विश्वास-प्रस्तुतिः
अथ शूद्रस्य वैश्वदेवः ।
शङ्खः ।
पञ्चयज्ञविधानं तु
गृही नित्यं न हापयेत् ।
यमः ।
ब्रह्मयज्ञो देवयज्ञः
पितृयज्ञस् तथैव च ।
भूतयज्ञो नृयज्ञश् च
पञ्चयज्ञाः प्रकीर्तिताः ॥
स च लौकिकाग्नौ कार्यः ।
“वैवाहिके ऽग्नाव् इत्य् आचार्यः”
इति विज्ञानेश्वरः।
अत एव तन्त्ररत्ने स्थपतीष्टिर् लौकिके ऽग्नाव् उक्ता ।
ये तु लौकिकाग्नाव् अपि शूद्रस्य
न भवतीत्य् आहुस्
ते मूर्खा एव ।+++(5)+++
विज्ञानेश्वर-अपरार्क-मेधातिथयो ऽप्य् एवम् आहुः ।
तत्रापि पाकाग्नौ कार्यः,
गृह्याग्नौ तु पचेद् अन्नं
लौकिके वापि नित्यशः ।
यस्मिन्न् अग्नौ पचेद् अन्नं
तस्मिन् होमो विधीयते ।
इति [१५३] मनूक्तेः । असम्भवे शातातपः ।
लौकिके वैदिके वापि
हुतोत्सृष्टे जले क्षितौ ।
वैश्वदेवस् तु कर्तव्यः
पञ्चसूनापनुत्तये ॥
स च पक्वेनापि कार्यः - स्थपतीष्टिवत् ।
अन्यथा तत्राप्य् आमं स्याद् इति केचित् ।
पक्वम् उच्छिष्टम् उच्यते
इत्य् उक्तेः
स्व-कर्तृक आमेनैवेति स्मार्तगौडाः ।
तत्र वैश्वदेवे मन्वाद्यैर् नाना प्रकारा उक्ताः ।
तेषु मनूक्तो निर्-अग्नि-द्विजपरः ।
तस्य कातीयसूत्रोक्तेर्
गृह्याग्निं विनानधिकाराद्
इति स्मृतिकौमुदीकारः ।
तन् न,
निरग्नेः शाकलमन्त्रैर् होमाद्य्-उक्तेः ।
तद् आह मदनपारिजाते च वसिष्ठः ।
अनग्निकस् तु यो विप्रः सो ऽन्नं व्याहृतिभिः स्वयम् ।
हुत्वा शाकलमन्त्रैस् तु शेषाद् भूतबलिं हरेत् ॥
शाकलमन्त्राः देवकृतस्यैनसो इति षट् । शूद्रस्यापि प्रागुक्तरीत्या कातीयकर्मोक्तेर् एतद्देवतानाम्ना होमः । न तु मनूक्तः । शूद्रस्य श्रुतिश्रवणाभावेन तत्कर्मण्य् अनधिकारात् । तेन येषां कठादीनां शाखायां वैश्वदेवो नोक्तस् तेषां मनूक्तः । यद् वा शूद्राणां पुराणश्रवणाधिकारात् तदुक्तो वैश्वदेवस् तैः कार्यः । तथा मार्कण्डेयपुराणे ।
ततः सम्पूजयेद् वह्निं दद्याच् चैवाहुतीः क्रमात् ।
प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः ॥
तृतीयां चैव गृह्याभ्यः कश्यपाय तथापराम् ।
ततो ऽनुमतये दद्याद् दद्याद् गृहबलिं ततः ॥
पर्जन्याम्भोधरित्रीणां दद्यात् तु मणिके त्रयम् ।
वायवे प्रतिदिग्भ्यश् च दिग्भ्यः प्राच्यादितः क्रमात् ॥
ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमम् ।
विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च ॥
उषसे भूतपतये दद्याच् चोत्तरतस् ततः ।
स्वधा नम इत्य् उक्त्वा पितृभ्यश् चापि दक्षिणे ॥
