विश्वास-प्रस्तुतिः
[१६२]
अथ मनुष्ययज्ञः ।
हारीतः -
सर्वा अस्य देवता गृहान् आगच्छन्ति । यस्यैवं ब्राह्मणो विद्वान् गृहम् अभ्येति । तम् अभ्युपतिष्ठतः प्राणदेवता उपशमन्ति ।
बृहस्पतिः ।
प्रीयते स्वागतेनाग्निरासनेन शतक्रतुः ।
पितरः पादशौचेन भोजनेन प्रजापतिः ॥
याज्ञवल्क्यः ।
अध्वनीनो ऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥
अतिथिं श्रोत्रियं तृप्तम् आसीमान्तम् अनुव्रजेत् ।
यमः ।
न पृच्छेद् गोत्रचरणं देशं नाम कुलं श्रुतम् ।
अध्वनो ऽभ्यागतं विप्रं भोजनार्थम् उपस्थितम् ॥
विष्णुपुराणे ।
दिने ऽतिथौ तु विमुखे गते यत् पातकं नृणाम् ।
तद् एवाष्टगुणं पुंसां सूर्ये च विमुखे गते ॥
सूर्यास्ते इत्य् अर्थः । ततो ऽतिथिं प्रतिक्ष्य पादौ प्रक्षाल्य सम्पूज्यामान्नं निवेद्य कस्मैचिद् विप्राय वा सनकादिमनुष्येभ्य इदं न ममेत्य् उक्त्वा दद्यात् । इदं नित्यश्राद्धात् प्राग् इति हरिहरः । विष्णुपुराणे ।
इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।
सम्प्राप्तो वैश्वदेवान्ते सो ऽतिथिः स्वर्गसङ्क्रमः ॥
ततो गोग्रासः ।
मदनपारिजाते ऋष्यशृङ्गः ।
गवां ग्रासं च कुर्वीत नित्यम् एव समाहितः ।
गवां कण्डूयनं स्पर्शं ग्रासम् आह्निकम् एव च ॥
मन्त्रस् तु ।
सौरभेय्यः सर्वहिताः[^५५] [१६२] पवित्राः पापनाशनाः ।
प्रतिगृह्णन्त्व् इमं ग्रासं गावस् त्रैलोक्यमातरः ॥
सुरभे त्वं जगन्मातर् देवि विष्णुपदे स्थिता ।
ग्रासं गृहाण मद्दत्तं गोमातस् त्रातुम् अर्हसि ॥
इति ।
श्रीदत्तीये भविष्ये ।
तृणोदकेन संयुक्तं प्रदद्याच् च गवाह्निकम् ।
कपिलाशतदानस्य फलं विद्यान् न संशयः ॥
गवाह्निकम् अहोरात्रपर्याप्तं गोभक्ष्यम् । मन्त्रस् तु ।
पञ्चभूते शिवे पुण्ये पवित्रे सूर्यसम्भवे ।
प्रतीच्छेमं मया दत्तं सौरभेयि नमो ऽस्तु ते ॥
मूलम्

मराठी
आतां मनुष्ययज्ञ साङ्गतो.
याविषयीं हारीत ह्मणतो– “या गृहस्थाच्या गृहाम्त सर्वही देवता येतात. ज्याच्या गृहास विद्वान् ब्राह्मण येतो. त्यास उत्थापनादिकेङ्करून मत्कार केला असतां प्राण देवता सन्तुष्ट होतात,” बृहस्पति ह्मणतो– " ब्राह्मणाञ्चे स्वागत1 केल्याने अग्नि, व त्याम्स आसन दिल्याने इन्द्र, त्याञ्चे पाय धुतल्याने पितर, आणि त्याम्स भोजन दिल्याने प्रजापति हे सन्तुष्ट होतात." याज्ञवल्क्य ह्मणतो - “मार्गम्थ जो कोणी आपल्या घरी ये ईल तो अतिथि, व वेदपारङ्गत श्रोत्रिय हे दोघेहि ब्रह्मलोकेच्छु गृहस्थाम्स सर्वदा पूज्य आहेत.
