०५ तर्पणम्

विश्वास-प्रस्तुतिः

[१३३]

अथ तर्पणम् ।

व्यासः

एकैकम् अञ्जलिं देवा द्वौ द्वौ तु सनकादयः ।
अर्हन्ति पितरस् त्रींस् त्रीन् स्त्रियस् त्व् एकैकम् अञ्जलिम् ॥

मातृवर्गे ऽञ्जलित्रयम् एकैकस्य । विष्णुपुराणे

त्रिर् अधः प्रीणनार्थाय देवानाम् अपि निर्वपेत् ।

इति दैवे त्रय उक्ताः । पाद्मे

देवान् ब्रह्मऋषीन् सर्वांस् तर्पयेताक्षतोदकैः ।

[१३४] सन्तर्पयेत् पितॄन् भक्त्या सतिलोदकचन्दनैः ॥

शङ्खः

सौवर्णेन राजतेनौदुम्बरेण शृङ्गपात्रेण कुशेन वाप्य् उदकं पितृतीर्थं स्पृशन् दद्यात् ।

योगयाज्ञवल्क्यः

तिलानाम् अप्य् अलाभे तु सुवर्णरजतान्वितम् ।
तदभावे निषिञ्चेत् तु दर्भैर् मन्त्रेण वाप्य् अथ ॥
तृप्यन्त्व् इति समुच्चार्य तृप्यताम् इत्य् अथापि वा ।
विधिज्ञो निक्षिपेत् तोयं देवादीनाम् अशेषतः ॥

सव्यं जान्व् आच्य च ततः सतिलं1 दक्षिणामुख इति तेनैवोक्तेर् देवर्ष्योर् दक्षिणजानुपातः सिद्धः । यमः

द्वौ2 हस्तौ युग्मतः3 कृत्वा पूरयेद् उदकाञ्जलिम् ।
गोशृङ्गमात्रम् उद्धृत्य जलमध्ये जलं क्षिपेत् ॥

दक्षः

अग्रैस् तु तर्पयेद् देवान् मनुष्यान् कुशमध्यतः ।
पितॄंस् तु कुशमूलाग्रैर् विधिः कौशो यथाक्रमम् ॥

योगयाज्ञवल्क्यः

ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतिम् ।
देवान् छन्दांसि वेदांश् च ऋषींश् चैव सनातनान् ॥
आचार्यांश् चैव गन्धर्वान् आचार्यतनयांस् तथा ।
संवत्सरं सावयवं देवीश् चाप्सरसस् तथा ॥
तथा देवानुगान् नागान् सागरान् पर्वतान् अपि ।
सरितो ऽथ मनुष्यांश् च यक्षान् रक्षांसि चैव हि ॥
पिशाचांश् च सुपर्णांश् च भूतान्य् अथ पशूंस् तथा ।
वनस्पतीन् ओषधींश् च भूतग्रामं चतुर्विधम् ॥

विष्णुः

ततः कृत्वा निवीतं तु यज्ञसूत्रम् अतन्द्रितः ।
प्राजापत्येन तीर्थेन मनुष्यांश् तर्पयेत् पृथक् ॥

कार्ष्णाजिनिः

सनकश् च सनन्दश् च4 तृतीयश् च सनातनः ।

कपिलश् चासुरिश् चैव वोढुः पञ्चशिखस् तथा ॥

पाद्मे ऽस्यानन्तरम् ।

मरीचिर् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्राचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥

योगयाज्ञवल्क्यः

अपसव्यं ततः कृत्वा भूत्वा च पितृदिङ्मुखः ।
पितॄन् दिव्यान् अदिव्यांश् च पितृतीर्थेन तर्पयेत् ॥

दिव्या धरो5 ध्रुव इत्यादयो ऽष्टौ वसवः । अजैकपादादयो रुद्राः । इन्द्रधात्रादय आदित्याश् च । प्रत्येकं समुदिता वा । स एव

कव्यवालं नलं सोमं यमम् अर्यमणं तथा ।
अग्निष्वात्ताः सोमपाश् च तथा बर्हिषदो ऽपि च ॥
यदि स्याज् जीवत्पितृक एतान् विद्यात् तदा पितॄन् ।

तर्पणे यद्य् अप्य् अनेके प्रकाराः स्मृतिकौमुद्यां पाद्मादाव् उक्ता तथापि कात्यायनसूत्रसंवादात् शूद्रा वाजसनेयिन इति गौडोक्तदक्षसंवादात् स्नानादौ दर्शनाच् च योगयाज्ञवल्क्योक्त एवायं प्रकारः शूद्राणाम् इति तत्त्वम् । एवं वैश्वदेवाद्य् अपि कातीयम् एव ।

मूलम्

मराठी

यानन्तर तर्पण साङ्गतो.

