विश्वास-प्रस्तुतिः
अथाब्दपूर्तिः ।
गौडव्यवहारनिर्णये ।
नवाम्बरधरो भूत्वा पूजयेच् च चिरायुषम् ।
मार्कण्डेयं नरो भक्त्या पूजयेत् प्रयतस् तथा ॥
ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम् ।
प्रह्लादं च [१०२] हनुमन्तं विभीषणम् अथार्चयेत् ॥
स्वनक्षत्रं जन्मतिथिं प्राप्य सम्पूजयेन् नरः ।
षष्ठीं च दधिभक्तेन वर्षे वर्षे पुनः पुनः ॥
तिलतत्त्वे तन्नाम्ना तिलहोमो ऽप्य् उक्तः । आदित्यपुराणे ।
सर्वैश् च जन्मदिवसे स्नातैर् मङ्गलवारिभिः ।
गुरुदेवाग्निविप्राश् च पूजनीयाः प्रयत्नतः ॥
स्वनक्षत्रं च पितरस् तथा देवः प्रजापतिः ।
प्रतिसंवत्सरं यत्नात् कर्तव्यश् च महोत्सवः ॥
कृत्यचिन्तामणौ ।
गुडदुग्धतिलान् दद्याद् धस्ते ग्रन्थौ च बन्धयेत् ।
गुग्गुलं निम्बसिद्धार्थं दूर्वा गोरोचनादिकम् ॥
सम्पूज्य भानुविघ्नेशौ महर्षिं प्रार्थयेद् इदम् ।
जन्मतिथिश् चौदयिकी ग्राह्या । तद् उक्तं कृत्यतत्त्वार्णवे स्कान्दे ।
युगाद्या वर्षवृद्धिश् च सप्तमी पार्वतीप्रिया ।
रवेर् उदयम् ईक्षन्ते न तत्र तिथियुग्मता ॥
इति । पिता सबालो ऽभ्यङ्गं कृत्वा नववस्त्रधरो देशकालौ स्मृत्वास्य शिशोर् दीर्घायुरारोग्यार्थं वर्षदिनकृत्यं करिष्य इत्य् उक्त्वा, प्रतिमास्व् अक्षतपुञ्जेषु वा गणेशं सूर्यं मार्कण्डेयं व्यासं परशुरामम् अश्वत्थामानं कृपं बलिं प्रह्लादं हनुमन्तं विभीषणं षष्ठीं स्वनक्षत्रं पितरौ प्रजापतिं गुरुम् अग्निं च सम्पूज्य, पक्षे तन्नाम्ना तिलहोमं च कृत्वा, गुग्गुलनिम्बसर्षपदूर्वागोरोचनागुडानां पोटलिं हस्ते बध्वा मार्कण्डेयं प्रार्थयेत् ।
चिरञ्जीवी यथा त्वं भो भविष्यामि तथा मुने ।
रूपवान् वित्तवांश् चैव श्रिया युक्तश् च सर्वदा ॥
मार्कण्डेय नमस् ते ऽस्तु सप्तकल्पान्तजीवन ।
आयुरारोग्यसिद्ध्यर्थं प्रसीद भगवन् मुने ॥
चिरञ्जीवी यथा त्वं तु मुनीनां प्रवर द्विज ।
कुरुष्व मुनिशार्दूल तथा मां चिरजीविनम् ॥
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
आयुरारोग्यसिद्ध्यर्थम् अस्माकं वरदो भव ॥
पिता त्व् एनम् इति वदेत् । ततो गुडतिलयुतं दुग्धम् आदाय,
सतिलं गुडसम्मिश्रम् अञ्जल्यर्धमितं पयः ।
मार्कण्डेयाद् वरं लब्ध्वा पिबाम्य् आयुर्विवृद्धये ॥
इति पीत्वा ततो गुरुदेवविप्राः पूज्याः । गौडतिथितत्त्वे स्कान्दे ।
खण्डनं नखकेशानां मैथुनाध्वगमौ तथा ।
आमिषं कलहं हिंसां वर्षवृद्धौ विवर्जयेत् ।
तत्रैव ।
कृतान्तकुजयोर् वारे यस्य जन्मतिथिर् भवेत् ।
अनृक्षयोगसम्प्राप्तौ विघ्नस् तस्य पदे पदे ॥
कृतान्तः शनिः । जन्मनक्षत्रयोगे न दोषः । तस्य सर्वौषधिस्नानम् । गुरुदेवाग्निपूजनम् । विशेषो निर्णयसिन्धौ ज्ञेयः ।
मूलम्

मराठी
यानन्तर वर्धापन अथवा अब्दपूर्तिप्रयोग साङ्गतो.