अतिथि, अथवा श्रोत्रिय भोजनादिकानें तृप्त झाल्यावर त्याम्म गांवाच्या सीमे पर्यम्त आपण पोनवावे.” यम ह्मणतो-“जो मार्गस्थ अतिथि भोजनास स्वगृही आला असेल, त्यास त्याचे गोत्र, शाखा, प्रवर, देश, नाम, व कूळ इत्यादि पुसू 2 नये. अर्थात् इतर लक्षणान्नीं तो कोण आहे ते जाणून, स्वकीय वर्णाचा अशी खात्री झाल्यास आप ल्या पङ्क्तीस; नाहीतर अन्यत्र भोजन द्यावे.
कारण, अज्ञातनामगोत्राशी भोजन करू3 नये असा निषेध आहे.” विष्णुपुराणान्न - “दिवसा अतिथि विमुग्न गेल्यास जे पाप लागर्ने त्याच्या आठपट रात्री विमुग्व गेल्यास लागते;” असे साङ्गितले आहे.
नन्तर, अतिथीची वाट पाहून अतिथि मिळाल्यास त्याची पादप्रक्षालनादि पूजा करून, त्याम अथवा अन्य कोणत्याहि ब्राह्मणास - सनकादिमनुष्येभ्य इदं न मम । मणून, आमान्न द्यावेम्. “हे नित्यश्राद्धापूर्वी करावें,” असे हरिहर ह्मणतो. विष्णुपुराणान्त– “मित्र, शत्रु, मर्च, पण्डित किया अन्य जो कोणी वैश्वदेवाती स्वगृही येईल तो अतिथि स्वर्गप्रद जाणावा,’’ असे साङ्गि तले आहे. नन्तर गोग्रास द्यावा. त्याविषयी मदनपारिजानाम्त ऋष्यशृङ्ग ह्मणतो “प्रतिदिवशी स्वस्थपणाने गोग्रास द्यावा. अथवा तिला वाजवावम्, नाहीपेक्षा तिला स्पर्श तरी करावा. त्याचे मन्त्र,
सौरभेय्याः सर्वहिताः पवित्राः पापनाशनाः ॥
प्रतिगृह्णन्त्विमं ग्रासं गावस्त्रैलोक्यमातरः॥ १ ॥
सुरभे त्वं जगन्मातर्देवि विष्णुपदे स्थिता ॥
ग्रासं गृहाण मद्दत्तं गोमातस्त्रातुमर्हसि ॥ २ ॥ श्री
रीदत्तीयाम्त भविष्यपुराणाम्त “पाणी, गवत, याही युक्त असें गवान्हिक ( रात्रदिवस तिला खाण्यास पुरे इतका चारा ) प्रतिदिवशी देणारास १०० कपिलादानाचें फल निःसंशय मिळते,” असे साङ्गितले आहे. आन्हिक देण्याचा मन्त्र -
पञ्चभूते शिवे पुण्ये पवित्रे सूर्यसम्भवे ॥
प्रतीच्छेमं मया दत्तं सौरभयि नमोऽस्तु ते ॥ १ ॥
इति शूद्रधर्मतत्त्वप्रकाशे मनुष्ययज्ञः ॥
-
सुष्ठ आगन स्वागत-शब्दा, चाङ्गले आगमन. कोणीही आपल्या घरी आला अगतां त्यास यात्र सत्कापर्वक, आनन्दाने “तुझी आलो, फार चाङ्गले झाले,” अमे भाषण करण; यायच स्वागत अङ्ग ह्मणतान. ↩︎
-
याचे कारण बहुधा अस अमानम् दिगन की, जो पाम्च येतो त्याग श्रम फार झालेला असतो. तशात येताम्च कुलगोत्रादि विचारल्यानं त्यास अधिक त्रास दिल्यासारखा होतो, हाणन विचार नये अम साङ्ग तले आहे. ↩︎
-
ज्याच्या कुल, गोत्र इत्यादिकाञ्ची आपणास पूर्ण माहिती नाही त्याच्या पतीस यमं नये, असम्च आहे असे नाही; तर पूर्वोक्त माहिती असली तथापि कोणीही कोणाच्या पङ्क्तीग धम नये; कारण, कोणाचे काय गुप्त पातक असेल ते कशाने समजावे ? याकरिता पनीत अमि, भस्म, स्वाञ्च, उदक, दार अथवा जा ण्यायेण्याचा रस्ता इत्यादिकाने पङ्क्तिभेद करावा, असे साङ्गितले. ↩︎