०१ प्रवेशः

विश्वास-प्रस्तुतिः

[१२८]

अथ शूद्रस्याह्निकम् उच्यते ।

तत्र विष्णुः : “ब्राह्मे मुहूर्ते उत्थाय” इति । विष्णुधर्मे

शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् ।
कीर्तनात् तस्य पापानि नाशम् आयान्त्य् अशेषतः ॥

तत्राचम्य् पितरौ इष्टदेवं च नत्वा,

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनम् अब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥
प्रातर् नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥
प्रातर् भजामि भजताम् अभयङ्करं तं प्राक् सर्वजन्मकृतपापभयापहत्यै ।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोरशोकप्रणाशम् अकरोद् धृतशङ्खचक्रः ॥
श्लोकत्रयम् इदं पुण्यं प्रातः प्रातस् तु यः पठेत् ।
लोकत्रयगुरुस् तस्मै दद्याद् आत्मपदं हरिम् ॥

प्रातः स्मरामि शिवम् एकम् अनन्तम् आद्यम् इत्यादि यथावासनं पठित्वा,

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥

इत्य् उक्त्वा भूमिं नमस्कृत्य,

अन्तर्धाय तृणैर् भूमिं शिरः प्रावृत्य वाससा ।
वाचं नियम्य यत्नेन निष्ठीवोच्छ्वासवर्जितः ॥
कुर्यान् मूत्रपुरीषे तु शुचौ देशे समाहितः ।

इत्य् अङ्गिरसोक्तविधिना

दिवा सन्ध्यासु उदङ्मुखः ।

कुर्यान् मूत्रपुरीषे तु रात्रौ चेद् दक्षिणामुखः ॥
ग्रामात् पदशतं गच्छेन् नगराच् च चतुर्गुणम् ॥

इति याज्ञवल्क्य-पराशराद्य्उक्ते देशे मूत्रपुरीषे कृत्वा,

अपकृष्य च विण्मूत्रं काष्ठलोष्ठतृणादिना ।

इति भारद्वाजोक्तेर् लोष्ठादिना वामेन गुदं प्रमृज्य,

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥

इति याज्ञवल्क्योक्तेः शौचं कुर्यात् । तत्र मूत्रे शातातपः

एका लिङ्गे करे सव्ये तिस्रो द्वे हस्तयोर् द्वयोः ।
मूत्रे शौचं समाख्यातं शुक्रे तद्द्विगुणं भवेत् ॥

पुरीषे तु दक्षः1

द्वे लिङ्गे मृत्तिके देये गुदे पञ्च करे दश ।
उभयोः सप्त दातव्या मृदः शौचोपपादिकाः ॥

शङ्खः

मेहने मृत्तिकाः सप्त लिङ्गे द्वे परिकीर्तिते ।
एकस्मिन् विंशतिर् हस्ते द्वयोर् ज्ञेयाश् चतुर्दश ॥

एको वासः ।

तिस्रस् तु मृत्तिका देयाः कर्तुर् वै नखशोधनम् ।
तिस्रस् तु पादयोर् ज्ञेयाः शौचकामस्य सर्वदा ॥

विष्णुपुराणे

एका लिङ्गे गुदे तिस्रो दश वामकरे तथा ।
उभयोः सप्त दातव्या मृदः शौचोपपादिकाः ॥

अत्र लेपन्यूनाधिकभावाभ्यां गृहापत्यादिपरतया वा व्यवस्था । मूत्रे मृत्परिमाणम् आह दक्षः

लिङ्गे तु मृत् समाख्याता त्रिपर्वं पूर्यते यया ।

गुदे तु मनुः

अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तदर्धार्धा प्रकीर्तिता ॥

आदित्यपुराणे

स्त्रीशूद्रयोर् अर्धमानं शौचं प्रोक्तं मनीषिभिः ।

**[१२९] **उक्तशौचेन गन्धापगमे तु देवलः

यावत् साध्व् इति मन्येत तावच् छौचं विधीयते ।

दक्षः

यद् दिवा विहितं शौचं तदर्धं च निशि स्मृतम्2
तदर्धम् आतुरे प्रोक्तम् आतुरस्यार्धम् अध्वनि ॥

वृद्धपराशरः

उपविश्य तु विण्मूत्रं कर्तुं यस् तन् न विन्दति ।
स कुर्याद् अर्धशौचं तु स्वस्य शौचस्य सर्वदा ॥
बालस्यानुपनीतस्य गन्धलेपक्षयावहम् ।

