११ तीर्थमहिमा

विश्वास-प्रस्तुतिः

अथ तीर्थमहिमा ।

स्कान्दे

शालग्रामोद्भवो देवो यत्र द्वारवतीभवः ।
उमयोः स्नानतोयेन ब्रह्महत्या [१४९] निवर्तते ॥

हेमादौ लक्षणकाण्डे स्कान्दे

कुङ्कुमं चन्दनं पत्रं नैवेद्यं सुसमं1 जलम् ।

शालग्रामशिलालग्नं तीर्थकोटिशताधिकम् ॥

पाद्मे

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
शालग्रामशिलातोयैर्2 यो ऽभिषेकं समाचरेत् ॥

गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास् तु याः ।
ता वसन्तीह सर्वत्र शालग्रामशिलाजले ॥

गौतमाम्बरीषसंवादे ।

येषां धौताङ्घ्रिगात्राणि हरेः पादोदकेन वै ।
अम्बरीषगृहे तेषां दासो ऽहं वशगः सदा ॥
हरेः स्नानावशेषं तु जलं यस्योदरे स्थितम् ।
अम्बरीषं प्रणम्योच्चैः पादपांसुः प्रगृह्यताम् ॥
गर्जन्ति तावद् अन्यानि तीर्थानि भुवनत्रये ।
यावन् न प्राप्यते तीर्थं शालग्रामाभिषेचनम् ॥
जन्मप्रभृतिपापानां प्रायश्चित्तं यदीच्छसि ।
शालग्रामशिलावारि पापहारि निषेव्यताम् ॥

नृसिंहपुराणे

गङ्गाप्रयागगयपुष्करनैमिषाणि पुण्यानि यानि कुरुजाङ्गलयामुनानि ।
कालेन तीर्थसलिलं विनिहन्ति पापं पादोदकं भगवतस् तु पुनाति सद्यः ॥
ब्रह्मचारी सव्रती च आश्रमी च सदा शुचिः ।
विष्णुपादोदकं यस्य मुखे शिरसि विग्रहे ॥

स्मृत्यर्थसारे

देहः शुध्यति चाप्य् आत्मा पीत्वा पादोदकं हरेः ।
नित्ये नैमित्तिके काम्ये पीत्वा भुक्त्वा न दुष्यति ॥

व्रतादौ विष्णुपादोदकं पीत्वानन्तरं भुक्त्वा न दुष्यति । कृत्वेति पाठे नित्ये काम्ये च एकादशीव्रतादौ नैमित्तिके सांवत्सरिकश्राद्धादौ पादोदकं पीत्वा तत्कर्म कृत्वा न दुष्यतीत्य् अर्थः । ननु –

जलस्यापि नरश्रेष्ठ प्राशनाद् भेषजाद् ऋते ।
नित्यक्रिया निवर्तेत काम्यनैमित्तिकैः सह ॥

कालिकापुराणात् । न तु तत् कर्म कृत्वा न दुष्यतीत्य् अर्थः । अभुक्ते भुक्तवत्तोयम् इति निषेधाच् च कथं कर्मार्हतेति चेन् – न । सामान्यस्य विशेषेण बाधात्, रागप्राप्तनिषेधाच् च ।

विष्ण्वर्चायां शिलार्चा गुरुषु नरमतिर् वैष्णवे जातिबुद्धिर्
विष्णोर् वै वैष्णवानां कलिमलमथने पादतीर्थेषु बुद्धिः ।
विष्णोस् तन्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तदितरसमधीर् यस्य वा नारकी सः ॥ १ ॥

इति दोषदर्शनाच् च । तच् च पूजान्ते पेयं तदुत्तराङ्गत्वात् । ये तु उपवासदिने प्राक् कर्मणश् च न पिबन्ति ते भ्रान्ताः । अशितानशिता ह्य् आपो जलेनैव हि पारयेत् ।

इति दर्शनाच् चेति विष्णुवाजपेयिनःगरुडपुराणे

जलं न येषां तुलसीविमिश्रं पादोदकं चक्रशिलासमुद्भवम् ।
नित्यं त्रिसन्ध्यं प्लवते न गात्रं खगेन्द्र ते धर्मबहिष्कृता नराः ॥

आह्निकप्रदीपे

सूतके मृतके वापि आशौचं नैव विद्यते ।
तेषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥
अन्तकाले ऽपि यस्येह दीयते पादयोर् जलम् ।
सो ऽपि सद्गतिम् आप्नोति पापाचारो बहिष्कृतः ॥
भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकं हरेः ।