तर्पण करावें त्याविषयी व्यास ह्मणतो की,-“देवाम्स १ । १, सनकादिकाम्स २ । २, व पितराम्स ३ । ३, आणि स्त्रियाम्स १ । १ अञ्जली द्यावा.” यावरून मातृवर्गात एके कास ३ । ३ अञ्जली द्यावे असे सिद्ध होते. विष्णुपुराणान्त-" ते सन्तुष्ट होण्याक रितां देवांसही ३ । ३ अञ्जली द्यावे." असें देवाम्स ३ । ३ अञ्जली देण्यास साङ्गितले आहे. पद्मपुराणान्त-" देव, व ब्रह्मऋषि या सर्वाञ्चे साक्षत उदकानेम्, व पितराञ्चं तीळ, चन्दन यांहीं मिश्रउदकानें तर्पण करावें," अमें साङ्गितले आहे. शङ्ख ह्मणतो " सोन्याचे, रुप्याचे, किंवा उमराचे, किंवा शिङ्गाचं पात्र घेऊन, किंवा केवळ दर्भानें पितृतीर्थाने उदक द्यावें." योगयाज्ञवल्क्य ह्मणतो की,-" तीळ न मिळाल्यास सोनेम्, व रुपे यान्नी युक्त उदक ध्यावे. त्याञ्च्याही अभावी केवळ दान्नी, आणि तेही न मिळ तील तर केवळ मन्त्रान्नी तृप्यतु अ० तृप्यतां असें ह्मणून विधिनाने देवऋपि इत्यादिकाम्स तर्पण करावे. " नन्तर डावा गुडघा टेकून दक्षिणाभिमुख होऊन, पितराम्स तर्पण करावेम्, ’’ असें त्यानेच साङ्गितले आहे. यावरून देव, व ऋपि याम्स उजवा गुडबा टेकून हाताने तर्पण करावे अमें अर्थात् सिद्ध होते. यम ह्मणतो की,-" दोनी हात जोडून ( ओञ्जळ करून ) उदकाने ती ओञ्जळ भरून त्यान्तले पाणी गायीच्या शिङ्गाइतके वर उडवून उद काम्त सोडावेम्. " दक्ष ह्मणतो की,-" देवाम्स दाञ्च्या अग्रान्नी, ऋप्यादिकाम्स त्याञ्च्या म ध्यान्नी, आणि पितराम्स त्याञ्ची मुले व अग्रे यान्नी तर्पण करावं." योगयाज्ञवल्क्य ह्मण तो-" प्रथम ब्रह्मा, नन्तर विष्णु, रुद्र, प्रजापति, देव, छन्द, वेद, ऋषि, आचार्य, गन्धर्व, आचार्याचे तनय, मंवत्सर, त्याचे अवयव ( ह्मणने अयन, ऋतु, मास, पक्ष, दिवम इत्या दि), देवी, अप्सरा, देवानुग ह्मणजे-गन्धर्व, यक्ष, व किन्नरादिक, नाग, सागर, पर्वत, नद्या, मनुष्य, यक्ष, राक्षस, पिशाच, सुपर्ण, भूतम्, पशु, वनस्पति. ओषधी. स्थावरजङ्गमा त्मक चतुर्विध भूतग्राम, ह्मणने-जारन, स्वेदन, अण्डज, उद्भिज जीवाञ्चा समुदाय; याम्स तर्पण करावें," असे साङ्गितले आहे. विष्णु ह्मणतो-“ याप्रमाणे तर्पण झाल्यानन्तर यज्ञो पवीत निवीत करून प्राजापत्यतीर्थाने2 निरनिराळे मनुष्यतर्पण करावेम्." काणाजिनि ह्म णतो की,-" सनक, सनन्दन, सनातन, कपिल, आसुरी. वोढु, व पञ्चशिव याम्स तर्पण करावें," यापुढील तर्पण पद्मपुराणाम्त साङ्गितले आहे.

