विश्वास-प्रस्तुतिः
[१३९] ततो मध्याह्ने पूर्ववत् स्नात्वा ब्रह्मयज्ञं कुर्यात् । तत्र यद् ब्राह्मणान् इतिहासान् पुराणानि कल्पान् इति श्रुतेर्,
वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ [या. स्मृ. १.१०१]
इति याज्ञवल्क्योक्तेश् च, पुराणभारतादिपाठविधाने ऽपि शूद्रस्य पाठाप्रसक्तेः, श्रवणस्यैव कर्माङ्गत्वात्, पुराणश्रवणम् एव ब्रह्मयज्ञ इति केचित् । तन् न,
नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ।
इति याज्ञवक्योक्तेः नमस्कारेण तस्य बाधात् । तत्र यो नमसा स्वध्वर इति श्रुतेर् यज्ञो वै नम इति हि ब्राह्मणं भवतीति वचनाच् च नमो नमो नम इति त्रिर् जपेद् इति स्मृतिकौमुद्यामुक्तम् ॥ तत्त्वं तु वेदादीनामर्थबोधे स्वरूपस्यैव ग्रहणात् नमःश्रुतेश्च तदन्तत्वेनाप्य् उपपत्तेर् नमोऽन्तशब्दैः कार्यम् इति । तद् यथा दर्भासने उपविश्याचम्य परमेश्वरप्रीत्यर्थं ब्रह्मयज्ञं करिष्ये इति सङ्कल्प्योपस्थं कृत्वा दर्भगर्भं ब्रह्माञ्जलिं कृत्वा नमो नमो नम इति जपेत् । यद् वा तत्र
ऋग्वेदाय नमः । एवं यजुर्वेदाय नमः । सामवेदाय नमः । अथर्ववेदाय नमः । शिक्षायै नमः । कल्पाय नमः । व्याकरणाय नमः । निरुक्ताय नमः । ज्योतिषाय नमः । छन्दोविचित्यै नमः । अध्यात्मविद्यायै नमः । इतिहासपुराणेभ्यो नमः । तर्कविद्यायै नमः । पूर्वमीमांसायै नमः । उत्तरमीमांसायै नम
इति जपित्वा ।
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यम् एव नमो नमः ॥
इति त्रिर् जपित्वा,
विद्याधर1 तपोयोनिर् अयोनिर् विष्णुर् ईडितः ।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥
इत्य् उक्त्वा तद्2 उदकं स्पृशेत् ।
मूलम्

मराठी
आतां ब्रह्मयज्ञविचार साङ्गतो.
मध्यान्हीं पूर्ववत् स्नान करून ब्रह्मयज्ञ करावा. “ब्राह्मणे (ऐतरेयादिक), इतिहास ( भारतादिक ), पुराणें ( मत्स्यादिक ), कल्प ( सूत्रादि ), पटण करावीत अशी श्रति असून,- वेद, अथर्वण, पुराणे, इतिहास, व आध्यात्मिकी विद्या वगैरे ब्रह्मयज्ञसि ध्यर्थ यथाशक्ति जपावी,” असे याज्ञवल्क्याने साङ्गितले ह्मणून पुराणभारतादि पाठाचे विधान असतांहि शूद्रास पाठप्रसक्ति नाही ह्मणून पुराणश्रवणच काङ्गभूत अस ल्यावरून तेन ब्रह्मयज्ञ होय, असे कित्येक म० ते योग्य नाही. कारण “नमस्कारमन्त्राने पञ्चयज्ञ चुकवू नयेत,” अशी याज्ञवल्क्याची उक्ति आहे ह्मणून नमस्कार विधीने त्याचा वाध होतो. तस्मात्- ‘यो नमसा’ या श्रुतीवरून, व ‘यज्ञो वे नमः या ब्राह्मणवचनावरून, “नमो नमो नमः असे त्रिवार जपावें.’ असे स्मृतिकौमुदीत सां गितले आहे. यान्तील तत्त्व तर वेदादिकाञ्चा अर्थबोध झाला असतां स्वरूपाचेच ग्रहण आहे; तस्मात् नमः हा श्रुतीच्या अन्ती आहे ह्मणून. नमोन्तशब्दान्नी करावे असे आहे. प्रयोग साङ्गतो. दर्भासनावर बसून,-आचमन करून. श्रीपरमेश्वरमीत्यर्थं ब्रह्मयज्ञं करिष्ये । असा सङ्कल्प करून, माण्डी घालून. डावा हात उताणा गुडघ्यावर ठेलून, त्यावर २ दर्भ व थोडेम्में पाणी घालून, तो उजव्या हाताने झाङ्कून, “नमो नमो नमः” ह्मणून जप करावा. किंवा, तेथे ऋग्वेदाय नमः । यजुर्वेदाय नमः । सामवेदाय नमः । अथर्ववेदाय नमः। शिक्षायै नमः। कल्पाय नमः । व्याकरणाय नमः । निरुक्ताय नमः । ज्योतिषाय नमः । छन्दोविचित्यै नमः । अध्यात्मविद्यायै नमः । इतिहासपुराणेभ्यो नमः । तर्कविद्यायै नमः । पूर्वमीमांसायै नमः । उत्तरमीमांसायै नमः । असा जप करून,
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥
नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ १ ॥
याचा ३ वेळ जप करून.
विद्याधरतपोयोनिरयोनिर्विष्णुरीडितः ।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ १ ॥
अमें ह्मणून हातावरने उदक डोळ्याम्म लावाव.