विश्वास-प्रस्तुतिः
[१०७]
अथ विद्यारम्भः ।
मदनरत्ने नृसिंहः ।
अक्षरस्वीक्र्तिं कुर्यात् प्राप्ते पञ्चमहायने ।
उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ॥
अथ धनुर्विद्यादीपिकायाम् ।
अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्य-
ध्रुवहरिवसुमूलेष्व् इन्दुभागान्त्यभेषु ।
शनिशशिबुधवारे विष्णुबोधे ऽपि पौषे
सुसमयतिथियोगे चापविद्याप्रदानम् ॥
तत्र हरिं लक्ष्मीं सरस्वतीं च पूजयित्वा कार्यम् ।
सर्वायुधमहामात्र सर्वदेवारिसूदन ।
चाप मां समरे रक्ष साकं शरवरैर् इह ॥
घृतं कृष्णेन रक्षार्थं संहाराय हरेण च ।
त्रयीमूर्तिगतं देवं धनुरस्त्रं नमाम्य् अहम् ॥
इति मन्त्रेण सम्पूज्य नत्वा बाणं प्राच्यां मुक्त्वा विप्रान् पूजयेत् ।
मूलम्
[१०७]
अथ विद्यारम्भः ।
मदनरत्ने नृसिंहः ।
अक्षरस्वीक्र्तिं कुर्यात् प्राप्ते पञ्चमहायने ।
उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत् ॥
अथ धनुर्विद्यादीपिकायाम् ।
अदितिगुरुयमार्कस्वातिचित्राग्निपित्र्य-
ध्रुवहरिवसुमूलेष्व् इन्दुभागान्त्यभेषु ।
शनिशशिबुधवारे विष्णुबोधे ऽपि पौषे
सुसमयतिथियोगे चापविद्याप्रदानम् ॥
तत्र हरिं लक्ष्मीं सरस्वतीं च पूजयित्वा कार्यम् ।
सर्वायुधमहामात्र सर्वदेवारिसूदन ।
चाप मां समरे रक्ष साकं शरवरैर् इह ॥
घृतं कृष्णेन रक्षार्थं संहाराय हरेण च ।
त्रयीमूर्तिगतं देवं धनुरस्त्रं नमाम्य् अहम् ॥
इति मन्त्रेण सम्पूज्य नत्वा बाणं प्राच्यां मुक्त्वा विप्रान् पूजयेत् ।
मराठी
आतां विद्यारम्भ साङ्गतो.
याविषयी मदनरत्नाम्त नृसिम्ह ह्मणतो - “पञ्चम वर्षी उत्तरायणाम्त कुम्भसङ्क्रान्तिमास (माघ) वर्ण्य करून लिहिण्यास1 प्रारम्भ करावा.” (शूद्रास) धनुर्विद्येचा अभ्यास करण्याचाहि अधिकार आहे.
तिच्या आरम्भाविषयीं दिनशुद्धि वगैरे धनुर्विद्यादीपिकेम्त साङ्गितली आहे. ती- “पुनर्वसु, पुष्य, भरणी, हस्त, स्वाती, चित्रा, कृत्तिका, मघा, उत्तरा, उत्तराषाढा, उत्तराभाद्रपदा, रोहिणी, श्रवण, धनिष्ठा, मूळ, मृग, पूर्वा, रेवती ही नक्षत्रे; शनि, चन्द्र, व बुध या वारी चातुर्मास्य वयं करून, पौषाम्त देखील उत्तम वेळ व तिथि योग पाहून धनुर्विद्या ध्यावी.” त्या वेळी प्रथम विष्णु, लक्ष्मी, सरस्वती याञ्चें व धनुष्य भाते वगैरेचे पूजन करून-
सर्वायुधमहामात्र सर्वदेवारिसूदन ॥
चाप मां समरे रक्ष साकं शरवरैरिह ॥ १ ॥
धृतं कृष्णेन रक्षार्थं संहाराय हरेण च ॥
त्रयीमूर्तिगतं देवं धनुरस्त्रं नमाम्यहम् ॥ २ ॥
या मन्त्रान्नी पूजानमस्कारादि करून व धनुष्यास बाण लावून पूर्वेस सोडून, ब्राह्मणादिकाञ्चे पूजन करून, कर्म ईश्वरार्पण करावेम्. ॥
इति श्रीशूद्रधर्मतत्त्वप्रकाशे विद्यारम्भप्रयोगः ॥
-
शुद्रास द्विजांसारखा विद्यारहणाचा अधिकार नाही हे पहिल्या प्रकरणाम्त सविस्तर सागितले आहे. परन्तु त्योम लिहिण्यावाचण्याचा अभ्यास करण्याचा अधिकार आहे; ह्मणन तो कधी कगवा हे येथे साङ्गितले आहे. ↩︎