१४ भूतयज्ञः

विश्वास-प्रस्तुतिः

[१५६]

अथ भूतयज्ञः

मध्ये पर्जन्याय नमः । अद्भ्यो नमः । पृथिव्यै नमः । द्वारशाखयोः धात्रे नमः । इदं धात्रे न ममेति त्यागः । एवम् अग्रे ऽपि । विधात्रे नमः । प्रतिदिशं वायवे नमः । प्रतिदिशं दिग्भ्यो नमः । इन्द्राय नमः धर्मराजाय नमः । वरुणाय नमः । इन्दवे नमः । ईशान्याम् धन्वन्तरये नमः । वायव्यां वायवे नमः । ब्रह्मणे नमः । अन्तरिक्षाय नमः । सूर्याय नमः । उत्तरे विश्वेभ्यो देवेभ्यो नमः । विश्वेभ्यो भूतेभ्यो नमः । भूतानां पतये नमः । ततः दक्षिणे । प्राचीनावीती । पितृभ्यः स्वाहा नमः । इदं [१५७] पितृभ्यः । जलस्पर्शः । अयं कातीयपक्षः पौराणश् च । स्वधाशब्दो नेत्य् एके । पात्रं प्रक्षाल्य वायव्ये यक्ष्मैतत् ते इति निनयेत् । इदं यक्ष्मणे । अथ वा, देवताभ्यः पितृभ्यश् चेत्य् अनेनैव भूमौ बलिः । तेनैव पितृयज्ञ इत्य् एके । आचार्यचूडामणौ तु, ॐ भूः स्वाहेति विप्रेणोक्ते नमो नम इति स्वयं जुहुयात् । एवं व्यस्ताः समस्ताश् च । ततो देवकृतस्यैनसो ऽवयजनम् असि स्वाहेति विप्रेणोक्ते नम इति स्वयं होमः । तन् न । नमस्कारेण वैदिकबाधात् । अग्नय इदम् एवं षट् । ततो यमाय स्विष्टकृते च । भूमौ विश्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो भूतेभ्यो नमः । पितृभ्यो नम इति दक्षिणे । ऐशाने यक्ष्मैतत् ते पौराणैर् एकः । चाण्डालादिभ्यो वायसेभ्यश् च । दक्षिणे धर्मराजचित्रगुप्ताभ्यां दद्याद् इत्य् उक्तम् । ततः शेषम् आदाय गृहाङ्गणे प्रोक्ष्य । १६ धन्वन्तरये नमः । १० प्राच्यै दिशे नमः । ५ विधात्रे नमः । ६ वायवे नमः । २७ विश्वपतये नमः । २१ अन्तरिक्षाय नमः । ४ धात्रे नमः । १७ इन्दवे नमः । २६ भूपतये नमः । २० ब्रह्मणे नमः । ११ दक्षिणायै नमः । १८ वायवे नमः । २५ विश्वेभ्यो भूतेभ्यो नमः । ३ पृथिव्यै नमः । ७ वायवे नमः । २४ यक्ष्मणे नमः । २३ विश्वेभ्यो भूतेभ्यो नमः । २ अत्यः । १५ धर्मराजाय नमः । १२ प्रतीच्यै नमः । १ पर्जन्याय नमः । २ स्वधा पितृभ्यः । ८ वायवे नमः । १५ वरुणाय नमः ।

द्वौ स्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां पिण्डं प्रदास्यामि स्याताम् एताव् अहिंसकौ ॥

श्वभ्यां नमः । इति दत्वा, पुनर् आदाय,

ऐन्द्रवारुणवायव्या याम्या1 वै नैरृतास् तथा ।
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् ॥

इति काकबलिं दत्वा, इदं वायसेभ्यः इत्य् उक्त्वा, पुनर् आदाय विष्णुपुराणोक्तैर् मन्त्रैर् बलीन् दद्यात् । यथा ।

देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः ।
प्रेताः पिशाचास् तरवः समस्ता ये चान्नम् इच्छन्ति मया प्रदत्तम् ॥ १ ॥

इदं देवादिभ्यः ।

पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धबन्धाः ।
प्रयान्तु ते तृप्तिम् इदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ २ ॥

