२४ विवाहः

विश्वास-प्रस्तुतिः

[१०९]

अथ विवाहः ।

तत्र सापिण्ड्यं शूद्राणां द्विजवद् एव सर्वत्रावयवानुवृत्तेः सद्भावाद् इति विज्ञानेश्वरः । तच् च मया निर्णयसिन्धाव् उक्तम् इति नात्रोच्यते । तत्र ब्राह्मार्षदैवप्राजापत्य-गान्धर्वासुरराक्षसपैशाचा अष्टौ विवाहाः । तान् आह याज्ञवल्क्यः

ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ।
यज्ञस्थऋत्विजे दैव आदायार्षस् तु गोद्वयम् ॥
इत्य् उक्त्वा चरतां धर्मं सह या दीयते ऽर्थिने ।
स कायः पावयेत् तज्जः षट् षड् वंशान् सहात्मना ॥
आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाछलाद् ॥

इति । एषु शूद्रस्य प्राजापत्यो मुख्यः । आसुरगान्धर्वौ मध्यमौ । राक्षसपैशाचौ कनिष्ठौ । तद् आह मनुः

आसुरं वैश्यशूद्रयोः ।

षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् ।
विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥

चतुरः आसुरगन्धर्वराक्षसपैशाचान् । तान् चतुरो राक्षसवर्जान् । कल्पतरौ ब्रह्मविवाहम् उक्त्वा ब्राह्मणानां सताम् एष धर्म इत्य् उक्तेर् ब्राह्मदैवौ विप्रस्यैव । अन्ये त्रयाणां तुल्याः । हेमाद्रौ पैठीनसिः: “पैशाचः प्रतिलोमानाम्” । काश्यपः

शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः ।
आत्मविक्रयिणः पापा महाकिल्बिषकारिणः ॥
पतन्ति नरके घोरे घ्नन्ति वा सप्तमं कुलम् ।

शूद्रेणासुरत्वसिद्ध्यै प्रीत्या देयं, न तु मूल्यं, तेन न दोषः । अत एव गान्धर्वासुरयोः फलम् आदित्यपुराणे

गान्धर्वेण विवाहेन यस् तु कन्यां प्रयच्छति ।
गन्धर्वलोकं व्रजति गन्धर्वैः पूज्यते च सः ॥
शुल्केन दद्याद् यः कन्यां वराय सदृशाय च ।
किन्नरैर् उपगीयेत गान्धर्वं लोकम् एति च ॥

हारीतः

एषाम् अन्यतमेनोढां धर्मपत्नीं परे प्राहुः ।

विशेषो मेधातिथौ कल्पतरौ च ज्ञेयः । तत्र गान्धर्वराक्षसपैशाचान् विना सर्वत्रोदकपूर्वं दानं नियतम् । वसिष्ठः

नोदकेन न वा वाचा कन्यायाः पतिर् उच्यते ।
पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥

गान्धर्वादिष्व् अपि होमादि कार्यम् एव,

गान्धर्वासुरपैशाचा विवाहा राक्षसश् च यः ।
पूर्वं परिग्रहस् तेषु पश्चाद् धोमो विधीयते ॥

इति अपरार्के विसिष्ठोक्तेः । अत एव होमाद्यभावे ऽन्यस्मै दानम् आहतुस् तत्रैव वसिष्ठ-बौधायनौ

बलाद् अपहृता कन्या मन्त्रैर् यदि न संस्कृता ।
अन्यस्मै विधिवद् देया यथा कन्या तथैव सा ॥

इदं राक्षसपैशाचपरम्, तयोर् एव बलाद् अपहारात् । शूद्रस्य नमोमन्त्र एव । मनुर् अपि ।

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
तेषाम् निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥

तत्र पाणिग्रहणं सर्ववर्णसमानम्, “पाणिर् ग्राह्यः सवर्णास् तु” इत्य् अविशेषेण याज्ञवल्क्योक्तेः । उदकपूर्वं कन्यादानस्य शूद्रे विकल्पः । तद् उक्तं स्मृतिकौमुद्यां ब्राह्मे

युक्तं तु पाणिग्रहणं सर्ववर्णेषु सर्वशः ।
जलपूर्वं तु विप्राणाम् अन्येषाम् अपि काम्यया ॥ इति ।

[११०]

अन्ये त्व् एतेन ब्राह्मो ऽपि भवति, “अलङ्कृत्य कन्याम् उदकपूर्वां दद्याद् एव ब्राह्मो विवाहः” इत्य् आश्वलायनेन ब्राह्म एव जलपूर्वतोक्तेः । अन्ये विशेषा निर्णयसिन्धौ ज्ञेयाः । स्मृतिकौमुद्यां ब्राह्मे

इष्टिं वैनायकीं कृत्वा शचीयागं च शोभनम् ।
नान्दीमुखेभ्यः श्राद्धं च पितृभ्यः कार्यसिद्धये ॥

वराहसंहितायाम्

गृहे स्थितां वै पुरुहूतपत्नीं प्राङ्मध्यसन्ध्यास्तमयेषु कन्या ।
स्रक्गन्धधूपैः प्रतिपूजयेत् तु पाणिग्रहे या समुपगता ॥ इति ।

मूलम्

मराठी

आतां विवाहविचार साङ्गतो:

त्याम्त सापिज्य शूद्राम्स विप्रासारखेच आहे. कारण,-" सर्वत्र अवयवाञ्ची अनुवृत्ति सा रखीच असून तिचा सद्भाव (असणे ) आहे ह्मणून." असें विज्ञानेश्वर ह्मणतो. ते सर्व म्यां निर्णयसिन्धूत साङ्गितले आहे; ह्मणून येथे साङ्गत नाही. त्याम्त ब्राह्म, आर्ष, दैव, प्रा. जापत्य, गाधर्व, आसुर, राक्षस, व पैशाच असे आठ प्रकारचे विवाह आहेत. तेच या ज्ञवल्क्य साङ्गतो,- “वरास बोलावून यथाशक्ति अलङ्कार घालून त्यास कन्या देतात तो ब्राह्म1 १, यज्ञान्तील ऋत्विजाम्स कन्या देतात तो दैव2 २, वरापासून दोन गायी घेऊन त्यास कन्यादान केल्यास तो आर्ष3 ३ विवाह होतो. असे साङ्गून,-स्त्रीसह धर्माचरण करण्याविषयी इच्छा करून मागणाऱ्यास कन्या दिल्यास तो प्राजापत्य4 ४ विवाह होतो. या प्रकारे विवाहित स्त्रीपासून झालेला पुत्र आपल्यासह मातृपितृकुलान्तील सहा सहा पुरुषाम्स पवित्र करितो. वरापासून कांहीं द्रव्य घेऊन त्यास कन्या दिल्यास तो आसुर5 ५, परस्पराम्त कांहीं पण (शर्त) करून विवाह झाल्यास तो गान्धर्व6 ६, युद्धाम्त कन्या हरण केल्यास राक्षस7 ७, व कपटानें कन्याहरण केल्यास तो पैशाच8 ८, असे आठ प्रकारचे9 विवाह होतात.

या सर्वाम्त ४ था ह्मणने प्राजापत्य हा शूद्राम्स मुख्य आहे. गान्धव, व आसुर हे मध्यम; राक्षस व पैशाच हे कनिष्ठ होत. तेम्च मनु साङ्गतो,-. " वैश्य, व शूद्र याम्स आसुर विवाह विहित आहे. अनुक्रमाने सहा (ब्राह्म, दैव, आर्ष, प्राजापत्य, आसुर, व गान्धर्व ) ब्राह्मणांस; शेवटील चार ( आसुर, गान्धर्व, राक्षस, आणि पैशाच) हे क्षत्रियांस; वैश्य, व शूद्र याम्स राक्षसविवाहरहित तेच ( आसुर, व गान्धर्व, पैशाच ) हे धर्म्य आ हेत.” कल्पतरूम्त ब्राह्मविवाहप्रकार साङ्गून “ उत्तम ब्राह्मणाम्स हा धर्म्य आहे, " असे साङ्गितले आहे, ह्मणून ब्राह्मणाम्स ब्राह्म, व देव हे विवाह मुख्य आहेत. अन्य विवाह तिन्ही वर्णाम्स (द्विनाम्स ) समान आहेत. हेमाद्रीत पैठीनसि ह्मणतो,-“प्रतिलोमाम्स (उत्तम वर्णातील कन्या असून ती नीच वर्णास प्राप्त होऊन तिनपासून जो पुत्र झाला असेर त्यास) पैशाच मुख्य आहे.” कन्याविक्रयाविषयी काश्यप ह्मणतो की,-” जे पुरुष लोभाने मोहित होत्साते द्रव्य घेऊन आपल्या मुलीस देतात, ते केवळ आत्मविक्रयर करणारे महापापकारी होत. ते भयङ्कर नरकाम्त पडतात, अथवा सात कुलाञ्चा नाश करितात10.” यावरून कन्यादानसम्बन्धाने द्रव्य घेऊं नये असे सिद्ध होते; परन्तु आसुर विवाहाम्त द्रव्य देणे आवश्यक असून त्या प्रकारचा विवाह शूद्राम्स मुख्य आहे.

तस्मात् शूद्राने आसुरत्व सिद्ध होण्याकरितां मुलीच्या बापास प्रीतिपूर्वक कांही द्रव्य द्यावेम्. परन्तु ते कन्येची किम्मत ह्मणून देऊ नये; व घेणाराने ते घेऊ नये. तेणेकरून त्यास पूर्वोक्त दोप लागणार नाही. याकरिताम्च गान्धर्व, व आसुर विवाहाचें फल आदित्य पुराणान्त- “जो गान्धर्वविवाहविधीने कन्यादान करितो तो गन्धर्वलोकास जातो, आणि गन्धर्व त्याची पूजा करितात. तसेम्च जो योग्य वराला प्रीतिपूर्वक त्यापासून काही द्रव्य घे उन कन्या देईल, तो गन्धर्वलोकाप्रत प्राप्त होतो; व किन्नर त्याचे यश गायन करितात, असे साङ्गितले आहे. हारीत ह्मणतो,-“पूर्वी साङ्गितलेल्या विवाहविधीपैकी कोणत्या ही आपल्यास विहित असलेल्या एखाद्या विधीने विवाहित स्त्रीलाच धर्मपत्नी असें अन्य ऋपि ह्मणतात.” एत्सम्बन्धी विशेष विचार मेधातिथि, व कल्पतरु याम्त पहावा. पूर्वोक्त सर्व विवाहाम्त गान्धर्व, राक्षस, व पैशाच यांवाञ्चून उदकपूर्वक कन्यादान करणे हे नित्य आहे. याविषयी आणखी वसिष्ठ ह्मणतो की,-” उदकपूर्वक दानानेम्, अथवा वाग्दानाने दान घेणारास कन्येचा पति असें ह्मणत नाहीत, तर पाणिग्रहणसंस्काराने सप्तपदीत सातव्या पावलास त्याचे पतित्व सिद्ध होते." गान्धादिक विवाहान्तहि विवाहहोमादि अ वश्य केले पाहिजे. कारण,-“गान्धर्व, आसुर, पैशाच, राक्षम ह्या विवाहाम्त पूर्वी क न्येचा स्वीकार, आणि नन्तर, तदङ्ग होम करण्याचे विधान करितो, " असी अपराकीत वसिष्ठाची उक्ति आहे; याकरिता शेवटच्या चार विवाहाम्त होमादि कदाचित् केलें नसेल, काही कारणामुळे तो वर मान्य नसेल तर, अन्य वराला कन्यादान करावेम्, असे त्याच अपराकात वसिष्ठ व बौधायन यान्नी साङ्गितले आहे. जसे-” बलात्का राने कन्या हरण केली असून, जर ती मन्त्रान्नी (नमःमन्त्र) संस्कृत (यथाविधि विवाहित) केली नसेल, तर ती अन्य वराला यथाविधि द्यावी. कारण, समन्त्रक संस्कार होण्यापूर्वी ती अविवाहित कन्येसारखीच होय11." हे वचन राक्षस, व पैशाच विवाह पर आहे. कारण, त्यान विवाहाम्त बलात्कारानें कन्येचा अपहार होत असतो.

मनुहि याचप्रमाणे ह्मणतो, जसे-" पाणिग्रहणसम्बन्धी मन्त्र हेच स्त्रीत्वाचे खरे लक्षण होय. परन्तु त्याञ्ची निष्ठा शेवट तर विद्वानान्नी सप्तपदीत सातव्या पावली जाणावी." त्याम्त पाणिग्रहण हे सर्व वर्णास तुल्य12 आहे.

कारण, “समानवर्णस्त्रियाञ्चेठायीं समानवर्ण पुरुषाने पाणिग्रहण विधि करावा," असें चहून्तून एखाद्या वर्णाचे ग्रहण न करितां याज्ञवल्क्याने सामान्यतः पाणिग्रहण साङ्गितले आहे; ह्मणून उदकपूर्वक कन्यादान करण्याचा शूदाविषयी विकल्प आहे. तेम्च स्मृतिकौमुदीत ब्राह्मपुराणाम्त साङ्गितले आहे. जसे- “सर्व वर्णात सर्वान्नी पाणिग्रहण करणे हे योग्य आहे. तथापि उदकपूर्वक कन्या देणे हे ब्राह्मणासच आवश्यक, व अन्य वर्णास त्याञ्च्या इच्छेनुसार आहे," अन्य कितीएक ग्रन्थकर्ने,- “या वाक्या वरून ब्राह्मविवाहही इतर वर्णास करतां येतो असे होते. कारण- ‘अलङ्कृत करून उदकपूर्वक कन्या द्यावी, हा ब्राह्मविवाह होय. " आश्वलायनाने “ब्राह्म विवाहान्तच उ दकपूर्वक कन्यादान करावे, असे साङ्गितले आहे ह्मणून,” असें ह्मणतात. एतत्सम्बन्धी अन्य विशेष विचार निर्णयसिन्धूवरून जाणावा. स्मृतिकौमुदीन्त, ब्राह्मपुराणाम्त “विनायकशान्ति, व उत्तम असें इन्द्राणीचे पूजन करून कार्यसिद्धि होण्याकरितां नान्दी मुख पितराम्स श्राद्ध द्यावें,” असे साङ्गितले आहे. वराहसंहितेत- “घराम्त असलेल्या इन्द्राणीचे प्रातःकाली, माध्यान्हकाली आणि सायङ्काली गन्ध, पुष्प, धूप. फुलाञ्च्या माळा इत्यादि उपचारान्नी, जी पाणिग्रहणाला प्राप्त झाली असेल त्या कन्येनें पूजन करावे,’ असे साङ्गितले आहे.

इति शूद्रधर्मतत्त्वप्रकाशे विवाहविचारः ॥

विश्वास-प्रस्तुतिः

[११३]

अथ प्रयोगः ।

“शूद्रस्य शूद्रापरिणयने मन्त्ररहितं क्रियामात्रं कार्यम्” इति हरिहरभाष्ये उक्तम् । तेन कातीयं कर्मोच्यते । तत्र विवाहोक्ते मुहूर्ते कन्यायाः पिता भ्रातान्यो वा बन्धुर् वरगृहं गत्वाचम्य देशकालौ सङ्कीर्त्य करिष्यमाणविवाहाङ्गत्वेन वाग्दानं करिष्य इति सङ्कल्प्य, गणेशं वरुणं च सम्पूज्य वरस्य पादप्रक्षालनं गन्धवस्त्राद्यैः पूजां कृत्वा, पूगीफलनारिकेरकुङ्कुमादिरञ्जितवस्त्रं चादायामुकप्रपौत्रायामुकपौत्रायामुक-पुत्रायामुकदासाय वरायामुकप्रपौत्रीम् अमुकपौत्रीम् अमुकपुत्रीम् अमुकनाम्नीं कन्यां तुभ्यं ज्योतिर्विदुक्ते मुहूर्ते दास्ये इत्य् उक्त्वा,

अव्यङ्गे ऽपतिते ऽक्लीबे दशदोषविवर्जिते ।
तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥ इति ।

पिता तु अहं दास्याम्य् असंशयम् इति वदेत् । स्नाते स्नाताम् अरोगिणीं वा पाठः ।

केचित् तु कन्यागृहे गत्वा तां सम्पूज्य,

इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ ॥

इति कन्यापिता वरबन्धुहस्ते दत्वा,

वाचा दत्ता त्वया कन्या वरार्थं स्वीकृता मया ।
कन्यावलोकनविधौ निश्चितस् त्वं सुखी भव ॥

इति कन्यापिता ।

वाचा दत्ता त्वया कन्या वरार्थं स्वीकृता1 मया ।
वरावलोकनविधौ

इत्य् ऊहेन वरपिता वदेद् इत्य् आहुः ।

ततः परस्परम् अर्चनविप्रपूजादि कार्यम् । आचाराद् धरिद्राचन्दनादि विवाहोक्ते मुहूर्ते कार्यम् ।

इति वाग्दानम् ।

मराठी

आतां विवाहाचा प्रयोग साङ्गतो ः

“शूद्रास समानवर्ण शूद्रकन्येशी होणाऱ्या विवाहाम्त मन्त्रावाञ्चून, सर्व कर्म मात्र करावें,” असे हरिहरभाष्याम्त साङ्गितले आहे. या वाक्याने कात्यायनोक्त कर्म करावें असे होते. त्याम्त प्रथम वाग्दान विवाहास उक्त असलेल्या मुहूर्तावर करावेम्. ते असे की, मुलीचा बन्धु किंवा अन्य जो कन्यादान करणारा असेल त्याने वराच्या घरी जाऊन आचमन करून देशकालसङ्कीर्तन करून,- करिप्यमाणविवाहाङ्गखेन वाग्दानं करिष्ये । असा सङ्कल्प करून, गणेश, व वरुण याञ्ची पूजा करून, वराचे पाय धुऊन, गन्धवस्त्रा दिकान्नी त्याची पूजा करून, सुपारी, नारळ, व कुङ्क्वाने रङ्गित वस्त्र हाताम्त घेऊन

अमुकप्रप्रौत्राय अमुकपौत्राय अमुकपुत्राय अमुकदासाय । अमुकप्रपौत्रीम् अमुकपौत्रीम् अमुकपुत्रीम् अमुकनाम्नीं कन्यां तुभ्यं ज्योतिर्विदुक्ते मुहूर्ते दास्ये ।

असें ह्मणून,

अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते13 ॥ तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥ १ ॥

हा मन्त्र ह्मणावा. जर, बापच स्वतः वाग्दान करणारा असेल तर पूर्वोक्त मन्त्राचा चतुर्थ चरण- “अहं दास्याम्यसंशयम्” । असा ह्मणावा. दुसन्या चरणाचा- “स्नाते स्नातामरोगिणीम्” असाहि पाठ आहे. कित्येक ग्रन्थकर्ते-“वरा च्या बापानें कन्येच्या गृहास जाऊन, वस्त्रादिकान्नी तिने पूजन करावे, व तिच्या बापाने

अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते ॥
इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ ॥ १॥

असा मन्त्र ह्मणून. कन्येच्या बापानें वस्त्रादि वराच्या बन्धूच्या हाताम्त देऊन,-

वाचा दत्ता मया कन्या वरार्थं स्वीकृता त्वया ॥
कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ १ ॥

असा मन्त्र कन्येच्या बापाने ह्मणावा. नन्तर वराच्या बापाने,

वाचा दत्ता त्वया कन्या पुत्रा(वरा)र्थं स्वीकृता मया ।
वरावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ १ ॥

असा मन्त्र ह्मणावा, ह्मणने वाग्दान होते असें ह्मणतात. नन्तर एकमेकाञ्चे पूजन, व ब्राह्मणाञ्ची पूजा करून, आचाराप्रमाणे हळदचन्दन इत्यादि विवाहोक्त मुहूर्तावर करावी.

