विश्वास-प्रस्तुतिः
[१४४]
अथ देवपूजा ।
सा च विश्वेश्वरादिजीर्णलिङ्गार्चादौ स्वस्थापितपार्थिवलिङ्गादौ स्पर्शसहिता दूरतः कार्या, शालग्रामस्फटिकद्विजस्थापितलिङ्गार्चादौ स्पर्शरहिता दूरतः कार्या,1
यदा प्रतिष्ठितं लिङ्गं मन्त्रविद्भिर् यथाविधि ।
तदाप्रभृति शूद्रश् च योषिद् वापि न संस्पृशेत् ॥
इति नारदीयात् । एतच् च प्राग् उक्तम् । सा च नाम्ना कार्या । एवं स्त्रिया अपि,
विष्णोस् तु पूजनं कार्यं पतिबुद्ध्या न चान्यथा ।
इति मदनपारिजाते विधवाधर्मे स्कान्दोक्तेः । तत्रैव पाद्मे ।
आदित्यं गणनाथं च देवेन्द्रं च यथाक्रमम् ।
नारायणं विशुद्धाख्यम् अन्ते च कुलदेवताम् ॥
निगमः ।
ब्रह्माणं विष्णुम् ईशं वा सूर्यम् अग्निं गणाधिपम् ।
दुर्गां सरस्वतीं लक्ष्मीं गौरीं वा नित्यम् अर्चयेत् ॥
यत् तु मनुः,
जपस् तपस् तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् ।
[१४५] देवताराधनं चैव स्त्रीशूद्रपतनानि षट् ॥
इति, तद् विहितभिन्नपरम् । मात्स्ये ।
सौवर्णी राजती वापि ताम्री रत्नमयी तथा ।
शैली दारुमयी वापि लोहसङ्घमयी तथा ॥
लोहसङ्घः पञ्चधातुरसाः ।
रीतिकाधातुयुक्ता वा ताम्रकांस्यमयी तथा ।
शुभदारुमयी वापि देवतार्चा प्रशस्यते ॥
अङ्गुष्ठपर्वाद् आरभ्य वितस्तिं यावद् एव तु ।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥
भागवते ।
वैदिकस् तान्त्रिको मिश्र इति मे त्रिविधो मखः ।
शिवार्चनचन्द्रिकायां पाद्मे ।
वैदिको मिश्रितो वापि विप्रादीनां विधीयते ।
तान्त्रिको विप्रभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥
तत्रोपचारा अनेकविधा राघवभट्टैः पदार्थादर्शे उक्ताः । आचारचिन्तामणौ ।
सपर्या विविधाः प्रोक्तास् तासाम् एकां समाश्रयेत् ।
गन्धादिका निवेद्यान्ता पूजा पञ्चोपचारिका ॥
मूलम्

मराठी
यानन्तर देवपूजा साङ्गतो.
ती विश्वेश्वरादि पुरातन लिङ्गाञ्ची अथवा आपण स्थापित लिङ्गाञ्ची अथवा पार्थिव लिङ्गादिकाञ्ची स्पर्शपूर्वक पूजा करावी. शालग्राम इत्यादिकाञ्च्या स्फटिक ब्राह्मणस्था पित लिङ्गादिकाञ्ची स्पर्श न करितां दुरून पूजा करावी. कारण, यदा० नारदीय व चनानं निषेध होतो, हे पूर्वी साङ्गितलं आहे. शूद्राने पूजा करणे ती नाममन्त्रानं करावी. स्त्रीनही अशीच करावी. कारण, विष्णूचे पूजन जर करणे अम्मेल तर पतिबुद्धीने करावे. अन्यथा करूं नये,’ अशी मदनपारिजाताम्त विधवाधर्मात स्कन्दपुराणोक्ति आहे. तथम्च ( म० पा० ) पद्मपुराणान्त-" आदित्य, गणपति, इन्द्र, नारायण, कुलदेवता याञ्चं क्रमशः पूजन करावे. " निगमान्त-" ब्रह्मदेव, विष्णु, शिव, सूर्य, अग्नि, गणपति, दुर्गा, सरस्वती, लक्ष्मी, याञ्चे नित्य पूजन करावें." जे मनु म० " जपतप, तीर्थसेवा, सन्न्यास, मन्त्रमाधन, आणि देवाञ्चे आराधन ही स्त्रिया व शूद्र याम्स पातित्यकारक आहेत. " ते विहितभिन्नपर आहे असे समजावे. मत्स्यपुराणान्त-" सो न्यानी, रुप्याची, किंवा ताम्ब्याची, अथवा रत्न पाषाण काष्ठ इत्यादिकाञ्ची, किंवा पञ्चधातूञ्ची, किंवा पितळ, ताम्बे, कांसेम्, यक्षियवृक्ष याञ्ची मूर्ति पूजनास प्रशस्त आहे. अङ्गुष्ठपर्वापासून, वीतीपर्यम्त उञ्चीची प्रतिमा घरी पूजनास योग्य. याहून अधिक असूं नये असे साङ्गितले आहे. " श्रीमद्भागवतान्त–“वैदिक, व तान्त्रिक, किंवा उभयमिश्र माझी पूजा आहे, ’’ असे साङ्गितले आहे. अशी ३ प्रकारची शिवार्चनचन्द्रिकेम्त पद्मपु राणान्त, " वैदिक, व मिश्र पूजा ब्राह्मणादिकांस, आणि केवळ तान्त्रिक ब्राह्मणभक्त शूद्राम्स विहित आहे.” त्या पूजेत उपचार अनेक प्रकारचे राघवभट्टान्नी पदार्थादर्श नामक ग्रन्थाम्त साङ्गितले आहेत. आचारचिन्तामणीत-" निरनिराळ्या ग्रन्थाम्त पूजा अनेक त-हेच्या साङ्गितल्या आहेत त्यान्तून एक प्रकार स्वीकारून पूजा करावी. “गन्धादिका नैवेद्यान्ता पूजा पञ्चोपचारिका ॥ १ ॥” गन्धादिनैवेद्याम्त पूजेस पञ्चोपचारपूजा ह्मणतात असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
अथ दशोपचाराः ।
अर्घपाद्यम् आचमनमधुपर्कासनानि च ।
गन्धादिपञ्चकं चेति उपचारा दशोदिताः ॥
मूलम्
अथ दशोपचाराः ।
अर्घपाद्यम् आचमनमधुपर्कासनानि च ।
गन्धादिपञ्चकं चेति उपचारा दशोदिताः ॥
मराठी
आतां दशोपनार साङ्गतो.