इदं पिपिलिकादिभ्यः ।

येषां न माता न पिता न बन्धुर् नैवान्नसिद्धिर् न तथान्नम् अस्ति ।
तत्तृप्तये ऽन्नं भुवि दत्तम् एतत् ते यान्तु तृप्तिं मुदिता भवन्तु ॥ ३ ॥

इदम् अनाथबन्धुभ्यः ।

भूतानि सर्वाणि तथान्नम् एतद् अहं च विष्णुर् न यतो ऽन्यद् अस्ति ।
तस्माद् अहं भूतनिकायभूतम् अन्नं प्रयच्छामि भवाय तेषाम् ॥ ४ ॥

इदं भूतेभ्यः ।

चतुर्दशो भूतगणो य एष तत्र स्थिता ये खलु भूतसङ्घाः ।
तृप्त्यर्थम् अन्नं हि मया विसृष्टं तेषाम् इदं ते मुदिता भवन्तु ॥ ५ ॥

इदं भूतगणादिभ्यः ।

इत्य् उचार्य नरो दद्याद् अन्नं श्रद्धासमन्वितः ।
भुवि भूतोपकाराय गृही सर्वाश्रयो यतः ॥ ६ ॥
श्वचाण्डलविहङ्गानां भुवि दद्यात् ततो नरः ।
ये चान्ये पतिताः केचिद् अपुत्रा भुवि मानवाः ॥ ७ ॥
ततो गोदोहमात्रं वै कालं तिष्ठेत् गृहाङ्गणः ।

इति । ततः कृम्यादिपतितपापरोगिश्वपचादिभ्यो दद्याद् इति नागदेवाह्निके हरिहरभाष्ये च । तद् एतद् वैश्वदेवं द्विजानां यद्य् अपि सायं प्रातर् उक्तं तथापि शूद्राणां दिवैव न तु सायम् । पञ्चयज्ञोक्तेः2 । वैश्वदेवविध्यभावात् । तद् आह मदनपारिजाते जमदग्निः

वैश्वदेवं दिवा3 [१५८] रात्रौ कुर्याद् बलिहृतिं तथा ।
महतः पञ्चयज्ञांस् तु दिवैवेत्याह धर्मवित् ॥ ९ ॥

तेन4 वैश्वदेवः पञ्चयज्ञभिन्नत्वान् न शूद्रस्येति सङ्क्षेपः । इति वैश्वदेवः5

मूलम्

[१५६]

अथ भूतयज्ञः

मध्ये पर्जन्याय नमः । अद्भ्यो नमः । पृथिव्यै नमः । द्वारशाखयोः धात्रे नमः । इदं धात्रे न ममेति त्यागः । एवम् अग्रे ऽपि । विधात्रे नमः । प्रतिदिशं वायवे नमः । प्रतिदिशं दिग्भ्यो नमः । इन्द्राय नमः धर्मराजाय नमः । वरुणाय नमः । इन्दवे नमः । ईशान्याम् धन्वन्तरये नमः । वायव्यां वायवे नमः । ब्रह्मणे नमः । अन्तरिक्षाय नमः । सूर्याय नमः । उत्तरे विश्वेभ्यो देवेभ्यो नमः । विश्वेभ्यो भूतेभ्यो नमः । भूतानां पतये नमः । ततः दक्षिणे । प्राचीनावीती । पितृभ्यः स्वाहा नमः । इदं [१५७] पितृभ्यः । जलस्पर्शः । अयं कातीयपक्षः पौराणश् च । स्वधाशब्दो नेत्य् एके । पात्रं प्रक्षाल्य वायव्ये यक्ष्मैतत् ते इति निनयेत् । इदं यक्ष्मणे । अथ वा, देवताभ्यः पितृभ्यश् चेत्य् अनेनैव भूमौ बलिः । तेनैव पितृयज्ञ इत्य् एकेआचार्यचूडामणौ तु, ॐ भूः स्वाहेति विप्रेणोक्ते नमो नम इति स्वयं जुहुयात् । एवं व्यस्ताः समस्ताश् च । ततो देवकृतस्यैनसो ऽवयजनम् असि स्वाहेति विप्रेणोक्ते नम इति स्वयं होमः । तन् न । नमस्कारेण वैदिकबाधात् । अग्नय इदम् एवं षट् । ततो यमाय स्विष्टकृते च । भूमौ विश्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो भूतेभ्यो नमः । पितृभ्यो नम इति दक्षिणे । ऐशाने यक्ष्मैतत् ते पौराणैर् एकः । चाण्डालादिभ्यो वायसेभ्यश् च । दक्षिणे धर्मराजचित्रगुप्ताभ्यां दद्याद् इत्य् उक्तम् । ततः शेषम् आदाय गृहाङ्गणे प्रोक्ष्य । १६ धन्वन्तरये नमः । १० प्राच्यै दिशे नमः । ५ विधात्रे नमः । ६ वायवे नमः । २७ विश्वपतये नमः । २१ अन्तरिक्षाय नमः । ४ धात्रे नमः । १७ इन्दवे नमः । २६ भूपतये नमः । २० ब्रह्मणे नमः । ११ दक्षिणायै नमः । १८ वायवे नमः । २५ विश्वेभ्यो भूतेभ्यो नमः । ३ पृथिव्यै नमः । ७ वायवे नमः । २४ यक्ष्मणे नमः । २३ विश्वेभ्यो भूतेभ्यो नमः । २ अत्यः । १५ धर्मराजाय नमः । १२ प्रतीच्यै नमः । १ पर्जन्याय नमः । २ स्वधा पितृभ्यः । ८ वायवे नमः । १५ वरुणाय नमः ।