इति शूद्रधर्मतत्त्वप्रकाशे वाग्दानप्रयोगः ॥

मूलम्

[११४]

ततः पूर्वदिने विवाहदिने वा प्रातः कन्यावरयोः पिताभ्यङ्गं कृत्वा, ग्रहविनायकशान्त्यादि कृत्वा, देशकालौ सङ्कीर्त्य, अमुकस्य विवाहाङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजा-वसोर्धाराशचीपूजानान्दीमुखानि श्राद्धानि करिष्ये इत्य् उक्त्वा, तानि पूर्ववत् कृत्वा, तण्डुलपूर्णकुम्भद्वये ऽविघ्नार्थं वंशपात्रे शाखासु,

नन्दिनी नलिनी मैत्रा ह्य् उमा च पशुवर्धिनी ।

शस्त्रे भगवतीं च मातृसन्निधौ संस्थाप्य चतुर्थदिने मण्डपदेवताः पूजयेत् । पीतसूत्रेण कङ्कणं बध्वा, कन्यायाः सप्तभिः पञ्चभिर् वा करैर् मितां पञ्चसप्तसोपानां वेदिं कुर्यात् । चतुर्हस्ता वेदीति हरिहरः । वरस्य सीमान्तपूजां कृत्वा गृहागतं वरं सम्मानेनोपवेशयेत् । तत आचार्यो वेद्यां हस्तमात्रं स्थण्डिलं दर्भैः परिसमूह्य, गोमयेनोपलिप्य, यज्ञियकाष्ठेन प्रागग्रास् तिस्रो लेखाः कृत्वा, त्रिर् मृदम् उद्धृत्याभ्युक्ष्याग्निं प्रतिष्ठाप्य वरस्य प्राङ्मुखस्य मधुपर्कपूजां कुर्यात् । यथा । कन्यापितासनं दत्वा, तस्य पश्चात् तिष्ठन्तं वरम् आह । साधु भवान् आस्ताम् अर्चयिष्यामो भवन्तम् इति । अर्चयेति वरः । ततो विष्टरो इत्य् अनेन त्रिर् उक्तेन दाता प्रत्यङ्मुखस् तिष्ठन् प्रतिगृह्यताम् [११५] इति कूर्चं पञ्चविंशतिकुशमयं च दद्यात् । तं वर आसनस्य पश्चात् तिष्ठन् गृहीत्वा विष्टराय नम इत्य् आसने दत्वोपविशेत् । ततो ऽन्येन त्रिः पाद्यम् इत्य् उक्ते गन्धदूर्वाक्षतायुतं पाद्यं दाता प्रतिगृह्यताम् इति दद्यात् । तेन वरः आदौ सव्यं ततो दक्षिणम् इति पादौ प्रक्षालयेत् । तदा14 दातान्यं विष्टरम् अन्येन त्रिर् निवेदितम् आदाय वरपादाधो दद्यात् । ततो गन्धपुष्पाक्षतकुशतिलसर्षपदधिदूर्वायुतम् अर्घ्यम् आदायान्येनार्घ्यम् इति त्रिर् उक्ते दाता प्रतिगृह्यताम् इति दद्यात् । वरस् तम् अद्भ्यो नम इत्य् अञ्जलिनादाय शिरसाभिवाद्य भूमौ क्षिपेत् । ततो ऽन्येनाचमनीयम् इति त्रिर् उक्त्वा दत्तं प्रतिगृह्य सकृत् प्राश्याचामेत् । ततो ऽन्येन मधुपर्क इत्य् उक्ते दात्रा दत्तं कांस्यस्थं तेनैव पिहितं दधि मधु घृतं वा वरो दातृहस्तस्थम् उद्घाट्य, सवित्रे नम इत्य् अवेक्ष्य, सवित्रे नम इति प्रतिगृह्य, वामे निधाय, मधुपर्काय नम इत्य् अनामिकयालोड्यानामिकाङ्गुष्ठाभ्यां बहिः क्षिप्त्वा, पुनर् एवं द्विः कृत्वा, ताभ्याम् एव त्रिः प्राश्नीयात् । मधुपर्काय नम इति वा । अङ्गुष्ठानामिकाभ्यां द्वितीयम् अङ्गुष्ठमध्यमाभ्यां तृतीयम् इति स्मृतिकौमुदी । तच् चिन्त्यम् । ततः शेषम् असञ्चरे निनीय, द्विर् आचम्य, पुनर् आचम्य, वाचे नमः मुखे, प्राणाय नमः नसोः, चक्षुर्भ्यां नमः चक्षुषोः, श्रोत्राभ्यां नमः कर्णयोः, बलाय नमः बाह्वोः, ओजसे नमः इत्य् ऊर्वोः, अङ्गेभ्यो नमः इत्य् अङ्गेषु । ततो ऽन्येन त्रिर् गौर् इत्य् उक्ते प्रतिगृह्य रुद्राणां मात्रे वसूनां दुहित्रे आदित्यस्वस्रे गवे नमः । ममार्चकस्य च पाप्मा हत इत्य् उपांशु उत्सृजत तृणान्य् अत्तु इत्य् उच्चैर् विसृजेत् । ततो दाता वस्त्रालङ्कारगन्धस्रगाद्यैर् वरं पूजयेत् । ततः सुलग्ने ऽन्तःपटं धृत्वा, मुखं निरीक्षेत ।

अन्ये तु लग्नसमये पाणिग्रहणम् इच्छन्ति । ततो अन्तःपटम् अपसार्य, वरो वधूमुखम् ईक्षेत । अत्र वाग्निं प्रतिष्ठाप्य पश्चाद् अग्नेस् तृणफलं कटं वा निधाय, कन्यापितृदत्त-वस्त्रचतुष्टयमध्ये द्वे आयुष्मतीदं वासं परिधत्स्वेति आवृत्त्या दद्यात् । सा च वाससे नम इत्य् आवृत्त्या परिदधीत15 । ततो दात्रा वधूम् ईक्षस्वेति प्रेषितो वधूम् ईक्षेत । ततः कन्यादानम् इति हरिहरः

अन्ये तु कन्यादानोत्तरं वस्त्राद्य् आहुः । ततः करोतु स्वस्ति ते ब्रह्मेत्याद्यैर् अक्षतारोपणान्ते कन्यापितोदङ्मुखः स्वदक्षिणे पत्नीम् उपवेश्य कुशपाणिर् आचम्य, देशकालौ सङ्कीर्त्य, मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादि कन्यादानकल्पोक्तफलावाप्तये ऽनेन वरेणास्यां कन्यायाम् उत्पादयिष्यमाणसन्तत्या – ब्राह्मपक्षे द्वादशावरान् द्वादश् परान् । प्राजापत्यपक्षे ऽष्टावरान् अष्टौ परान् पुरुषान् पवित्रीकर्तुम् आत्मनश् च लक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना प्राजापत्यविधिना वालङ्कृत्य कन्यादानम् अहं करिष्ये । इत्य् उक्त्वा पठेत् ।

कन्यां कनकसम्पन्नां कन्यकाभरणैर् युताम् ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥
विश्वम्भरः सर्वभूतः साक्षिण्यः सर्वदेवताः ।
इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥

इति । ततः कांस्यपात्रे वरहस्तोपरि वधूहस्ते स्वहस्तं न्यस्य वरहस्ते – सुप्रोक्षितम् अस्तु । शिवा आपः सन्तु । सौमनस्यम् अस्तु । इत्य् उक्त्वा, कन्या तारयतु, पुण्यं वर्धतां, शान्तिः पुष्टिस् तुष्टिस् चास्तु, तिथिकरणमुहूर्तनक्षत्रसम्पदस्तु, पुण्याहं भवन्तो ब्रुवन्तु, पुण्याहम् इति विप्राः, स्वस्ति भवन्तो ब्रुवन्तु, ऋद्धिं भवन्तो ब्रुवन्तु, श्रीर् अस्त्व् इति भवन्तो ब्रुवन्तु, अमुकदासो ऽहम् । मम [११६] समस्तपितॄणाम् इत्य् आदि.. लक्ष्मीनारायणप्रीतये इत्यन्तं प्राग्वद् उक्त्वा, काश्यपगोत्रस्य ब्रह्मदासस्य प्रपौत्राय विष्णुदासस्य पौत्राय शिवदासस्य पुत्राय काश्यपगोत्राय देवदत्तदासाय वराय काश्यपगोत्रां चैत्रदासस्य प्रपौत्रीं मैत्रदासस्य पौत्रीं भोजदासस्य मम पुत्रीम् अमुकप्रेष्यां नाम्नीं वा कन्यां प्रजापतिदैवत्यां यथाशक्त्य् अलङ्कृताम् इत्य् उक्त्वा, पुनर् एवं द्विर् उच्चार्य शतज्योतिष्टोमातिरात्रफलसमफलप्राप्तिकामः प्रजोत्पादनार्थं सहधर्मचरणार्थं प्राजापत्ये सहधर्मचरतं भार्यात्वेन तुभ्यम् अहं सम्प्रददे । इति कुशयवयुतं जलं कन्याहस्तं च वरहस्ते क्षिपेत् । मयापि दत्तेति मातापि वदेद् इति केचित् । गोत्रोच्चारणं नेति केचित् । वरः प्रतिगृह्णामि ।

गोत्राय चैव दासाय तुभ्यं दत्तां समाश्रय ।
कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः ॥
कन्ये मे पृष्ठतो भूयास् त्वद्दानात् स्वर्गम् आप्नुयाम् ।
मम वंशकुले जाता पालिता वत्सराष्टकम् ॥
तुभ्यं दास मया दत्ता पुत्रपौत्रविवर्धिनी ।

इति पठेत् । ततः कन्यादानप्रतिष्ठार्थम् इदं सुवर्णं गोमिथुनं च दक्षिणां सम्प्रददे इति दद्यात् । ततः शक्तौ सत्यां ताम्रकांस्यपात्रगवाश्वदासीदासादि दद्यात् । कन्याबान्धवांश् च यौतकं दद्युः । वरस् तत्पित्रादयो ऽपि दद्युर् इति केचित् । होमान्ते यौतकं केचिद् आहुः । ततः चतुर्वारं पञ्चवारं वा वधूवरौ सूत्रेणावेष्ट्योपरितनम् अधोमार्गेनाधस्तनं चोपरि निष्काश्य, त्रिगुणं पीतं च कृत्वाधस्तनं वरहस्ते, उपरितनं च वधूहस्ते कङ्कणं बध्नीयात् ।

येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन त्वाम् अपि बध्नामि रक्षे मा चल मा चल ॥

इति । ततः वधूवराभ्याम् दुग्धार्द्राक्षतारोपणम् । वध्वादौ ततो वरेण च कार्यम् । मन्त्रास् तु – भगाय नमः । यज्ञाय नमः । श्रियै नमः । धर्माय नमः । प्रजायै नमः । यशसे नमः । इति । ततः प्राङ्मुख उपविश्य वस्त्रं कन्यायै दद्यात् । सा च वासोभ्यां नम इति परिदध्यात् । ततो वरो

माङ्गल्यतन्तुनानेन भर्तृजीवनहेतुना ।
कण्ठे बध्नामि सुभगे सा जीव शरदां शतम् ।

इति सौभाग्यतन्तुं वधूगले बध्नीयात् । ततो विश्वेदेवायुमातरिश्वधातृभ्यो नम इति वधूम् ईक्षेत् । अत्र वा कौसुम्भसूत्रेण कङ्कणम् । ततो वेद्याम् प्राङ्मुखस् तेजनावीरणकटे पश्चाद् अग्नेर् उपविश्य दक्षिण ईशान्यां वा मङ्गलकुम्भं स्कन्धे गृहीत्वा कश्चित् तिष्ठेद् आसप्तमं पदम् । उत्तरतो दृषदुपले चालङ्कृते निधायान्नं वरः कन्यानाम वदेद् इत्य् आचारः । ततो वधूपित्रा परस्परं समीक्षितव्यम् इत्य् उक्ते ऽन्योन्यं समीक्ष्य,

अरौद्रचक्षुर् अपतिघ्नी शिवा च सुमनास् तथा ।
सुवर्चाः पुत्रसूर् देवकामा च सुखदा भव ॥

इति वरो वदेत् । सोमगन्धर्वाग्निपूषभ्यो नम इति च । शूद्राणां गृह्यसूत्राध्ययनाभावात् तदुक्तहोमाङ्गकलापज्ञानाभावात् प्रयुक्तिशक्त्यभावाच् च विवाहे होम एव नास्तीति मदनपालः। अन्ये तु प्रधाने ऽधिकारसिद्धौ स्थपतीष्टिवद् अङ्गे ऽपि श्रवणोपदेशादिना ज्ञानसम्भवाद् धोमम् आहुः । यथा — गुरुर्दक्षिणे ब्रह्मासनं दत्वा तम् उपवेश्य । मृण्मये पात्रे जलपूर्णे कुशान् निधायोत्तरतः कुशेषु निधायाग्निं दर्भैः पूर्वादि परिस्तीर्यासादनं कुर्यात् ॥ त्रीणि तृणानि द्वे पवित्रे प्रोक्षणीम् आज्यस्थालीं चरुस्थालीं सम्मार्गकुशाः उपयमनकुशास् तिस्रः समिधः स्रुवम् आज्यं तण्डुलाः लाजाः शूर्पं संस्रावपात्रं अश्मा [११७] आनडुहं चर्म गौर् दक्षिणेति । ततः प्रादेशमात्रे पवित्रे छित्त्वा प्रोक्षणीं संस्कृत्य पवित्राभ्याम् उत्पूय तत्र ते निधाय दक्षिणेन सव्ये कृत्वोद्दीपनं कृत्वा पात्राणि प्रोक्ष्य निधायाज्यं स्थाल्यां निरुप्याग्नौ दक्षिणे ऽधिश्रित्योल्मुकेन लाजैः सह पर्यग्नि कृत्वा स्रुवं प्रताप्य कुशैः सम्मृज्य प्रोक्षणीभिः प्रोक्ष्य पुनः प्रताप्य दक्षिणे निधायाज्यम् उद्वास्योत्पूयावेक्ष्य शूकं निरस्य पुनः प्रोक्षणीर् उत्पूयावेक्ष्योपयमनकुशान् आदायोत्थायाग्नौ तिस्रः समिधो ऽभ्याधाय प्रोक्षणीभिः पर्युक्ष्य वरेणान्वारब्धो गुरुर् दक्षिणं जान्व् आच्य ब्रह्मणा दक्षिणहस्तेनान्वारब्धः स्रुवेण जुहुयात् । प्रजापतये नमः । इन्द्राय नमः । इत्याघारौ । इदं प्रजापतये न ममेत्यादि वरः सर्वत्र त्यागं कुर्यात् । अग्नये नमः । सोमाय नमः । इत्याज्यभागौ । अग्नये नमः । वयवे नमः । सूर्याय नमः । अग्नीवरुणाभ्यां नमः । द्विः अग्नये नमः । वरुणसवितृविष्णुविश्वेदेवमरुत्स्वर्केभ्यो नमः । वरुणायादित्यायादितये प्रजापतये नमः । इति न वा । ततस् त्रिर् अग्नये मृत्यवे च जुहुयान् न वा । ततः कन्याञ्जलाव् उपस्तीर्य वध्वाः भ्राता तत्स्थानो वान्यः शमीपलाशमिश्रान् लाजान् शूर्पाद् अञ्जलिना द्विः क्षिपति । ततो ऽभिघार्य तिष्ठन्ती अग्नये नम इति त्रिर् जुहुयात् । मन्त्रो वरस्यैव । ततः वरो वध्वा दक्षिणं हस्तं साङ्गुष्ठम् उत्तानम् उत्तानेन हस्तेन गृह्णीयात् । तत्र मन्त्रः भगोर्यमसवितृभ्यो नमः ।

वित्तसौम्यगुणैर् युक्ता वीरसूर् जीवसूर् भव ।
कुले मदीये सम्राज्ञी मच्चित्तानुगता सदा ॥