याविषयीं गौडव्यवहारनिर्णयान्त - “नूतन वस्त्रे धारण करून, व चिरायु (बहुकाल वां चणारा) अशा मार्कण्डेयऋपीचे भक्तिपूर्वक पूजन करून नन्तर दीर्घायुपी - व्याम, परशुराम, अश्वत्थामा, कृपाचार्य, बली, प्रन्हाद, हनुमान्, व बिभीषण यान्ने ज्या दिवशी आपली जन्मतिथि, जन्मनक्षत्र वगैरे असेल त्या दिवशी पूजन करावे. तसेच पष्ठीदेवीम द धिमिश्रित भाताचा बलि द्यावा. या प्रकारचे हे कर्म प्रतिवर्षी नियमाने करावें.” असे साम्. गितले आहे. तिथितत्त्वान्त-“त्या त्या देवताञ्च्या नाममन्त्रान्नी तिलाञ्चा होम करावा,” असे साङ्गितले आहे. आदित्यपुराणान्त– “मर्व मनुष्यान्नी आपल्या जन्मदिवशी मङ्गल उदकाने स्नान करून, गुरु, देव, अग्नि, ब्राह्मण, स्वनक्षत्रदेवता, पितर, व प्रजापति याञ्चे प्रयत्नाने पूजन करावे, आणि त्या दिवशी मोठा उत्साह करावा, अमें प्रतिवी करावे” असे साङ्गितले आहे. कृत्यचिन्तामणीम्त “गृळ, तीळ, व दूध ब्राह्मणाम्स द्यावे. गुळादिकाञ्ची पोथण्डी करून दण्डास बान्धावी. त्या पोथण्डीत गुग्गुळ, लिम्ब, पाण्ढन्या मोहोन्या, दुर्वा, गो रोचन वगैरे असावी. सूर्य, गणपति, व महर्षि याञ्चे पूजन करून त्याम्स ही प्रार्थना करावी,” असे साङ्गितले आहे. ह्या कर्माविषयी जन्मतिथि सूर्योदयकाली असेल ती घ्यावी. तेच कृत्य तत्त्वार्णवाम्त स्कन्दपुराणाम्त साङ्गितले आहे. जमें “युगादि वर्धापन, व पार्वतीप्रिया सप्तमी या कर्माविषयीं सूर्योदयकाली असलेली तिथि ज्यावी, तेथें तिथियुग्मता1 नाही.” बापाने2 मुलासहवर्तमान अभ्यङ्गस्नान3 करून, नवीं वस्त्र धारण करून, देशकालस्मरण करून, अस्य शिशोः दीर्घायुरारोग्यार्थ वर्षदिनकृत्यं करिष्ये । असा सङ्कल्प करून प्रतिमांवर किंवा अक्षतपुञ्जांवर- गणेश, सूर्य, मार्कण्डेय, व्यास, परशुराम, अश्वत्थामा, कृपाचार्य, बलि, प्रन्हाद, हनुमान, विभीषण, षष्ठीदेवी, आपले जन्मनक्षत्र, पितर, प्रजापति, गुरु, व अग्नि याञ्चे आवाहनादि सोळा उपचारान्नी पूजन करावेम्.
