यः स्थानमसि ह्मणून एकावर एक असीं झाङ्कून ठेवावी, ती विप्राम्स दक्षिणा देईपर्यम्त हालवू नयेत. नन्तर सव्याने उदक देऊन,-
विश्वेदेवा एष गन्धो वो नमः । इमानि पुष्पाणि वो नमः । एष धूपो वो नमः । एष दीपो वो नमः । इदमासनं वो नमः । इदं यज्ञोपवीतं वो नमः । इमेऽलङ्कारा वो नमः । इदं ताम्बूलं वो नमः ॥
हे उप चार देऊन प्रत्येकवेळी उदक द्यावेम्. अपसव्याने काश्यपगोत्रास्मत्पितरमुकदास एष ते गन्धो नमः असेच ताम्बूलापर्यम्त उपचार देऊन, उदक देऊन, पितामहमातामहादिकांसही असेम्च देऊन, पुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः एते धूपदीपाच्छादनताम्बूलान्ताः सर्वे उपचाराः परिपूर्णा भवन्तु । असेम्च पित्रादि सर्व पितराम्स ह्मणावेम्. विप्रान्नी - अर्चनविधे प्वचितमस्तु । नन्तर विप्राम्पुढे मण्डळे काढून, त्यांवर पळसाच्या पत्रावळी ठेवून, शुभ्र माती ने किंवा भस्माने मण्डळ करून, श्राद्धसम्बन्धि आमानान्तील थोडे घेऊन - असौ करिष्ये ह्मणून, प्रथमच्या विप्रास प्रश्न करून त्याने कुरुष्व हटल्यावर सव्याने पहिल्याच्या हातावर प्रोसून, दर्भ ठेवून, अवदानधर्माने २ वेळ घेऊन, “अग्नये कव्यवाहनाय नमः” । ह्मणून आ हुति देऊन, इदमग्नये कव्यवाहनाय असा त्याग करून, पुनः घेऊन, “सोमाय पितृमते नमः” हवन व इदं सोमाय पितृमते ह्मणून त्याग करावा. अपसन्यपक्षी सोमाहुति प्रथम अन्याहुति नन्तर, असावी. असें हवन करून, हुतशेष पिण्डाङ्करितां ठेवून, पितामहादि मातामहादिपात्राम्त तूष्णीं धावी. नन्तर, देवाम्स अन्य आमान्ने देऊन, पात्राम्स तूप ला. वून चौपट, दुप्पट अथवा सम आमान्ने देवाम्स पूर्वी, नन्तर पितराम्स देऊन, प्रोसून, देवाङ्कडे उजव्या गुडघ्यान्तून हात घेऊन, सव्याने, उताणा डावा हात पत्राखाली व उजवा वर लावून, विष्णवे नमः । किंवा विष्णो हव्यं रक्षख ह्मणून विप्राचा आङ्गठा त्यावर ठेवून, असेम्च पितराम्स अपसव्याने पात्रालम्भन करून, अङ्गुष्ठ देऊन, तीळ वि. खरून, उदकस्पर्श करावा, असे प्रत्येक पात्रास करून, डाव्या हाताने देवपात्र ध रून, उजव्या हाताम्त दर्भ, यव, व उदक घेऊन,-
पित्रादित्रयमातामहादित्रयश्राद्धसम्बन्धिपुरूरवार्द्रवसञ्ज्ञका विश्वेदेवाः इदं वः आमान्नं सपरिकरं गयेयं भूः गदाधरो भोक्ता अहं ब्रह्म ग्रहीता ब्रह्म ब्रह्मरूपमामं मनःकल्पितसुवर्णपात्रस्थम् अक्षय्यवटच्छायास्थं पुरूरवार्द्रवसञ्ज्ञकेभ्यो विश्वेभ्यो देवेभ्यः अक्षय्यतृप्त्ययर्थं सम्प्रददे स्वाहा । न मम ।
ह्मणून उदक देऊन,-
इदमामं सोपस्करममृतरूपेण सम्पद्यतां हव्यं नमः । काश्यां विश्वेश्वरपादे दत्तमक्षय्यमस्तु । गयागदाधरः प्रीतो भवतु ।
नन्तर अपसव्याने दु. प्पट वक्रदर्भ, तीळ, व उदक घेऊन डाव्या हाताने पात्र धरून, डाव्या गुडघ्यान्तून हात घेऊन,
काश्यपगोत्रास्मत्पितरमुकदासैतत्ते आमान्नं सपरिकरम्० (येथपासून, ब्रह्मरूपं आम) मनःकल्पितरजतपात्रस्थम् अक्षय्यवटच्छायास्थं काश्यपगोत्रायास्मत्पित्रेऽमुकदासाय वसुरूपायेदमामं सोपस्करमक्षय्यतृप्त्यर्थं सम्प्रददे स्वधा नमः । अमृतरूपेण स्वधा सम्पद्यताम् । कव्यं नमः । काश्यां विश्वेश्वरपादे दत्तमक्षय्यमस्तु । गयागदाधरः प्रीतो भवतु ।
अमें ह्मणावे. असेच पितामह, व प्रपितामह, मातामहादि ३ याम्स द्यावे. अ. संस्कृतममीनेभ्य एष पिण्डः ह्मणून, विकिर देऊन, आमान्न घेऊन अग्निदग्धेभ्योनग्नि दग्धेभ्यश्च एष उच्छिष्टपिण्डो न मम । ह्मणून उदकमहित पिट व निलोदक देऊन, मधु ३ वेळ जपावेम्.