इति । ततो गृहीताम् एव वधूम् उत्तरतो ऽग्नेर् दक्षिणेन पदाश्मानम् आरोहयति । कन्यायै नम इति । ततः सरस्वत्यै नम इति । गाथा गायन्ति । ततो ऽग्नये नम इति । अग्निं परिक्रम्य । पुनर् द्विर् लाजादि परिक्रमान्तं कृत्वा । चतुर्थे शूर्पपुटेन वधूभ्राता सर्वलाजान् कन्याञ्जलाव् आवपति । तान् भगाय नम इति तिष्ठन्ती जुहोति । ततो ऽग्निं चतुर्थे परिक्रम्योपविश्य, ब्रहान्वारब्धः प्रजापतये नम इति हुत्वोत्तरतः उदक्संस्थान् सप्त तण्डुलपुञ्जान् कृत्वा वधूं विष्णवे नम इति दक्षिणेन पदा वरः सप्तपदानि कामयति । इषे नमः । विष्णवे नमः । सर्वत्र ऊर्जे नमः । रायस्पोषाय नमः । मायोभव्याय नमः । प्रजाभ्यो नमः । ऋतुभ्यो नम इति । एतैर् इति केचित् । ततः सप्तमे पदे गुरुः द्वयोः शिरसी सन्निधाय । पूर्वकुम्भोदकेन वर आम्रपल्लवैर् अभिषिञ्चेत् । वरेण सूर्यम् उदीक्षस्वेत्य् उक्त्वा सूर्याय नम इति सूर्यं पश्येत् । मम तव चित्तवाग्भ्यो नम इति वधूदक्षिणांसोपरि हस्तं नीत्वा हृदयम् आलभ्य उत्तरतो वधूम् उपवेश्य वध्वै नम इत्य् अभिमन्त्र्य । तस्याः सीमन्ते सिन्दूरं दत्वान्यो वरो वा वधूम् उत्थाप्य गोऽश्वपुरुषेभ्यो नम इत्य् आनडुहे रक्तचर्मणि वधूम् उपवेश्याग्नये स्विष्टकृते नम इति हुत्वा संस्रवप्राशनम् । प्रणीतानां पवित्राभ्यां मार्जनम् । तयोर् अग्नौ क्षेपः । आचार्याय गोदानम् । प्रणीताविमोकः । ब्रह्मणे पूर्णपात्रं विप्रेभ्य आमान्नसङ्कल्पः । दिने विवाहे रात्रौ ध्रुवम् उदीक्षस्वेति वरप्रेषिता वधूर् ध्रुवाय नम इति पश्येत् । ततो ऽब्दं द्वादशरात्रं षड्रात्रं त्रिरात्रं वाक्षारलवणाशिनौ ब्रह्मचारिणाव् अलङ्कुर्वाणाव् अधःशायिनौ दम्पती स्याताम् । तैलाक्षतचन्दनादि यथाचारं कुर्यात् । चतुर्थ्याम् अपररात्रे पञ्चभूसंस्कारान् कृत्वा । विवाहाग्निं संस्थाप्य । ब्रह्मोपवेशनादि समिदाधानान्तं प्राग्वत् कुर्यात् । तत्राज्यं निरुप्य स्थाल्यां तूष्णीं चतुरो निरुप्य तथैव त्रिः प्रोक्ष्य त्रिः प्रक्षाल्याग्नौ पक्त्वा [११८] समिधो ऽभ्याधायाग्निं पर्युक्ष्याघाराज्यभागान्ते ऽग्नये प्रायश्चित्ताय नमः । एवं वायवे प्रायश्चित्ताय नमः । सूर्याय प्रायश्चित्ताय नमः । चन्द्राय प्रायश्चित्ताय नमः । गन्धर्वाय प्रायश्चित्ताय नमः । नवाहुत्यन्ते प्रजापतये नम इति चरुं हुत्वोदकुम्भात् संस्रवान् आदायाग्निवायुसूर्यचन्द्रनक्षत्रगन्धर्व-प्रजापतिभ्यो नम इति वधूशिरसि दत्वा । मम व्रतानुसारिणी भवेत्य् उक्त्वोत्तरतो ऽग्नेश् चरुशेषं प्राणेभ्यो नमः । अस्थिभ्यो नमः । मांसेभ्यो नमः । त्वचे नम इति वधूं प्राशयित्वा ताम् आचमय्याज्येनाग्नये स्विष्टकृते नम इति हुत्वा । अग्न्यादिप्रजापत्यन्ता नवाहुतयः । प्राशनार्थं भिन्नपात्रे संस्रवाः । संस्रवप्राशनं मार्जनपवित्र-प्रतिपत्तिर् गुरवे दक्षिणां ब्रह्मणे पूर्णपात्रम् आमान्नदानं चेति । स्मृतिकौमुद्यां तु, शूद्रस्य को ऽपि होम नेत्य् उक्तम् । तन् न । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैर् इत्य् अस्य शूद्रे ऽप्य् अविशेषात् । ततो वरस्य तत्पक्षीयाणां पूजनं वरमात्रे वंशपात्रदानं च कार्यं कन्यापित्रेति केचित् । तद् यथा षोडशलघुशूर्पयुतवंशपात्रे उमामहेश्वरौ सम्पूज्य प्रार्थयेत् ।

ऐरिणी त्वम् उमा देवी महेशो गिरिजापतिः ।
अतस् त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥
सवस्त्रां च सदीपां च शूर्पैः षोडशभिर् युताम् ।
वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥

इत्य् उक्त्वा, कृतस्य कन्यादानस्य सम्पूर्णफलप्राप्त्यर्थम् इदं वंशपात्रं वरमात्रे सम्प्रददे न ममेत्य् उक्त्वा, पठेत् ।

वंशो वंशकरश्रेष्ठो वंशो वंशविवर्धनः ।
अनेन वंशदानेन तुष्टस् त्व् ऋद्धिं करोतु मे ॥
वंशपात्रम् इदं पुण्यं वंशजातसमुद्भवम् ।
दानानाम् उत्तमं दानम् अतः शान्तिं प्रयच्छ मे ॥

इति । इदं केचिन् न कुर्वन्ति । ततः कन्यापिता ।

अष्टवर्षा त्व् इयं कन्या पुत्रवत् पालिता मया ।
इदानीं तु मया तुभ्यं दत्ता स्नेहेन पाल्यताम् ॥ इति ।

वराङ्के वधूम् उपवेशयेत् । ततो वरो यानेन वध्वा सह गृहे गत्वा तत्र श्रियं सम्पूज्य स्थापितानां मातॄणां मण्डपदेवतानां च पूजां कृत्वा विसृज्य वस्त्रग्रन्थिकङ्कणमोक्षौ कृत्वा विप्रान् पूजयेत् । वध्वा गृहप्रवेशे मण्डपोद्वासनकाले ऽन्यश् च विशेषो मत्कृते निर्णयसिन्धौ ज्ञेयः । एते संस्काराः सच्छूद्राणाम् । एवं वक्ष्यमाणम् आह्निकाद्य् अपि तेषां नियतम् । सच्छूद्राणां विवाहमात्रम् ।

इति श्रीकमलाकरभट्टकृते शूद्रधर्मतत्त्वे शूद्रस्य विवाहप्रयोगः

संस्कारादिप्रयोगकरणं च समाप्तम् ।

समाप्तम् इदं द्वितीयं प्रकरणम् ।

मराठी

नन्तर, विवाहाच्या पूर्वदिवशी किंवा त्याच दिवशी कन्येच्या, व वराच्या बापाने, अभ्यङ्गस्नान करून, ग्रहमख, विनायकशान्ति16 वगैरे करून, देशकालसङ्कीर्तन करून, अमुकस्य विवाहाङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजावसोर्धाराशचीपूजा नान्दीमुखानि श्राद्धानि करिष्ये । असा सङ्कल्प करून, पुण्याहवाचनादि पूर्वोक्त रीतीने क रून तान्दुळान्नी भरलेल्या दोन कलशांवर नव्या सुपाम्त शाखां-(आम्ब्याच्या फान्द्यां)वर नन्दिनी, नलिनी, मैत्रा, उमा, आणि पशुवर्धिनी, व शस्त्रावर भगवती याञ्चे मातृकाञ्च्या जवळ आवाहन करून, ते सूप वगैरे घरान्तील देवाजवळ ठेवावे, आणि चवथ्या दिवशी त्या मण्डपदेवताञ्चे पूजन करावे.

पिवळ्या सुताने कङ्कण बान्धून, मुलीच्या ७ किंवा ५ हा ताञ्च्या परिमाणाने ७, किंवा ५ पायऱ्याञ्ची वेदि (बोहले ) करावी. “चार हस्तपरि मित वेदी असावी,” असे हरिहर ह्मणतो. वराची सीमान्तपूजा17 करून, आपल्या घरास आ लेल्या वरास सन्मानाने आसनावर बसवावा. नन्तर, आचार्याने बोहल्यावर, हमचौक एक हाताचे स्थण्डिल करून, त्याला दर्दानी परिसमूहन-( भोवताली दर्भ घालणे) करून त्यावर शेणकाला शिम्पडून, यज्ञियवृक्षाच्या18 समिधेनें19 पूर्वेस शेवट होईल अशा ३ रेघा काढून, ३ वेळ मातीचा उद्धार करून, त्या म्थण्डिलावर प्रोक्षण, व अग्निप्रतिष्ठापन करून, पूर्वाभिमुख-(पूर्वेस तोण्ड करून ) बसलेल्या वराची मधुपर्कपूजा करावी.

ती असी की, कन्येच्या बापाने वरास आसन देऊन, त्या आसनाच्या मागे उभा असलेल्या वरास, साधु भवानास्तामर्चयिष्यामो भवन्तं । असें ह्मणावें वरानें-अर्चय असे ह्मणावे. मग, विष्टरः असे ३ वेळ ह्मणून दात्याने पश्चिमाभिमुख राहून,-प्रतिगृह्यताम् । ह्मणून २५ दर्भाचा कूर्च वराम द्यावा. वरान-आसनाच्या मागे उभा राहून तो कूर्च घेऊन,-“वि धराय नमः” ह्मणून तो आसनावर ठेवून, त्यावर बसावे. मग अन्यानें-पाचं असे ३ वेळ झटले असतां गन्ध, दूर्वा, अक्षता याही युक्त उदक कन्यादात्यान्न - पति गृह्यतां ह्मणून वरास द्यावे. वराने ते घेऊन त्याने प्रथम डावा, व मग उजवा पाय धुवावा. त्या वेळी दुसरें एक आसन अन्यानें-विष्टरः असे ३ वेळ ह्मणून निवेदन केलेले आपल्या हाताम्त घेऊन, दात्याने वराच्या पायाङ्खाली द्यावे. मग गन्ध, पुष्प, अक्षता, दर्भ, तीळ, मोहन्या, दही, व दूर्वा यांहीं युक्त उदक घेऊन, अन्य पुरुषाने - अर्घः20 असे ३ वेळ ह्मणून दिल्या वर ते आपल्या हातात घेउन दात्यान-प्रतिगृह्यतां ह्मणून वरास द्यावे.

वराने “अद्भ्यो नमः” ह्मणून ओञ्जळीनं घेऊन, मस्तकानें वन्दन करून, भूमीवर टाकावे. मग आच मनीयं असें ३ वेळ ह्मणून, अन्यानं-दिलेले उदक दात्याने वरास द्यावेम्. वराने तें १ वेळ पिऊन आचमन करावेम्. मग अन्याने मधुपर्कः असे ३ वेळ ह्मणून दिलेले, दात्याने आपले हाताम्त घेऊन, कांस्यपात्राम्त असलेले व तसल्याच पात्राने झाङ्कलेले दहीम्, मध, किंवा तूप, वराने दात्याच्या हाताम्त असतां उघडून, ते-“सवित्रे नमः” या मन्त्राने पा हुन, पुनः त्याच मन्त्राने आपल्या हातात घेऊन, डावेकडे ठेवून, “मधुपर्काय नमः” या मन्त्राने अनामिकेने ढवळून, अनामिका, व अङ्गुष्ठ याने त्यान्तील थोडे बाहेर शिम्पडून पुनः असेम्च २ वेळ करून, त्या मन्त्रान्नीच ३वेळ प्यावम्. किंवा “मधुपकोय नमः” ह्मणून, प्यावे. “प्रथम आङ्गठ्याने, आङ्गठा व अनामिका यान्नी २ या, आणि अङ्गुष्ठ, व मध्यमिका यान्नी ३ या वेळी ढवळून प्यावं,’ असे स्मृतिकौमुदीत साङ्गितले आहे. ते असें कां साङ्गितले ? त्याचा विचार करावा. नन्तर बाकी राहिलेले असञ्चराम्त21 (एकीकडे) ठेवून, २वेळ आचमन करावे, नन्तर पुनः आचमन करून, “वाचे नमः” याने मुखाम, “प्राणाय नमः"नासिकेस, “चक्षुभ्यां नमः” नेत्रांस, “श्रोत्राभ्यां नमः” कर्णास, “बलाय नमः” बाहूंस, “ओजसे नमः” माण्ड्यांस, व “अङ्गेभ्यो नमः” ह्मणून सर्वाङ्गाम्स स्पर्श करावा.

नन्तर इतराने ३ वेळ-गौः असें मटले असतां ती घेऊन, “ रुद्राणां मात्रे वमूनां दुहित्रे आदित्यस्खले गवे नमः"। ममार्चकस्य च पाप्मा हतः । असे हळूच ह्मणून,-उत्सृजत तृणान्यत्तु । असे मोठ्याने मणून, गाय सोडावी. नन्तर दात्याने, वस्त्र, अलङ्कार, गन्ध, माळादिकान्नी वरपूजा क रावी. नन्तर उत्तम लग्नावर वधूवराम्मध्ये अन्तःपट22 धरून, वराने वधूचे मुख पहावे23.

अन्य ग्रन्थकर्ते-" लग्नसमयीं पाणिग्रहण करावे, असे मानितात." नन्तर अन्तःपट दूर करून वराने वधूमुख पहावेम्. येथेच होम करण्याचा पक्ष घेतला असेल तर, अग्निस्थापन करून अग्नीच्या मागें तृणफल किंवा कट ठेवून, कन्येच्या बापाने दिलेल्या ४ वस्त्रान्तून दोन - आयुष्मतीदं वासः परिधत्स्व २ ह्मणून एकेक द्यावेम्; तिने “वाससे नमः२” ह्मणून ते परिधान करावेम्. नन्तर दात्याने - वधूम् ईक्षस्व ह्मणून पाठवलेल्या वराने वधूस पहावेम्. “ यानन्तर कन्यादान करावें," असें हरिहर ह्मणतो. अन्य कित्येक ग्रन्थकर्ते तर- “कन्यादाना नन्तर वस्त्रादिक द्यावेम्. " असें ह्मणतात. नन्तर- “करोतु स्वस्ति ते ब्रह्मा०’ या ७ मन्त्रान्नी अक्षतारोपण केल्यावर, कन्येचा बाप उत्तराभिमुख असून, त्याने आपल्या उ जव्या बाजूस स्वीस बसवून, हाताम्त दर्भपवित्र घालून, आचमन करून देशकालसङ्कीर्तना. नन्तर,

मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादि कन्यादानकल्पोक्तफलावाप्तये अनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसन्तत्या -(ब्राह्मविवाह असेल तर,) द्वादशावरान् - द्वादशपरान् - (प्राजापत्यविवाहपक्षी ) अष्टौ अवरानष्टौ परान् पुरुषान्पवित्रीकर्तुम् आत्मनश्च लक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना - (अथवा) प्राजापत्यविवाहविधिना अलङ्कृत्य कन्यादानमहं करिष्ये ।

असा सङ्कल्प करून मन्त्र ह्मणावे. ते -

कन्यां कनकसम्पन्नां कनकाभरणैर्युतां ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥ १ ॥
विश्वम्भरः सर्वभूतः साक्षिण्यः सर्वदेवताः ।
इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥ २ ॥

नन्तर कांस्यपात्राम्त वराच्या हातावर वधूचा हात, व त्यावर आपला हात ठेवून, वराच्या हातान्त - सुमोक्षितमस्तु । शिवा आपः सन्तु । सौमनस्यमस्तु । असें ह्मणून – कन्या तारयतु । पुण्यं वर्धताम् । शान्तिस्तुष्टिः पुष्टिश्चास्तु । तिथिकरणमुहूर्तनक्षत्रसम्पदस्तु । पुण्याहं भवन्तो ब्रुवन्तु । असे दात्याने मदल्यावर ब्राह्मणान्नी – पुण्याहं अमें ह्मणावे. नन्तर, यजमानान्नम् - स्वस्ति भवन्तो ब्रुवन्तु । ऋद्धिं भवन्तो ब्रुवन्तु । श्रीरस्त्विति भवन्तो ब्रुवन्तु । अमुकदासोहं मम समस्त पितॄणाम्० इत्यादि - पूर्वोक्तलक्ष्मीनाराणप्रीतये - येथपर्यम्त ह्मणून-

काश्यपगोत्रस्य अमुकदासस्य प्रप्रौत्राय विष्णुदासस्य पौत्राय शिवदासस्य पुत्राय काश्यपगोत्राय देवदत्तदासाय वराय । काश्यपगोत्रां चैत्रदासस्य प्रपौत्रीं मैत्रदासस्य पौत्रीं भोजदासस्य मम पुत्रीम् अमुकप्रेष्यां (किंवा अ० नानी) कन्यां प्रजापतिदेवत्यां यथा शक्त्यलङ्कृतां - ३

वेळ असेच ह्मणून,-

शतज्योतिष्टोमातिरात्रफलसमफलप्राप्तिकामः प्रजोत्पादनार्थं सहधर्मचरणार्थं (प्राजापत्यविवाहाम्त) सहधर्मं चरन्तं भार्यात्वेन तुभ्यमहं सम्प्रददे ।

ह्मणून, दर्भ व यव, यान्नी युक्त उदक आणि कन्येचा हात वराच्या हाताम्त द्यावा. “मयापि दत्ता असें मुलीच्या आईनेंही ह्मणावें;” असे कित्येक ह्मणतात. येथे “शूद्रान्नी गोत्राचा उच्चार करूं नये, " असे कित्येक ह्मणतात. नन्तर वराने-प्रतिरक्षामि स्वस्ति । असें ह्मणून भूमिस्पर्श करावा.

गौरीं कन्यामिमां भो वं यथाशक्ति विभूषिताम् ।
गोत्राय चैव दासाय तुभ्यं दत्तां समाश्रय ॥ १ ॥
कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः ॥
कन्ये मे पृष्ठतो भूयास्त्वद्दानात्स्वर्गमाप्नुयाम् ॥ २ ॥
मम वंशकुले जाता पालिता वत्सराष्टकम्24
तुभ्यं दास मया दत्ता पुत्रपौत्रविवर्धिनी ॥ ३ ॥

हे मन्त्र कन्येच्या पित्याने ह्मणावे.नन्तर-कन्यादानप्रतिष्ठार्थमिदं सुवर्ण गोमिथुन च दक्षिणा सम्पददे । असें ह्मणून सोने, गाय, व बैल वरास द्यावी. नन्तर शक्ति असल्यास ताम्ब्याची कांशाची वगैरे पात्रे, गायी, घोडे, दासी, दास, वगैरे वस्तु आन्दण चाव्या. तसेम्च वरपक्षीयाम्स कन्येच्या बान्धवान्नी यौतक25 द्यावे.

नन्तर-“वर, व त्याचा बाप इत्यादिकान्नीही वधूच्या बापादिकाम्स असेम्च द्यावें,” असे कित्येक ग्रन्थकर्ते मण तात. " विवाहहोमान्ती यौतक द्यावें,” असे कित्येक ह्मणतात. नन्तर चार वेळ किंवा पाम्च वेळ वधूवराम्स सुताने वेढून वरचे सूत खालच्या मार्गाने, व खालचे सूत्र वरच्या मार्गाने काढून ते त्रिगुणित ( तिप्पट ) व पिवळे करून खालचे सूत वधू वराच्या उ. जव्या हातास, व वरचे सूत वराने वधूच्या डव्या हातास कङ्कण26 बान्धावेम्.

