०२ आचमनम्

विश्वास-प्रस्तुतिः

[१३०]

अथाचमनम् ।

शुचौ देशे प्राङ्मुख उदङ्मुखो वोपविश्यान्तर्जानुकरं गोकर्णाकृतिं कृत्वा तालुगाभिः [१३१] शुद्धाभिर् अद्भिः सकृद् आचामेत् । त्रिर् वेति स्मृतिकौमुद्याम् । अङ्गुष्ठमात्रं स्पृशेद् इति भट्टाः। ततो ऽङ्गुष्ठमूलेनोष्ठौ द्विर् उन्मृज्याङ्गुष्ठतर्जनीभ्यां नासिके ऽङ्गुष्ठमध्यमाभ्यां चक्षुषी अङ्गुष्ठानामिकाभ्यां श्रोत्रे ऽङ्गुष्ठकनिष्ठिकाभ्यां नाभिं पाणितलेन हृदयं सर्वैः शिरो ऽंसौ च स्पृशेत् ।

मूलम्

मराठी

यानन्तर आचमनविधि साङ्गतोः शुद्ध प्रदेशाम्त पूर्वाभिमुख अथवा उत्तराभिमुख बसून, गुडघ्याच्या आम्त हात घेऊन, गायीच्या कर्णासारखा हस्त करून, तालूपर्यम्त पोचणान्या शुद्धोदकानेम्, एकवेळ आच मन करावे. “किंवा ३ वेळ करावें,” असे स्मृतिकौमुदीत साङ्गितले आहे. “अङ्गु प्ठमात्र स्पर्श करावा,’ असें भट्ट ह्मणतात. नन्तर अङ्गुष्ठमूलाने ओठाम्स २ वेळ उन्मार्जन करून, अङ्गुष्ठतर्जनीन्नी २ नी नाकपुड्याम्स स्पर्श करून; अङ्गुष्ठमध्यमान्नी नेत्रांस, अङ्गुष्ठ व अनामिका यान्नी कर्णास, अङ्गुष्ठकनिष्ठिकान्नी नाभीस; तळहाताने हृदयास, सर्व अं गुलीन्नी मस्तक, व दोन स्कन्धाम्स अनुक्रमें उजव्यापासून म्पर्श करावा.

॥ इति आचमनविधिः ॥