द्वौ स्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां पिण्डं प्रदास्यामि स्याताम् एताव् अहिंसकौ ॥

श्वभ्यां नमः । इति दत्वा, पुनर् आदाय,

ऐन्द्रवारुणवायव्या याम्या1 वै नैरृतास् तथा ।
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् ॥

इति काकबलिं दत्वा, इदं वायसेभ्यः इत्य् उक्त्वा, पुनर् आदाय विष्णुपुराणोक्तैर् मन्त्रैर् बलीन् दद्यात् । यथा ।

देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः ।
प्रेताः पिशाचास् तरवः समस्ता ये चान्नम् इच्छन्ति मया प्रदत्तम् ॥ १ ॥

इदं देवादिभ्यः ।

पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धबन्धाः ।
प्रयान्तु ते तृप्तिम् इदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ २ ॥

इदं पिपिलिकादिभ्यः ।

येषां न माता न पिता न बन्धुर् नैवान्नसिद्धिर् न तथान्नम् अस्ति ।
तत्तृप्तये ऽन्नं भुवि दत्तम् एतत् ते यान्तु तृप्तिं मुदिता भवन्तु ॥ ३ ॥

इदम् अनाथबन्धुभ्यः ।

भूतानि सर्वाणि तथान्नम् एतद् अहं च विष्णुर् न यतो ऽन्यद् अस्ति ।
तस्माद् अहं भूतनिकायभूतम् अन्नं प्रयच्छामि भवाय तेषाम् ॥ ४ ॥

इदं भूतेभ्यः ।

चतुर्दशो भूतगणो य एष तत्र स्थिता ये खलु भूतसङ्घाः ।
तृप्त्यर्थम् अन्नं हि मया विसृष्टं तेषाम् इदं ते मुदिता भवन्तु ॥ ५ ॥

इदं भूतगणादिभ्यः ।

इत्य् उचार्य नरो दद्याद् अन्नं श्रद्धासमन्वितः ।
भुवि भूतोपकाराय गृही सर्वाश्रयो यतः ॥ ६ ॥
श्वचाण्डलविहङ्गानां भुवि दद्यात् ततो नरः ।
ये चान्ये पतिताः केचिद् अपुत्रा भुवि मानवाः ॥ ७ ॥
ततो गोदोहमात्रं वै कालं तिष्ठेत् गृहाङ्गणः ।

इति । ततः कृम्यादिपतितपापरोगिश्वपचादिभ्यो दद्याद् इति नागदेवाह्निके हरिहरभाष्ये च । तद् एतद् वैश्वदेवं द्विजानां यद्य् अपि सायं प्रातर् उक्तं तथापि शूद्राणां दिवैव न तु सायम् । पञ्चयज्ञोक्तेः2 । वैश्वदेवविध्यभावात् । तद् आह मदनपारिजाते जमदग्निः

वैश्वदेवं दिवा3 [१५८] रात्रौ कुर्याद् बलिहृतिं तथा ।
महतः पञ्चयज्ञांस् तु दिवैवेत्याह धर्मवित् ॥ ९ ॥

तेन4 वैश्वदेवः पञ्चयज्ञभिन्नत्वान् न शूद्रस्येति सङ्क्षेपः । इति वैश्वदेवः5

मराठी

आतां भूतयज्ञ साङ्गतो.

