२१ चौलम्

विश्वास-प्रस्तुतिः

अथ चौलम् ।

बृहस्पतिः

पापग्रहाणां वारादौ विप्राणां शुभदो1 रविः ।
क्षत्रियाणां क्षमासूनौ विट्शूद्राणां शनौ शुभम् ॥

अस्य कालनिर्णयः सर्वैर् मातुर् गर्भै रजोदर्शने च न कार्यम् इत्यादिर् अन्यश् च विशेषो द्विजतुल्यो मत्कृते निर्णयसिन्धौ ज्ञेयः । शूद्रस्य विशेषमात्रं तूच्यते । प्रथमे द्वितीये तृतीये पञ्चमे वाब्दे यथाकुलधर्मं चोक्तकाले पिता देशकालौ स्मृत्वास्य शिशोर् बीजगर्भसमुद्भवदोषनाशद्वारा बलायुर्वर्चोऽभिवृद्ध्यर्थं चौलकर्म करिष्ये, इति सङ्कल्प्य, गणेशपूजापुण्याहवाचनमातृकापूजावसोर्धारानान्दीश्राद्धानि कृत्वा, भद्रासने शिशुम् उपवेश्यैकां शिखां केशपङ्क्तिं वा संरक्ष्ये सर्वं वा वपनं यथाचारं कार्यम् । ततो नीराजनादि कार्यम् ।

इति चौलम् ।

मूलम्

मराठी

आतां चौल साङ्गतो. ते कोणत्या वारी करावें ! याविषयीं बृहस्पति ह्मणतो.– “पापग्रहाञ्च्या वारादिकाम्त ब्राह्मणाम्स रविवार, क्षत्रियाम्स भौमवार, वैश्य व शूद्र याम्स शनिवार, हे चौलकर्मास शुभ होत. आतां याञ्चा कालनिर्णय आई रजस्वाला अथवा गर्भिणी असतां करूं नये इत्यादि व अन्यहि विशेष विचार द्विजांसारखाच आहे. तो निर्णयसिन्धूवरून जाणावा. त्यान्तून शू द्राम्स विशेष असेल तेवढाच येथे साङ्गतो. पहिलेम्, दुसरे, तिसरे, व पाञ्चवें ह्या वर्षी; अथवा कुलधर्मानुसार शास्त्रोक्तकाली बापाने देशकाल म्मरून,–“अस्य शिशोः बीजगर्भस मुद्भधेनोविनाशद्वारा बलायुर्वर्णोऽभिवृद्ध्यर्थ चौलकर्म करिष्ये।” असा सङ्कल्प करून, गणेशपूजन, पुण्याहवाचन, मातृकापूजन, वसोर्धारा, नान्दीश्राद्ध, ही करून, भद्रासना ( रङ्गित पाट वगैरे ) वर मुलास बसवून त्याची शेण्डी किंवा काही केसाञ्ची ओळ राखून, किंवा सर्व वपन करून, नन्तर त्यास मङ्गलस्नान घालून ओवाळणी वैगरे झाल्यावर ब्राह्मणाचे पूजन करून कर्म ईश्वरार्पण करावेम्.

इति श्रीशूद्रधर्मतत्त्वप्रकाशे चौलप्रयोगः ॥

  1. शुभदं भवेत् - इति पाठः । तत्र वारादिशब्देन रविवारस्यैवात्र ग्रहणम् । रवौ इति सप्तम्यन्तोपि पाठः। ↩︎ ↩︎