विश्वास-प्रस्तुतिः
अथान्नप्राशनम् ।
मदनरत्ने नारदः ।
षष्ठे वाप्य् अष्टमे मासि पुंसां स्त्रीणां तु पञ्चमे ।
सप्तमे मासि वा [१०१] कार्यं नवान्नप्राशनं शुभम् ॥
लौगाक्षिः: “षष्ठे ऽन्नप्राशनं जातेषु दन्तेषु वा” । विष्णुधर्मोत्तरे ।
ब्रह्माणं शङ्करं विष्णुं चन्द्रार्कौ च दिगीश्वरान् ।
भुवं दिशश् च सम्पूज्य हुत्वा वह्नौ तथा चरुम् ॥
देवतापुरतस् तस्य धात्र्युत्सङ्गगतस्य च ।
अलङ्कृतस्य दातव्यम् अन्नपात्रं सकाञ्चनम् ॥
मध्वाज्यदधिसंयुक्तं प्राशयेत् पायसं तु वा ।
सर्वत्र मूलं विशेषश् च मत्कृते निर्णयसिन्धौ ज्ञेयः । पिता देशकालौ स्मृत्वास्य शिशोर् बीजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोऽभिवृद्ध्यर्थम् अन्नप्राशनं करिष्ये, इति सङ्कल्प्य, गणेशपूजापुण्याहवाचनमातृकापूजानान्दीश्राद्धानि कृत्वा, ब्रह्मादीन् प्रतिमासु तण्डुलपुञ्जेषु वा सम्पूज्य, तन्नामभिर् वह्नौ चरुं हुत्वाज्यदधिमधुयुतम् अन्नं पायसं वा प्राशयित्वा ताम्बूलं च दत्वा, रत्नहेममणिभाजनाद्यग्रे निधाय यत् बालः स्पृशेत् सास्य जीविकेति परीक्षयेत् ।
इत्य् अन्नप्राशनम् ।
मूलम्

मराठी
यानन्तर अन्नप्राशनप्रयोग साङ्गतो. याविषयी मदनरत्नाम्त नारद ह्मणतो.-“पुरुषाञ्चें सहाव्या किंवा आठव्या महिन्याम्त व स्त्रियाञ्चे ५ व्या किंवा ७ व्या महिन्याम्त प्रथम अन्नप्राशन करावेम्. ह्मणजे तें शुभकारक होय.” लोगाक्षि ह्मणतो की,- “अन्नप्राशन सहाव्या महिन्यान्त, किंवा दाम्त आल्यावर करावे.” हे अन्नप्राशन कसे करावें । तें विष्णुधर्मोत्तराम्त साङ्गितले आहे. जसे- “ब्रह्म देव, शङ्कर, विष्णु, चन्द्र, सूर्य, इन्द्रादि दश दिक्पाल, भूमि, व दिशा याञ्चे स्थापन व पूजन करून, अग्नीत चरूनें हवन करून स्थापित देवसाञ्च्या पुढे अलङ्कृत अशा मुलाला दायीच्या माण्डीवर बसवून, सुवर्णपात्राम्त किंवा ते नसेल तर इतर पात्राम्त सुवर्ण घालून त्याम्त मध, तृप, व दहीं यांसहित, असें अन्न किंवा केवल पायस मुलास प्राशनास द्यावा.” येथे सर्वत्र मूलवचनेम्, व विशेष प्रकार निर्णयसिन्धूवरून जाणावा. बापाने देशकाल स्मरून - अस्य शिशोः बीजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोभिवृद्ध्यर्थमन्नप्राशनं करिष्ये । तदङ्गतया गणेशपूजापुण्याहवाचनमातृकापूजानान्दीश्राद्धानि करिष्ये । असा सङ्कल्प करून, गणेशपूजा, पुण्यहवाचन, मातृकापूजा, व नान्दीश्राद्ध ही करून, ब्रह्मादिदेवताम्स प्रतिमेवर अथवा तान्दुळाञ्च्या पुञ्जांवर आवाहन करून, १६ उपचारान्नी पूजून, त्या देवतां च्या नाममन्त्राने अग्नीत चरूचें हवन करून तूप, दहीम्, व मध यान्नी युक्त असा भात अथवा पायस मुलाम खाऊं घालून, व ताम्बूल देऊन त्याच्या पुढे नानात हेचे शिल्पपदार्थ, शस्त्रे, वस्त्रे, दौत लेखणी, पुस्तक वगैरे ठेवावी. मग मुलगा स्वेच्छेनें प्रथम ज्या वस्तूस हात लावाल तीवर तो आपली जीविका करील. असे त्याचे लक्षण जाणावें ॥
इति श्रीशूद्रधर्मतत्त्वप्रकाशे अन्नप्राशनप्रयोगः समाप्तः ॥