होम करण्या चा पक्ष घेतल्यास त्याञ्च्या नाममन्त्राने तिलहोम करावा. नन्तर गुग्गुळ, लिम्ब, पाण्ढया मोहोन्या, दूर्वा, गोरोचन, आणि गूळ याञ्ची फडक्याम्त घालून गाण्ठोडी करून ती उजव्या हाताला बान्धून मार्कण्डेयास प्रार्थावेम्. त्याचे मन्त्र -
चिरञ्जीवी यथा त्वं भो भविष्यामि तथा मुने ॥
रूपवान्वित्तचिव श्रिया युक्तश्च सर्वदा ॥ १ ॥
मार्कण्डेय नमस्तेऽस्तु सप्तकल्पान्तजीवन ॥
आयुरारोग्यसिद्ध्यर्थं प्रसीद भगवन्मुने ॥ २ ॥
चिरञ्जीवी यथा त्वं तु मुनीनां प्रवर द्विज ॥
कुरुष्व मुनिशार्दूल तथा मां चिरजीविनम् ॥ ३ ॥
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ॥
आयुरारोग्यसिद्ध्यर्थमस्माकं वरदो भव ॥ ४ ॥
हे कर्म स्वतः कर्तव्य असेल तर हे मन्त्र असे ह्मणावे, व बाप करणारा असल्यास ति सन्या मन्त्राचा चवथा चरण “० तथैनं चिरजीविनम्” असा पाठभेद करून ह्मणावा4.
नन्तर गूळ, व तीळ यान्नी युक्त असें दूध घेऊन -
सतिलं गुडसम्मिश्रम् अञ्जल्यर्धमितं पयः ॥
मार्कण्डेयाद्वरं लब्ध्वा पिबाम्यायुर्विवृद्धये ॥१॥
हा मन्त्र ह्मणून तें दूध पिऊन नन्तर गुरु, देव, ब्राह्मण याञ्ची पूजा करावी. कर्म ईश्वरार्पण करावेम्. ह्या दिवशी काय काय वर्ण्य करावें तें गौडतिथितत्त्वाम्त स्कन्दपुराणाम्त साङ्गितले आहे. जसे- “नखें व केश तोडणे, मैथुन करणे, मार्ग चालणे, माम्स भक्षण, भाण्डण करणे, व सर्वप्रकारची हिंसा ही वर्धापनाचे दिवशीं करूं नयेत." आणखी तेथेच- “ज्याची जन्मतिथि शनिवारी अथवा मङ्गळवारी होईल आणि त्या दिवशी जन्मनक्षत्रयोग नसेल तर त्यास पदोपदी विघ्नं ये तील,’ असे साङ्गितले आहे. त्या दिवशी जन्मनक्षत्रयोग असल्यास पूर्वोक्त दोष नाही. असा दुष्टयोग ज्याला प्राप्त झाला असेल त्याने शुभप्राप्तीकरितां सर्वोषधीन्नी स्नान, व गुरु,” देव आणि अग्नि याञ्चे पूजन करावे. याचा विशेष निर्णयसिन्धूत पहावा.
-
पूर्व दिवसी किंवा दुसन्या दिवसी तिथीचें ग्रहण करणे याम तिथियुग्मता ह्मणतात. ↩︎
-
मुलगा लहान असतां हें कर्म बापाने करावे, आणि तो थोर झाल्यावर स्वतः त्यानेच करावे, असे धर्मशास्त्राम्त साङ्गितले आहे. ↩︎
-
येथे अभ्यङ्ग करावे असे साङ्गितले आहे, परन्तु-“मृते जन्मनि सङ्क्रान्ती श्राद्ध जन्मदिने तथा ॥ अस्पृश्यस्पर्शने चैष न नायादुष्णवारिणा” अर्थ-आपला कोणी सम्बन्धी मेला असतो. पुत्रजन्मकाली, सङ्क्रान्ति, श्राद्ध व आपल्या जन्मदिवशी, आणि शिवाशिव झाली असता ऊन पाण्याने मान करूं नये. त्या वृद्धमनूच्या वचनावरून उनपाण्याचा निषेध होतो. तेव्हां वाढदिवसी सुगन्धि तेल वगैरे अम्. गास लावून थण्ड पाण्याने मान करावे. त्यावरून “अभ्यङ्ग करून थण्ड पाण्याने मान करूं नये,” असा जो निषेध आहे त्याची पूर्ववचनात साङ्गितलेल्या स्थली प्रवृत्ति होत नसेल असे वाटते. ↩︎
-
येथे मूळाम्त ३ या श्लोकाच्या ४ ध्या चरणाचा मात्र पाठभेद साङ्गितला आहे, परन्तु पहिला श्लोकही प्रथम चरण सोडून “० कुरुष्वैनं तथा मुने ॥ रूपवन्तं वित्तवन्तं श्रियायुक्तं च सर्वदा” असा घटला असतो चालेल, असे आह्मास वाटते. ↩︎