कृत्वापसव्यं वायव्यं यक्ष्मैतत् ते ऽवनेजनम् ।
ततस् तोयम् उपादाय तेषां नाम्ना क्षिपेद् भुवि ॥
इति । विष्णुपुराणेऽप्य् एवं होमम् उक्त्वा बलौ विशेष उक्तः ।
तच्छेषं मणिके पृथ्वीपर्जन्याभ्यः क्षिपेत् ततः ।
द्वारे धातुर् विधातुश् च मध्ये च ब्रह्मणः क्षिपेत् ॥
इन्द्राय धर्मराजाय वरुणाय तथेन्दवे ।
प्राच्यादिषु बुधो दद्यात् धुतशेषात्मकं बलिम् ॥
प्रागुत्तरे च दिग्भागे धन्वन्तरिबलिं विदुः ।
वायव्य वायवे दिक्षु समस्तासु ततो दिशाम् ॥
ब्रह्मणे चान्तरिक्षाय भानवे च क्षिपेद् बलिम् ।
विश्वेदेवान् विश्वभूतांस् ततो1 विश्वपतीन् पितॄन् ॥
यक्षमाणं च समुद्दिश्य बलिं दद्यान् नरेश्वर ।
कातीयसूत्रे ऽपि इदम् एव बलिहरणं किञ्चिन्न्यूनम् । तेन शूद्रे ऽपीदम् एव । तत्र,
स्वाहाकारे नमस्कारो मन्त्रः शूद्रे विधीयते ।
इति भारतोक्तेर् होमे स्वाहाशब्दो बलौ नमःशब्द इति स्मृतिकौमुदी ।
तन् न, “नमस्कारेण मन्त्रेण” इत्य् एतद्विरोधात् । तच् च बलिदानं गृहदेशेषु कार्यम् । अग्नेः पश्चाद् वा ।
मूलम्

मराठी
यानन्तर वैश्वदेव साङ्गतो.
याविषयी शङ्ख ह्मणतो की,-" गृहस्थाने प्रतिदिनीं पञ्चमहायज्ञ चुकवू नयेत." पम्च यज्ञांविषयीं यम ह्मणतो-" ब्रह्मयज्ञ, देवयज्ञ, पितृयज्ञ, भूतयज्ञ; आणि मनुष्ययज्ञ याम्स पञ्चमहायज्ञ ह्मणतात. सर्वाम्स मिळून वैश्वदेव असें ह्मणावेम्. तो लौकिकानीम्न करावा. “वैवाहिकाङ्ग्नीत2 करावा, " असें आचार्याचे मत आहे असे विज्ञानेश्वर ह्मणतो.
यासाठीच तन्त्ररणाम्त “स्थपतीष्टि लौकिकानीत करावी,” असे साङ्गितले आहे. जे लौकिकानीतही शूद्राम्स वैश्वदेव करण्याचा अधिकार नाही असें ह्मणतात; ते केवळ मूर्खच होत. हे मीच प्र णतों असें नाहीं तर विज्ञानेश्वर, अपरार्क, मेधातिथि हेही असेच ह्मणतात. लौकिकानीत करणे तोही ज्यावर स्वयम्पाक केला असेल त्याम्त करावा; कारण, अग्निहोत्र्यान्नी श्री. ताग्नीत व इतरान्नी गृह्याग्नीत तोही नसल्यास लौकिकानीत नित्य वैश्वदेव करावा. परन्तु “ज्यावर पाक होतो त्याम्त न करितां अन्यत्र करूं नये,’ असी मनुक्ति आहे. याच्या असम्भवीं शातातप ह्मणतो-“लौकिक किंवा वैदिकाग्नीत, उदकाम्त किंवा भूमीवर, पञ्चमूनादोषनिवारणार्थ वैश्वदेव करावा.” तो पक्वान्नानेम्न करावा, नाहीपेक्षा " स्थपतीष्टिवत् ने.