स्कान्दे शिववचनम् ।

दृष्टिपूतं तु यत् तोयं विष्णुना प्रभविष्णुना ।
तद् वै पापहरं पुत्र किं पुनः पादयोर् जलम् ॥

विष्णुरहस्ये

विष्णुपादोदकं पीत्वा पश्चाद् अशुचिशङ्कया ।
पश्चाच् च मतिसम्मोहाद् [[यश्चाचामति संमोहात्??]] ब्रह्महत्यां स विन्दति ॥

गारुडे

पादोदकं पिबेन् नित्यं नैवेद्यं भक्षयेद् धरेः ।
शेषं च मस्तके धार्यम् इति वेदानुशासनम् ॥
शालग्रामशिलातोयम् अपीत्वा यस् तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥
शालग्रामशिलातोयं पिबेत् सोमकरेण तु ।
अज्ञानाद् ऐन्दवं [१५०] प्रोक्तं ज्ञानाद् अब्दं समाचरेत् ॥
विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् ।
तद् एवाष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥

भक्तिचन्द्रोदये

आयसे च तथा कांस्ये काष्ठे वालाबुके तथा ।
उद्धृत्य पादसलिलं मद्यतुल्यं विनिर्दिशेत् ॥
श्रीविष्णोः पादसलिलं करे कृत्वा मुखे क्षिपेत् ।
अदत्वापि3 व्रते तोयं रौरवे नरके वसेत् ॥

अदत्वा विष्वक्सेनादिभ्य इति शेषः । ग्रहणमन्त्रो हलायुधे

अकालमृत्युहरणं4 सर्वव्याधिनिवारणम्5
विष्णोः6 पादोदकं पीत्वा7 शिरसा8 धारयाम्य् अहम् ॥

इति ।

मूलम्

अथ तीर्थमहिमा ।

स्कान्दे

शालग्रामोद्भवो देवो यत्र द्वारवतीभवः ।
उमयोः स्नानतोयेन ब्रह्महत्या [१४९] निवर्तते ॥

हेमादौ लक्षणकाण्डे स्कान्दे

कुङ्कुमं चन्दनं पत्रं नैवेद्यं सुसमं1 जलम् ।

शालग्रामशिलालग्नं तीर्थकोटिशताधिकम् ॥

पाद्मे

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
शालग्रामशिलातोयैर्2 यो ऽभिषेकं समाचरेत् ॥

गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास् तु याः ।
ता वसन्तीह सर्वत्र शालग्रामशिलाजले ॥

गौतमाम्बरीषसंवादे ।

येषां धौताङ्घ्रिगात्राणि हरेः पादोदकेन वै ।
अम्बरीषगृहे तेषां दासो ऽहं वशगः सदा ॥
हरेः स्नानावशेषं तु जलं यस्योदरे स्थितम् ।
अम्बरीषं प्रणम्योच्चैः पादपांसुः प्रगृह्यताम् ॥
गर्जन्ति तावद् अन्यानि तीर्थानि भुवनत्रये ।
यावन् न प्राप्यते तीर्थं शालग्रामाभिषेचनम् ॥
जन्मप्रभृतिपापानां प्रायश्चित्तं यदीच्छसि ।
शालग्रामशिलावारि पापहारि निषेव्यताम् ॥

नृसिंहपुराणे

गङ्गाप्रयागगयपुष्करनैमिषाणि पुण्यानि यानि कुरुजाङ्गलयामुनानि ।
कालेन तीर्थसलिलं विनिहन्ति पापं पादोदकं भगवतस् तु पुनाति सद्यः ॥
ब्रह्मचारी सव्रती च आश्रमी च सदा शुचिः ।
विष्णुपादोदकं यस्य मुखे शिरसि विग्रहे ॥

स्मृत्यर्थसारे

देहः शुध्यति चाप्य् आत्मा पीत्वा पादोदकं हरेः ।
नित्ये नैमित्तिके काम्ये पीत्वा भुक्त्वा न दुष्यति ॥

व्रतादौ विष्णुपादोदकं पीत्वानन्तरं भुक्त्वा न दुष्यति । कृत्वेति पाठे नित्ये काम्ये च एकादशीव्रतादौ नैमित्तिके सांवत्सरिकश्राद्धादौ पादोदकं पीत्वा तत्कर्म कृत्वा न दुष्यतीत्य् अर्थः । ननु

