०३ दन्तधावनम्

विश्वास-प्रस्तुतिः

अथ दन्तधावनम् ।

बदरोदुम्बरापामार्गपनसकदम्बाम्रजातीबिल्वप्रियङ्गुमयं कण्टकिक्षीरवृक्षोत्थम्, द्वादशाङ्गुलकं विप्रे काष्ठम् आहुर् मनीषिणः । क्षत्रविट्शूद्रजातीनां नवषट्चतुरङ्गुलम् इति मदनपारिजाते विष्णूक्तम् ।

कनिष्ठाग्रस्थूलं पर्वार्धकृतकूर्चं दन्तधावनं प्रक्षाल्य ।

आयुर् बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥

इति मन्त्रेण प्राङ्मुखो भक्षयित्वा दन्तान् संशोध्य तथैव जिह्वोल्लेखं कृत्वा प्राच्याम् उदीच्यां वा त्यक्त्वा षोडश द्वादश वा गण्डूषान् कुर्यात् । एतत् प्रतिपन्नवमीषष्ठ्यमा-पौर्णमासीचतुर्दश्यष्टमीसङ्क्रमश्राद्धव्रतरविदिनेषु न कार्यम् । तत्र द्वादश गण्डूषाः । ततः केशप्रसाधनं कृत्वा स्नायात् ।

मूलम्

मराठी

यानन्तर दन्तधावन साङ्गतोः

बोर, उम्बर, आघाडा, फणस, कळम्ब, आम्बा, साई, बेल व काङ्ग या झाडाञ्चे, किंवा ज्यास काण्टे व चीक आहे अशा झाडाञ्चे - “ब्राह्मणास १२, क्षत्रियाम्स ९, वैश्यांस६, शूद्राम्स ४ अङ्गुलें लाम्ब काष्ठ असावे, असे मदनपारिजाताम्त विष्णूने साङ्गितल्याप्रकारचे करङ्गळीच्या शेवटाएवढे मोठे काष्ठ घेऊन, त्याचे मोठे अग्र तासून ते धुवून,-

आयुर् बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥ १ ॥

याने पूर्वाभिमुख बसून ते चावून त्याने दात घासून जिव्हेचे मूळ खर्टून तें काष्ठ पूर्वेस किंवा उत्तरेस टाकून, १६ किंवा १२ चूळ भरावे. हे प्रतिपदा, ६।९।१५।१४ । ८ मी सङ्क्रान्ति, श्राद्धदिन, व्रतदिन, रविवार, या दिवशी करूं नये. ह्या दिवसी केवळ १२. चूळ भरून मुखशुद्धि करावी. नन्तर, केश विञ्चरून स्नान करावे.