जमें-" मरीचि, अत्रि, अङ्गिरा, पुलस्त्य, पुलह, क्रतु, प्राचेतस (वाल्मीकि), वसिष्ठ, भृग, व नारद याम्स तर्पण करावेम्. योगयाज्ञवल्क्य ह्मणतो-“असें ऋषितर्पण झाल्यावर अपसव्य करून. दक्षिणाभिमुख हो उन दिव्य ह्मणजे-धर ध्रुव इत्यादि ८ वसु, अजैकपात् इत्यादि ११ रुद्र, इन्द्र धाता इत्या. दि १२ आदित्य ज्याम्स किंवा प्रत्येकास साङ्गितले असतील ते. अदिव्य झणजे वाप. आजा इत्यादिक पितराम्स पितृतीर्थानें तर्पण करावे. या प्रत्येकाचें तर्पण करावेम्. आणखी तोच योगयाज्ञवल्क्य ह्मणतो की…’ कन्यवाह (ल), नल, सोम. यम. अर्यमा. अग्निप्वात्त. सोमप, बार्हषद इत्यादि; व पितृगणाम्स तर्पण करावे. जर जीवत्पितृक असेल तर, यांसच पितर जाणून तर्पण करावें.” यद्यपि स्मृतिकौमुदीत व पमपुराणादिकाम्त तर्पणाचे अनेक प्रकार साङ्गितले आहेत, तथापि कात्यायनसूत्र संवादास्तव ह्मणने-हा प्रकार त्याशी मिळतो या हेतूस्तव, व शूद्र वाजसनेय, असें गौडान्नी उक्त दक्षवचनसंवादास्तव व स्नानादिकाम्त तोच प्रकार दृष्टीस पडतो, या हेतुस्तव योगयाज्ञवल्क्याने साङ्गितलेला हाच प्रकार शूद्राम्स योग्य आहे. हे यान्तील तत्त्व होय. अशीच वैश्वदेवादिक कर्मेही कातीयानुसार जाणावी.

विश्वास-प्रस्तुतिः

[१३६]

अथ प्रयोगः ।

यथा मृद्गोमयकुशतिलपुष्पाक्षतान् आदाय नद्यादौ गत्वा पाणिपादं प्रक्षाल्यानामिकाभ्याम् एककुशपत्रात्मके पवित्रे धृत्वा कुशोपग्रहः ।

ऊर्ध्वकेशि विरूपाक्षि6 मांसशोणितभोजने ।

तिष्ठ देवि शिखाबद्धे2 चामुण्डे ह्य् अपराजिते ॥

इत्य् उक्त्वा7 शिखां बध्वाचम्य देशकालौ स्मृत्वा, मम सर्वपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातःस्नानम् अहं करिष्ये । तीर्थे तु ।

सागरस्वननिर्घोष8दण्डहस्तासुरान्तक ।
जगत्स्रष्टा जगन्मर्दी नमामि त्वां सुरेश्वर ॥

तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस् तुभ्यम् अनुज्ञां दातुम् अर्हसि ॥

इति सम्प्रार्थ्य । वरुणाय नम इति जलमालभ्य तेनैवावर्त्य नमो ऽद्भ्यो मम पापं यात्व् इत्य् अञ्जलिं बहिः क्षिप्त्वामुकतीर्थाय नम इत्य् अञ्जलिं दत्वा मृदम् आदाय कटिं बस्त्यूरुजङ्घापादकरान् त्रिर् विलिप्य प्रक्षाल्यैकं जले परं स्थले पादं कृत्वा विष्णवे नम इति सर्वाङ्गं मृदा लिप्त्वा सूर्याभिमुखो द्विस् त्रिर् द्वादश वा निमज्याद्भ्यो नम इत्य् उन्मृज्य निमज्योन्मज्याचम्य तथैव रुद्राय नम इति गोमयेनालिप्य स्नात्वाचम्य कुशैर् मार्जयेत् । वरुणाय नम इत्य् अष्टवारं परमात्मने नमः । अग्नये नमः । वायवे नमः । सूर्याय नमः । सवित्रे नमः । यज्ञाय नम इति । निमज्याद्भ्यो नम इति द्वाविंशतिवारम् । यद् वाग्नये नम इति त्रिर् जातवेदसे सवित्रे चित्यादिभ्यो नम इति । सवित्रे इत्य् एतैः नाभित आनाभिदर्भैः पावयित्वा परमात्मने नम इति सवित्रे नम इत्यन्तैः पुनः पावयित्वा । नम इति त्रिः परमात्मने नम इति वा अघमर्षणं कृत्वा स्नात्वा विष्णवे नम इति स्मृत्वा ब्रह्मादिदेवास् तृप्यन्तां नम इति वा देवतीर्थेन त्रिः सव्येन देवान् । निवीती कृष्णद्वैपायनादिऋषयस् तृप्यन्ताम् इति द्वौ द्वाव् इत्य् ऋषीन् अपसव्येन9 सोमपितृमदादिपितरस् तृप्यन्ताम् इत्य् अञ्जलित्रयं त्रिर् दत्वा । धौते वाससी परिधाय । मृदूरू करौ प्रक्षाल्याचम्य वेणुपत्राकारम् अर्धचन्द्रं वर्तुलं वा तिलकं कृत्वा मुद्रादि कृत्वा धृत्वा वा । नमो ब्रह्मणे विष्णवे सवित्रे मित्राय वरुणाय दिग्भ्यो दिग्देवताभ्य10 इति प्रत्येकं जलपुष्पाञ्जलिर् इत्य् आचार्यचूडामणिः । तत उदितं सूर्यं रक्तचन्दनाक्षतपुष्पैर् अष्टदले मण्डले ऽभ्यर्च्य तद्युक्तम् अर्घ्यं