वराने बान्धते वेळी मन्त्र अणावा तो -

येन बद्धो बली राजा दानवेन्द्रो महाबलः ॥
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥ १ ॥

नन्तर वधूवरान्नी दुधाने ओलसर केलेल्या अक्षताञ्चें परस्पर आरोपण करावे. त्याम्त प्रथम वधूने, व नन्तर वराने करावे असा क्रम आहे. त्याचे मन्त्र - “भगाय नमः । यज्ञाय नमः । श्रियै नमः । धर्माय नमः । प्रजायै नमः । यशसे नमः” । नन्तर पूर्वाभिमुख बसून कन्येस २ वस्त्रे द्यावी. तिनें-“वासोभ्यां नमः” । ह्मणून ती परिधान करावी. नन्तर वराने-

माङ्गल्यतन्तुनानेन भर्तृजीवनहेतुना ॥
कण्ठे बध्नामि सुभगे सा जीव शरदः शतम् ॥ १ ॥

या मन्त्राने वधूच्या गळ्याम्त सौभाग्यसूत्र मङ्गळसूत्र बान्धावे. मग “विश्वेदेवायुमातरिश्वधातृभ्यो नमः” ह्मणून वधूचे मुख प हावेम्. येथे कौसुम्भसूत्रानेही कङ्कण बान्धावे असे आहे, परन्तु तें वैकल्पिक आहे. नन्तर बो हल्यावर पूर्वाभिमुख तेजणी किंवा वीरण कटावर अग्नीच्या मागे बसून, त्याच्या दक्षिणेस किंवा ईशान्येस मङ्गलकुम्भ खाद्यांवर घेऊन सप्तपदी होईपर्यम्त कोणीएकाने उभे रहावे. अग्नीच्या उत्तरेस २ पाषाण अलङ्कृत असे ठेवावे. येथें वराने वधूचें नाम्व घेऊ नये असा आचार आहे. नन्तर वधूच्या बापानें “एकमेकाम्स अवलोकन करावें.” असे साङ्गितल्यावर वधूवरान्नी एकमेकाम्स पहावेम्, त्या वेळी-

अरौद्रचक्षुरपतिघ्नी शिवा च सुमनास्तथा ॥
सुवर्चाः पुत्रसूर्देवकामा च सुखदा भव ॥ १ ॥

असें वराने ह्मणावेम्. आणखी-“सोमगन्धर्वाग्निपूषभ्यो नमः” असेही मणावेम्. “शूद्रास गृह्यसूत्राध्ययनाचा अभाव आहे यास्तव; सूत्रोक्त होम, व तत्सम्बन्धी अङ्गसमुदाय याञ्चे ज्ञान नाही यास्तव, व प्रयुक्ति (प्रयोग) शक्तीच्या अभावास्तव त्याञ्च्या विवाहाम्त होमच नाही, " असे मदनपाल ह्मणतो. अन्य ग्रन्थकार तर-“प्रधान (मुख्य) भूत विवाहाविषयी शुद्राम्स अधिकार सिद्ध असतां स्थपती (सुतार) च्या इष्टीप्रमाणे विवाहाच्या होमादि अङ्गाञ्चे ठायींही मन्त्र ऐकणे. व त्याञ्चा उपदेश इत्यादिकानें ज्ञान होण्याचा सम्भव आहे; ह्मणून शूद्रानीही विवाहाम्त होम करावा,” असें मणतात. होम करण्याचा प्रकार पुढे लिहिल्याप्रमाणे,–आचार्याने अग्नीच्या दक्षिणेस ब्रह्मा सन (कांहीं दर्भ) देऊन, ब्रह्मानामक ऋत्विनास त्यावर बसवून, मातीच्या पात्राम्त पाणी भरून, त्यावर दर्भ ठेवून, अग्नीच्या उत्तरेस दर्भावर ते ठेवून, अग्नीस दर्भानी पूर्वेपा सून परिस्तरण (४ । ४ दर्भ) घालून, पात्रासादन करावेम्. ते असे की,- ३ गवताच्या काड्या, २ पवित्रम्, प्रोक्षणीपात्र, आज्यस्थाली, चरुस्थाली, सम्मार्गदर्भ27, उपयमनदर्भ14, ३ समिधा, युवा, आज्य, तन्दुल, लाह्या, सूप, संस्रावपात्र, अश्मा (घोडा), बैलाचे चर्म, दक्षिणा, व गाय ही अग्नीच्या उत्तरेस ठेवावी. नन्तर १ टीचभर २ दर्भ तोडून प्रोक्षणीस संस्कार करून, त्या दऱ्यान्नी उत्पवन करून, ते दर्भ प्रोक्षणीवर ठेवून, उजव्या हाताने डाव्या हस्तावर घेऊन, खाली ठेवून पात्र प्रोक्षण करून ते खाली ठेवून, आज्यस्थालीत तूप घालून, ते अग्नीत उजव्या भागाम्त ठेवून, पेटलेल्या दान्नी लाह्यांसह ३ वेळ त्याच्या परितः भ्रमण करून, जुवा तापवून त्यावर दीनी मार्जन करून, प्रोक्षणीपात्रोदकानें प्रोक्षन पुनः तापवून, तो दक्षिण बाजूस ठेवून आज्य खाली काढून त्याचे उत्पवन करून, अवेक्षण करून, दूर करून, पुनः प्रोक्षणीचे उत्पवन व अवेक्षण करून, उपयमन दर्भ घेऊन, उठून पूर्वी ठेवलेल्या ३ समिधा अग्नीत घालून, प्रोक्षणीतल्या उदकानें पर्युक्षण करून, वराने व ब्रह्माने उजव्या हस्ताने अन्वारब्ध अशा गुरूने उनव्या गुडघ्याच्या आन्तून हात घेऊन जुन्याने हवन करावे.

त्याचे मन्त्र,- “प्रजापतये नमः । इन्द्राय नमः” या दोन मन्त्रान्नी आघारहोम करावा. वरानें “इदं प्रजापतये न मम" असा सर्वत्र त्याग करावा. “अग्नये नमः । सोमाय नमः" यान्नी आज्यभाग करावे. “अग्नये नमः । वायवे नमः । सूर्याय नमः । अग्निवरुणाभ्यां नमः । (२ वेळ) अग्नये नमः। वरुणाय नमः । सवित्रे नमः । विष्णवे नमः । विश्वेदेवेभ्यो नमः । मरुद्भ्यो नमः । वरुणायादित्यायादितये प्रजापतये नमः ।” यान्नी हवन करावे किंवा न करावे. नन्तर विरग्नि मृत्यु याम्स हवन करावें अथवा न करावे. नन्तर वधूच्या ओञ्जळीत उपस्तरण करून, तिच्या बन्धूने किंवा तत्सम दुसन्याने शमीच्या पानान्नी मिश्र अशा लाह्या सुपान्तून ओम्ज ळीने २ वेळ मुलीच्या औजळीत घालाव्या. मग त्यांवर अभिधार करावा. वधूने वरासह “अग्नये नमः” या मन्त्राने ३ वेळ हवन करावे. येथे मन्त्र वरानेच ह्मणावा. नन्तर वराने वधूचा उताणा उजवा हात अङ्गुष्ठसह आपल्या उताण्या हाताने घ्यावा. त्या वेळी मन्त्र

भगोऽर्यमसवितृभ्यो नमः ॥
वित्तसौम्यगुणैर्युक्ता वीरसूर्जीवसूर्भव ॥
कुले मदीये सम्राज्ञी मच्चित्तानुगता सदा ॥ १ ॥

असा ह्मणावा. नन्तर, हस्त ग्रहण केलेल्या वधूस अग्नीच्या उत्तरेस उजव्या पायाने अश्म्या-( दगडा) वर उभी करावी. त्या वेळी - “कन्यायै नमः । सरस्वत्यै नमः” हे मन्त्र ह्मणावे. या वेळी बायकान्नी मङ्गलककारक कांहीं गाणी गावी. मग-“अग्नये नमः” याने १ वेळ अग्नीस प्रदक्षिणा करावी. पुनः २वेळ ला स्याञ्च्या होमापासून अग्निप्रदक्षिणेपर्यन्तचे सर्व असेम्च करून, चवथ्या वेळेस सूप वाकवून त्या घालणान्याने वधूच्या ओञ्जळीत राहिलेल्या सर्व लाह्या घालाव्या. वधूनें-“भगाय नमः” ह्मणून त्याञ्चे हवन करावे. या खेपेस अग्निप्रदक्षिणा करून खाली बसून, ब्रयाने अन्वारब्ध असून - “प्रजापतये नमः” ह्मणून हवन करून, उत्तरेस ७ तान्दुळाञ्चे पुञ्जके करीत ते उत्तरेस सम्पवून, वधूस– “विष्णवे नमः” या मन्त्राने उजव्या पावलाने वराने ७ पावलें बरोबर चा लवावे. त्याचे मन्त्र - “इषे नमः १ विष्णवे नमः २ सर्वत्र ऊर्जे नमः ३ रायस्पोषाय नमः ४ मायोभव्याय नमः ५ प्रजाभ्यो नमः ६ ऋतुभ्यो नमः ७” असें ह्मणावे, असे कित्येक ह्मणतात. नन्तर, सातव्या पाउलीं गुरूने वधूवराञ्ची मस्तकें जवळ करून, त्यांवर पूर्वी स्थापित कलशान्तील उदकाने आम्ब्याच्या पानान्नी अभिषेक करावा. वराने- सूर्यमुदीक्षस्व असें मटल्यावर वधूनें - “सूर्याय नमः” ह्मणून सूर्याम पहावेम्. “मम तव चित्त वाग्भ्यो नमः” ह्मणून, वराने वधूच्या उजव्या ङ्कन्धावर आपला हात नेऊन तिच्या हृद यास स्पर्श करून, उत्तरेस वधूस बसवून, “वध्वै नमः” याने अभिमन्त्रण करून, वधूच्या भाङ्गाम्त सेन्दूर लावून, दुसऱ्याने किंवा वरानेच वधूस उठवून, “गोऽश्वपुरुषेभ्यो नमः" ह्मणून पूर्वस्थापित बैलाच्या लाल चर्मावर15 वधूस बसवून, “अग्नये स्विष्टकृते तमः” ह्मणून स्विष्टकृत् हवन करून, संस्रावाचे प्राशन, व प्रणीताञ्चे पवित्रान्नी मार्जन करून, ती पवित्रं अग्नीत टाकावी.

आचार्यास गोदान द्यावे. प्रणीतेचा विमोक करावा. ब्रह्याला पूर्णपात्र दे उन ब्राह्मणाम्स आमान्ने देण्याचा सङ्कल्प करावा. दिवसा विवाह झाला असताम् - सूर्यमुदीक्षस्व । व रात्री विवाह झाला असतां ध्रुवमुदीक्षस्व ह्मणून, वराने पाठविलेल्या वधूनेम्, ध्रुवाय नमः" ह्मणून त्यास पहावा. नन्तर १ वर्ष, १२ रात्रि, ६ रात्रि, किंवा ३ रात्रि खारट, तिखट, आम्बट वगैरे पदार्थ न खाता दोघान्नी ब्रह्मचर्याने असून, निरन्तर अलङ्कार वगैरे धारण करून, पलङ्गावर न निजतां पूर्वोक्तप्रमाणे रात्रि घालवाव्या. तेल अक्षता, चन्दन वगैरे आचाराप्रमाणे एकमेकाम्स द्यावे. चवथ्या दिवसी मध्यरात्रीनन्तर पञ्चभूसंस्कार28 करून विवाहाग्निस्थापन करून ब्रह्मोपवेशनापासून समिदाधानापर्यम्त पूर्ववत् करावे.

नन्तर आज्य निर्वाप करून, स्थालीत तूष्णीं ४ मुष्ठि तान्दुळाञ्चा निर्वाप करून, ३वेळ प्रोथून ते धुवून अग्नीवर शिजवून, समिधांवर ठेवून, अग्नीस पर्युक्षण करून; आज्यभागान्ती -

अग्नये प्रायाश्चित्ताय नमः वायवे प्रायश्चित्ताय नमः । सूर्याय प्रायश्चित्ताय नमः । चन्द्राय प्रायश्चित्ताय नमः । गन्धर्वाय प्रायश्चित्ताय नमः ।

यान्नी हवन करून, पूर्वोक्त आघार, व आज्यभागाच्या ४, व ह्या ५ मिळून ९ आहुति झाल्यावर-“प्रजापतये नमः” णून,चरु होम करून, कुम्भान्तून संस्रव घेउन - “अग्निवायुसूर्यचन्द्रनक्षत्रगन्धर्वप्रजापतिभ्यो नमः” ह्मणून ते संस्रव वधूच्या मस्तकावर देऊन,-“मम व्रतानुसारिणी भव” असें ह्मणून, अग्नीच्या उत्तेरस चरुशेष घेऊन,-“प्राणेभ्यो नमः । अस्थिभ्यो नमः। मांसेभ्यो नमः । त्वचे नमः” या मन्त्रान्नी ते वधूकडून भक्षण करवून, तिच्या कडून आचमन करवून, आज्याने-‘अग्नये स्विष्टकृते नमः"। याने स्विष्टकृत् हवन करावेम्. अग्नीपासून, प्रजापतिपर्यम्त ९ देवाताम्स आहुति द्याव्या. पिण्यास संस्त्रव घ्यावयाचे ते दुसन्या पात्राम्त घेऊन वधूनें प्यावे; नन्तर मार्जन, पवित्रत्याग, गुरुदक्षिणा, ब्रयाम पूर्णपात्र, ब्राह्मणाम्स आमान्ने द्यावी. स्मृतिकौमुदीत “शूद्रास कोणचाच होम करण्याचा अधिकार नाही,“असे साङ्गितले आहे. ते योग्य नाही. कारण, “ती( कन्या )मेली असतांही त्याशी (व राशी) मन्त्र, आहुति, व्रतें इत्यादिकान्नी ऐक्य पावली.“या वाक्याचा शूद्रांविषयी काही जर विशेष असता तर त्याचे मत योग्य होते, परन्तु तसं नाही. नन्तर, वर व वहाडी याञ्ची पूजा वस्त्रालङ्कारान्नी करावी. वराच्या आईस वंशपात्र (ऐरिणी ) दान करावे. हे ऐरिणीदान “मुलीच्या बापासही द्यावें,” असे कित्येक ग्रन्थकर्ने ह्मणतात. ते देण्याचा प्रकार अमा की,-१६ सुपल्या एका वंशपात्राम्त (पाण्टीन ) घालून, त्याम्त उमा व महेश्वर याञ्ची गन्धादिकान्नी पूजा करून, त्याञ्ची -

एरिणी त्वमुमा देवि महेशो गिरिजापतिः ॥
अतस्त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥ १ ॥
सवस्त्रां च सदीपां च शूर्पैः षोडशभिर्युताम् ॥
वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥२॥

या मन्त्रान्नी प्रार्थना करून, कृतस्य कन्यादानस्य सम्पूर्णफलप्राप्त्यर्थमिदं वंशपात्रं वरमात्र सम्पददे न मम । असें ह्मणून, पुढे-

वंशो वंशकरः श्रेष्ठो वंशो वंशविवर्धनः ॥
अनेन वंशदानेन तुष्टस्त्वृद्धिं करोतु मे ॥ १ ॥
वंशपात्रमिदं पुण्यं वंशजातसमुद्भवम् ॥
दानानामुत्तमं दानमतः शान्तिं प्रयच्छ मे ॥ २ ॥

या मन्त्रान्नी ते पात्र वरमातेला यावम्. ह एरिणी दान कित्येक करीत नाहीत. नन्तर कन्येच्या बापानं-

अष्टवर्षा त्वियं कन्या पुत्रवत्पा पालिता मया ।
इदानीं तु मया तुभ्यं दत्ता स्नेहेन पाल्यताम् ॥ १ ॥

हा मन्त्र ह्मणून वधूस वराच्या माण्डीवर बसवावे. नन्तर वगर्ने आपल्याम अनुकूल असेल त्याप्रमाणे घोडा, पालखी इ० यानाम्त उभयतां बसून आपल्या घराम्त शुभवेळी प्रवेश करून, तेथे ल. क्ष्मीपूजन, व पूर्वस्थापित मातृका आणि मण्डपदेवता याञ्ची उत्तम पूजा करून त्याञ्चे विसर्जन29 करावे.

पूर्वी बान्धलेल्या वस्त्रगाण्ठी, व हातान्तील कङ्कण सोडून, ब्राह्मणपूजन करावेम्. वधूसह गृहप्रवेश30, व मण्डपोद्वासन याञ्चे काल; व अन्यही एतत्सम्बन्धी अन्य विशेष31 निर्णयसिन्धूत पहावे.

याप्रमाणे गर्भाधानापासून विवाहापर्यन्त, साङ्गितलेले सर्व संस्कार, व पुढे साङ्गणार तें आन्हिक वगैरे ही सर्व कर्मे सच्छूद्राम्स32 विहित आहेत. असच्छूद्राम्स केवळ विवाहमात्र विहित आहे.

