विश्वास-प्रस्तुतिः
अथ भोजनम् ।
बालवृद्धगर्भिण्यातुरसखीबान्धवादीन् सम्भोज्य पाणिपादं प्रक्षाल्य द्विर् आचम्य शुचौ देशे रहसि ।
चतुरस्रं त्रिकोणं च वर्तुलं चार्धचन्द्रकम् ।
कर्तव्यम् आनुपूर्व्येण ब्राह्मणादिषु मण्डलम् ॥
इति व्यासोक्तम् अर्धचन्द्रम्, “शूद्रस्याभ्युक्षणं मतम्” इति शङ्खोक्तम् अभ्युक्षणं वा कृत्वा,
पञ्चाशत्पलिकं कांस्यं द्व्यधिकं भोजनाय वै ।
गृहस्थैस् तु सदा कार्यम् अभावे हेमरूप्ययोर् ॥
इति हेमाद्राव् अत्रिप्रोक्ते कांस्यादिपात्रे परिविष्टम् अन्नं प्राङ्मुखोपविष्टो मौनी घृताक्तं प्रोक्ष्य । धर्मराजाय नमः । चित्राय नमः । चित्रगुप्ताय नमः । प्रेतेभ्यो नम इति बलिं दक्षिणतो दत्वा जलं दत्वा जलं प्राश्य देवतीर्थेन साङ्गुष्ठेन तूष्णीं नम इत्य् एव वा पञ्चग्रासान् प्राश्य यथासुखं भुञ्जीयात् । आदित्यपुराणे ।
नोच्छिष्टो ग्राहयेद् आज्यं दग्ध्वा शिष्टं न सन्त्यजेत् ।
पुलस्त्यः ।
भोजनं तु न निःशेषं कुर्यात् प्राज्ञः कथञ्चन ।
अन्यत्र दधिक्षीराज्यक्षौद्रसक्तुभ1 एव च ॥
वृद्धमनुः ।
नैकहस्तेन च जलं शूद्रेणावर्जितं पिबेत् ।
इत्यादि द्विजवच् छूद्रे ज्ञेयम् । देवलः ।
भुक्तोच्छिष्टं समादाय सर्वस्मात् किञ्चिद् आचमेत्2 ।
उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेद् भुवि ॥
भोजनान्ते पुनर् जलं प्राश्य शेषं सिञ्चेत् । मन्त्रस् तु ।
रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनाम् उदकं दत्तम् अक्षय्यम् उपतिष्ठतु ॥
ततो मुखपाणिपादं प्रक्षाल्य द्विर् आचम्य जानुनी स्पृष्ट्वा पुनर् आचम्य ।
अगस्तिर् अग्निर् वडवानलश् च भुक्तं मयान्नं जरयत्व् अशेषम् ।
सुखं ममैतत् परिणामसम्भवं यच्छत्व् अरोगो मम चास्तु देहः ॥
अगस्त्यं कुम्भकर्णं च शनिं च वडवानलम् ।
आहारपरिपाकार्थं स्मरामि च वृकोदरम् ॥
इति उदरं संस्पृश्य ताम्बूलं प्राश्य पुराणश्रवणादिनाहःशेषं नयेत् । ततो रात्रौ रविपर्वसङ्क्रमव्यतीपातवैधृतिश्राद्धतत्पूर्वदिनभिन्नरात्रौ द्वितीयवारं भुक्त्वा यामोत्तरम् अगस्त्याय नमः । माधवाय नमः । मुचकुन्दाय नमः । कपिलाय नमः । आस्तिकाय नम इति नत्वा प्राच्यां दक्षिणतो वा शिरः कृत्वा स्वपेत् । तत्र स्त्रिया ऋतावाद्यदिनचतुष्कैकादशत्रयोदशवर्जषोडशदिनमध्ये चतुर्थीषष्ठ्यष्टमीचतुर्दशी-पर्वद्वयश्राद्धतत्पूर्वदिनभिन्नायां रात्रौ [१६४] शनिरविभौमवर्जं भरणीकृत्तिकार्द्रामघापूर्वाविशाखाज्येष्ठामूलपूर्वाषाढापूर्वाभाद्रपदात्रिजन्म-सङ्क्रमपातवैधृतिवर्जं समरात्रौ सङ्गं कृत्वा मूत्रात् त्रिगुणं शौचं स्नानं च कुर्यात् । एतच् च प्राग् उक्तम् अनृतौ स्नानवर्जं कृत्वा स्वपेत् । इदम् आह्निकं प्रत्यहं कुर्यात् ।
इति श्रीजगद्गुरुनारायणभट्टसूनुरामकृष्णभट्टात्मज-
कमलाकरकृते शूद्रधर्मतत्त्वे शूद्राह्निकम्।
मूलम्

मराठी
यानन्तर भोजनविधि साङ्गतो.