जलस्यापि नरश्रेष्ठ प्राशनाद् भेषजाद् ऋते ।
नित्यक्रिया निवर्तेत काम्यनैमित्तिकैः सह ॥

कालिकापुराणात् । न तु तत् कर्म कृत्वा न दुष्यतीत्य् अर्थः । अभुक्ते भुक्तवत्तोयम् इति निषेधाच् च कथं कर्मार्हतेति चेन् – न । सामान्यस्य विशेषेण बाधात्, रागप्राप्तनिषेधाच् च ।

विष्ण्वर्चायां शिलार्चा गुरुषु नरमतिर् वैष्णवे जातिबुद्धिर्
विष्णोर् वै वैष्णवानां कलिमलमथने पादतीर्थेषु बुद्धिः ।
विष्णोस् तन्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तदितरसमधीर् यस्य वा नारकी सः ॥ १ ॥

इति दोषदर्शनाच् च । तच् च पूजान्ते पेयं तदुत्तराङ्गत्वात् । ये तु उपवासदिने प्राक् कर्मणश् च न पिबन्ति ते भ्रान्ताः । अशितानशिता ह्य् आपो जलेनैव हि पारयेत् ।

इति दर्शनाच् चेति विष्णुवाजपेयिनःगरुडपुराणे

जलं न येषां तुलसीविमिश्रं पादोदकं चक्रशिलासमुद्भवम् ।
नित्यं त्रिसन्ध्यं प्लवते न गात्रं खगेन्द्र ते धर्मबहिष्कृता नराः ॥

आह्निकप्रदीपे

सूतके मृतके वापि आशौचं नैव विद्यते ।
तेषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥
अन्तकाले ऽपि यस्येह दीयते पादयोर् जलम् ।
सो ऽपि सद्गतिम् आप्नोति पापाचारो बहिष्कृतः ॥
भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकं हरेः ।

स्कान्दे शिववचनम् ।

दृष्टिपूतं तु यत् तोयं विष्णुना प्रभविष्णुना ।
तद् वै पापहरं पुत्र किं पुनः पादयोर् जलम् ॥

विष्णुरहस्ये

विष्णुपादोदकं पीत्वा पश्चाद् अशुचिशङ्कया ।
पश्चाच् च मतिसम्मोहाद् [[यश्चाचामति संमोहात्??]] ब्रह्महत्यां स विन्दति ॥

गारुडे

पादोदकं पिबेन् नित्यं नैवेद्यं भक्षयेद् धरेः ।
शेषं च मस्तके धार्यम् इति वेदानुशासनम् ॥
शालग्रामशिलातोयम् अपीत्वा यस् तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥
शालग्रामशिलातोयं पिबेत् सोमकरेण तु ।
अज्ञानाद् ऐन्दवं [१५०] प्रोक्तं ज्ञानाद् अब्दं समाचरेत् ॥
विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् ।
तद् एवाष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥

भक्तिचन्द्रोदये

आयसे च तथा कांस्ये काष्ठे वालाबुके तथा ।
उद्धृत्य पादसलिलं मद्यतुल्यं विनिर्दिशेत् ॥
श्रीविष्णोः पादसलिलं करे कृत्वा मुखे क्षिपेत् ।
अदत्वापि3 व्रते तोयं रौरवे नरके वसेत् ॥

अदत्वा विष्वक्सेनादिभ्य इति शेषः । ग्रहणमन्त्रो हलायुधे

अकालमृत्युहरणं4 सर्वव्याधिनिवारणम्5
विष्णोः6 पादोदकं पीत्वा7 शिरसा8 धारयाम्य् अहम् ॥

