१५ नित्यश्राद्धम्

विश्वास-प्रस्तुतिः

[१५९]

अथ नित्यश्राद्धम् ।

तत् पृथक् कार्यं न वा ।

श्राद्धं वा पितृयज्ञः स्यात् पित्र्यो बलिर् अथापि वा ।

इति छन्दोगपरिशिष्टात् । मनुः

एकम् अप्य् आशयेद् विप्रम् गृही नित्यं समाहितः1

प्रचेताः

नामन्त्रणं न होमश् च नावाहनविसर्जने ।
न पिण्डदानं न सुरा नित्ये कुर्याद् द्विजोत्तमः ॥

व्यासः

नावाहनं स्वधाकारः पिण्डाग्नौकरणादिकम् ।
ब्रह्मचर्यादिनियमो विश्वेदेवास् [१६०] तथैव च ॥
तत् तु षट्पुरुषं ज्ञेयं दक्षिणापिण्डवर्जितम् ।

दक्षिणायां विकल्पः, “किञ्चिद् दत्वा विसर्जयेत्” इति प्रचेतोक्तेः ।

मूलम्

मराठी

यानन्तर नित्यश्राद्धविचार साङ्गतो.

तेम्, निराळे (पञ्चमहायज्ञात पितृयज्ञ आहे तद्भिन) करावे किंवा न करावेम्. कारण, " नित्यश्राद्ध हाच पितृयज्ञ; अथवा पञ्चमहायज्ञान्तर्गत पितृलीनेन सिद्ध होते, अथवा भिन्नही होते " असें छन्दोगपरिशिष्टाम्त साङ्गितले आहे. मनु ह्मणतो-" पूर्वोक्त सहान्तून, १ ब्राह्मणास तरी प्रतिदिवशी गृहस्थाने भोजन द्यावेम्. “प्रचेता ह्मणतो-“नित्य श्राद्धाम्त ब्राह्मणाम्स आमन्त्रण, अग्नौकरण, आवाहन, विसर्जन, पिण्डदान, व देवस्थानीय ब्राह्मण हे नसावें.” व्यास ह्मणतो-” आवाहन, स्वधाकार, पिण्ड, अग्नौकरणादि, ब्रह्मचर्यादि नियम, व विश्वेदेव हे नित्यश्राद्धाम्त असू नयेत; आणि ते पट्दैवत व दक्षिणा आणि पिण्डरहित असावेम्. " नित्यश्राद्धाम्त दक्षिणेविषयी विकल्प आहे. कारण पूर्वोक्त व्यास वचनाम्त तिचा निषेध आहे, तथापि–" कांहीं द्रव्य देऊन ब्राह्मणविसर्जन करावेम्, " अमें प्रचेत्याने साङ्गितले आहे. या हेतूस्तव ब्राह्मणाम्स अल्प द्रव्य द्यावेम्.

इति शूद्रधर्म तत्त्वप्रकाशे नित्यश्राद्धविचारः ॥

विश्वास-प्रस्तुतिः

अथ प्रयोगः

आचम्य देशकालौ स्मृत्वा, नित्यश्राद्धं करिष्य इत्य् उक्त्वा, अस्मत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानाम्, एवं मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां स्थाने क्षणः कर्तव्यः इति क्षणं दत्वा पित्रादयो मातामहाश् च इदं वः पाद्यम् इति पाद्यं दत्वाचम्योदङ्मुखं कुशासने उपविश्य पितॄणां मातामहानां चेदम् आसनम् । पित्र्ये क्षणः क्रियतां । प्राप्नोतु भवान् । प्राप्नवानि । इत्य् उक्ते पितरो मातामहाश् च एष वो गन्धः । इमानि पुष्पाणि । धूपो दीप आच्छादनं चेति दत्वा पूर्णतां वाचयित्वा । द्विगुणम् आमान्नम् उपकल्प्य प्रोक्ष्य पात्रम् आलभ्य तिलान् विकीर्य अन्ने ऽङ्गुष्ठं दत्वा । पितरः इदं वः आमान्नं द्विगुणं समं वा सोपस्करं गयेयं भूः गदाधरो विप्रः ब्रह्मरूपम् इदं पितृभ्यः काश्यपगोत्रेभ्यो ऽमुकदासेभ्यो वसुरुद्रादित्यस्वरूपेभ्यस् तथा मातामहादिभ्यश् चेदम् आमं स्वधा सम्पद्यतां नमः । दत्तम् अक्षय्यम् अस्तु । ब्रह्मार्पणम् अस्तु । मधु इति त्रिवारम्2 उक्त्वा । सुप्रोक्षितम् अस्तु शिवा आपः सन्तु । सौमनस्यम् अस्तु । अक्षतं चारिष्टं चास्तु । दीर्घम् आयुः श्रेयः पितरः स्वस्तीति ब्रूत । पितृभ्यं3 यद् दत्तं तद् अक्षय्यम् अस्तु । दक्षिणां दद्यान् न वा । एतावत्य् अशक्तौ पित्र्यबलिनैव नित्यश्राद्धसिद्धिः ।