ब्राह्मे

न यावद् उपनीतेन विप्रः शूद्रस् तथाङ्गना ।
गन्धलेपक्षयकरं शौचं तेषां विधीयते ॥
प्रमाणं शौचसङ्ख्या वा न शिष्टैर् उपपादिता ।

इति ।

शूद्रे विवाहात् प्राग् एवम् । विवाहाभावे तु द्वादशवर्षोर्ध्वं षोडशवर्षोर्ध्वं वा सर्वे धर्मा नियताः । न प्राक् । एतच् च वक्ष्यामः । भोजने गुदस्रावे बृहस्पतिः

भुञ्जानस्य तु विप्रस्य कदाचित् प्रस्रवेद् गुदम् ।
पूर्वं कृत्वा तु शौचं तु ततः पश्चाद् उपस्पृशेत् ॥
ततः कृत्वोपवासं च पञ्चगव्येन शुध्यति ।

हस्तं प्रक्षाल्य शौचं कृत्वा गण्डूषोत्तरम् उपवसेद् इत्य् अर्थः । विप्रस्येत्य् उपलक्षणम् ।

इति श्रीकमलाकरभट्टकृते शूद्रधर्मतत्त्वे शौचविधिः ।

मूलम्

मराठी

अथ तृतीयप्रकरणम्

यानन्तर शूद्राचे प्रातःकृत्य साङ्गतो.

याविषयी विष्णु ह्मणतो की,-“ब्राह्ममुहूर्ती3 उठून आत्महित चिन्तावें.“विष्णुधर्मात " जो पूर्वोक्तकाली (पहाण्टेस ४ घटका रात्रीस) अन्थरुणावरून उठून, विष्णूचे नामसङ्कीर्तन करितो त्याची त्या कीर्तनेङ्करून सर्व पापें नाश पावतात” असे साङ्गितले आहे.

त्या प्रमाणे उठून आचमन करून मातापितर, व इष्टदेवता याम्स नमस्कार करून,-“प्रातः स्मरामि भवभी.” हे श्लोक ह्मणून,-“प्रातः स्मरामि शिवमे०"हे श्लोक ह्मणण्यास अवकाश असल्यास ह्मणावे. नन्तर–,

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ॥
पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥ १ ॥

हा श्लोक ह्मणून,

समुद्रवसने देवि पर्वतस्तनमण्डले4
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥१॥