हि आमान्न ग्रहण होईल, " असे कित्येक ह्मणतात. पक्वान्नास उच्छिष्ट हटले आहे. ( पृ० ५३ पम्० २५ पहा. ) ह्मणून. “शूद्राने स्वतः आमानानेच करावा, “असे स्मार्तगाँड ह्मणतात. वैश्वदेवाचे प्रकार मन्वादिकान्नी अनेक साङ्गितले आहेत. त्याम्त मनूक्त पक्ष निरग्निद्विनपर आहे. " शूद्रास कातीयमूत्रानुसार कर्मे करण्यास साङ्गितले आहे” ह्मणून, " गृह्याग्नीवाञ्चून अधिकार सिद्ध होत नाही,’ असे स्मृतिकौमुदीकर्ता म णतो, ते योग्य नाही. कारण, कातीयसूत्रानुसार वागणारा असून, तो निरग्नि असेल तर त्याला शाकलमन्त्रान्नी, होमादिक करण्यास साङ्गितले आहे. तम्न मदनपारिजाताम्त वसिष्ठ माङ्गतो - “जो ब्राह्मण निरग्निक असेल, त्याने स्वतः व्याहृति, व शाकलमन्त्रान्नी ह वन करून, हुतशेष अन्नान्तून भूतबलि द्यावा. " " देवकृतस्यैनसो०६” याम्स शा कलमन्त्र ह्मणतात. शूद्रामही पूर्वी माङ्गितल्या रीतीनं कातीयमूत्रानुसार कर्मे करण्यास माङ्गितले असून मन्त्रोच्चाराना अधिकार नाही ह्मणून, त्याने या देवताञ्च्या नामान्नी होम क रणे उचित आहे. मनुकथित पक्ष मात्र योग्य नाही. कारण, शूद्रास वेदश्रवण करण्याचा अधिकार नसल्याने तत्सम्बन्धी काचा अधिकार नाही. यावरून ज्या कठादिकाम्स स्वशाग्वैत वैश्वदेव उक्त नाही, त्याम्स मनुप्रोक्त विहित आहे. अथवा शूद्राम्स पुराणश्रवणा विकार आहे, यास्तव त्यान्नी पुराणोक्त वैश्वदेव करावा. तमम्च मार्कडेयपुराणाम्त " आचमनादि केल्यावर अग्निपूजन करून, क्रमाने आहुति द्याव्या.” त्याञ्चे मन्त्र “ब्रह्मणे नमः १, प्रजापतये नमः २, गृह्याभ्यो नमः ३, कश्यपाय नमः ४, अनु. मतये नमः ५ या पाम्च अग्नीत घालाव्या. नन्तर गृहबलि द्यावा. तो - पर्जन्याय नमः । अम्भोभ्यो नमः । धरित्र्यै नमः या ३ मन्त्रान्नी मणिकाम्त ( मडक्याम्न ) देऊन वायवे नमः क्रमाने पूर्वादिक चार दिशाम आणि प्रतिदिशाम्म - ब्रह्मणे नमः । अन्तरिक्षाय नमः । सूर्याय नमः । विश्वभ्यो देवेभ्यो नमः । विश्वभूतेभ्यो नमः । उषसे नमः । भूतपतये नमः । उत्तरेस पितृभ्यः स्वधा नमः ।
दक्षिणेस; मग अपसव्य करून, वाय व्येस यक्ष्मतर्पण करावेम्. मग ज्याम्स आहुति दिल्या असतील, त्याञ्च्या नामाने भूमीवर उदक सोडावें,” असा प्रयोग साङ्गितला आहे. विष्णुपुराणान्तही पूर्ववत् होम साङ्गून, बलि हरणाम्त विशेष साङ्गितला तो-“हुतशेषान्तून शेषान्नाने मणिकाम्त पृथ्वी, पर्नन्य, व उदक याम्स आहुति देऊन, द्वाराम्त धाता १, विधाता २, मध्ये ब्रह्मा, पूर्वेस इन्द्र, दक्षिणेस धर्मरान, पश्चिमेस वरुण, उत्तरेस