अर्य ?, पाद्य २. आचमन ३. मधुपर्क ४. आसन ५. गम्ध ६, पुष्प ७, धूप ८, दीप ९, नैवेद्य १०, ही दशोपचार पूजा होय.
विश्वास-प्रस्तुतिः
[१४६]
अथ षोडशोपचाराः ।
आसनं स्वागतम् अर्घः पाद्यम् आचमनं तथा ।
मधुपर्काचमनस्नानवसनाभरणानि च ॥
गन्धपुष्पे धूपदीपौ नैवेद्यं चन्दनं तथा ॥
मूलम्
[१४६]
अथ षोडशोपचाराः ।
आसनं स्वागतम् अर्घः पाद्यम् आचमनं तथा ।
मधुपर्काचमनस्नानवसनाभरणानि च ॥
गन्धपुष्पे धूपदीपौ नैवेद्यं चन्दनं तथा ॥
मराठी
आतां षोडशोपनार साङ्गतो.
आसन १. स्वागत २. अध्यं ३, पाद्य ४. आनमन ५. मधुपक ६. आसन ७, स्नान ८, वस्त्र ९, अलङ्कार १०, गम्ध ११. पुष्प १२, धूप १३. दीप १४, नवेद्य १५, चन्दन १६॥
विश्वास-प्रस्तुतिः
अथाष्टादशोपचाराः ।
आसनावाहने चार्घ्यं पाद्यम् आचमनं तथा ।
स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः ॥
गन्धपुष्पे तथा धूपं दीपं नैवेद्यम् एव च ।
माल्यानुलेपनं चैव नमस्कारविसर्जने ॥
मूलम्
अथाष्टादशोपचाराः ।
आसनावाहने चार्घ्यं पाद्यम् आचमनं तथा ।
स्नानं वस्त्रोपवीतं च भूषणानि च सर्वशः ॥
गन्धपुष्पे तथा धूपं दीपं नैवेद्यम् एव च ।
माल्यानुलेपनं चैव नमस्कारविसर्जने ॥
मराठी
आतां अष्टादशोपचार माङ्गतो.
आमन १, आवाहन २. अर्ण ३, पाद्य ४, आनमन ५. स्नान ६. वर ७, उपवीत ८, अलङ्कार ९. गम्ध १०, पुष्प ११, धूप १२, दीप १३, नवद्य १४, माल्य १५, अनु. लेपन १६. नमङ्कार १७, विमनन ? ८, हे अष्टादशोपचार होत.
विश्वास-प्रस्तुतिः
अथ षट्त्रिंशोपचाराः ।
आसनाभ्यञ्जने तद्वद् उद्वर्तनविरूक्षणे ।
सम्मार्जनं सर्पिरादिस्नपनावाहने ततः ॥
पाद्यार्घाचमनीयं च स्नानीयमधुपर्ककौ ।
पुनराचमनीयं च वस्त्रयज्ञोपवीतके ॥
अलङ्कारो गन्धपुष्पे धूपदीपौ तथैव च ।
ताम्बूलानि च नैवेद्यं पुष्पमालास् तथैव च ॥
अनुलेपं च शय्यां च चामरं व्यजनं तथा ।
आदर्शदर्शनं छत्रं नमस्कारो ऽथ वर्तनम् ॥
गीतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम् ।
दन्तकाष्ठप्रदानं च ततो देवविसर्जनम् ॥
उपचारा इमे ज्ञेया षट्त्रिंशत् सुरपूजने ।
अन्ये चतुःषष्ठ्युपचाराः । ते च काम्यपूजायाम् । एते विकल्पा यथाविभवं ग्राह्याः2 ।

आता ३६ उपचार माङ्गतो.
आमन, अभ्यङ्ग, उद्वर्तन, विझक्षण, सम्मार्जन, घृतादिनान, आवाहन, पाद्य, अर्थ्य, आचमन, स्नान, मधुपर्क, आचमनीय, वन, यज्ञोपवीत, अलङ्कार, गन्ध, पुष्प, धूप, दीप, नैवेद्य, ताम्बुल, पुष्पमाळा, अनुलेप, शय्या, चामर, व्यजन, आदर्श दाखविणे, छत्र, नर्तन, गायन, वाद्ये, वानविणे, दान, स्तुति, होम, प्रदक्षिणा, दन्तकाष्ठप्रदान, आणि विसर्जन, हे देवपूजेविषयीञ्चे ३६ उपचार होत. अन्य ६४ उपचारही साङ्गितले आहेत, परन्तु ते काम्य पूजेविषयी योग्य आहेत. हे पूर्वोक्त विकल्प सामर्थ्यानुसार घ्यावे.