१७ उपवेशनम्

विश्वास-प्रस्तुतिः

अथोपवेशनम् ।

प्रयोगपारिजाते पाद्मे

पञ्चमे च तथा मासि भूमौ तम् उपवेशयेत् ।
तत्र सर्वे ग्रहाः शस्ता भौमो ऽप्य् अत्र विशेषतः ॥

विष्णुधर्मोत्तरे

वाराहं पूजयेद् देवं पृथ्वीं चैव तथा [१००] द्विजम् ।

पिता देशकालौ स्मृत्वास्य कुमारस्य सर्वारिष्टशान्त्यायुरारोग्यक्षेमार्थम् उपवेशनं करिष्ये इति सङ्कल्प्य, गणेशपूजां पुण्याहवाचनं च कृत्वा पीठे प्रतिमायाम्, वाराहं पृथ्वीं च नाम्ना षोडशोपचारैः सम्पूज्य, तदग्रे पञ्च सप्त वा धान्यपुञ्जान् कृत्वा, तन्मध्ये भूमौ वस्त्रे, करोतु स्वस्ति ते ब्रह्मेत्याद्यैर् वाद्यघोषेण शिशुम् उपवेश्य, मृत्युञ्जयं स्मृत्वा भस्मना रक्षां कृत्वा पठेत् ।

रक्षैनं वसुधे देवि सदा सर्वगतं शुभे ।
आयुःप्रमाणं सकलं निक्षिपस्व हरिप्रिये ॥
अचिराद् आयुषस् त्व् अस्य ये केचित् परिपन्थिनः ।
जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥
धारिण्य् अशेषभूतानां माता त्वम् असि कामधुक् ।
अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥
चराचराणां भूतानां प्रतिष्ठा चाव्यया ह्य् असि ।
कुमारं पाहि मातस् त्वं ब्रह्मा तद् अनुमन्यताम् ॥ इति ।

अत्रैव कटिसूत्रबन्धनम् । शिष्टास् त्व् अन्नप्राशनदिने एव निष्क्रमणम् उपवेशनं च कुर्वन्ति ॥

इत्य् उपवेशनादि

मूलम्

मराठी

आतां उपवेशनप्रयोग साङ्गतो. याविषयी प्रयोगपारिजाताम्त पद्मपुराणान्त- ‘‘मुलास पाञ्चवा महिना लागल्यानन्तर भूमीवर बसवावेम्. ज्या दिवशी बसविण्याचे असेल त्यादिवशी अन्य सर्व ग्रह प्रशस्त असून मङ्गळ विशेषेकरून अनुकूल असावा,’ असे साङ्गितले आहे. या उपवेशनाच्या प्रकारा विषयी विष्णुधर्मोत्तरान्त-“वराहरूपी देवाचेम्, पृथ्वीञ्चेम्, व ब्राह्मणाचे पूजन करून भूमीवर उपवशेन करावें,” असे साङ्गितले आहे. बापाने देशकालादि स्मरण करून– अस्य कुमारस्य सर्वारिष्टशान्त्यायुरारोग्यक्षेमार्थमुपवेशनं करिष्ये । असा सङ्कल्प करून, गणेश पूजा, व पुण्याहवाचन करून, पीठावर प्रतिमेचे ठायीं “वराहाय नमः, वराहमावाहयामि । पृथिव्यै नमः, पृथिवीमावाहयामि” या नाममन्त्रान्नी आवाहनादि षोडशोपचार पूजा करून, प्रतिमेपुढे ५ किंवा ७ धान्याचे पुञ्जके करून त्याञ्च्या मध्यभागी भूमीवर वस्त्र घालून, त्यावर वाद्याञ्चा गजर करीत असताम्- “करोतु स्वस्ति ते ब्रह्मा” (पृ० ७१ पहा.) इत्यादि ७ सात मन्त्रान्नी मुलास बसवून “मृत्युञ्जयाय नमः” असे ह्मणून त्याच्या अङ्गाम विभूति लावून रक्षा करावी; आणि पुढील मन्त्र ह्मणावे.

रक्षैनं वसुधे देवि सदा सर्वगतं शुभे ॥
आयुःप्रमाणं सकलं निक्षिपस्व हरिप्रिये ॥ १ ॥
अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः ॥
जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥ २ ॥
धारिण्यशेषभूतानां माता त्वमसि कामधुक् ॥
अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥ ३ ॥
चराचराणां भूतानां प्रतिष्ठा चाव्यया ह्यसि ॥
कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम् ॥ ४ ॥

या मन्त्रान्नी प्रार्थना करावी. मुलास कटदोरा बान्धणे तो याच दिवशी बान्धावा. साम्प्रतकाली अन्नप्राशन करण्याचे दिवशी निष्क्रमण, व उपवे शन करण्याचा शिष्टसम्प्रदाय आहे.

इति श्रीशूद्रधर्मतत्त्वप्रकाशे उपवेशनप्रयोगः ॥