इति श्रीशूद्रधर्मतत्त्वप्रकाशे शूद्रस्य विवाहप्रयोगः संस्कारप्रयोगप्रकरणं च समाप्तम् ॥

द्वितीयप्रकरणं समाप्तम् ॥

मूलम्

[११३]

अथ प्रयोगः ।

“शूद्रस्य शूद्रापरिणयने मन्त्ररहितं क्रियामात्रं कार्यम्” इति हरिहरभाष्ये उक्तम् । तेन कातीयं कर्मोच्यते । तत्र विवाहोक्ते मुहूर्ते कन्यायाः पिता भ्रातान्यो वा बन्धुर् वरगृहं गत्वाचम्य देशकालौ सङ्कीर्त्य करिष्यमाणविवाहाङ्गत्वेन वाग्दानं करिष्य इति सङ्कल्प्य, गणेशं वरुणं च सम्पूज्य वरस्य पादप्रक्षालनं गन्धवस्त्राद्यैः पूजां कृत्वा, पूगीफलनारिकेरकुङ्कुमादिरञ्जितवस्त्रं चादायामुकप्रपौत्रायामुकपौत्रायामुक-पुत्रायामुकदासाय वरायामुकप्रपौत्रीम् अमुकपौत्रीम् अमुकपुत्रीम् अमुकनाम्नीं कन्यां तुभ्यं ज्योतिर्विदुक्ते मुहूर्ते दास्ये इत्य् उक्त्वा,

अव्यङ्गे ऽपतिते ऽक्लीबे दशदोषविवर्जिते ।
तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥ इति ।

पिता तु अहं दास्याम्य् असंशयम् इति वदेत् । स्नाते स्नाताम् अरोगिणीं वा पाठः ।

केचित् तु कन्यागृहे गत्वा तां सम्पूज्य,

अव्यङ्गे ऽपतिते ऽक्लीबे दशदोषविवर्जिते ।
इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ ॥

इति कन्यापिता वरबन्धुहस्ते दत्वा,

वाचा दत्ता त्वया कन्या वरार्थं स्वीकृता मया ।
कन्यावलोकनविधौ निश्चितस् त्वं सुखी भव ॥

इति कन्यापिता ।

वाचा दत्ता त्वया कन्या वरार्थं स्वीकृता1 मया ।
वरावलोकनविधौ

इत्य् ऊहेन वरपिता वदेद् इत्य् आहुः ।

ततः परस्परम् अर्चनविप्रपूजादि कार्यम् । आचाराद् धरिद्राचन्दनादि विवाहोक्ते मुहूर्ते कार्यम् ।

इति वाग्दानम् ।

मराठी

आतां विवाहाचा प्रयोग साङ्गतो ः

“शूद्रास समानवर्ण शूद्रकन्येशी होणाऱ्या विवाहाम्त मन्त्रावाञ्चून, सर्व कर्म मात्र करावें,” असे हरिहरभाष्याम्त साङ्गितले आहे. या वाक्याने कात्यायनोक्त कर्म करावें असे होते. त्याम्त प्रथम वाग्दान विवाहास उक्त असलेल्या मुहूर्तावर करावेम्. ते असे की, मुलीचा बन्धु किंवा अन्य जो कन्यादान करणारा असेल त्याने वराच्या घरी जाऊन आचमन करून देशकालसङ्कीर्तन करून,- करिप्यमाणविवाहाङ्गखेन वाग्दानं करिष्ये । असा सङ्कल्प करून, गणेश, व वरुण याञ्ची पूजा करून, वराचे पाय धुऊन, गन्धवस्त्रा दिकान्नी त्याची पूजा करून, सुपारी, नारळ, व कुङ्क्वाने रङ्गित वस्त्र हाताम्त घेऊन

अमुकप्रप्रौत्राय अमुकपौत्राय अमुकपुत्राय अमुकदासाय । अमुकप्रपौत्रीम् अमुकपौत्रीम् अमुकपुत्रीम् अमुकनाम्नीं कन्यां तुभ्यं ज्योतिर्विदुक्ते मुहूर्ते दास्ये ।

असें ह्मणून,

अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते13 ॥ तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥ १ ॥

हा मन्त्र ह्मणावा. जर, बापच स्वतः वाग्दान करणारा असेल तर पूर्वोक्त मन्त्राचा चतुर्थ चरण- “अहं दास्याम्यसंशयम्” । असा ह्मणावा. दुसन्या चरणाचा- “स्नाते स्नातामरोगिणीम्” असाहि पाठ आहे. कित्येक ग्रन्थकर्ते-“वरा च्या बापानें कन्येच्या गृहास जाऊन, वस्त्रादिकान्नी तिने पूजन करावे, व तिच्या बापाने

अव्यङ्गेऽपतितेऽक्लीबे दशदोषविवर्जिते ॥
इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ ॥ १॥

असा मन्त्र ह्मणून. कन्येच्या बापानें वस्त्रादि वराच्या बन्धूच्या हाताम्त देऊन,-

वाचा दत्ता मया कन्या वरार्थं स्वीकृता त्वया ॥
कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ १ ॥

असा मन्त्र कन्येच्या बापाने ह्मणावा. नन्तर वराच्या बापाने,

वाचा दत्ता त्वया कन्या पुत्रा(वरा)र्थं स्वीकृता मया ।
वरावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ १ ॥

असा मन्त्र ह्मणावा, ह्मणने वाग्दान होते असें ह्मणतात. नन्तर एकमेकाञ्चे पूजन, व ब्राह्मणाञ्ची पूजा करून, आचाराप्रमाणे हळदचन्दन इत्यादि विवाहोक्त मुहूर्तावर करावी.

इति शूद्रधर्मतत्त्वप्रकाशे वाग्दानप्रयोगः ॥

मूलम्

[११४]

ततः पूर्वदिने विवाहदिने वा प्रातः कन्यावरयोः पिताभ्यङ्गं कृत्वा, ग्रहविनायकशान्त्यादि कृत्वा, देशकालौ सङ्कीर्त्य, अमुकस्य विवाहाङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजा-वसोर्धाराशचीपूजानान्दीमुखानि श्राद्धानि करिष्ये इत्य् उक्त्वा, तानि पूर्ववत् कृत्वा, तण्डुलपूर्णकुम्भद्वये ऽविघ्नार्थं वंशपात्रे शाखासु,

नन्दिनी नलिनी मैत्रा ह्य् उमा च पशुवर्धिनी ।

शस्त्रे भगवतीं च मातृसन्निधौ संस्थाप्य चतुर्थदिने मण्डपदेवताः पूजयेत् । पीतसूत्रेण कङ्कणं बध्वा, कन्यायाः सप्तभिः पञ्चभिर् वा करैर् मितां पञ्चसप्तसोपानां वेदिं कुर्यात् । चतुर्हस्ता वेदीति हरिहरः । वरस्य सीमान्तपूजां कृत्वा गृहागतं वरं सम्मानेनोपवेशयेत् । तत आचार्यो वेद्यां हस्तमात्रं स्थण्डिलं दर्भैः परिसमूह्य, गोमयेनोपलिप्य, यज्ञियकाष्ठेन प्रागग्रास् तिस्रो लेखाः कृत्वा, त्रिर् मृदम् उद्धृत्याभ्युक्ष्याग्निं प्रतिष्ठाप्य वरस्य प्राङ्मुखस्य मधुपर्कपूजां कुर्यात् । यथा । कन्यापितासनं दत्वा, तस्य पश्चात् तिष्ठन्तं वरम् आह । साधु भवान् आस्ताम् अर्चयिष्यामो भवन्तम् इति । अर्चयेति वरः । ततो विष्टरो इत्य् अनेन त्रिर् उक्तेन दाता प्रत्यङ्मुखस् तिष्ठन् प्रतिगृह्यताम् [११५] इति कूर्चं पञ्चविंशतिकुशमयं च दद्यात् । तं वर आसनस्य पश्चात् तिष्ठन् गृहीत्वा विष्टराय नम इत्य् आसने दत्वोपविशेत् । ततो ऽन्येन त्रिः पाद्यम् इत्य् उक्ते गन्धदूर्वाक्षतायुतं पाद्यं दाता प्रतिगृह्यताम् इति दद्यात् । तेन वरः आदौ सव्यं ततो दक्षिणम् इति पादौ प्रक्षालयेत् । तदा14 दातान्यं विष्टरम् अन्येन त्रिर् निवेदितम् आदाय वरपादाधो दद्यात् । ततो गन्धपुष्पाक्षतकुशतिलसर्षपदधिदूर्वायुतम् अर्घ्यम् आदायान्येनार्घ्यम् इति त्रिर् उक्ते दाता प्रतिगृह्यताम् इति दद्यात् । वरस् तम् अद्भ्यो नम इत्य् अञ्जलिनादाय शिरसाभिवाद्य भूमौ क्षिपेत् । ततो ऽन्येनाचमनीयम् इति त्रिर् उक्त्वा दत्तं प्रतिगृह्य सकृत् प्राश्याचामेत् । ततो ऽन्येन मधुपर्क इत्य् उक्ते दात्रा दत्तं कांस्यस्थं तेनैव पिहितं दधि मधु घृतं वा वरो दातृहस्तस्थम् उद्घाट्य, सवित्रे नम इत्य् अवेक्ष्य, सवित्रे नम इति प्रतिगृह्य, वामे निधाय, मधुपर्काय नम इत्य् अनामिकयालोड्यानामिकाङ्गुष्ठाभ्यां बहिः क्षिप्त्वा, पुनर् एवं द्विः कृत्वा, ताभ्याम् एव त्रिः प्राश्नीयात् । मधुपर्काय नम इति वा । अङ्गुष्ठानामिकाभ्यां द्वितीयम् अङ्गुष्ठमध्यमाभ्यां तृतीयम् इति स्मृतिकौमुदी । तच् चिन्त्यम् । ततः शेषम् असञ्चरे निनीय, द्विर् आचम्य, पुनर् आचम्य, वाचे नमः मुखे, प्राणाय नमः नसोः, चक्षुर्भ्यां नमः चक्षुषोः, श्रोत्राभ्यां नमः कर्णयोः, बलाय नमः बाह्वोः, ओजसे नमः इत्य् ऊर्वोः, अङ्गेभ्यो नमः इत्य् अङ्गेषु । ततो ऽन्येन त्रिर् गौर् इत्य् उक्ते प्रतिगृह्य रुद्राणां मात्रे वसूनां दुहित्रे आदित्यस्वस्रे गवे नमः । ममार्चकस्य च पाप्मा हत इत्य् उपांशु उत्सृजत तृणान्य् अत्तु इत्य् उच्चैर् विसृजेत् । ततो दाता वस्त्रालङ्कारगन्धस्रगाद्यैर् वरं पूजयेत् । ततः सुलग्ने ऽन्तःपटं धृत्वा, मुखं निरीक्षेत ।

अन्ये तु लग्नसमये पाणिग्रहणम् इच्छन्ति । ततो अन्तःपटम् अपसार्य, वरो वधूमुखम् ईक्षेत । अत्र वाग्निं प्रतिष्ठाप्य पश्चाद् अग्नेस् तृणफलं कटं वा निधाय, कन्यापितृदत्त-वस्त्रचतुष्टयमध्ये द्वे आयुष्मतीदं वासं परिधत्स्वेति आवृत्त्या दद्यात् । सा च वाससे नम इत्य् आवृत्त्या परिदधीत15 । ततो दात्रा वधूम् ईक्षस्वेति प्रेषितो वधूम् ईक्षेत । ततः कन्यादानम् इति हरिहरः

अन्ये तु कन्यादानोत्तरं वस्त्राद्य् आहुः । ततः करोतु स्वस्ति ते ब्रह्मेत्याद्यैर् अक्षतारोपणान्ते कन्यापितोदङ्मुखः स्वदक्षिणे पत्नीम् उपवेश्य कुशपाणिर् आचम्य, देशकालौ सङ्कीर्त्य, मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादि कन्यादानकल्पोक्तफलावाप्तये ऽनेन वरेणास्यां कन्यायाम् उत्पादयिष्यमाणसन्तत्या – ब्राह्मपक्षे द्वादशावरान् द्वादश् परान् । प्राजापत्यपक्षे ऽष्टावरान् अष्टौ परान् पुरुषान् पवित्रीकर्तुम् आत्मनश् च लक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना प्राजापत्यविधिना वालङ्कृत्य कन्यादानम् अहं करिष्ये । इत्य् उक्त्वा पठेत् ।

कन्यां कनकसम्पन्नां कन्यकाभरणैर् युताम् ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥
विश्वम्भरः सर्वभूतः साक्षिण्यः सर्वदेवताः ।
इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥

इति । ततः कांस्यपात्रे वरहस्तोपरि वधूहस्ते स्वहस्तं न्यस्य वरहस्ते – सुप्रोक्षितम् अस्तु । शिवा आपः सन्तु । सौमनस्यम् अस्तु । इत्य् उक्त्वा, कन्या तारयतु, पुण्यं वर्धतां, शान्तिः पुष्टिस् तुष्टिस् चास्तु, तिथिकरणमुहूर्तनक्षत्रसम्पदस्तु, पुण्याहं भवन्तो ब्रुवन्तु, पुण्याहम् इति विप्राः, स्वस्ति भवन्तो ब्रुवन्तु, ऋद्धिं भवन्तो ब्रुवन्तु, श्रीर् अस्त्व् इति भवन्तो ब्रुवन्तु, अमुकदासो ऽहम् । मम [११६] समस्तपितॄणाम् इत्य् आदि.. लक्ष्मीनारायणप्रीतये इत्यन्तं प्राग्वद् उक्त्वा, काश्यपगोत्रस्य ब्रह्मदासस्य प्रपौत्राय विष्णुदासस्य पौत्राय शिवदासस्य पुत्राय काश्यपगोत्राय देवदत्तदासाय वराय काश्यपगोत्रां चैत्रदासस्य प्रपौत्रीं मैत्रदासस्य पौत्रीं भोजदासस्य मम पुत्रीम् अमुकप्रेष्यां नाम्नीं वा कन्यां प्रजापतिदैवत्यां यथाशक्त्य् अलङ्कृताम् इत्य् उक्त्वा, पुनर् एवं द्विर् उच्चार्य शतज्योतिष्टोमातिरात्रफलसमफलप्राप्तिकामः प्रजोत्पादनार्थं सहधर्मचरणार्थं प्राजापत्ये सहधर्मचरतं भार्यात्वेन तुभ्यम् अहं सम्प्रददे । इति कुशयवयुतं जलं कन्याहस्तं च वरहस्ते क्षिपेत् । मयापि दत्तेति मातापि वदेद् इति केचित् । गोत्रोच्चारणं नेति केचित् । वरः प्रतिगृह्णामि ।

गोत्राय चैव दासाय तुभ्यं दत्तां समाश्रय ।
कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः ॥
कन्ये मे पृष्ठतो भूयास् त्वद्दानात् स्वर्गम् आप्नुयाम् ।
मम वंशकुले जाता पालिता वत्सराष्टकम् ॥
तुभ्यं दास मया दत्ता पुत्रपौत्रविवर्धिनी ।

इति पठेत् । ततः कन्यादानप्रतिष्ठार्थम् इदं सुवर्णं गोमिथुनं च दक्षिणां सम्प्रददे इति दद्यात् । ततः शक्तौ सत्यां ताम्रकांस्यपात्रगवाश्वदासीदासादि दद्यात् । कन्याबान्धवांश् च यौतकं दद्युः । वरस् तत्पित्रादयो ऽपि दद्युर् इति केचित् । होमान्ते यौतकं केचिद् आहुः । ततः चतुर्वारं पञ्चवारं वा वधूवरौ सूत्रेणावेष्ट्योपरितनम् अधोमार्गेनाधस्तनं चोपरि निष्काश्य, त्रिगुणं पीतं च कृत्वाधस्तनं वरहस्ते, उपरितनं च वधूहस्ते कङ्कणं बध्नीयात् ।

येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन त्वाम् अपि बध्नामि रक्षे मा चल मा चल ॥

इति । ततः वधूवराभ्याम् दुग्धार्द्राक्षतारोपणम् । वध्वादौ ततो वरेण च कार्यम् । मन्त्रास् तु – भगाय नमः । यज्ञाय नमः । श्रियै नमः । धर्माय नमः । प्रजायै नमः । यशसे नमः । इति । ततः प्राङ्मुख उपविश्य वस्त्रं कन्यायै दद्यात् । सा च वासोभ्यां नम इति परिदध्यात् । ततो वरो

माङ्गल्यतन्तुनानेन भर्तृजीवनहेतुना ।
कण्ठे बध्नामि सुभगे सा जीव शरदां शतम् ।

इति सौभाग्यतन्तुं वधूगले बध्नीयात् । ततो विश्वेदेवायुमातरिश्वधातृभ्यो नम इति वधूम् ईक्षेत् । अत्र वा कौसुम्भसूत्रेण कङ्कणम् । ततो वेद्याम् प्राङ्मुखस् तेजनावीरणकटे पश्चाद् अग्नेर् उपविश्य दक्षिण ईशान्यां वा मङ्गलकुम्भं स्कन्धे गृहीत्वा कश्चित् तिष्ठेद् आसप्तमं पदम् । उत्तरतो दृषदुपले चालङ्कृते निधायान्नं वरः कन्यानाम वदेद् इत्य् आचारः । ततो वधूपित्रा परस्परं समीक्षितव्यम् इत्य् उक्ते ऽन्योन्यं समीक्ष्य,

अरौद्रचक्षुर् अपतिघ्नी शिवा च सुमनास् तथा ।
सुवर्चाः पुत्रसूर् देवकामा च सुखदा भव ॥

इति वरो वदेत् । सोमगन्धर्वाग्निपूषभ्यो नम इति च । शूद्राणां गृह्यसूत्राध्ययनाभावात् तदुक्तहोमाङ्गकलापज्ञानाभावात् प्रयुक्तिशक्त्यभावाच् च विवाहे होम एव नास्तीति मदनपालःअन्ये तु प्रधाने ऽधिकारसिद्धौ स्थपतीष्टिवद् अङ्गे ऽपि श्रवणोपदेशादिना ज्ञानसम्भवाद् धोमम् आहुः । यथा — गुरुर्दक्षिणे ब्रह्मासनं दत्वा तम् उपवेश्य । मृण्मये पात्रे जलपूर्णे कुशान् निधायोत्तरतः कुशेषु निधायाग्निं दर्भैः पूर्वादि परिस्तीर्यासादनं कुर्यात् ॥ त्रीणि तृणानि द्वे पवित्रे प्रोक्षणीम् आज्यस्थालीं चरुस्थालीं सम्मार्गकुशाः उपयमनकुशास् तिस्रः समिधः स्रुवम् आज्यं तण्डुलाः लाजाः शूर्पं संस्रावपात्रं अश्मा [११७] आनडुहं चर्म गौर् दक्षिणेति । ततः प्रादेशमात्रे पवित्रे छित्त्वा प्रोक्षणीं संस्कृत्य पवित्राभ्याम् उत्पूय तत्र ते निधाय दक्षिणेन सव्ये कृत्वोद्दीपनं कृत्वा पात्राणि प्रोक्ष्य निधायाज्यं स्थाल्यां निरुप्याग्नौ दक्षिणे ऽधिश्रित्योल्मुकेन लाजैः सह पर्यग्नि कृत्वा स्रुवं प्रताप्य कुशैः सम्मृज्य प्रोक्षणीभिः प्रोक्ष्य पुनः प्रताप्य दक्षिणे निधायाज्यम् उद्वास्योत्पूयावेक्ष्य शूकं निरस्य पुनः प्रोक्षणीर् उत्पूयावेक्ष्योपयमनकुशान् आदायोत्थायाग्नौ तिस्रः समिधो ऽभ्याधाय प्रोक्षणीभिः पर्युक्ष्य वरेणान्वारब्धो गुरुर् दक्षिणं जान्व् आच्य ब्रह्मणा दक्षिणहस्तेनान्वारब्धः स्रुवेण जुहुयात् । प्रजापतये नमः । इन्द्राय नमः । इत्याघारौ । इदं प्रजापतये न ममेत्यादि वरः सर्वत्र त्यागं कुर्यात् । अग्नये नमः । सोमाय नमः । इत्याज्यभागौ । अग्नये नमः । वयवे नमः । सूर्याय नमः । अग्नीवरुणाभ्यां नमः । द्विः अग्नये नमः । वरुणसवितृविष्णुविश्वेदेवमरुत्स्वर्केभ्यो नमः । वरुणायादित्यायादितये प्रजापतये नमः । इति न वा । ततस् त्रिर् अग्नये मृत्यवे च जुहुयान् न वा । ततः कन्याञ्जलाव् उपस्तीर्य वध्वाः भ्राता तत्स्थानो वान्यः शमीपलाशमिश्रान् लाजान् शूर्पाद् अञ्जलिना द्विः क्षिपति । ततो ऽभिघार्य तिष्ठन्ती अग्नये नम इति त्रिर् जुहुयात् । मन्त्रो वरस्यैव । ततः वरो वध्वा दक्षिणं हस्तं साङ्गुष्ठम् उत्तानम् उत्तानेन हस्तेन गृह्णीयात् । तत्र मन्त्रः भगोर्यमसवितृभ्यो नमः ।