नमो विवस्वते तुभ्यं भास्वते विष्णुतेजसे ।
नमः सवित्रे शुचये सवित्रे कर्मदायिने

इत्य् अर्घ्यं दद्याद् इति कल्पतरौ । ततः सूर्यमण्डलस्थाय परमात्मने नम इति पुनर् अर्घ्यं दत्वा ब्रह्मविष्णुरुद्रेभ्यो नम इति वा विष्णुशिवनामादि वा यथाशक्त्य् आवर्त्य

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे3 विरिञ्चिनारायणशङ्करात्मने नम

इति नमस् कुर्यात् । एवं स्नानं प्रातर् मध्याह्ने च कार्यम् । अशक्तौ मध्याह्न एव । गृहे उष्णोदकेन स्नान्ये ऽप्य् एवम् । आतुरादीनां स्नानाशक्तौ दर्भैर् मार्जनं भस्मस्नानं गोरजसा वार्द्रवस्त्रेणाङ्गमार्जनं कार्यम् ।

जाबालिः

अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु कर्मिणाम् ।
आर्द्रेण वाससा वापि मार्जनं दैहिकं विदुः ॥
विद्वत्सरस्वतीप्राप्तं स्नानं सारस्वतं विदुः ।

विप्रवाक्येनेत्य् अर्थः । मार्जनं मानसं वा स्नानं कार्यम् । यथा ।

[१३७] ध्यायेद् आदित्यसङ्काशं वासुदेवं चतुर्भुजम् ।
शङ्खचक्रगदापद्मवनमालाविराजितम् ॥
तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि ।
चिन्तयेद् ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥
तया सङ्क्षालयेत् सर्वम् अन्तर्देहगतं मलम् ।

तथा

अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरशुचिः ॥

इति । ततः कांस्यपात्रे आज्ये प्रतिबिम्बम् अवलोक्य ।

आज्यं तेजः समुद्दिष्टम् आज्यं पापहरं स्मृतम् ।
आज्यं सुराणाम् आहार आज्ये लोकाः प्रतिष्ठिताः ॥
कामधेनुषु11 सम्भूतं सर्वक्रतुषु संस्थितम् ।
देवानाम् आज्यम् आहारम् अतः शान्तिं प्रयच्छ मे ॥

इति विप्राय दत्वा दक्षिणां दद्यात् । एतद् विष्णुधर्मोत्तरे स्पष्टम् ।

आतां स्नानाचा प्रयोग साङ्गतो.

