विश्वास-प्रस्तुतिः
अथ छुरिकाबन्धनम् ।
ज्योतिर्निबन्धे नारदः ।
छुरिकाबन्धनं वक्ष्ये नृपाणां प्राक्करग्रहात् ।
विवाहोक्तेषु मासेषु शुक्लपक्षे ऽप्य् अनस्तगे ॥
जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते ।
मौञ्जीबन्धर्क्षतिथिषु कुजवर्जितवासरे ॥
सङ्ग्रहे ।
शूद्राणां राजपुत्राणां मौञ्ज्यभावे ऽस्त्रबन्धनम् ।
मौञ्जीबन्धोक्ततिथ्यादौ कार्यं भौमदिनं विना ॥
विष्णुधर्मे ।
पूजयित्वा हरिं लक्ष्मीं तथा देवीं सरस्वतीम् ।
स्वविद्यासूत्रकारांश् च स्वां च विद्यां विशेषतः ॥
एतेषाम् एव देवानां नाम्ना तु जुहुयाद् घृतम् ।
दक्षिणाभिर् द्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ॥
मन्त्रस् तु ।
सर्वायुधानां प्रथमं निर्मितासि पिनाकिना ।
शूलायुधाद् [१०८] विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥
चण्डिकायाः प्रदत्तासि सर्वदुष्टनिबर्हणी ।
तया विस्तारिता चासि देवानां प्रतिपादिता ॥
सर्वसत्त्वाङ्गभूतासि सर्वाशुभनिबर्हिणी ।
छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमो ऽस्तु ते ॥
इति सम्पूज्य नत्वा दक्षिणे कटिभागे बध्नीयात् । अपरार्के वृद्धशातातपः ।
शिशोर् अभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
जलस्थलादिसंस्पर्शे स्नानम् एव कुमारके ॥
प्राक्चूडाकरणाद् बालः प्राग् अन्नप्राशनाच् छिशुः ।
कुमारः स तु विज्ञेयो यावन् मौञ्जी निबध्यते ।
बालस्य पञ्चमाद् वर्षाद् रक्षार्थं शौचम् आदिशेद् इत्यादि मत्कृते निर्णयसिन्धौ ज्ञेयम् ।
मूलम्

मराठी
यानन्तर छुरिका (सुरी ) बन्धन साङ्गतोः–
याविषयी ज्योतिनिबन्धात नारद ह्मणतो, “शूद्रराजाम्स विवाहाच्या पूर्वी कर्तव्य असें छुरिकाबन्धन साङ्गतो. हे लग्नास उक्त अशा महिन्याम्त शुक्लपक्षाम्त गुरु, शुक्र, मङ्गळ हे अस्तङ्गत नसताम्, व चन्द्र, तारा इत्यादिकाञ्चे बल पाहून मङ्गळवार वज्र्य करून मुञ्जीस साङ्गितलेल्या नक्षत्र, तिथि, व वार यांवर करावें.” सङ्ग्रह नामक ग्रन्थाम्त “शूद, व तज्जातीय राजपुत्र याम्स मुञ्जीच्या अभावीं छुरिकाबन्धन करणे विहित आहे. ते मुञ्जीस उक्त नक्षत्रतिथ्यादिकांवर भौमवार वर्जून करावेम्, " असे साङ्गितले आहे. विष्णुधर्मात “हरि, लक्ष्मी, सरस्वति, व स्वविद्येचे सूत्रकार, आणि आपली विद्या याञ्चे पूजन करून, त्याञ्च्या नाममन्त्राने धृतहोम करावा. दक्षिणादिक देऊन ब्राह्मणाञ्ची पूजा करावी. नन्तर छुरिकाबन्धन करावें,” असे साङ्गितले आहे. तिच्या बन्धनाचे मन्त्र -
सर्वायुधानां प्रथमं निर्मितासि पिनाकिना ॥
शूलायुधाद्विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥ १ ॥
चण्डिकायाः प्रदत्तासि सर्वदुष्टनिबर्हिणी ॥
तया विस्तारिता चासि देवानां प्रतिपादिता ॥ २ ॥
सर्वसत्त्वाङ्गभूतासि सर्वाशुभनिवर्हिणी ॥
छुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोऽस्तु ते ॥ ३ ॥
या मन्त्रानी सुरीचे पूजन करून ती कमरेच्या उ. जव्या भागी बान्धावी. हा छुरिकाबन्धनसम्ङ्कार झाल्यावर त्याने नियमाने1 वागावे.
मुलाम्स लहानपणीञ्चे नियम, अपरार्कग्रन्थाम्त वृद्धशातप साङ्गतो,-” उच्छिष्टादिस्पर्श किंवा दुसरें कांहीं स्नानाचे निमित्त झाले असताम्, स्नानाबद्दल शिशूस प्रोक्षण, व बालाम्स आ चमन, विहित आहे. अस्पृश्यस्पर्श झाल्यास कुमाराने स्नान करावे, असे प्राचीन ऋषीनी साङ्गितले आहे. मुलास अन्नप्राशनसंस्कार होईपर्यन्त, किंवा पुरुषाम्स वा, व स्त्रियाम्स ७ वा महिना होई तोपर्यम्त शिशु, व चौल होईपर्यम्त किंवा तीन वर्षे होत तोपर्यम्त बाल, आणि मुम्ज (शूद्राम छुरिकाबन्धन ) होईपर्यम्त कुमार, अशा सञ्ज्ञा आहेत. बालास ५ व्या वर्षा पासून त्याचे रक्षण2 होण्याकरितां हातपाय धुण्यास, व अन्य शौच वगैरे करण्याम ला वावेम्. एतत्सम्बन्धी विशेष मत्कृत निर्णयसिन्धूत पहावा ॥
इति श्रीशूद्रधर्मतत्त्वप्रकाशे छुरिकाबन्धनप्रयोगः समाप्तः ॥
-
जसे ब्राह्मणाने मुम्ज होण्यापूर्वी यथेच्छ वागल्यास त्याचा दोष नाही, परन्तु नन्तर नियमाने वागले पाहिजे. तसेम्च शूद्राने छुरिकाबन्धन झाल्यावर नियमाने वागले पाहिजे. ते नियम पुढे आहिकप्रकरणाम्त येतील. ↩︎
-
हातपाय धुतले नाही, वखान करण्याचे निमित्त माले असना केले नाही, अथवा आचमननिमित्त झालें असतांही ते केले नाही तर भूतप्रेतादिकाम्पामन बाधा होने; असे धर्मशास्त्रकर्त्याञ्चे मत आहे. ↩︎