२० वर्धापनविशेषः

विश्वास-प्रस्तुतिः

अथ हेमाद्रौ वर्द्धापने विशेषः ।

भविष्ये

युधिष्ठिर उवाच ।

देव देव महाभाग बालानां हितकाम्यया ।
वर्द्धापनविधिं ब्रूहि राज्ञाम् अपि विशेषतः ॥

कृष्ण उवाच ।

एवं प्रयागे व्यासेन पृष्टः सनत्कुमारः प्राह ।

मासि प्रविष्टे प्रथमे बालवर्द्धापनं बुधैः ।
राज्ञां वा तन् मुनिशेष्ठ समान्ते च विधीयते ॥
कुमुदा माधवी गौरी रुद्राणी पार्वती उमा ।
काली सरस्वती चैव सावित्री ब्रह्मणः प्रिया ॥
सती सञ्ज्ञा तथा मेधा पुष्टिस् तुष्टिसमन्विता ।
नृपडिम्भपरित्राणा जीवन्ती नाम षोडशी ॥
पूजनीयाः प्रयत्नेन सूर्यमध्ये विलिख्य तु ।
रजनीपिष्टतो वापि लिखेद् वा कुङ्कुमेन तु ॥
गन्धपुष्पैः सुगन्धैश् च दीपवस्त्रनिवेदनैः ।
पूजनीयास् तु संस्थाप्य कुमुदाद्याः पृथक् पृथक् ॥
नामभिः पूजनीयास् ताः पूजयित्वा तु बालकम् ।
भूपतिं तु मुने वाथ सर्वालङ्कारभूषितम् ॥
पूजयेन् मातृपितरौ बालवर्धापने सति ।
पुरोधाः पूजयेद् ब्रह्मन् राजवर्धापनाविधौ ॥
कुमुदाद्याः समुद्दिश्य वंशपात्राणि कल्पयेत् ।
एकैकस्या धनाढ्यस् तु दद्यात् षोडश षोडश ॥
तदर्धानि तदर्धानि द्वे चैकैकम् अथापि वा ।
बहुपक्वान्नयुक्तानि बहुपुष्पफलानि तु ॥
सुवासिनीभ्यो विप्राणां दद्याद् भक्तिपुरःसरम् ।
प्रीयतां कुमुदाद्या मे बालकायुर्विवर्धनाः ॥
बलेन यशसा तुष्ट्या बालं मे वर्धयन्तु वै ।
प्रयच्छन्तु सदारोग्यं सौख्यं सौभाग्यम् एव च ॥
श्रीश् च तेति च मन्त्रेण ह्य् अर्घ्यं ताभ्यः प्रदापयेत् ।
वस्त्रताम्बूलपुष्पादि दिने तस्मिन् प्रकल्पयेत् ॥
सुवासिनीनां देयं तु कुमुदा प्रीयताम् इति ।

तत्र स्कान्दे

एवं वर्द्धापनं वत्सरान्ते वै जन्मवासरे ।
व्यतीतेषु च मासेषु बालानां बलवृद्धये ॥
न बालरोगाः प्रभवन्ति तस्य न स्कन्दरोगा न तु शाकिनीभ्यः ।
भवं भवेन् नैव जलाग्निदिग्भ्यो बालस्य भूतादि विशेषतश् च ॥
सम्प्राप्य राज्यं नृपतिः समान्ते कुर्याद् इमं शान्तिमहोत्सवं च ।
ग्रहांस् तथा पूज्य विनायकं च दुर्गां च भक्त्या कुमुदादिदेवीः ॥
यः पूजयेद् भक्तिपुरःसरं हि स हेमपूर्णो बलवृद्धियुक्तः ।

गोपथब्राह्मणे तु ।

राजानम् अभिवर्धयिष्यन्न् आयुषा वर्चसा तेजसा यशसा विजयेन कीर्त्या पवित्रैर् [१०५] मङ्गलैर् अभ्युक्ष्य उदकै रुक्मैर् अर्चयित्वा, माहेन्द्रं हविर् निरूप्य, लोकपालेभ्यश् च श्रपयेन् महान् इन्द्रो य ओजसेति लोकपालांश् चेष्ट्वा, राजानम् अन्वारभ्य जुहुयात् । अर्वाञ्चम् इन्द्रम्, त्रातारम् इन्द्रम्, वर्धय इति त्रिभिः, रक्षां कृत्वा सुगुरुणास आसते इति रोचनेनालङ्कुर्यात् । प्रजायै तन्तुम् इति सूक्तं सम्पातवतं कृत्वा धाता ते ऽयम् इत्य् उक्तम् अभिवर्धस्वेति ।

इति श्रीकमलाकरभट्टकृतौ शूद्रधर्मतत्त्वे ऽब्दपूर्तिः ।

मूलम्

मराठी

यानन्तर हेमाद्रीत याच कर्माचा विशेष साङ्गितला आहे तो साङ्गतो.