वित्तसौम्यगुणैर् युक्ता वीरसूर् जीवसूर् भव ।
कुले मदीये सम्राज्ञी मच्चित्तानुगता सदा ॥

इति । ततो गृहीताम् एव वधूम् उत्तरतो ऽग्नेर् दक्षिणेन पदाश्मानम् आरोहयति । कन्यायै नम इति । ततः सरस्वत्यै नम इति । गाथा गायन्ति । ततो ऽग्नये नम इति । अग्निं परिक्रम्य । पुनर् द्विर् लाजादि परिक्रमान्तं कृत्वा । चतुर्थे शूर्पपुटेन वधूभ्राता सर्वलाजान् कन्याञ्जलाव् आवपति । तान् भगाय नम इति तिष्ठन्ती जुहोति । ततो ऽग्निं चतुर्थे परिक्रम्योपविश्य, ब्रहान्वारब्धः प्रजापतये नम इति हुत्वोत्तरतः उदक्संस्थान् सप्त तण्डुलपुञ्जान् कृत्वा वधूं विष्णवे नम इति दक्षिणेन पदा वरः सप्तपदानि कामयति । इषे नमः । विष्णवे नमः । सर्वत्र ऊर्जे नमः । रायस्पोषाय नमः । मायोभव्याय नमः । प्रजाभ्यो नमः । ऋतुभ्यो नम इति । एतैर् इति केचित् । ततः सप्तमे पदे गुरुः द्वयोः शिरसी सन्निधाय । पूर्वकुम्भोदकेन वर आम्रपल्लवैर् अभिषिञ्चेत् । वरेण सूर्यम् उदीक्षस्वेत्य् उक्त्वा सूर्याय नम इति सूर्यं पश्येत् । मम तव चित्तवाग्भ्यो नम इति वधूदक्षिणांसोपरि हस्तं नीत्वा हृदयम् आलभ्य उत्तरतो वधूम् उपवेश्य वध्वै नम इत्य् अभिमन्त्र्य । तस्याः सीमन्ते सिन्दूरं दत्वान्यो वरो वा वधूम् उत्थाप्य गोऽश्वपुरुषेभ्यो नम इत्य् आनडुहे रक्तचर्मणि वधूम् उपवेश्याग्नये स्विष्टकृते नम इति हुत्वा संस्रवप्राशनम् । प्रणीतानां पवित्राभ्यां मार्जनम् । तयोर् अग्नौ क्षेपः । आचार्याय गोदानम् । प्रणीताविमोकः । ब्रह्मणे पूर्णपात्रं विप्रेभ्य आमान्नसङ्कल्पः । दिने विवाहे रात्रौ ध्रुवम् उदीक्षस्वेति वरप्रेषिता वधूर् ध्रुवाय नम इति पश्येत् । ततो ऽब्दं द्वादशरात्रं षड्रात्रं त्रिरात्रं वाक्षारलवणाशिनौ ब्रह्मचारिणाव् अलङ्कुर्वाणाव् अधःशायिनौ दम्पती स्याताम् । तैलाक्षतचन्दनादि यथाचारं कुर्यात् । चतुर्थ्याम् अपररात्रे पञ्चभूसंस्कारान् कृत्वा । विवाहाग्निं संस्थाप्य । ब्रह्मोपवेशनादि समिदाधानान्तं प्राग्वत् कुर्यात् । तत्राज्यं निरुप्य स्थाल्यां तूष्णीं चतुरो निरुप्य तथैव त्रिः प्रोक्ष्य त्रिः प्रक्षाल्याग्नौ पक्त्वा [११८] समिधो ऽभ्याधायाग्निं पर्युक्ष्याघाराज्यभागान्ते ऽग्नये प्रायश्चित्ताय नमः । एवं वायवे प्रायश्चित्ताय नमः । सूर्याय प्रायश्चित्ताय नमः । चन्द्राय प्रायश्चित्ताय नमः । गन्धर्वाय प्रायश्चित्ताय नमः । नवाहुत्यन्ते प्रजापतये नम इति चरुं हुत्वोदकुम्भात् संस्रवान् आदायाग्निवायुसूर्यचन्द्रनक्षत्रगन्धर्व-प्रजापतिभ्यो नम इति वधूशिरसि दत्वा । मम व्रतानुसारिणी भवेत्य् उक्त्वोत्तरतो ऽग्नेश् चरुशेषं प्राणेभ्यो नमः । अस्थिभ्यो नमः । मांसेभ्यो नमः । त्वचे नम इति वधूं प्राशयित्वा ताम् आचमय्याज्येनाग्नये स्विष्टकृते नम इति हुत्वा । अग्न्यादिप्रजापत्यन्ता नवाहुतयः । प्राशनार्थं भिन्नपात्रे संस्रवाः । संस्रवप्राशनं मार्जनपवित्र-प्रतिपत्तिर् गुरवे दक्षिणां ब्रह्मणे पूर्णपात्रम् आमान्नदानं चेति । स्मृतिकौमुद्यां तु, शूद्रस्य को ऽपि होम नेत्य् उक्तम् । तन् न । सा मृतापि हि तेनैक्यं गता मन्त्राहुतिव्रतैर् इत्य् अस्य शूद्रे ऽप्य् अविशेषात् । ततो वरस्य तत्पक्षीयाणां पूजनं वरमात्रे वंशपात्रदानं च कार्यं कन्यापित्रेति केचित् । तद् यथा षोडशलघुशूर्पयुतवंशपात्रे उमामहेश्वरौ सम्पूज्य प्रार्थयेत् ।

ऐरिणी त्वम् उमा देवी महेशो गिरिजापतिः ।
अतस् त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥
सवस्त्रां च सदीपां च शूर्पैः षोडशभिर् युताम् ।
वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥

इत्य् उक्त्वा, कृतस्य कन्यादानस्य सम्पूर्णफलप्राप्त्यर्थम् इदं वंशपात्रं वरमात्रे सम्प्रददे न ममेत्य् उक्त्वा, पठेत् ।

वंशो वंशकरश्रेष्ठो वंशो वंशविवर्धनः ।
अनेन वंशदानेन तुष्टस् त्व् ऋद्धिं करोतु मे ॥
वंशपात्रम् इदं पुण्यं वंशजातसमुद्भवम् ।
दानानाम् उत्तमं दानम् अतः शान्तिं प्रयच्छ मे ॥

इति । इदं केचिन् न कुर्वन्ति । ततः कन्यापिता ।

अष्टवर्षा त्व् इयं कन्या पुत्रवत् पालिता मया ।
इदानीं तु मया तुभ्यं दत्ता स्नेहेन पाल्यताम् ॥ इति ।

वराङ्के वधूम् उपवेशयेत् । ततो वरो यानेन वध्वा सह गृहे गत्वा तत्र श्रियं सम्पूज्य स्थापितानां मातॄणां मण्डपदेवतानां च पूजां कृत्वा विसृज्य वस्त्रग्रन्थिकङ्कणमोक्षौ कृत्वा विप्रान् पूजयेत् । वध्वा गृहप्रवेशे मण्डपोद्वासनकाले ऽन्यश् च विशेषो मत्कृते निर्णयसिन्धौ ज्ञेयः । एते संस्काराः सच्छूद्राणाम् । एवं वक्ष्यमाणम् आह्निकाद्य् अपि तेषां नियतम् । सच्छूद्राणां विवाहमात्रम् ।

इति श्रीकमलाकरभट्टकृते शूद्रधर्मतत्त्वे शूद्रस्य विवाहप्रयोगः

संस्कारादिप्रयोगकरणं च समाप्तम् ।

समाप्तम् इदं द्वितीयं प्रकरणम् ।

मराठी

नन्तर, विवाहाच्या पूर्वदिवशी किंवा त्याच दिवशी कन्येच्या, व वराच्या बापाने, अभ्यङ्गस्नान करून, ग्रहमख, विनायकशान्ति16 वगैरे करून, देशकालसङ्कीर्तन करून, अमुकस्य विवाहाङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजावसोर्धाराशचीपूजा नान्दीमुखानि श्राद्धानि करिष्ये । असा सङ्कल्प करून, पुण्याहवाचनादि पूर्वोक्त रीतीने क रून तान्दुळान्नी भरलेल्या दोन कलशांवर नव्या सुपाम्त शाखां-(आम्ब्याच्या फान्द्यां)वर नन्दिनी, नलिनी, मैत्रा, उमा, आणि पशुवर्धिनी, व शस्त्रावर भगवती याञ्चे मातृकाञ्च्या जवळ आवाहन करून, ते सूप वगैरे घरान्तील देवाजवळ ठेवावे, आणि चवथ्या दिवशी त्या मण्डपदेवताञ्चे पूजन करावे.

पिवळ्या सुताने कङ्कण बान्धून, मुलीच्या ७ किंवा ५ हा ताञ्च्या परिमाणाने ७, किंवा ५ पायऱ्याञ्ची वेदि (बोहले ) करावी. “चार हस्तपरि मित वेदी असावी,” असे हरिहर ह्मणतो. वराची सीमान्तपूजा17 करून, आपल्या घरास आ लेल्या वरास सन्मानाने आसनावर बसवावा. नन्तर, आचार्याने बोहल्यावर, हमचौक एक हाताचे स्थण्डिल करून, त्याला दर्दानी परिसमूहन-( भोवताली दर्भ घालणे) करून त्यावर शेणकाला शिम्पडून, यज्ञियवृक्षाच्या18 समिधेनें19 पूर्वेस शेवट होईल अशा ३ रेघा काढून, ३ वेळ मातीचा उद्धार करून, त्या म्थण्डिलावर प्रोक्षण, व अग्निप्रतिष्ठापन करून, पूर्वाभिमुख-(पूर्वेस तोण्ड करून ) बसलेल्या वराची मधुपर्कपूजा करावी.

ती असी की, कन्येच्या बापाने वरास आसन देऊन, त्या आसनाच्या मागे उभा असलेल्या वरास, साधु भवानास्तामर्चयिष्यामो भवन्तं । असें ह्मणावें वरानें-अर्चय असे ह्मणावे. मग, विष्टरः असे ३ वेळ ह्मणून दात्याने पश्चिमाभिमुख राहून,-प्रतिगृह्यताम् । ह्मणून २५ दर्भाचा कूर्च वराम द्यावा. वरान-आसनाच्या मागे उभा राहून तो कूर्च घेऊन,-“वि धराय नमः” ह्मणून तो आसनावर ठेवून, त्यावर बसावे. मग अन्यानें-पाचं असे ३ वेळ झटले असतां गन्ध, दूर्वा, अक्षता याही युक्त उदक कन्यादात्यान्न - पति गृह्यतां ह्मणून वरास द्यावे. वराने ते घेऊन त्याने प्रथम डावा, व मग उजवा पाय धुवावा. त्या वेळी दुसरें एक आसन अन्यानें-विष्टरः असे ३ वेळ ह्मणून निवेदन केलेले आपल्या हाताम्त घेऊन, दात्याने वराच्या पायाङ्खाली द्यावे. मग गन्ध, पुष्प, अक्षता, दर्भ, तीळ, मोहन्या, दही, व दूर्वा यांहीं युक्त उदक घेऊन, अन्य पुरुषाने - अर्घः20 असे ३ वेळ ह्मणून दिल्या वर ते आपल्या हातात घेउन दात्यान-प्रतिगृह्यतां ह्मणून वरास द्यावे.

वराने “अद्भ्यो नमः” ह्मणून ओञ्जळीनं घेऊन, मस्तकानें वन्दन करून, भूमीवर टाकावे. मग आच मनीयं असें ३ वेळ ह्मणून, अन्यानं-दिलेले उदक दात्याने वरास द्यावेम्. वराने तें १ वेळ पिऊन आचमन करावेम्. मग अन्याने मधुपर्कः असे ३ वेळ ह्मणून दिलेले, दात्याने आपले हाताम्त घेऊन, कांस्यपात्राम्त असलेले व तसल्याच पात्राने झाङ्कलेले दहीम्, मध, किंवा तूप, वराने दात्याच्या हाताम्त असतां उघडून, ते-“सवित्रे नमः” या मन्त्राने पा हुन, पुनः त्याच मन्त्राने आपल्या हातात घेऊन, डावेकडे ठेवून, “मधुपर्काय नमः” या मन्त्राने अनामिकेने ढवळून, अनामिका, व अङ्गुष्ठ याने त्यान्तील थोडे बाहेर शिम्पडून पुनः असेम्च २ वेळ करून, त्या मन्त्रान्नीच ३वेळ प्यावम्. किंवा “मधुपकोय नमः” ह्मणून, प्यावे. “प्रथम आङ्गठ्याने, आङ्गठा व अनामिका यान्नी २ या, आणि अङ्गुष्ठ, व मध्यमिका यान्नी ३ या वेळी ढवळून प्यावं,’ असे स्मृतिकौमुदीत साङ्गितले आहे. ते असें कां साङ्गितले ? त्याचा विचार करावा. नन्तर बाकी राहिलेले असञ्चराम्त21 (एकीकडे) ठेवून, २वेळ आचमन करावे, नन्तर पुनः आचमन करून, “वाचे नमः” याने मुखाम, “प्राणाय नमः"नासिकेस, “चक्षुभ्यां नमः” नेत्रांस, “श्रोत्राभ्यां नमः” कर्णास, “बलाय नमः” बाहूंस, “ओजसे नमः” माण्ड्यांस, व “अङ्गेभ्यो नमः” ह्मणून सर्वाङ्गाम्स स्पर्श करावा.

नन्तर इतराने ३ वेळ-गौः असें मटले असतां ती घेऊन, “ रुद्राणां मात्रे वमूनां दुहित्रे आदित्यस्खले गवे नमः”। ममार्चकस्य च पाप्मा हतः । असे हळूच ह्मणून,-उत्सृजत तृणान्यत्तु । असे मोठ्याने मणून, गाय सोडावी. नन्तर दात्याने, वस्त्र, अलङ्कार, गन्ध, माळादिकान्नी वरपूजा क रावी. नन्तर उत्तम लग्नावर वधूवराम्मध्ये अन्तःपट22 धरून, वराने वधूचे मुख पहावे23.

अन्य ग्रन्थकर्ते-" लग्नसमयीं पाणिग्रहण करावे, असे मानितात." नन्तर अन्तःपट दूर करून वराने वधूमुख पहावेम्. येथेच होम करण्याचा पक्ष घेतला असेल तर, अग्निस्थापन करून अग्नीच्या मागें तृणफल किंवा कट ठेवून, कन्येच्या बापाने दिलेल्या ४ वस्त्रान्तून दोन - आयुष्मतीदं वासः परिधत्स्व २ ह्मणून एकेक द्यावेम्; तिने “वाससे नमः२” ह्मणून ते परिधान करावेम्. नन्तर दात्याने - वधूम् ईक्षस्व ह्मणून पाठवलेल्या वराने वधूस पहावेम्. “ यानन्तर कन्यादान करावें," असें हरिहर ह्मणतो. अन्य कित्येक ग्रन्थकर्ते तर- “कन्यादाना नन्तर वस्त्रादिक द्यावेम्. " असें ह्मणतात. नन्तर- “करोतु स्वस्ति ते ब्रह्मा०’ या ७ मन्त्रान्नी अक्षतारोपण केल्यावर, कन्येचा बाप उत्तराभिमुख असून, त्याने आपल्या उ जव्या बाजूस स्वीस बसवून, हाताम्त दर्भपवित्र घालून, आचमन करून देशकालसङ्कीर्तना. नन्तर,

मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादि कन्यादानकल्पोक्तफलावाप्तये अनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसन्तत्या -(ब्राह्मविवाह असेल तर,) द्वादशावरान् - द्वादशपरान् - (प्राजापत्यविवाहपक्षी ) अष्टौ अवरानष्टौ परान् पुरुषान्पवित्रीकर्तुम् आत्मनश्च लक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना - (अथवा) प्राजापत्यविवाहविधिना अलङ्कृत्य कन्यादानमहं करिष्ये ।

असा सङ्कल्प करून मन्त्र ह्मणावे. ते -

कन्यां कनकसम्पन्नां कनकाभरणैर्युतां ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥ १ ॥
विश्वम्भरः सर्वभूतः साक्षिण्यः सर्वदेवताः ।
इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥ २ ॥

नन्तर कांस्यपात्राम्त वराच्या हातावर वधूचा हात, व त्यावर आपला हात ठेवून, वराच्या हातान्त - सुमोक्षितमस्तु । शिवा आपः सन्तु । सौमनस्यमस्तु । असें ह्मणून – कन्या तारयतु । पुण्यं वर्धताम् । शान्तिस्तुष्टिः पुष्टिश्चास्तु । तिथिकरणमुहूर्तनक्षत्रसम्पदस्तु । पुण्याहं भवन्तो ब्रुवन्तु । असे दात्याने मदल्यावर ब्राह्मणान्नी – पुण्याहं अमें ह्मणावे. नन्तर, यजमानान्नम् - स्वस्ति भवन्तो ब्रुवन्तु । ऋद्धिं भवन्तो ब्रुवन्तु । श्रीरस्त्विति भवन्तो ब्रुवन्तु । अमुकदासोहं मम समस्त पितॄणाम्० इत्यादि - पूर्वोक्तलक्ष्मीनाराणप्रीतये - येथपर्यम्त ह्मणून-

काश्यपगोत्रस्य अमुकदासस्य प्रप्रौत्राय विष्णुदासस्य पौत्राय शिवदासस्य पुत्राय काश्यपगोत्राय देवदत्तदासाय वराय । काश्यपगोत्रां चैत्रदासस्य प्रपौत्रीं मैत्रदासस्य पौत्रीं भोजदासस्य मम पुत्रीम् अमुकप्रेष्यां (किंवा अ० नानी) कन्यां प्रजापतिदेवत्यां यथा शक्त्यलङ्कृतां - ३

वेळ असेच ह्मणून,-

शतज्योतिष्टोमातिरात्रफलसमफलप्राप्तिकामः प्रजोत्पादनार्थं सहधर्मचरणार्थं (प्राजापत्यविवाहाम्त) सहधर्मं चरन्तं भार्यात्वेन तुभ्यमहं सम्प्रददे ।

ह्मणून, दर्भ व यव, यान्नी युक्त उदक आणि कन्येचा हात वराच्या हाताम्त द्यावा. “मयापि दत्ता असें मुलीच्या आईनेंही ह्मणावें;” असे कित्येक ह्मणतात. येथे “शूद्रान्नी गोत्राचा उच्चार करूं नये, " असे कित्येक ह्मणतात. नन्तर वराने-प्रतिरक्षामि स्वस्ति । असें ह्मणून भूमिस्पर्श करावा.