इति ।

मराठी

आतां तीर्थमहिमा साङ्गतो. याविषयीं स्कन्दपुराणान्त-“जेथे शालग्रामशिला, व द्वारकेम्त उत्पन्न झालेला देव (चक्रां कित) हे असतील, तेथे या दोघाञ्च्या तीर्थसेवनाने ब्रह्महत्यादि दूर होते,” असे साङ्गितले आहे. हेमाद्रीम्त लक्षणकाण्डाम्त स्कन्दपुराणान्त-“कुङ्कू, चन्दन, तुलसीपत्र, नैवेद्य, व तीर्थ ही शालग्रामसम्बन्धी असतील तर याञ्च्या सेवनाने कोट्यवधी जन्माञ्ची पातकें निवृत्त होता त,” असे साङ्गितले आहे. पद्मपुराणाम्त सर्व तीर्थानें स्नान, व सर्व यज्ञात दीक्षा घेतली असतां याम्पासून जी फलें प्राप्त होतात ती ज्याने शालग्रामतीर्थाने स्नान केले असेल त्यास मिळतात. “गङ्गा, गोदावरी, रेवा इ० मुक्तिप्रद ज्या नद्या, त्या सर्वही शालग्रामतीर्थी राहतात,” असे साङ्गितले आहे. तेथेच गौतम व अम्बरीप याञ्च्या संवादान्त-“ज्याञ्ची अङ्गें विष्णुपादोदकानें क्षालित झाली असतील, त्याञ्च्या घरचा मी (विष्णु) दाम आहे. मी नि रन्तर याञ्च्या स्वाधीन रहातो. हे अम्बरीप: विष्णुस्नानोदक ज्याञ्च्या पोटी रहाते; त्याम्स मोठ्या आदराने नमस्कार करून, त्याञ्चें पादरज त्वां वन्दन करावेम्. तोपर्यम्त त्रिभुवनाम्त अन्यतीय गाजतात; जोपर्यम्त शालग्रामतीर्थ प्राप्त होत नाही. आजन्मकृत पापाञ्चे प्रायश्चित्त जर इच्छितोस, तर पापहारक शालग्रामतीर्थ थे,” असे साङ्गितले आहे. नृसिंहपुराणाम्त “गङ्गा, प्रयाग, गया, पुष्कर, नैमिपारण्य, किंवा अन्य पुण्यकारक जी कुरुक्षेत्र, व य मुनातीरगत क्षेत्रे (मथुरागोकुलवृन्दावनादिक) इत्यादि ही तीर्थे काही काल त्याञ्चे सेवन केल्याने पापनाश करितात; परन्तु विष्णुपादोदक प्राशन केले असतां तत्काल पवित्र करितेम्. ब्रह्मचारी, व्रती व आश्रमी, यान्तील कोणीही असला तरी ज्याच्या मुखी विष्णुपादोदक, मस्तकी निर्माल्य, व कण्ठी तुलसीमाला लटकत असेल तोच सर्वकाल शुद्ध होय,” असे साङ्गितले आहे. स्मृत्यर्थसारान्त-“विष्णुपादोदक प्याल्याने देह, व आत्मा हे शुद्ध हो तात. नित्य, नैमित्तिक, आणि काम्य कम तीर्थप्राशन व प्रसाद भक्षण करून, केली तरी दोष नाही,’ असे साङ्गितले आहे. व्रतादिकाम्त विष्णुपादोदक पिऊन, काही उपाहार केल्यास दोष नाही, असा पूर्वोक्त वाक्याचा अभिप्राय आहे. “कृत्वा” असा पाठ घेत. ल्यास नित्य व काम्य एकादशी व्रतादिकाम्त व नैमित्तिक प्रतिवार्षिक श्राद्धादिकाम्त तीर्थप्रा शन करून कर्म केल्यास दोष नाही, असा अभिप्राय आहे. यावर शङ्का करितात की, “औषधावाञ्चून उदकही पिऊन नित्य, नैमित्तिक व काम्य कर्मे करूं नयेत,” असें कालि कापुराणवचन आहे. यास्तव, वरील वचनाचा तें कर्म करून तीर्थ प्राशनानन्तर भोजन के ल्यास दोष नाही असा अभिप्राय असावा. कारण, न जेवलेल्यास जेवून कर्म करूं नये असा निषेध आहे. यावरून भोजन केलेल्यास कर्माधिकार प्राप्त कसा होईल ? असें ह्मणशी ल तर, ते योग्य नाही. कारण, येथे सामान्यविधीचा विशेषविधीने बाध झाला आहे, व रागप्राप्ताचा निषेध आहे. आणखी-“शालग्रामपूजेस शिलापूजा, गुरूस मनुष्य, वैष्णवास जातिसम्बन्धाने निन्द्य मानणारा, व कलिमलमथन करणाऱ्या विष्णुतीर्थास उदक मानणारा, विष्णूच्या पापनाशक नाममन्त्रास सामान्यशब्द मानणारा, व सर्वेश्वर विष्णूस इतर देववत् मानणारा असेल, तो मनुष्य नरकवासी समजावा,” असा तीर्थास उदकत्व मानण्याचा नि षेध आहे; यास्तव वरील कालिकापुराणवचनाम्त सामान्य उदकाचा निषेध आहे, त्याचा तीर्थग्रहणरूप विशेषविधीने बाध होतो. तें तीर्थ पूनान्ती प्यावे. कारण, प्राशनास उत्त राङ्गत्व आहे. जे उपवासदिनी, व इतर कर्मापूर्वी तीर्थ प्राशन करीत नाहीत ते भ्राम्त आहे त. कारण,-“उदक प्राशनाने भक्षण केलेले न केलेंसें होते. तेव्हां अर्थात् इतर कर्म करण्यास निषेध नाही,” असे विष्णुवाजपेयी ह्मणतात. गरुडपुराणाम्त “ज्याञ्च्या, तुल सीमिश्र चक्राङ्कित व शालग्रामसम्बन्धी तीर्थ त्रिकाल देहावर पडत नाही, व पोटाम्त जात नाहीम्; ते मनुष्य धर्मबहिप्कृत होत,’ असे साङ्गितले आहे; आहिकप्रदीपान्त-“सूतक किंवा मृतकाम्त त्याम्स आशौच नाहीम्; ज्याञ्च्या मस्तकावर, व पोटाम्त तीर्थोदक असेल. म रणसमयीं ज्यास विष्णुतीर्थ प्राशन होईल; तो पापाचारी, व धर्मबहिष्कृत असला तथापि सद्गतीला पावतो. विष्णुप्रसादभक्षण, व विष्णुपादोदकप्राशन केल्याने मनुष्य पवित्र होतो,’ असे साङ्गितले आहे. स्कन्दपुराणाम्त शिववचन-“जे उदक विष्णूने स्वदृष्टीने पवित्र केले असेल ते सर्व पापहारक आहे. मग, तत्पादोदक पापनाशक असेल, की नाही याविषयी संशय धरणे हे काय?’ असे आहे. विष्णुरहस्यान्त-“जो विष्णु पादोदक पिऊन, उच्छिष्ट झालो असे मानून आचमन करितो; त्याला ब्रह्महत्या प्राप्त होते,” असे साङ्गितले आहे. गरुडपुराणान्त- “हरिपादोदक नित्य प्यावेम्, नै वेद्य भक्षावा, व पूजाशेष ( निर्माल्य ) मस्तकी धरावा, असें वेदाचें आज्ञावचन आहे. शालग्रामतीर्थ पिण्यापूर्वी जो मस्तकी प्रक्षेप करील, तो ब्रह्मन होय. असे धर्मज्ञ ह्मणतात. शालग्रामतीर्थ सोमकरीने3 प्राशन केल्यास ज्ञानतः अब्द4, व अज्ञानाः ऐदव प्रायबित्त न्यावेम्.