चन्द्र, असा हुतशेष बलि देऊन, ईशान्येस धन्वन्तरि, वायव्येस वायु, ब्रह्मा, अन्तरिक्ष, सूर्य, विश्वेदेव, विश्वहुत, विश्वपति, पितर, व यक्ष्मा, याम्स उ. देशून बलि द्यावा. " कातीयसूत्रान्तही हेच बलिहरण काही कमी साङ्गितले आहे. यावरून शूद्रांसही हेच उक्त आहे. त्याम्त " स्वाहाशब्दस्थानी शूद्रास नमः शब्दाचे वि धान करितो, " असे भारतवचन आहे. यास्तव, “ होमाम्त स्वाहा शब्द व बलिहरणाम्त नमःशब्द योजावा,” असे स्मृतिकौमुदीत साङ्गितले आहे; ते योग्य नाही. कारण “नमस्कारमन्त्रानं.” (पृ० ५१ पम्० १६ ) या वचनाशी विरोध येतो झणून. ते बलिदान घरच्या एका प्रदेशाम्त किंवा अग्नीमागें करावेम्. इति वैश्वदेवविचारः॥
विश्वास-प्रस्तुतिः
[१५५]
अथ प्रयोगः ।
दर्भहस्तः आचम्य तूष्णीं प्राणान् आयम्य वा देशकालौ स्मृत्वा पञ्चसूनापनुत्तये परमेश्वरप्रीत्यर्थं वैश्वदेवं करिष्ये इति सङ्कल्प्य स्थण्डिलं सम्मृज्योपलिप्योल्लिख्याङ्गुष्ठानामिकाभ्यां मृदम् उद्धृत्याभ्युक्ष्य लौकिकाग्निं संस्थाप्य अग्नये नमः ।
मुखं यः सर्वदेवानां हव्यभुक् कव्यभुक् तथा ।
पितॄणां च नमस् तस्मै विष्णवे पावकात्मने ॥
इति सम्पूज्य पर्युक्ष्याग्नौ चरुपाकं कृत्वा गृहान्नेन तण्डुलैर् आज्यप्लुतैः फलैर् वा कुर्यात् । तद्द्रव्यम् अग्नौ निधायोद्वास्याभ्युक्ष्य हस्तेन घृतप्लुतं जुहुयात् । आहुतिर् द्वादशपर्वपूरिकाः । आमलकमात्रा वा । यथा । अग्नये नमः इदम् अग्नये न ममेति त्यागः । एवम् अग्रे ऽपि । वायवे नमः । सूर्याय नमः । प्रजापतये नमः । अग्नये नमः । ब्रह्मणे नमः । इति षट् । इति शाकलहोमः । अनुमतये नमः । विश्वेभ्यो देवेभ्यो नमः । अग्नये स्विष्टकृते नमः । इति । ततः पर्युक्ष्य विभूतिं धृत्वा नमस् कुर्यात् । विज्ञानेश्वर मते,
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यम् एव नमो नम
इत्य् एतेन सकृद् होमः । नम इत्य् एव मन्त्रेण होम इत्य् एके । मदनपारिजाते परिशिष्टे ।
शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् ।
सङ्कल्पयेद् यदाहारे तेनाग्नौ जुहुयाद् अपि ॥
व्यासः ।
जुहुयात् सर्पिषाभ्यक्तं तैलक्षारविवर्जितम् ।
दध्यक्तं पयसाभ्यक्तं तदभावे ऽम्भसापि वा ॥
चतुर्विंशतिमते ।
अलाभे येन केनापि फलशाकोदकादिभिः ।
पयोदधिघृतैः कुर्याद् वैश्वदेवं स्रुवेण तु ॥
हस्तेनामादिभिः कुर्याद् अद्भिर् अञ्जलिना जले ।
इति देवयज्ञः ।

आतां वैश्वदेवप्रयोग साङ्गतो.