या मन्त्राने भूमीस नमस्कार करावा. नन्तर “भूमीवर गवत घालून, वस्त्राने बुर्खा घेऊन, यत्नाने वानियम करून, श्वास न सोडताम्, मलविसर्जन करावे. तें शुद्ध प्रदेशाम्त स्वस्थ अन्तःकरणाने करावे. मूत्रविसर्जनही असेम्च करावें “याप्रमाणे आङ्गिरसोक्त वि धीनेम्- “दिवसा, व सन्ध्याकाली उत्तराभिमुख; आणि रात्री दक्षिणाभिमुख मूत्र, व पु रीष विसर्जन करावेम्. ते गावापासून १००, नगरापासून ४ ० ०शे पावलें दूर जाऊन तेथे करावें,” असें याज्ञवल्क्य, व पराशर इत्यादिकान्नी उक्त प्रदेशाम्त मूत्र पुरीष विसर्जन करून, “लाकूड ढेकूळ किंवा गवत यान्नी मूत्रपुरीपाञ्चे अपकर्षण करावें (गुद पुसावें ).” अमें भरदाजाने साङ्गितले आहे ह्मणून, वेङ्कुळादिक घेऊन डाव्या हस्ताने गुदप्रमार्जन करून, “हाताम्त इन्द्रिय (*)धरून तेथून उठून, मातीने व वेगळे घेतलेल्या उदकाने दुर्गधी जाईल असें शौच करावें (धुवावें ). आळस करूं नये,” असें याज्ञवल्क्याने झटले आहे. ह्मणून उक्तविधीने शौच करावेम्. केवळ मूत्रविसर्जन केल्यास शौचाविषयी शातातप - णतो की,- “एकवेळ लिङ्गास, ३ वेळ डाव्या हातास, २ वेळ दोनी हाताम्स मृत्तिका लावून धुवावे. रेत पतन झाल्यास याच्या दुप्पट शौच करावें.” पुरीषविर्जन केले असतां तर दक्ष व यम ह्मणतात की,-” लिङ्गास २ वेळ गुदास ५ वेळ, डाव्या हस्तास १० वेळ, दोनी पायाम्स ७ । ७ वेळ मृत्तिका लावून प्रक्षालन करावें.” शङ्ख ह्मणतो की-“गुदास ७ वेळ, लिङ्गास २ वेळ डाव्या हातास २० वेळ, दोनी हाताम्स १४ वेळ, व ३ वेळ मृत्तिका लावून नखशोधन करावेम्, आणि ३ वेळ दोन्ही पायाम्स लावून प्रक्षालन करावें.” विष्णुपुराणाम्त " १ वेळ लिङ्गास, ३ वेळ गुदास, १० वेळ डाव्या हातास, दोनी हाताम्स ७ । ७ वेळ मृ० लावावी" असे साङ्गितले आहे. येथे परस्पर भिन्न मताञ्चे एकीकरण करून, मळाचा कमी किंवा अधिकपणा पाहून, व घरी किंवा प्रवासाम्त इत्यादि पाहून व्यवस्था करावी. मूत्रशौ चास मृत्तिकेचे प्रमाण दक्षाने साङ्गितले आहे. जसे-“लिङ्गास त्याच्या ३ वेळ पर्वापर्यम्त ला वण्यास पुरेल अशी घ्यावी.” गुदास लावण्याविषयीं मृत्तिका किती घ्यावी तें मनु साम्. गतो,-" अर्धापसा प्रथम, २ री तदर्ध, ३ री तदर्थ मृत्तिका प्यावी." आदित्यपुरा णान्त-" स्त्रीशूद्रान्नी पूर्वोक्त शौचान्तून अर्ध करावे असे धर्मज्ञान्नी साङ्गितले आहे." उक्त शौचानें गन्धी न गेल्यास-देवल ह्मणतो की,-दुर्गन्धी जाण्याकरितां शौच करावेम्. " जोपर्यम्त दुर्गन्धी आहे असे वाटेल तोपर्यम्त शौच करावें." दक्ष ह्मणतो की, “दिवमा में उक्त आहे त्याच्या निमें रात्रीम्, व तदर्ध आतुराने, आणि तदर्थ मार्गस्थानं शौच क रावें.’ पराशर ह्मणतो-” जो बसून विष्ठामूत्रविसर्जन करण्यास जाणत नाही त्याने आपल्यास ज्या वेळी जितकें शौच साङ्गितले असेल त्याचे अर्ध करावेम्. बालक व अ. नुपनीत यान्नी दुर्गम्ध व मल जाई तो शौच करावें." ब्राह्मपुराणान्त-“जोपर्यम्त ब्राह्म णाचे उपनयन झाले नाही तोपर्यम्त त्याने आणि शूद्र, व स्त्रिया यान्नी गन्ध, व मल दूर होईल असें शौच करावे. त्यास मातीचे प्रमाण, शौचाची सङ्ख्या, ही शिष्टान्नी मां गितली नाहीत,” असे साङ्गितले आहे. ह्या वचनाम्त शूद्रांविषयी पूर्वनियम नाहीं अमें मटले आहे ते विवाहाच्या पूर्वी लागू आहे. तो झाल्यावर अथवा १२ किंवा १६ वर्षी. नन्तर त्याम्स सर्व धर्म आवश्यक आहेत. तत्पूर्वी मात्र नाहीत हे पुढे साङ्गू. भोजनकाली गुदलाव झाला असतां बृहस्पति ह्मणतो की,-“भोजन करणान्या ब्राह्मणाचे गुद कदा चित् स्रवल्यास त्याने प्रथम शौच करून मग आचमन करून त्या दिवशी उपवास करून पञ्चगव्य प्राशन केल्याने तो शुद्ध होतो; अर्थात् प्रथम हात धुवून नन्तर शौच करून १६ चूळ भरल्यावर उपवास करावा असे सिद्ध होते. " या वचनाम्त विप्राचे असें झटले आहे; ते केवळ उपलक्षण आहे. शूद्रानेही असेम्च करावेम्, हे अर्थात् सिद्ध होते.

इति शूद्रधर्मतत्त्वप्रकाशे शूद्रस्य शौचविधिः ॥

  1. प्- दक्षयमौ ↩︎ ↩︎

  2. दिवा कृतस्य शौचस्य रात्रावर्धं विधीयत इत्यपि पठ्यते ॥ ↩︎ ↩︎

  3. “ब्राह्ममुहूर्त” या सूर्योदयापूर्वीच्या ४ घटिका अथवा सूर्योदयापासून ५६ घटिका झाल्यावर दुसऱ्या दिवशी सूर्योदय होईपर्यन्तचा काल, यास पूर्वोक्त सञ्ज्ञा आहे. ↩︎

  4. पर्वतस्तनमाण्डिते इति धर्माब्धिसारतः पाठः ॥ ↩︎