विश्वास-प्रस्तुतिः
अथ स्नानम्।
छन्दोगपरिशिष्टे ।
यथाऽहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः ।
दन्तान् प्रक्षाल्य नद्यादौ [१३२] गृहे चेत् तद् अमन्त्रवत् ॥
स्मृतिकौमुद्यां योगियाज्ञवल्क्यः ।
मृत्तिलान् गोमयं दर्भान् पुष्पाणि सुरभीणि च ।
आहरेत् स्नानकाले तु स्नानार्थं प्रयतः शुचिः ॥
गङ्गोदकान्तं गत्वा तु संस्थाप्यैतत् पृथक् क्षितौ ।
त्रिधा कृत्वा मृदं तां तु गोमयं च विचक्षणः ॥
अधमोत्तममध्यानाम् अङ्गानां क्षालनं तु वै ।
भागैः पृथक् पृथक् कुर्यात् क्षालने मृदसङ्करः ॥
अद्भिर् मृद्भिश् च चरणौ प्रक्षाल्याचम्य वै शुचिः ।
अद्भिर् मृद्भिश् च गात्राणि क्रमशस् त्व् अवनेजयेत् ॥
एकया शिरः प्रक्षाल्य द्वाभ्यां नाभेस् तथोपरि ।
कटिबस्त्यूरुजङ्घे च चरणौ च त्रिभिस् त्रिभिः ॥
प्रक्षाल्य हस्ताव् आचम्य नमस्कृत्य जलं तु तत् ।
यत् किं चेदं तु मन्त्रेण नमस्येत् प्रयताञ्जलिः ॥
ततः कातीयविधिना स्नानम् उक्त्वाह ।
ब्रह्मक्षत्रविशां त्व् एवं मन्त्रवत् स्नानम् इष्यते ।
तूष्णीम् एव तु शूद्रस्य सनमस्कारकं मतम् ॥
तेन शूद्राणां कातीय एवामन्त्रस्नानविधिः । मैथिलश्रीदत्तेन तु पाद्मोक्तं स्नानं सर्ववर्णसाधारणम् उक्तम् । यथा –
अनुद्धृतैर् उद्धृतैर् वा जलैः स्नानं समाचरेत् ।
तीर्थं प्रकल्पयेद् विद्वान् मूलमन्त्रेण मन्त्रवित् ॥
नमो नारायणायेति मूलमन्त्र उदाहृतः ।
दर्भपाणिस् तु विधिना ह्य् आचान्तः प्रयतः शुचिः ॥
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ।
प्रकल्प्यावाहयेद् गङ्गाम् एभिर् मन्त्रैर् विचक्षणः ॥
विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता ।
पाहि नस् त्व् एनसस् तस्माद् आजन्ममरणान्तिकात् ॥
तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुर् अब्रवीत्1 ।
दिवि भुव्य् अन्तरिक्षे च तानि ते सन्ति जाह्नवि ॥
नन्दिनीत्य् एव ते नाम देवेषु नलिनीति च ।
वृन्दा पृथ्वी च सुभगा विश्वकाया शिवा सिता ॥
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ।
वेण्या च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ।
भवेत् सन्निहिता तत्र गङ्गा त्रिपथगामिनी ॥
विप्रेण वायं पठनीयः ।
सप्तवाराभिजप्तेन करसम्पुटयोजितम् ।
प्रागुक्तमूलमन्त्रेणेत्य् अर्थः ।
मूर्ध्नि कुर्याज् जलं भूयस् त्रिचतुः पञ्च सप्त वा ॥
स्नानं कुर्यान् मृदा पश्चाद् आमन्त्र्य च विधानतः ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥
शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥
मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ।
नमस् ते सर्वलोकानां प्रभवारणि सुव्रते ॥
इति । एतत्पूर्वोक्तवचने शूद्रस्य विशेषोक्तेर् अत्र तदभावात् पुराणमन्त्रपाठे शूद्रस्यानधिकाराच् च चिन्त्यम् । सत्त्वे ऽपि सर्वेषां पूर्वोक्तेनास्य समुच्चय इति तत्त्वम् । नृसिंहपुराणे ।
नद्यां स्रवःसु च स्नायात् प्रतिस्रोतः स्थितो द्विजः ।
तडागादिषु तोयेषु प्रत्यर्कं स्नानम् आचरेत् ॥
कातीयानां नद्याम् अपि सूर्यमुखस्य स्नानम् । तत्रैव ब्रह्मण्डपुराणे ।
ऊर्ध्वपुण्ड्रं द्विजः कुर्यात् क्षत्रियस् तु त्रिपुण्ड्रकम् ।