तो असा की, - भूमीवर मण्डल करून-मध्यभागी, “पर्जन्याय नमः । अन्यो नमः । पृथिव्यै नमः"। मण्डळद्वाराच्या शेवटीं - “धात्रे नमः। विधात्रे नमः”। वायव्येम “वायवे नमः । पूर्वेस - इन्द्राय नमः । दक्षिणेस - धर्मराजाय नमः । पश्चिमेस - वरुणाय नमः । उत्तरेस - इन्दवे नमः । ईशान्येस - धन्वन्तरये नमः । वायव्येस - वायवे नमः । ब्रह्मणे नमः। अन्तरिक्षाय नमः । सूर्याय नमः” । उत्तरेस - विश्वेभ्यो देवेभ्यो नमः । विश्वेभ्यो भूतेभ्यो नमः । भूतानां पतये नमः । नन्तर, अपसव्य करून, दक्षिणेस “पितृभ्यः स्वधा नमः । इदं पितृभ्यः” ह्मणून त्याग करून, उदकम्पर्श करावा. हा का तीय व पौराणपक्ष आहे. “ येथे पितृयज्ञात स्वधाशब्द नसावा, ’’ असे कित्येक पणतात. नन्तर, होमद्रव्याचें पात्र धुवून, वायव्येस ते उदक - “यक्ष्मैतत्ते नमः” । ह्मणून मोडावेम्. " इदं यक्ष्मणे" अमा त्याग ह्मणावा. किंवा

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ १ ॥

या मन्त्रा नेच भूमीवर बलि द्यावा; ह्मणजे त्यानेच पितृयज्ञ होतो, " असे कित्येक लणतात. आचार्यचूडामणीन्त,-" ॐ भूः स्वाहा’ असें ब्राह्मणाने पटल्यावर, शूद्रानें “नमो नमः" पणून आपण होम करावा. असाच व्यस्त, व ममस्त व्याहृति ब्राह्मणाकरवी मणवन, आपण पूर्ववत् होम करावा. नन्तर - “देवकृतस्यैनसोवयजनमसि स्वाहा” हा मन्त्र ब्राह्मणाने झटल्यावर- “नमः ह्मणून आपण होम करावा” असें माङ्गितले आहे. ते योग्य नाहीम्; कारण, शूद्राम्म नमः मन्त्रविधानाने वैदिकमन्त्र बाधित आहे. नन्तर “अग्नये इदं” असे ६ नन्तर यमाय स्विष्टकृते व भूमीवर, विश्वेभ्यो देवेभ्यः । सर्वेभ्यो भूतेभ्यो नमः । पितृभ्यो नमः । ह्मणून दक्षिणेम, इशान्यम यक्ष्मतत्त ह्मणून उदकनिनयन करुन. पौराणमन्त्रान्नी आहात द्यावी. व नाण्डालादिकाम्म आणि वायमाम्म बलि द्यावा. “. क्षिणेस धर्मराज व चित्रगुप्ताम बलि द्यावे,” अमें साङ्गितले आहे. नन्तर हुतशेषान्न ग्रहण करून, गृहाङ्गणाम्त भृमि प्रोक्षन, तथं - “धन्वन्तरये १६ प्राच्यै दिशे १० विधात्रे ५ वायव्ये ६ उदीच्यै १३ सूर्याय २२ इन्द्राय १४ वायवे विश्वपतये २७ अन्तरिक्षाय २१ धात्र ४ इन्दव १७ भूपतये २६ ब्रह्मणे २० दक्षिणाय ११ वायम्व १२ विश्वेभ्यो भूतेभ्यः २५ पृथिव्य ३ वायवे ७ वायवे २४ यक्ष्मणे १९ विश्वेभ्यो भूतेभ्यः २३ अद्भयः २ धर्मराजाय १५ प्रतीच्य १२ पर्जन्याय १ स्वधा पितृभ्यः २ वायवे नमः पितृभ्यः ८ वरुणाय १५"