गौरीं कन्यामिमां भो वं यथाशक्ति विभूषिताम् ।
गोत्राय चैव दासाय तुभ्यं दत्तां समाश्रय ॥ १ ॥
कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः ॥
कन्ये मे पृष्ठतो भूयास्त्वद्दानात्स्वर्गमाप्नुयाम् ॥ २ ॥
मम वंशकुले जाता पालिता वत्सराष्टकम्24
तुभ्यं दास मया दत्ता पुत्रपौत्रविवर्धिनी ॥ ३ ॥

हे मन्त्र कन्येच्या पित्याने ह्मणावे.नन्तर-कन्यादानप्रतिष्ठार्थमिदं सुवर्ण गोमिथुन च दक्षिणा सम्पददे । असें ह्मणून सोने, गाय, व बैल वरास द्यावी. नन्तर शक्ति असल्यास ताम्ब्याची कांशाची वगैरे पात्रे, गायी, घोडे, दासी, दास, वगैरे वस्तु आन्दण चाव्या. तसेम्च वरपक्षीयाम्स कन्येच्या बान्धवान्नी यौतक25 द्यावे.

नन्तर-“वर, व त्याचा बाप इत्यादिकान्नीही वधूच्या बापादिकाम्स असेम्च द्यावें,” असे कित्येक ग्रन्थकर्ते मण तात. " विवाहहोमान्ती यौतक द्यावें,” असे कित्येक ह्मणतात. नन्तर चार वेळ किंवा पाम्च वेळ वधूवराम्स सुताने वेढून वरचे सूत खालच्या मार्गाने, व खालचे सूत्र वरच्या मार्गाने काढून ते त्रिगुणित ( तिप्पट ) व पिवळे करून खालचे सूत वधू वराच्या उ. जव्या हातास, व वरचे सूत वराने वधूच्या डव्या हातास कङ्कण26 बान्धावेम्.

वराने बान्धते वेळी मन्त्र अणावा तो -

येन बद्धो बली राजा दानवेन्द्रो महाबलः ॥
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥ १ ॥

नन्तर वधूवरान्नी दुधाने ओलसर केलेल्या अक्षताञ्चें परस्पर आरोपण करावे. त्याम्त प्रथम वधूने, व नन्तर वराने करावे असा क्रम आहे. त्याचे मन्त्र - “भगाय नमः । यज्ञाय नमः । श्रियै नमः । धर्माय नमः । प्रजायै नमः । यशसे नमः” । नन्तर पूर्वाभिमुख बसून कन्येस २ वस्त्रे द्यावी. तिनें-“वासोभ्यां नमः” । ह्मणून ती परिधान करावी. नन्तर वराने-

माङ्गल्यतन्तुनानेन भर्तृजीवनहेतुना ॥
कण्ठे बध्नामि सुभगे सा जीव शरदः शतम् ॥ १ ॥

या मन्त्राने वधूच्या गळ्याम्त सौभाग्यसूत्र मङ्गळसूत्र बान्धावे. मग “विश्वेदेवायुमातरिश्वधातृभ्यो नमः” ह्मणून वधूचे मुख प हावेम्. येथे कौसुम्भसूत्रानेही कङ्कण बान्धावे असे आहे, परन्तु तें वैकल्पिक आहे. नन्तर बो हल्यावर पूर्वाभिमुख तेजणी किंवा वीरण कटावर अग्नीच्या मागे बसून, त्याच्या दक्षिणेस किंवा ईशान्येस मङ्गलकुम्भ खाद्यांवर घेऊन सप्तपदी होईपर्यम्त कोणीएकाने उभे रहावे. अग्नीच्या उत्तरेस २ पाषाण अलङ्कृत असे ठेवावे. येथें वराने वधूचें नाम्व घेऊ नये असा आचार आहे. नन्तर वधूच्या बापानें “एकमेकाम्स अवलोकन करावें.” असे साङ्गितल्यावर वधूवरान्नी एकमेकाम्स पहावेम्, त्या वेळी-

अरौद्रचक्षुरपतिघ्नी शिवा च सुमनास्तथा ॥
सुवर्चाः पुत्रसूर्देवकामा च सुखदा भव ॥ १ ॥

असें वराने ह्मणावेम्. आणखी-“सोमगन्धर्वाग्निपूषभ्यो नमः” असेही मणावेम्. “शूद्रास गृह्यसूत्राध्ययनाचा अभाव आहे यास्तव; सूत्रोक्त होम, व तत्सम्बन्धी अङ्गसमुदाय याञ्चे ज्ञान नाही यास्तव, व प्रयुक्ति (प्रयोग) शक्तीच्या अभावास्तव त्याञ्च्या विवाहाम्त होमच नाही, " असे मदनपाल ह्मणतो. अन्य ग्रन्थकार तर-“प्रधान (मुख्य) भूत विवाहाविषयी शुद्राम्स अधिकार सिद्ध असतां स्थपती (सुतार) च्या इष्टीप्रमाणे विवाहाच्या होमादि अङ्गाञ्चे ठायींही मन्त्र ऐकणे. व त्याञ्चा उपदेश इत्यादिकानें ज्ञान होण्याचा सम्भव आहे; ह्मणून शूद्रानीही विवाहाम्त होम करावा,” असें मणतात. होम करण्याचा प्रकार पुढे लिहिल्याप्रमाणे,–आचार्याने अग्नीच्या दक्षिणेस ब्रह्मा सन (कांहीं दर्भ) देऊन, ब्रह्मानामक ऋत्विनास त्यावर बसवून, मातीच्या पात्राम्त पाणी भरून, त्यावर दर्भ ठेवून, अग्नीच्या उत्तरेस दर्भावर ते ठेवून, अग्नीस दर्भानी पूर्वेपा सून परिस्तरण (४ । ४ दर्भ) घालून, पात्रासादन करावेम्. ते असे की,- ३ गवताच्या काड्या, २ पवित्रम्, प्रोक्षणीपात्र, आज्यस्थाली, चरुस्थाली, सम्मार्गदर्भ27, उपयमनदर्भ14, ३ समिधा, युवा, आज्य, तन्दुल, लाह्या, सूप, संस्रावपात्र, अश्मा (घोडा), बैलाचे चर्म, दक्षिणा, व गाय ही अग्नीच्या उत्तरेस ठेवावी. नन्तर १ टीचभर २ दर्भ तोडून प्रोक्षणीस संस्कार करून, त्या दऱ्यान्नी उत्पवन करून, ते दर्भ प्रोक्षणीवर ठेवून, उजव्या हाताने डाव्या हस्तावर घेऊन, खाली ठेवून पात्र प्रोक्षण करून ते खाली ठेवून, आज्यस्थालीत तूप घालून, ते अग्नीत उजव्या भागाम्त ठेवून, पेटलेल्या दान्नी लाह्यांसह ३ वेळ त्याच्या परितः भ्रमण करून, जुवा तापवून त्यावर दीनी मार्जन करून, प्रोक्षणीपात्रोदकानें प्रोक्षन पुनः तापवून, तो दक्षिण बाजूस ठेवून आज्य खाली काढून त्याचे उत्पवन करून, अवेक्षण करून, दूर करून, पुनः प्रोक्षणीचे उत्पवन व अवेक्षण करून, उपयमन दर्भ घेऊन, उठून पूर्वी ठेवलेल्या ३ समिधा अग्नीत घालून, प्रोक्षणीतल्या उदकानें पर्युक्षण करून, वराने व ब्रह्माने उजव्या हस्ताने अन्वारब्ध अशा गुरूने उनव्या गुडघ्याच्या आन्तून हात घेऊन जुन्याने हवन करावे.

त्याचे मन्त्र,- “प्रजापतये नमः । इन्द्राय नमः” या दोन मन्त्रान्नी आघारहोम करावा. वरानें “इदं प्रजापतये न मम" असा सर्वत्र त्याग करावा. “अग्नये नमः । सोमाय नमः" यान्नी आज्यभाग करावे. “अग्नये नमः । वायवे नमः । सूर्याय नमः । अग्निवरुणाभ्यां नमः । (२ वेळ) अग्नये नमः। वरुणाय नमः । सवित्रे नमः । विष्णवे नमः । विश्वेदेवेभ्यो नमः । मरुद्भ्यो नमः । वरुणायादित्यायादितये प्रजापतये नमः ।” यान्नी हवन करावे किंवा न करावे. नन्तर विरग्नि मृत्यु याम्स हवन करावें अथवा न करावे. नन्तर वधूच्या ओञ्जळीत उपस्तरण करून, तिच्या बन्धूने किंवा तत्सम दुसन्याने शमीच्या पानान्नी मिश्र अशा लाह्या सुपान्तून ओम्ज ळीने २ वेळ मुलीच्या औजळीत घालाव्या. मग त्यांवर अभिधार करावा. वधूने वरासह “अग्नये नमः” या मन्त्राने ३ वेळ हवन करावे. येथे मन्त्र वरानेच ह्मणावा. नन्तर वराने वधूचा उताणा उजवा हात अङ्गुष्ठसह आपल्या उताण्या हाताने घ्यावा. त्या वेळी मन्त्र

भगोऽर्यमसवितृभ्यो नमः ॥
वित्तसौम्यगुणैर्युक्ता वीरसूर्जीवसूर्भव ॥
कुले मदीये सम्राज्ञी मच्चित्तानुगता सदा ॥ १ ॥

असा ह्मणावा. नन्तर, हस्त ग्रहण केलेल्या वधूस अग्नीच्या उत्तरेस उजव्या पायाने अश्म्या-( दगडा) वर उभी करावी. त्या वेळी - “कन्यायै नमः । सरस्वत्यै नमः” हे मन्त्र ह्मणावे. या वेळी बायकान्नी मङ्गलककारक कांहीं गाणी गावी. मग-“अग्नये नमः” याने १ वेळ अग्नीस प्रदक्षिणा करावी. पुनः २वेळ ला स्याञ्च्या होमापासून अग्निप्रदक्षिणेपर्यन्तचे सर्व असेम्च करून, चवथ्या वेळेस सूप वाकवून त्या घालणान्याने वधूच्या ओञ्जळीत राहिलेल्या सर्व लाह्या घालाव्या. वधूनें-“भगाय नमः” ह्मणून त्याञ्चे हवन करावे. या खेपेस अग्निप्रदक्षिणा करून खाली बसून, ब्रयाने अन्वारब्ध असून - “प्रजापतये नमः” ह्मणून हवन करून, उत्तरेस ७ तान्दुळाञ्चे पुञ्जके करीत ते उत्तरेस सम्पवून, वधूस– “विष्णवे नमः” या मन्त्राने उजव्या पावलाने वराने ७ पावलें बरोबर चा लवावे. त्याचे मन्त्र - “इषे नमः १ विष्णवे नमः २ सर्वत्र ऊर्जे नमः ३ रायस्पोषाय नमः ४ मायोभव्याय नमः ५ प्रजाभ्यो नमः ६ ऋतुभ्यो नमः ७” असें ह्मणावे, असे कित्येक ह्मणतात. नन्तर, सातव्या पाउलीं गुरूने वधूवराञ्ची मस्तकें जवळ करून, त्यांवर पूर्वी स्थापित कलशान्तील उदकाने आम्ब्याच्या पानान्नी अभिषेक करावा. वराने- सूर्यमुदीक्षस्व असें मटल्यावर वधूनें - “सूर्याय नमः” ह्मणून सूर्याम पहावेम्. “मम तव चित्त वाग्भ्यो नमः” ह्मणून, वराने वधूच्या उजव्या ङ्कन्धावर आपला हात नेऊन तिच्या हृद यास स्पर्श करून, उत्तरेस वधूस बसवून, “वध्वै नमः” याने अभिमन्त्रण करून, वधूच्या भाङ्गाम्त सेन्दूर लावून, दुसऱ्याने किंवा वरानेच वधूस उठवून, “गोऽश्वपुरुषेभ्यो नमः" ह्मणून पूर्वस्थापित बैलाच्या लाल चर्मावर15 वधूस बसवून, “अग्नये स्विष्टकृते तमः” ह्मणून स्विष्टकृत् हवन करून, संस्रावाचे प्राशन, व प्रणीताञ्चे पवित्रान्नी मार्जन करून, ती पवित्रं अग्नीत टाकावी.

आचार्यास गोदान द्यावे. प्रणीतेचा विमोक करावा. ब्रह्याला पूर्णपात्र दे उन ब्राह्मणाम्स आमान्ने देण्याचा सङ्कल्प करावा. दिवसा विवाह झाला असताम् - सूर्यमुदीक्षस्व । व रात्री विवाह झाला असतां ध्रुवमुदीक्षस्व ह्मणून, वराने पाठविलेल्या वधूनेम्, ध्रुवाय नमः" ह्मणून त्यास पहावा. नन्तर १ वर्ष, १२ रात्रि, ६ रात्रि, किंवा ३ रात्रि खारट, तिखट, आम्बट वगैरे पदार्थ न खाता दोघान्नी ब्रह्मचर्याने असून, निरन्तर अलङ्कार वगैरे धारण करून, पलङ्गावर न निजतां पूर्वोक्तप्रमाणे रात्रि घालवाव्या. तेल अक्षता, चन्दन वगैरे आचाराप्रमाणे एकमेकाम्स द्यावे. चवथ्या दिवसी मध्यरात्रीनन्तर पञ्चभूसंस्कार28 करून विवाहाग्निस्थापन करून ब्रह्मोपवेशनापासून समिदाधानापर्यम्त पूर्ववत् करावे.

नन्तर आज्य निर्वाप करून, स्थालीत तूष्णीं ४ मुष्ठि तान्दुळाञ्चा निर्वाप करून, ३वेळ प्रोथून ते धुवून अग्नीवर शिजवून, समिधांवर ठेवून, अग्नीस पर्युक्षण करून; आज्यभागान्ती -

अग्नये प्रायाश्चित्ताय नमः वायवे प्रायश्चित्ताय नमः । सूर्याय प्रायश्चित्ताय नमः । चन्द्राय प्रायश्चित्ताय नमः । गन्धर्वाय प्रायश्चित्ताय नमः ।

यान्नी हवन करून, पूर्वोक्त आघार, व आज्यभागाच्या ४, व ह्या ५ मिळून ९ आहुति झाल्यावर-“प्रजापतये नमः” णून,चरु होम करून, कुम्भान्तून संस्रव घेउन - “अग्निवायुसूर्यचन्द्रनक्षत्रगन्धर्वप्रजापतिभ्यो नमः” ह्मणून ते संस्रव वधूच्या मस्तकावर देऊन,-“मम व्रतानुसारिणी भव” असें ह्मणून, अग्नीच्या उत्तेरस चरुशेष घेऊन,-“प्राणेभ्यो नमः । अस्थिभ्यो नमः। मांसेभ्यो नमः । त्वचे नमः” या मन्त्रान्नी ते वधूकडून भक्षण करवून, तिच्या कडून आचमन करवून, आज्याने-‘अग्नये स्विष्टकृते नमः"। याने स्विष्टकृत् हवन करावेम्. अग्नीपासून, प्रजापतिपर्यम्त ९ देवाताम्स आहुति द्याव्या. पिण्यास संस्त्रव घ्यावयाचे ते दुसन्या पात्राम्त घेऊन वधूनें प्यावे; नन्तर मार्जन, पवित्रत्याग, गुरुदक्षिणा, ब्रयाम पूर्णपात्र, ब्राह्मणाम्स आमान्ने द्यावी. स्मृतिकौमुदीत “शूद्रास कोणचाच होम करण्याचा अधिकार नाही,“असे साङ्गितले आहे. ते योग्य नाही. कारण, “ती( कन्या )मेली असतांही त्याशी (व राशी) मन्त्र, आहुति, व्रतें इत्यादिकान्नी ऐक्य पावली.“या वाक्याचा शूद्रांविषयी काही जर विशेष असता तर त्याचे मत योग्य होते, परन्तु तसं नाही. नन्तर, वर व वहाडी याञ्ची पूजा वस्त्रालङ्कारान्नी करावी. वराच्या आईस वंशपात्र (ऐरिणी ) दान करावे. हे ऐरिणीदान “मुलीच्या बापासही द्यावें,” असे कित्येक ग्रन्थकर्ने ह्मणतात. ते देण्याचा प्रकार अमा की,-१६ सुपल्या एका वंशपात्राम्त (पाण्टीन ) घालून, त्याम्त उमा व महेश्वर याञ्ची गन्धादिकान्नी पूजा करून, त्याञ्ची -

एरिणी त्वमुमा देवि महेशो गिरिजापतिः ॥
अतस्त्वां पूजयिष्यामि ऐरिणीं सर्वकामदाम् ॥ १ ॥
सवस्त्रां च सदीपां च शूर्पैः षोडशभिर्युताम् ॥
वरमात्रे प्रदास्यामि कन्यादानस्य सिद्धये ॥२॥

या मन्त्रान्नी प्रार्थना करून, कृतस्य कन्यादानस्य सम्पूर्णफलप्राप्त्यर्थमिदं वंशपात्रं वरमात्र सम्पददे न मम । असें ह्मणून, पुढे-

वंशो वंशकरः श्रेष्ठो वंशो वंशविवर्धनः ॥
अनेन वंशदानेन तुष्टस्त्वृद्धिं करोतु मे ॥ १ ॥
वंशपात्रमिदं पुण्यं वंशजातसमुद्भवम् ॥
दानानामुत्तमं दानमतः शान्तिं प्रयच्छ मे ॥ २ ॥

या मन्त्रान्नी ते पात्र वरमातेला यावम्. ह एरिणी दान कित्येक करीत नाहीत. नन्तर कन्येच्या बापानं-

अष्टवर्षा त्वियं कन्या पुत्रवत्पा पालिता मया ।
इदानीं तु मया तुभ्यं दत्ता स्नेहेन पाल्यताम् ॥ १ ॥

हा मन्त्र ह्मणून वधूस वराच्या माण्डीवर बसवावे. नन्तर वगर्ने आपल्याम अनुकूल असेल त्याप्रमाणे घोडा, पालखी इ० यानाम्त उभयतां बसून आपल्या घराम्त शुभवेळी प्रवेश करून, तेथे ल. क्ष्मीपूजन, व पूर्वस्थापित मातृका आणि मण्डपदेवता याञ्ची उत्तम पूजा करून त्याञ्चे विसर्जन29 करावे.