भविष्यपुराणाम्त धर्मराजा कृष्णाला प्रश्न करितो,- “हे देवाञ्च्या देवा । हे म हाभाग ! बालाञ्चे हित करण्याच्या बुद्धीनें वर्धापनाचा विधि माङ्ग ? व त्याम्त राजाला काही विशेष असला तर तोही माङ्ग ?” याचे श्रीकृष्ण उत्तर साङ्गतात की,- " पूर्वी प्रयाग क्षेत्राम्त व्यासाने याचप्रमाणे सनत्कुमाराला प्रश्न केला होता. तेव्हां व्यासाला हा विधि त्याणे साङ्गितला आहे. तो असा की,- प्रथम मुलाला एक महिना होताम्च शहाण्यान्नी त्याचे वर्धापन करावे, राजाचेही याप्रमाणेच करावेम्. किंवा हेच कर्म वर्षान्तीही करावेम्. ते अमें की, कुमुदा, माधवी, गौरी, रुद्राणी, पार्वती, काली, सरस्वती, सावित्री, सती, सञ्ज्ञा, मेधा, पुष्टि, तुष्टि, उमा, ब्राह्मी, व राजपुत्राचे रक्षण करणारी जीवन्ती ह्या सोळा देवताञ्ची चित्रं काढून त्याञ्चे मोठ्या प्रयत्नाने पूजन करावेम्. चित्रे काढायाची ती रज नीच्या (हळदीच्या ) पिठाने अथवा कुङ्कुमाने काढावी. गन्ध, पुष्पेम्, सुगन्ध, धूप, दीप, वस्त्रे वैगरे अर्पण करून कुमुदादि देवीञ्चें नाममन्त्राने निरनिराळे पूजन करून आईबापान्नी बालकाचे पूजन करावेम्; अर्थात् त्यास अलङ्कारादिकान्नी भूषित करावेम्. राजाचे असेल तर पुरोहिताने त्याचे पूजन करावे. नन्तर कुमुदादि देवीञ्चा उच्चार करून सुपान्तून वायने द्यावी. ती सामर्थ्य असेल तर प्रत्येक देवतेस सोळा, अथवा आठ, किंवा चार; अथवा दोन, किंवा एक एक द्यावी. त्याम्त बहुत पक्वान्ने, पुष्पं फळे वगैरे असावी, व ती भक्तिपूर्वक सुवा सिनीस, व ब्राह्मणाम द्यावी. देतेवेळी -

प्रीयतां कुमुदाद्या मे बालकायुर्विवर्धनाः ॥
बलेन यशसा तुष्ट्या बालं मे वर्धयन्तु वै ॥ १ ॥
प्रयच्छन्तु सदारोग्यं सौख्यं सौभाग्यमेव च ॥

हे मन्त्र ह्मणावे. कती ब्राह्मण असेल तर- “श्रीश्च ते लक्ष्मीश्च०” या मन्त्राने अर्घ्य द्यावे. वस्त्र, ताम्बूल इत्यादि सुवासिनीला द्यावी. कुमुदादि देवी मजवर प्रसन्न असोत ! अमं ह्मणावेम्. आणग्वी तेथेम्च ( हेमाद्रीम्त ) स्कन्दपुराणाम्त - “या प्रमाणे वर्षान्ती जन्मदिवशी, अथवा प्रतिमासी जन्मनक्षत्री मुलाचे बल वाढावें ह्मणून वर्धा पन करावे. असें करील त्यास बालरोग, स्कन्दरोग, शाकिनी इत्यादिकाम्पासून, व उ दक, अग्नि, दिशा, भूतविशेष, इत्यादिकाम्पासून भय होणार नाही. ज्या राजपुत्राला राज्य मिळाले असेल त्याने प्रतिवर्षी ग्रह, विनायक, दुर्गा, व कुमुदादि सोळा देवी याञ्ची पूजा करून भक्तिपूर्वक हा शान्तिमहोत्सव ( वर्धापन ) करावा. ह्मणजे तो द्रव्या दिकानें पूर्ण होतो," असा विशेष प्रकार साङ्गितला आहे. आणखी गोपथ ब्राह्मणाम्त “राजास आयुष्य, बल, तेज, यश, विनय, कीर्ति यांहीं वृद्धिङ्गत करण्याचे असेल तर त्यास त्याच्या जन्मदिवसीं पवित्र, व मङ्गलकारक उदकाने अभिषेक करून अलङ्कारादिकान्नी भूषित करून, महेन्द्रदेवताक हवीचा निर्वाप करून लोकपालाम्स हवीचें श्रपण करावें,” महाइन्द्रो य ओजसा० " या मन्त्राने लोकपालाञ्चे यजन करून राजास अन्वारब्ध होऊन हातास हात लावून ‘अर्वाश्चमिन्द्र० १ त्रातारमिन्द्र०२ वर्धय,०३ या मन्त्रान्नी हवन करावेम्. नन्तर रक्षा करून ‘सुगुरणा स आसते.’ या मन्त्राने त्यास गोरोचनाने अलङ्कृत करावेम्. ‘प्रजायै तन्तुं०’ हे सूक्त ह्मणत असताम्, अग्निकुण्डाम्त तुपाची धार धरून ‘धाताते य०’या मन्त्राने ‘अभिवर्षख ’ ह्मणून आशीर्वचन द्यावे असे साङ्गितले आहे, परन्तु कलियुगाम्त वेदमन्त्राधिकारी असे क्षत्रिय नाहीत, झणून साम्प्रत याचा प्रचार नाही. ॥

इति श्रीशूद्रधर्मतत्त्वप्रकाशे अब्दपूर्तिप्रयोगः समाप्तः ॥