तो असा की,-माती, शेण, दर्भ, नीळ, फुलेम्, आणि अक्षता घेऊन, नद्यादिकांवर जा उन, हातपाय धुवून, डाव्या व उजव्या अनामिकेत एकेक दर्भानें पवित्र धारण करून, दीवर बसून,-

ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभक्षणे ॥
तिष्ठ देवि शिखाबद्धे चामुण्डे ह्यपराजिते ॥ १ ॥

असें ह्मणून शेण्डी बान्धून, आचमन व देशकालादि स्मरण क रून,- “मम सर्वपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातः स्नानमहं करिष्ये”। असा सं कल्प करावा. तीर्थावर स्नान कर्तव्य असल्यास–

सागरस्वननिर्घोष दण्डहस्तासुरान्तक ।
जगत्स्रष्टा जगन्मर्दी नमामि त्वां सुरेश्वर ॥ १ ॥
तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम ॥
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ २ ॥

यान्नी प्राथुन,-“वरुणाय नमः” म० उदकस्पर्श करून, वरुणाय नमोऽयो मम पापं यातु ह्मणून उदकां जली बाहेर टाकून, “अमुकतीर्थाय ( येथे तीर्थाचें नाम्व घ्यावें ) नमः" ह्मणने अंजली देऊन, मातीने कम्बर, बस्ती, माण्ड्या, गुडघे, पाय, हात याम्स ३ वेळ लेपवून, धुवून १ उदकाम्त व २ रा स्थलाम्त पाय ठेवून.-“विष्णवे नमः” ह्मणून सर्वाङ्गास माती ला वून, सूर्याभिमुख २।३।१० वेळ बुड्या मारून, “अन्यो नमः" म० आङ्ग घांसून, पुनः बुड्या मारून, आचमन करून, पुन:-“रुद्राय नमः” ह्मणून मातीसारखें शेण लावून, स्नान करून, आचमन करून दर्भानी मार्जन करावे. ते असे की,-" अग्नये नमः" याने ८ वेळ, वरुणाय परमात्मने नमः । अग्नये नमः । वायवे नमः । सूर्याय नमः । सवित्रे नमः । यज्ञाय नमः । यान्नी मार्जन करून, बुडी मारून, “अन्यो नमः” याने २।२ वेळ मार्जन करावेम्. अथवा अग्नये नमः ह्मणून ३ वेळ, “जातवेदसे नमः । सवित्रे नमः। चित्यादिभ्यो नमः । सवित्रे नमः” या मन्त्रान्नी नाभिपर्यम्त दर्भानी पवित्र करून, “परमात्मने नमः” यापासून,-“सवित्रे नमः” पर्यम्त पुनः पावन करून “नमः” याने किंवा “परमात्मने नमः” असें ३ तीन वेळ ह्मणून अघमर्षण करून, स्नान करून, “विष्णवे नमः” असे विष्णूला म्मरून, ब्रह्मादिदेवास्तृप्यतां नमः । यान्नी देवतीर्थाने सव्याने ३ वेळ देवांस, व निवीति करून, कृष्णद्वैपायनादिऋषयस्तृप्यतां नमः । १०२।२ वेळ ऋषींस, आणि अपसव्याने सोमपितृमदादिपितरस्तृप्यतां नमः ह्मणून ३ अञ्जली ३।३ वेळ देऊन, धौतवस्त्रे २ परिधान करून, मृत्तिकेने माण्ड्या हात क्षालन करून, आच मन करून, वेळवाच्या पानासारखा, किंवा अर्धचन्द्राकार, किंवा वर्तुळ तिलक करून, मुद्रा क रून किंवा धारण करून, - “नमो ब्रह्मणे विष्णवे सवित्रे मित्राय वरुणाय दिग्देवताभ्यः” ह्मणून प्रत्येकास उदकयुक्त पुष्पाञ्जलि द्यावा, असे आचार्यचूडामणि ह्मणतो. नन्तर उदय पावलेल्या सूर्यास रक्तचन्दन, अक्षता, व पुष्पादिकान्नी अष्टदल कमलावर पूजन करून, चन्दनाक्षतापुष्पयुक्त अर्घ्य द्यावे. त्याचा मन्त्र -

नमो विवस्वते तुभ्यं भास्वते विष्णुतेजसे ॥
नमः सवित्रे शुचये सवित्रे कर्मदायिने ॥ १ ॥

ह्मणून अर्घ्य द्यावें." असे कल्पतरूम्त माङ्गितले आहे. नन्तर “मूर्यमण्डलस्थाय परमात्मने नमः” म० पुनः अर्घ्य देऊन, “ब्रह्मविष्णुरुद्रेभ्यो नमः” किंवा विष्णु व शिव या नांवाञ्ची आवृत्ति करून,-

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ॥
त्रयीमयाय त्रिगुणात्मधारिणे विरिञ्चिनारायणशङ्करात्मने नमः ॥ १ ॥