पवित्रहस्त असून, आचमन करून, तूष्णीं प्राणायाम करून,- पञ्चसूनापनुत्तये श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवं करिष्ये । असा सङ्कल्प करून, स्थण्डिलसम्मार्जन करून, त्यावर शेणपाणी शिम्पडून, उल्लेखन करून, अङ्गुष्ठ, व अनामिका यान्नी मृत्तिका उचलून उदकाने प्रोसून, तेथे लौकिकाग्नि स्थापून, “अग्नये नमः ।
मुखं यः सर्वदेवानां हव्यभुक्कव्यभुक् तथा ।
पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ १ ॥
याने त्याचे पूजन करून, अग्नीवर चरु करून, किंवा घराम्त शिजलेल्या अन्नाने किंवा आज्ययुक्त तान्दुळान्नी किंवा फलान्नी वैश्वदेव करावा. यापैकी में - होमद्रव्य घेतले असेल तें अग्नीवर ठेवून, खाली घेऊन, उदकानें प्रोक्षन, त्यास तूप लावून, उजव्या हाताने हवन करावेम्. आहुति व्यावी ती, अङ्गुष्ठावाञ्चून ४ अङ्गुलीवर राहील एवढ्या प्रमाणाची किंवा आवळ्याएवढी असावी. हवन करणे ते असे की,-“अग्नये नमः” या मन्त्राने हवन करून, “इदमग्नये नमः” ह्मणून त्याग करावा. असेम्च पुढेहि करावेम्. “वायवे नमः । सूर्याय नमः । प्रजापतये नमः । अग्नये नमः । ब्रह्मणे नमः।” या ६ मन्त्रान्नी हवन करावे. हा शाकलमन्त्रोक्त देवताहोम होय. पुढे पौराण- “ब्रह्मणे नमः । गृह्याभ्यो नमः । कश्यपाय नमः । अनुमतये नमः । विश्वेभ्यो देवेभ्यो नमः । अग्नये नमः । स्विष्टकृते नमः” । या ७ नी हवन करून, पुनः पर्युक्षण करून, विभूति धारण करून, अग्नीस नमस्कार करावा. विज्ञानेश्वरमती -
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः
याने एकच वेळ होम करावा असे आहे. केवळ-“नमः’’ याने हवन करावे असे कित्येक ह्मणतात. मदनपारिजाताम्त परिशिष्टान्त- “शाक, पत्र, मूल, फल, अथवा जे आपण, भोजनास सङ्कल्पित असेल, त्याने वैश्वदेव करावा,” अमें साङ्गितले आहे. अन्नहोमा विषयी व्यास ह्मणतो,-“ज्याचे हवन करणार ते अन्न तेलकट नसावे व क्षार3 वगैरे नसून तूप, त्याच्या अभावी दहीम्, किंवा दृध, याञ्च्या अभावी उदक यान्नी युक्त असावे.’ चतुर्विंशतिमताम्त “अन्न न मिळल्याम जे मिळेल त्याने, अथवा फल, शाक, उदक, दूध, दही, तूप, यान्नी वैश्वदेव करावा.
प्रवाही द्रव्य असेल तर खुल्यान्नम्, व अन्नादि असल्यास हस्ताने हवन करावम्. पूर्वोक्त द्रव्य न मिळाल्यास उदकाने वैश्वदेव करावा. तसा कर्तव्य असल्यास पूर्वोक्त मन्त्रोच्चार कम्न आञ्जळीने पाणी घेऊन, ते पा. ण्याम्त सोडावेम्. अग्नीवर करूं नये” एथपर्यम्त देवयज्ञ झाला. इति देवयज्ञः ॥
-
वैवाहिक अमि" झणजे लमान विवाहहोम होतो त्या वेळी जो अमि सिद्ध करितात तो धर्मशाखा तही आजन्मपर्यत असावा असे साङ्गितले आहे. यास गृह्यामि अथवा स्माामि असें ह्मणतात. ↩︎
-
“क्षार” या शब्दाचा खारट, असा अर्थ होतो. परन्तु गार्यनारायणाने-“वाटाणे, चवळ्या, उडी. ६, मूग, मसुरा, पावटे व तीळ इत्यादिकोस क्षारसंशा आहे,” साङ्गितले आहे. याविषयी मामलाय. नए० सू०१०. ८ म०१ यावरची वृत्ति पहा. ↩︎