में विष्णुपादोदक प्राशन केले असतां कोटिजन्मार्जित पाप नाश करिते; तेम्च बिन्दुमात्र भूमीवर पडेल तर, अष्टगुण पापप्रद होते,” असे साङ्गितले आहे. भक्तिचन्द्रोदयान्त-” लोखण्डाचे, काष्ठाचे, किंवा भोपळ्याच्या पात्राम्त घातलेले तीर्थ मद्यासारखे समजावेम्. जो, विष्णुतीर्थ हातात घेऊन मुखाम्त टाकील, तो, रौरवनरकाम्त राहील. तसाच विष्वक्सेनादिकाम्स न देताही घेतल्यास दोषी होतो,” असे साङ्गितले आहे. तीर्थग्रहणमन्त्र भट्टहलायुध साङ्गतो.-

अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥


  1. प्- सुसुमं ↩︎ ↩︎

  2. प्- -तोये ↩︎ ↩︎

  3. पिबते यस्तु इत्यपि पाठः ॥ ↩︎ ↩︎ ↩︎

  4. मथनमिति पाठः ॥ ↩︎ ↩︎ ↩︎

  5. विनाशनमिति पाठः ॥ ↩︎ ↩︎

  6. विष्णुपादोदकमिति पठ्यते ॥ ↩︎ ↩︎

  7. तीर्थमित्यशुद्धः पाठः ॥ ↩︎ ↩︎

  8. जठरे इत्यपि कैश्चित्पठ्यते ॥ ↩︎ ↩︎