ह्मणून नमस्कार करावा. असे सकाळी, दुपारी, व सायङ्काळी स्नान करावे. अशक्ताने एकवेळ दुपारीच करावे. घराम्त उष्णोदक स्नान कर्तव्य असल्यासही असेच करावम्. आतुरादिकांस स्नानाविषयी सामर्थ्य नसल्यास, त्यान्नी दान्नी माजन, किंवा भम्मस्नान. अ. थवा गायीच्या धुळीने किंवा आर्द्रवस्त्राने आङ्ग पुमा जावालि ह्मणतो की, “सन्ध्यादि कर्मकल्स मामर्थ्य नसेल तर त्यान्नी ग्वान्द्यावरून स्नान करावे किंवा ओ ल्या वस्त्राने आङ्ग पुसावे, किंवा मन्त्रस्नान करावम्, किंवा विद्वान् ब्राह्मणाच्या वच.नाने होणारे अमें सारस्वत2 स्नान करावं.” अथवा मानन किंवा मानसस्नान करावे.

ते करण्याचा प्रकार असा की,-“आपलें अन्तःकरण शुद्ध, व स्वस्थ करून हृदयकमलाम्त सूर्यासारखा प्रकाशमान शङ्ख, चक्र, गदा, पद्म, आणि वनमाला यान्नी सुशोभित अशा चतुर्भुज वासुदेवाचें ध्यान करावे. आणि त्याच्या पायाम्पासून गङ्गोदकाची धारा आपल्या मस्तकावर पडत असून, ती ब्रह्मरन्ध्राने आपल्या देहाम्त प्रवेश करीत आहे अमें ध्यान क रून, त्या उदकधारेनें देहाच्या आन्तला मल धुवून टाकावा.” हे नाही झाले तर

ध्यायेदादित्यसङ्काशं वासुदेवं चतुर्भुजम् ॥
शङ्खचक्रगदापद्मवनमालाविराजितम् ॥ १ ॥
तत्पादोदकजां धारां निपतन्तीं स्वमूर्धनि ।
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ २ ॥
तया सङ्क्षालयेत्सर्वमन्तर्देहगतं मलम्

याचा पाठ करावा. तसेम्च

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥१॥

याम्त साङ्गितल्याप्रमाणे विष्णुध्यान करावम्. नाही तर, याचे पठण तरी करावे. म्हणजे मान समान होते. असे स्नान झाल्यावर कांस्यपात्राम्त तूप घालून त्याम्त आपले प्रतिबिम्ब पाहून,

आज्यं तेजःसमुद्दिष्टमाज्यं पापहरं स्मृतम् ॥
आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः ॥ १ ॥
कामधेनुषु सम्भूतं सर्वक्रतुषु संस्थितम् ॥
देवानामाज्यमाहारमतः शान्तिं प्रयच्छ मे ॥ २ ॥

यान्नी ते ब्राह्मणास देऊन दक्षिणा द्यावी. हे आज्यदान विष्णुधर्मोत्तराम्त स्पष्ट साङ्गितले आहे.

इति शूद्रधर्मतत्त्वप्रकाशे शूद्रस्य प्रातःकृत्यं समाप्तम् ॥

  1. प्- जानु ततो ऽन्वाच्य सतिलं ↩︎ ↩︎

  2. नाभिमात्रे जले स्थित्वा हृदयेनाभिचिन्तयेत् ॥ आगच्छन्तु मे पितरः गृह्णन्त्वेनान् जलाञ्जलीन् ॥ ९० ॥ पुस्तकान्तरेऽयमंशोऽधिको दृश्यते ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. हस्तौ कृत्वा तु संयुक्तौ पूरयित्वा जलेन चेति पाठान्तरम् ॥ ↩︎ ↩︎ ↩︎ ↩︎

  4. प्- सनकः सनन्दनश् च ↩︎ ↩︎

  5. प्- दिव्यांवर धरो ↩︎ ↩︎

  6. प्- ऊर्ध्वकेशी विरूपाक्षी ↩︎ ↩︎

  7. प्- इति श्रुत्वा ↩︎ ↩︎

  8. प्- -स्वनिनिर्घोष ↩︎ ↩︎

  9. प् ओमित्स् अपसव्येन ↩︎ ↩︎

  10. प् ओमित्स् दिग्देवताभ्य ↩︎ ↩︎

  11. कामधेनुसमुद्भूतमिति पाठः ॥ ↩︎ ↩︎