इति नित्यश्राद्धम्

अनन्तर नित्यश्राद्धप्रयोग साङ्गतो.

आचमन, व देशकालसङ्कीर्तन करून - नित्य श्राद्धं करिष्ये । ह्मणून,-अस्मत्पितृपितामहप्रपितामहानां काश्यपगोत्राणाम् अमुकदासानाम् । अमेच - मातामहप्रमातामहवृद्धप्रमातामहानां स्थाने क्षणं दत्वा प्रसादः कर्तव्यः । ह्मणून दर्भ द्यावा. ब्राह्मणान्नी - सुकर्तव्यः अमें प्रतिवचन द्यावे. पित्रादयो मातामहाश्च इदं वः पाद्यं । झणून पाच देउन, आचमन करून, उत्तराभिमुख दर्भासनावर बसून, पितॄणां मातामहानां चेदमासनम् । ह्मणून आसनार्थ दर्भ देऊन, पित्रे क्षणः क्रियताम् । प्राप्नोतु भवान् । असे ह्मणावेम्. प्राप्नुवानि अमें ब्राह्मणान्नी झटल्यावर -

पितरो मातामहाश्च एष वो गन्धः । पितरो मातामहाश्च इमानि वः पुष्पाणि । पितरो मातामहाश्च एष वो धूपः । पितरो मातामहाश्च एष वो दीपः । पितरो मातामहाश्च एतदाच्छादनम् ।

हे उपचार देऊन,-

पितरः मातामहाश्च एते आसनाद्यत्र गन्धपुष्पधूपदीपाच्छादनान्ताः पञ्चोपचाराः सर्वे परिपूर्णा भवन्तु ।

असें ह्मणून, नमस्कार करावा. ब्राह्मणान्नी-अर्चनविधि प्वर्चितमस्तु । असें मटल्यावर; पात्राम्त द्विगुणित आमान्न कल्पून, तें प्रोसून, पात्रालम्. बन करून, तीळ विखरून, अन्नावर आङ्गठा ठेवून,-

पितरः इदं वः आमान्नं द्विगुणं ( अथवा समं ) सोपस्करं गयेयं भूः गदाधरो विप्रः ब्रह्मरूपमिदं पितृभ्यः काश्यपगोत्रेभ्योमुकदासेभ्यः वसुरुद्रादित्यस्वरूपेभ्यः । तथा मातामहादिभ्यश्चेदं आमं स्वधा सम्पद्यतां नमः । दत्तमक्षय्यमस्तु । ब्रह्मार्पणमस्तु ।

असें ह्मणून ते ब्राह्मणाम्स देउन, मधु अमें ३ वेळ ह्मणून,

सुमोक्षितमस्तु । शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । दीर्घमायुः श्रेयः पितरः स्वस्तीति ब्रूत ॥

असे यजमानाने हटल्यावर,- पितॄणां यद्दत्तं तदक्षय्यमस्तु । असें ब्राह्मणान्नी ह्मणावेम्. ह्या श्राद्धाम्त दक्षिणा देणे हे वैकल्पिक आहे. एवढें विस्तृत श्राद्ध करण्यास असमर्थ असल्यास, पञ्चमहायज्ञान्तर्गत पितृबलीनेच नित्यश्राद्धसिद्धि होते. भिन्न करण्याचे आवश्यक नाही.

॥ इति शूद्रधर्मतत्त्वप्रकाशे नित्यश्राद्धम् ॥

  1. प्- षण्णाम् अप्य् अन्वहं गृही ↩︎ ↩︎

  2. प् ओमित्स् त्रिवारम् ↩︎ ↩︎

  3. प् पितॄणां ↩︎ ↩︎