बाल, वृद्ध, गर्भिणी स्त्रिया, रोगी, मित्र, मम्बन्धी इत्यादिकाम्स प्रथम भोजनास बसवून, हातपाय धुवून, शुद्ध प्रदेशाम्त एकान्ती “चतुष्कोण ब्राह्मणान्नी, त्रिकोण क्षत्रियान्नी, वर्तुल वैश्यान्नी आणि अर्धचन्द्राकार शूद्रान्नी मण्डल करावें,” असे व्यासोक्त रीतीने शूद्रास विहित आलेले अर्धचन्द्राकार मण्डल, अथवा - “शूद्राने केवळ उदकानें प्रोक्षण करावें," असे शङ्खोक्त अभ्युक्षण करून, त्यावर भोजनपात्र ठेवावे. —“५० पल (ह्मणजे २०० तोळे) वजनाचें कांसे, सोने अथवा रुपे यानें अमावे.” असे हेमाद्रीत अत्रीने माङ्गितलेल्या काम्या दिपात्राम्त वाढलेले अन्न पूर्वेस बसून, मौन धरून, त्यावर तूप घालून, मग प्रोक्षन,- धर्मराजाय नमः । चित्राय नमः । चित्रगुप्ताय नमः । प्रेतेभ्यो नमः । असे ४ बलि उन वेकडे देऊन, त्यावर उदक देउ.न, उदक प्राशन करून, अङ्गुष्ठसहित देवतीर्थाने तूष्णी अथवा “नमः” मन्त्राने ५ ग्राम मुग्वाम्त घेऊन, नन्तर यथेच्छ भोजन करावम्. आदित्यपुरा णान्त-“जेवीत अमनाम्, वामहम्नाने तूप, दृध, व मीठ ही घेऊ नयेत व त्याम्स म्पर्शही करूं नये. केल्यास ती उच्छिष्ट होतात. आणि कोणाचान पदार्थ कांहीं लाऊन अर्धाच टाकू नये,’ असे साङ्गितले आहे. पुलस्त्य ह्मणतो - “भोजन निःशेष करू नये, परन्तु दहीम्, दूध, तूप, मध, सक्त ही मात्र निःशेष भक्षावी.” वृद्धमनु ह्मणतो–“भोजनकाली एकान हस्ताने उदक पिऊ नये. शूद्राने आणलेलं पिऊ नये.” इत्यादि ब्राह्मणाम्म ने नियम आहेत, तेच शूद्राम्म आहेत, असे जाणावम्. देवल मणतो - “आपण भक्षन शेष राहिलेल्या अन्नान्तून काही घ्यावं व उत्तरापोशन करून. ते अन्न उदकमहित भूमीवर मोडून, उत्तरापोशनां तील अर्धे उदक पुढील मन्त्राने त्यावर द्यावं.’ नो -
रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥ १ ॥
नन्तर नोन्द, हात, व पाय, धुवून, दोन वेळ आचमन करून, गुल्याम्म म्पर्श करून, पुनः आनमन करून, पुढील मन्त्र
अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् ॥
मुखं ममैतत्परिणामसम्भवं यच्छत्वरोगो मम चास्तु देहः ॥ १ ॥
अगस्त्यं कुम्भकर्णं च शनिं च वडवानलम् ।
आहारपरिपाकार्थं स्मरामि च वृकोदरम् ॥ २ ॥
ह्मणून पोटावरून हात फिरवावा. नन्तर विडा खाऊन, वाकी राहिलेला दिवम पुराणश्रवणादिकाने घालवावा. नन्तर रविवार, पोर्णिमा, अमावास्या, सङ्क्रान्ति, व्यतीपात, वैधृति, श्राद्ध, व तत्पूर्वदिवम इतक्या दिवसी भोजन करूं नये. यांवाञ्चून इतर दिवशी रात्री भोजन करून, सुमारे १ प्रहर रात्रीनन्तर अगस्त्याय नमः । माधवाय नमः । मुचकुन्दाय नमः । कपिलाय नमः । आस्तिकाय नमः । ह्मणून नमस्कार करून, पूर्वेम किंवा दक्षिणेम मस्तक करून निनावम्. स्त्रीमम्भोग करणे तो रजोदर्शनापासून प्रथमच्या ४। ११ व १३ वी त्या रात्रि वर्ण्य करून सोळा दिवसाञ्च्या आम्त ४।६।४।१४।१५।३०। या तिथि, श्राद्ध व तत्पूर्व दिवम, शनि, रवि व मङ्गळवार, भरणी, कृत्तिका, आा, मघा, पूर्वा, विशाखा, ज्येष्ठा, मूळ, पूर्वाषाढा, पूर्वाभाद्रपदा, आ. पले जन्मनक्षत्र, तत्पूर्व व तदुत्तर असीं तीन, ही नक्षत्रे, सङ्क्रान्ति, व्यतीपात, वैधृति, इतके योग वर्ण्य करून, समरात्रीत स्त्रीसङ्ग करावा. नन्तर मूत्राच्या तिप्पट शौच करून, स्नान करावे, हे पूर्वी साङ्गितले आहे. ऋतुकालावाञ्चून (१६ रात्रीनन्तर ) स्नान न करितां मूत्रा सारखें शौच करून निनावेम्. हे आन्हिक प्रतिदिवशीं करावेम्.
इति शूद्रधर्मतत्त्वप्रकाशे शूद्राह्निकं समाप्तम् ॥