पूर्वी बान्धलेल्या वस्त्रगाण्ठी, व हातान्तील कङ्कण सोडून, ब्राह्मणपूजन करावेम्. वधूसह गृहप्रवेश30, व मण्डपोद्वासन याञ्चे काल; व अन्यही एतत्सम्बन्धी अन्य विशेष31 निर्णयसिन्धूत पहावे.

याप्रमाणे गर्भाधानापासून विवाहापर्यन्त, साङ्गितलेले सर्व संस्कार, व पुढे साङ्गणार तें आन्हिक वगैरे ही सर्व कर्मे सच्छूद्राम्स32 विहित आहेत. असच्छूद्राम्स केवळ विवाहमात्र विहित आहे.

इति श्रीशूद्रधर्मतत्त्वप्रकाशे शूद्रस्य विवाहप्रयोगः संस्कारप्रयोगप्रकरणं च समाप्तम् ॥

द्वितीयप्रकरणं समाप्तम् ॥

  1. हा विवाह साविकपणाने होत असून ब्रह्म ह्मण जे-वेद तदुक्त निधीनं हा होत असतो म्हणून यास " ब्राह्म” असं मटले असावेम्. ↩︎ ↩︎ ↩︎

  2. यज्ञ हैं दैविक कर्म त्याम्त तसम्पादकाग कन्यादान होत असल्यामुळे यास “देव” बटलं आहे असे वाटते. ↩︎

  3. गायी वगैरे दान घेणे हा ऋषीञ्चा धर्म होय. ह्या विवाहाम्त में होते ह्मणन याम “आप” गट अगावम्. ↩︎

  4. मन्तति उत्पन्न करणम्, व इतर धर्माचरण करणे हे प्रजापती-ब्रिह्मदेवा) च प्रियकर्म होय. या विवाहात त्याच्या उद्देशाने कन्यादान, व ग्रहण होत असल्यामुळे “प्राजापत्य” है नाम्व पडले अमावम्. ↩︎

  5. आपल्या मुलीस द्रव्याच्या आशेने विकणं हे अमुगसारख्या निर्दय मनुष्याचे कर्म होय. ते याम्न होने ह्मणून याला “आसुर” हे नाम्व दिले अमायेम्. ↩︎

  6. गन्धर्व हे देवलोकाञ्चे गायक होत. याम्स उपदेव ह्मणतात. हे बटुन करून अप्सराञ्चे साथीदार असावेत, व अप्सरा ह्या देवाञ्च्या वेश्या होत. जसा वेश्या, व अन्य पुरुष याञ्ची परस्पर प्रीति झाली झणजे त्याञ्चा सम्बम्ध होतो: तमाच वधवराञ्ची परस्पर प्रीति होउन हा विवाहमम्बम्ध होतो. हाणून याग “गान्धर्व” अग वाटले असावें. ↩︎

  7. लढाई वगैरे तामस कर्म, व बलात्कार करणं हे राक्षमाञ्चकृत्य याम्त होते, ह्मणून यास " राक्षमविवाह" ह्मणत असतील. ↩︎

  8. कपट (चोरी वगरे) ह पिशाचाञ्चें कम होय. ह्या विवाहाम्त तेच होतं ह्मणून याम"शाच" घटले असे वाटते. ↩︎

  9. पूर्वकाली आणखी एक प्रकारचा विवाह होत असे. त्याम पत्रिकाधम गणत. त्याचा प्रकार अमा की, कन्येच्या बापाने आपल्या कन्येपासून जो पुत्र होईल तो मला द्यावा, असा वराशी करार कम्न स्याम कन्या द्यावी, आणि त्याने कराराप्रमाणे वागावे, ह्मणने पुत्रिकाधर्म होतो. याप्रमाण स्वायम्भुव मनूने आकृति नांवाची आपली मुलगी रुचि नामक ऋषीला दिली होती. भा. स्कम्. ४ अ. १ पहा. याचा गान्धर्ववि. वाहाम्त अन्तभाव होत असेल असे वाटते. ↩︎

  10. अग्निपुराणान्त-“अपत्यविक्रयासक्तं निष्कृतिन विधीयते “अ० १५४ लो० ४अर्थ मुलीचा विक्रय करण्यास आसक्त होगा-या पुरुषास दोषपरिहारार्थ प्रायश्चित्तच नाही, असे साङ्गितले आहे. ↩︎

  11. साम्प्रत राक्षस, व पैशान विवाह होतात, परन्तु त्या वचनाम्त साङ्गितल्याप्रमाणे करीत नाहीत याचे कारण काही समजत नाही. आमच्या लोकाम्त “एकदां माळ गळ्याम्त पडली झणजे फिरावयाचे नाही,“ही अंधपरम्परा समूल झाली आहे. यामुळे असी अनेक वचनें एका पाजस पडली आहेत! ↩︎

  12. येथे “पाणिग्रहण सर्व वर्णास सारखेम्” अमें माङ्गितले आहे, परन्तु “अग्निपुराणाम्त पाणिः सवर्णासु गृहीयात् क्षत्रिया शरम् ॥ धेश्या प्रतोदमादद्याशाञ्चे चान्यजातिजा” [अ० १५४ शो. ३ ] असे साङ्गितले आहे; तेव्हां समानव स्त्रीचे पाणिग्रहण करावम्. आगि असवर्ण अमेल तर वाण इत्यादि ध्यावं असा याचा अभिप्राय असेल असे वाटते. ↩︎

  13. “दश (१०) दोषविवर्जिते” ह्मणजे दहा दोषरहित. हे १० दोष व्यवहारोश्चय नामक ग्रम्. थाम्त साङ्गितले आहेत. ते-वैध, लत्ता,पात, खजरवेध, दशयोगचक, पूति, जामित्र,उपग्रह, वाण आणि वन, असे दहा दोष होत. याञ्ची लक्षणे विस्तरभयास्तव येथे सागितली नाहीत. ↩︎ ↩︎

  14. प्- ततो ↩︎ ↩︎ ↩︎ ↩︎

  15. प्- परिवृदध्यात् ↩︎ ↩︎ ↩︎ ↩︎

  16. अमक दिवशी विवाह करावयाचा असा निश्चय झाल्यावर आपल्या गोत्रान्तील कोणी मेला तर ते प्रति. कल समजावेम्, असें धर्मशास्त्रकत्याचे मत आहे. आणि प्रतिकल माल्यानन्तर दोषपरिहारार्थ विनायकशान्ति केल्यावाचून विवाह करू नये. ती प्रहमखसहित, व केवल असी दोन प्रकारची आहे. तिचा काल, व प्र. योग वगैरे शान्तिकमलाकर व संस्कारभास्कर याम्त पहावा. तो सर्व येथे साङ्गितल्यास विस्तर हो. ईल ह्मणून साङ्गितला नाही. ↩︎ ↩︎

  17. “सीमान्तपूजा” सीमा झणजे शीव, तिचा अम्त झणजे मध्य अथवा शेवट त्या ठिकाणी करावयाची पूजा तिला सीमान्तपूजाणतात. ही वराच्या घरीही करता येते. हिचा प्रयोगसंस्कारमास्कराम्त पहावा. ↩︎ ↩︎

  18. शमी, पळस, पिम्पळ, उम्बर, इत्यादि क्षाचा यशात उपयोग होतो; पणून त्याम्स यशियाक्ष मणतात. ↩︎ ↩︎

  19. वर साङ्गितलेल्या माडाञ्च्या बारीक टीचभर लाम्बीच्या काटक्या करितात, साम्स समिधा असे नाव आहे. ↩︎ ↩︎

  20. ह्या प्रकारचा अर्घ-“आचार्य, ऋत्विज, वर, राजा, प्रियमित्र, व स्नातक ह्या साहांशिवाय इतराम्स देऊ नये,” असे ऋषिभट्टाचे मत आहे. ↩︎ ↩︎

  21. “असञ्चर” याचा साधारण अर्थ, जेथे कोणाचा सञ्चार नाही असे स्थल, असा होतो परन्तु कारिकेत " असञ्चरः प्रणीतान्योरन्तरेण प्रकीर्तितः " प्रणीता आणि अमि याञ्च्या मध्यभागास असञ्चर ह्य णतात, असे साङ्गितले आहे. ↩︎ ↩︎

  22. वधुवराञ्च्या मध्ये विळे वस्त्र धरितात त्यास अन्तःपट हे नाम्व आहे. हा अन्तर्याट “उत्तरेकडे दशा रून धरावा,” असें नारायणभट्टाने साङ्गितले आहे. ↩︎ ↩︎

  23. त्याच वेळी मङ्गलाष्टक अणण्याचा शिष्टसम्प्रदाय सर्वास विदित आहेच. नारायणभट्टान्नी येथे काही विशेष साङ्गितला आहे. तो असा की-” धान्याच्या राशीवर पश्चिमेस तोण्ड करून वरास, व पूर्वेकडे मुख करून कन्येस, त्याञ्च्या ओञ्जळीत ताम्बूस,गळ, जिरें ही देऊन उभे करावे." साम्प्रत आचारही याचप्रमाणे आहे. ↩︎ ↩︎

  24. लग्नाच्या वेळी मुलगी ८ वर्षाची असेल तर हा चरण असा प्रणावा, आणि त्याहून अधिक वर्षे अस तील तर “• नव वर्षकम् । दश वर्षकम्” असा ऊह करावा, असे कित्येकाञ्चे मत आहे. ↩︎ ↩︎

  25. युतक धूवराचे नाव आहे. तत्सम्बन्धी जें तें गौतक, अर्थात् पधुवराञ्च्या बन्ध्वादिकाम्स देण्याच्या वस्तु. कन्यादानकाली घराच्या बन्धूस जे देतात त्यास योतक ह्मणतात. ↩︎ ↩︎

  26. वधूवराञ्च्या हातात कल्यासारखे बान्धितात व त्याने हाताला एक प्रकारची शोभा येते आणून यास “कण” (हाताचें भूषण) पणतात. ↩︎ ↩︎

  27. “सम्मार्गदर्भ” याचा अर्थ- उत्तम प्रकारे शोधन करण्याकरितां घेतलेले दर्भ, असा होतो. याविषयी प्रहयाकल्पवलीत “स्रुवसम्मार्जनार्थाय पञ्च वाथ त्रयोऽपि वा ॥ प्रादेशमात्रान्गृह्णीयात्सम्मार्गकुशसंज्ञकान्” ॥ १ ॥ ज्याला स्वच्छ करण्याकरिता सम्मार्गकृश असे ज्याम्स नाव आहे भसे ३ किंवा ५ टीचभर लाम्बीचे दर्म घ्यावे, असे साङ्गितले आहे. ↩︎ ↩︎

  28. “भूमीची शुद्धता व्हावी एतदर्थ पञ्चभूसंस्कार करावे, असे प्रहयज्ञकल्पवल्लीत साङ्गितले आहे. ते कसे करावे ? याविषयी संस्कारभास्करान्त- “पृथिवीकर्मानन्तदेवताभ्यो नमः” या मन्त्राने पृधितीचे पूजन करावेम्, व आसमन्तात् मोहन्या टाकाव्या, आणि सर्वत्र पञ्चगव्याने (शूद्रान्नी गोमूत्रानम्) प्रोक्षण करावे. हे शान्तिसाराम्त साङ्गितले आहे, अमें वर्णन केले आहे. ↩︎ ↩︎

  29. निर्णयसिन्धूत न० परि० पूर्वा० पृष्ठ ३८ येथे देवकोत्थापनाचा काल मागितला आहे तो-” समदि दमी म्हणजे विवाहदिवसापासून २४८० दिवमी करावे. परन्तु समदिवसाम्त ६ वा दिवम वर्ण्य करावा. विषमदिवस ५ वा व ७ वा यांवाञ्चून सर्व वर्भावे. येथे प्रसङ्गतः विवाहानन्तर देवकोत्थापनापूर्वी काही कर्मे वयं आहेत ती साङ्गतो-“नान्दीश्राद्धानन्तर, देवको त्थापन होईपर्यम्त दर्शश्राद्ध, वार्षिक श्राद्ध, थण्ड पाण्याने स्नान, अपसव्य,स्वधाशब्दोचार, नित्यश्राद्ध, ब्रह्मयज्ञ, अध्ययन, नदीच्या अथवा आपल्या गांवच्या सीमेपलीकडे जाणे, उपवासव्रत, व श्राद्धानभोजन इतकी कर्मे ज्या घरी विवाह झाला असेल त्या घरच्या मनुष्यान्नी, व त्याच्या सपिण्डान्नी करूं नयेत. तसेच मण्डपोद्वासन होईपर्यम्त साधारणतः स्पर्शदोष मानू नये. तसेच विवाह झाल्यापासून १ वर्षपर्यम्त सचैल स्नान, तिलमिश्रकर्म, प्रेताबरोबर जाणम्, कलशदान, व पूर्वी न गेलेल्या तीर्थास किंवा देवदर्शनाम जाणे ही कमें करूं नयेत. इतिकी कर्मे वर्ण्य आहेत. आपल्या पुत्राच्या विवाहानन्तर १ वर्षपर्यत क्षार करूं नये. तसेम्च विवाहापासून ६ महिनेपर्यम्त घरान्तील जने सा. मान बाहेर टाकू नये, अभ्यङ्ग, मृतक, विवाह, पुत्रजन्मकाल, व सर्व मङ्गलकार्यात, गोपीचन्दन लावू नये. ↩︎ ↩︎

  30. बधप्रवेशकाल पुढे लिहिल्याप्रमाण:- मार्गशीर्ष, माघ, वैशाख, व ज्येष्ठ, या महिन्याम्त उत्तम योगावर वधसह ग्रहाम्त प्रवेश करावा. नारदमतानें-विवाहदिवसापासून ६ व्या व ८ व्या दिवसी वधप्रवेश केल्यास सम्पतिकारक होतो. त्या दिवसी न झाल्यास १० व्या दिवसी, किंवा कोणत्याहि सम दिवसी विवाहापासून १६ दिवसाञ्च्या आम्त करावा. नाहीतर भिन्न वर्षात ५ महिन्याञ्च्या आम्त केल्यास वरील दिनशुद्धि अवश्य पहावी. नन्तर दिनशुद्धि पाहाण्याची गरज नाही. एकन्दरीत वर्ष व मास सम असूं नये. प्रयोगरत्नाम्त नारायणभ छान्नी-“१३५ या दिवी वधूप्रवेश केल्यास तो सुखप्रद, व २४.६ दिवसी केल्यास वियोग, दःख व रोगप्रद होतो.“याप्रमाणे विषमदिवसीं प्रवेश कगवा अमें माङ्गितले आहे, परन्तु याविषयी मूळवचन मिळत नाही. त्याचा सुज्ञवाचकान्नी विचार करावा. ६।८।१० व्या दिवसीं यद्यपि चन्द्र वाईट स्थानी असला, व पञ्चाङ्गशुद्धि नसली तथापि यधप्रवेश करावा. तसाच या कर्मास प्रतिशुक्राचा, व गुरु आणि शुक्र याञ्च्या अस्ताचा दोष नाही. य. द्यपि गमनकाली-वधूच्या डाव्या बाजूस शुक्र असल्यास सुख, उजव्या बाजूस असल्यास हानि, मागे अस ल्यास धनधान्य, व समोर असल्यास सर्वनाश आणि कन्येला वैधव्य” इत्यादि दोष साङ्गितले आहेत; तथापि ते द्विगगमनाविषयी आहेत असे समजावेम्. गृहप्रवेशदिवसीं शुक्राचा उदय पूर्वेस झाला असल्यास दक्षिणेस, व पश्चिमेस झाला असल्यास वधूने पूर्वेस व उत्तरेस जावम्. रेवती, हस्त, श्रवण, धनिष्ठा, शततारका, चित्रा, स्वाती, विशाखा, मळ, मघा, उत्तरा, पुष्य, व अनुराधा इतक्या नक्षत्रांवर, ४।९।१४ या रिक्तातिथि, मङ्गळ व रविवार व व्यतीपात, सङ्क्रान्ति, ग्रहण, वैधृति, धादिवस, अमावास्या, विष्टि इत्यादि वर्ण्य करून पूर्वोक्त नक्षत्रावर शुभ योग पाहून तिने पतिगृहास गमन करावे. ↩︎ ↩︎

  31. विवाहनन्तर पति, व पित्याच्या घरी वधनं कोणकोणत्या महिन्याम्त राहूं नये ते साङ्गतों,- “विवाहानन्तर प्रथम येणाऱ्या आषाढ महिन्याम्त पतिगृहीं कन्या राहील तर सासला मारील. क्षयमासी राहील तर आपणच मरेल. ज्येष्ठाम्त राहील तर नवन्याच्या वडील बन्धस मारील. पौषाम्त राहील तर सासऱ्यासमारील. अधिक मा. माम्त राहील तर पतीला मारील. चैत्राम्त आपल्या बापाचे घरी राहील तर थापास मारील. असें आहे. परन्तु ते ते मनुष्य नसतील तर त्या त्या महिन्याम्त राहण्यास दोष नाही. आता द्विरागमनकाल साङ्गतो: माघ, फाल्गुन, वैशाख, या तीन महिन्याम्त शुक्लपक्षी शुभदिवसीं गुरु, व सर्य अनुकूल आहेत असे पाहून द्विरागमन करावेम्. ↩︎ ↩︎

  32. सत्य असत् शुद्राञ्ची लक्षणे ३ च्या जातिनिर्णयप्रकरणाम्त पहावी. असच्दास पर्वोक्त कम विहित नाहीत असे असन कदाचित् असच्द्रानी ती आचरण केल्यास, ते केवळ दोषास पात्र होतील. ↩︎ ↩︎