अर्धचन्द्रं तु वैश्यस्य वर्तुलं शूद्रजातिषु ॥
इत्य् उक्तम् । ललाटशिरःकण्ठबाहुहृदयनाभिपृष्ठपार्श्वद्वयेषु तिलकं कृत्वा कुशासनोपविष्टः नमो नम इति त्रिर् जपेत् ।
मूलम्

मराठी
छन्दोगपरिशिष्टान्त-“निरोगी मनुष्याने प्रतिदिनीं प्रातःकाळी स्नान करावे. ते दम्त धावनानन्तर नदीवर समन्त्रक, व घरी केल्यास अमन्त्रक करावें,” असे साङ्गितले आहे. स्म तिकौमुदीम्त याविषयी योगयाज्ञवल्क्य ह्मणतो की-“माती, तीळ, गोमय, दर्भ, व सुगं धिपुष्पं ही स्नानाच्या पूर्वी आणावी. स्नानार्थ प्रतिदिवशीं गङ्गेच्या (सन्निहित नदीच्या)उद कासमीप जाऊन, ती ( मृत्तिकादिक ) निरनिराळी ठेवून, माती व गोमय याञ्चे ३३ विभाग करून अधम, मध्यम, उत्तम अङ्गाञ्चे त्या भागान्नी निरनिराळे क्षालन करावे. त्या वेळी माती एकमेकाम्त मिसळू नये. पाणी व मृत्तिका यान्नी पाय धुवून, आचमन करून, शुद्ध झाल्यावर त्यान्नीच अनुक्रमें सर्वार्गे धुवावी. ती अशी की एक भागाने मस्तक धुवून, नाभीवरील अवयव २ वेळ धुवून, कम्बरेपासून पायाम्पर्यम्त ३ । ३ वेळ प्रक्षालन करून, हात धुवून, आचमन करून त्या उदकास-“यत्किचन्दं०” या मन्त्राने हाताञ्चा अञ्जली करून नमस्कार करावा. नन्तर कातीयविधीने स्नान साङ्गून, पुढे ह्मणतो की,-“ब्राह्मण, क्षत्रिय वैश्य याम्स असें समन्त्रक स्नान योग्य, व शूद्राम्स तूप्णी किंवा नमस्कारमन्त्रयुक्त योग्य आहे.” यावरून शूद्राम्स कातीयाञ्चा अमन्त्रकमानविधि योग्य आहे असें होतेम्. मैथिल श्रीदसाने “पद्मपुराणोक्त स्नान सर्व वर्णास समान आहे” असे साङ्गितले आहे. जसें वर काढलेल्या किंवा न काढलेल्या उदकानें स्नान करावेम्. ज्ञात्याने त्या उदकाम्त मूल मं त्राने तीर्थकल्पना करावी. मूल मन्त्र - “नमो नारायणाय" हा होय. हाताम्त दर्भ घेऊन यथाविधि आचमन करून; ४ हात लाम्बीरुन्दीचें मण्डल कल्पून तेथे पुढील मन्त्रान्नी गङ्गेचें अवाहन करावेम्. “विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता” ॥ इत्यादि ५ मन्त्र म णावे किंवा ब्राह्मणाकरवी ह्मणवावे. पूर्वोक्त मूलमन्त्र मात वेळ जपून अभिमन्त्रित करसं पुटोदकाने ३ । ४ । ५ । किंवा ७ वेळ मस्तकी मार्जन करावे. नन्तर मृत्तिका उदक यथा विधि
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ॥
शिरसा धारयिष्यामि रक्षस्व मां पदे पदे ॥ १ ॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ २ ॥
“यान्नी अभिमन्त्रून स्नान करावे. पूर्वोक्त योगयाज्ञवल्क्यवचनाम्त शूद्रास विशेष साङ्गितला असून येथे त्याचा अभाव असल्यावरून, व पौराण मन्त्रपाठाविषयी शुद्राचा अधिकार नसल्यामुळे हे मत विचारार्ह आहे. कदाचित् योग्य असल्यास पूर्वोक्त वचनासी या सर्व वचनाञ्चा समुच्चय होतो हे यान्तील तत्त्व होय. नृसिंहपुराणान्त-“नदीत व ओझराम्त त्याच्या अभिमुख असून, व तळी, सरोवरें इत्यादिकाम्त सूर्याभिमुख राहून स्नान करावेम्. “कात्यायनशाखीयाम्स नदीवरही सूर्याभिमुखच स्नान उक्त आहे. नन्तर (पृ०५१)साङ्गितलेल्या विधीने कपाळ, मस्तक, गळा, बाहू, हृदय, नाभि, पाठ, व कुक्षी यांवर तिलक लावून, दर्भासनावर बसून, " नमः " या मन्त्राचा ३ वेळ जप करावा.