नन्तर-

द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवो ॥
ताभ्यो पिण्डं प्रदास्यामि स्यातामेतावहिंसको ॥ १ ॥
श्वभ्यां नमः ॥

मणून श्वानबालि देऊन, पुनः अन्न घेऊन,

ऐन्द्रवारुणवायव्या सौम्या वै नैर्ऋतास्तथा ।
वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयार्पितम् ॥ १ ॥

आणून काकबलि देऊन, इदं वायसेभ्यः मणून त्याग करावा. पुनः अन्न घेऊन विष्णुपुराणोक्त, मन्त्रान्नी बलि द्यावे. ते मन्त्र

देवा मनुष्याः पशवो वयांसि सिद्धाः सयक्षोरगदैत्यसङ्घाः ॥
प्रेताः पिशाचास्तरवः समस्ता ये चाममिच्छन्ति मया प्रदत्तम् ॥ १ ॥

ह्मणून बलिदेऊन,इदं देवादिभ्यः असा त्याग ह्मणावा.

पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः ॥
प्रयान्तु ते तृप्तिमिदं मयान्नं तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ २ ॥

म्हणून, बलि देउन, इदं पीपिलिकादि भ्यः ह्मणून त्याग करावा.

येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न तथान्नमस्ति ।
तत्तृप्तयेऽन्नं भुवि दत्तमेतत्ते यान्तु तृप्तिं मुदिता भवन्तु॥ ३ ॥

ह्मणून, बलि देऊन, इदमनाथवम्. धुभ्यः ह्मणून त्याग करावा.

भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोऽन्यदस्ति ॥
तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषां ॥ ४ ॥

ह्मणून बलि देउन,इदं भूते भ्यः असा त्याग ह्मणावा.

चतुर्दशो भूतगणो य एष तत्र स्थिता ये खलु भूतसङ्घाः ॥
तृप्त्यर्थमन्नं हि मया विसृष्टं तेषामिदं ते मुदिता भवन्तु ॥ ५ ॥

ह्मणून, बलि देऊन इदं भूतग णादिभ्यः असा त्याग ह्मणावा. कारण, प्राणिमात्रांवर उपकार करण्याकरितां आपण गृहस्थाश्रम घेतला आहे, व गृहस्थ सर्वांला आश्रयभूत आहे. नन्तर कुत्रे, चाण्डाळ, पक्षी, याम्स भूमीवर अन्न द्यावे, व अन्य जे अपुत्र असून मरण पावले असतील व पतित असतील त्यांसहि द्यावे. नन्तर " गायीची धार काढण्याच्या वेळाइतकें अङ्गणाम्त राहून अतिथीची वाट पहावी, " असे साङ्गितले आहे. “नन्तर कृम्यादि पतित, पापरोगी, श्वपच इत्यादिकाम्स अन्न द्यावेम्, ’’ असें नागदेवकृत आह्निकाम्त व हरिहरभाष्याम्त साङ्गितले आहे. असाच हा वैश्वदेव जरी ब्राह्मणाम्स सायङ्काली व प्रातःकाली निर निराळा करण्यास साङ्गितला आहे, तथापि शूद्राम्स दिवसाच करण्यास विहित आहे, सायङ्काली नाहीम्; कारण, शूद्राम्स वैश्वदेव करण्याचा विधि नसून, केवल पञ्चमहा यज्ञ मात्र करण्यास अधिकार आहे, व रात्री पञ्चमहायज्ञ होत नाहीत. हेच मदनपारि जाताम्त जमदग्नीने साङ्गितले आहे. तें-” रात्रीं वैश्वदेव व बलिहरण करावेम्. पञ्चम हायज्ञ दिवसासच करावे, असे धर्मवेत्ते साङ्गतात." यावरून, रात्री केवल वैश्वदेवच होतो तो पञ्चयज्ञाहून भिन्न असल्यावरून शूद्रास विहित नाही.

हे सङ्क्षेपतः वर्णिले आहे. इति वैश्वदेवः ॥


  1. प्- सौम्या ↩︎ ↩︎

  2. प्- पञ्चयज्ञमात्रोक्तेः ↩︎ ↩︎

  3. प्- तथा ↩︎ ↩︎

  4. प् अद्द्स्- तथा ↩︎ ↩︎

  5. प् ओमित्स् इति वैश्वदेवः ↩︎ ↩︎