विश्वास-प्रस्तुतिः
अथ निष्क्रमणम्।
ज्योतिर्निबन्धे यमः ।
तृतीये वा चतुर्थे वा मासि निष्क्रमणं भवेत् ।
मनुः ।
मासे चतुर्थे कर्तव्यं शिशोर् निष्क्रमणं गृहात् ।
षष्ठे ऽन्नप्राशनं मासि यच् चेष्टं मङ्गलं कुले ॥
अत्र शुशूक्तिर् न तु द्विजोक्तिः । तेन शूद्रस्यापीति मेधातिथिः । मदनरत्ने बृहस्पतिः ।
अन्नप्राशनकाले वा कुर्यान् निष्क्रमणक्रियाम् ।
विष्णुधर्मोत्तरे ।
दिगीशानां दिने तत्र तथा [९९] चन्द्रार्कयोर् द्विज ।
पूजनं वासुदेवस्य गगनस्य च कारयेत् ॥
बहिर् निष्कासयेद् गेहाच् छङ्खपुण्याहनिःस्वनैः ।
पिता देशकालौ स्मृत्वा अस्य शिशोर् बीजगर्भसमुद्भवैनोनिबर्हणद्वारा बलायुर्वर्चोऽभिवृद्ध्यर्थं निष्क्रमणं करिष्ये । इति सङ्कल्प्य, गणेशपूजापुण्याहवाचन-मातृकापूजानान्दीश्राद्धानि कृत्वा प्रतिमास्व् अक्षतपुञ्जेषु वैन्द्रादिदशदिक्पालचन्द्रसूर्यवासुदेवगगनानां नामभिर् आवाहनादिपूजां कृत्वा शङ्खतूर्यमङ्गलस्वनैः । सूर्यचन्द्रधेनूनां दर्शनं कारयित्वा पठेत् ।
चन्द्रार्कयोर् दिगीशानां दिशां च गगनस्य च ।
निक्षेपार्थम् इमं दद्मि ते त्वां रक्षन्तु सर्वदा ॥
ततो विप्राः - करोतु स्वस्ति ते ब्रह्मेत्याद्याशिषं दद्युः ।
इति निष्क्रमणम्
मूलम्

मराठी
यानन्तर निष्क्रमणविधि साङ्गतो. याविषयी ज्योतिर्निबन्धाम्त यम ह्मणतो-“तिसऱ्या अथवा चवथ्या महिन्याम्त नि प्क्रमण करावे.” मनु ह्मणतो-“चवथ्या महिन्याम्त मुलाला गृहापासून बाहेर आणावेम्, व महाव्या महिन्याम्त त्याच्याकडून अन्नप्राशन करवावेम्. आणि जे आपल्या कुलास इष्ट अमेल तें मङ्गल करावे.” या वाक्याम्त शिशोः (मुलाचें) असे हटले आहे. “द्विज शब्द नाही ह्मणून शिशुशब्द साधारणतः चारही वर्णास लागू आहे ह्मणून हा संस्कार शूद्रालाही विहित आहे,” असे मेधातिथि ह्मणतो. मदनरत्नाम्त बृहस्पति ह्मणतो की-“वर सां गितल्याप्रमाणे अथवा अन्नप्राशनकाली निष्क्रमणकर्म करावे.” विष्णुधर्मोत्तरान्त,- “सो मवारी व रविवारी अष्टौदिक्पालाञ्चेम्, वासुदेवाचेम्, व आकाशाचे पूजन करवून शङ्ख व इतर वार्ये, व पुण्याह शब्द याञ्चा गजर करून मुलाला ग्रहापासून बाहेर आणावें." असे साङ्गितले आहे. बापाने देशकाल याञ्चे स्मरण करून -
अस्य शिशोर्बीजगर्भसमुद्भवैनोनिबर्हणद्वारा बलायुर्वर्चोभिवृद्ध्यर्थं निष्क्रमणं करिष्ये ॥ तदङ्गतया गणेशपूजापुण्याहवाचन-मातृकापूजा-नान्दीश्राद्धादि करिष्ये ॥
असा सङ्कल्प करून गणप तिपूजनादि करून प्रतिमांवर अथवा अक्षतपुञ्जांवर इन्द्रादि ( इन्द्र, अग्नि, यम, निति, वरुण, वायु, सोम, ईश्वर, ब्रह्मा, अनम्त ) हे दहा दिक्पाल, चन्द्र, सूर्य, वासुदेव, व गगन याञ्ची नाममन्त्रान्नी आवाहनादि सोळा उपचारान्नी पूजा करून शङ्ख, वाजन्त्रे व मङ्गलशब्द यान्नी युक्त अमें सूर्य, चन्द्र, व गायी याञ्चे दर्शन करवून पुढील मन्त्र ह्मणावे -
चन्द्रार्कयोर्दिगीशानां दिशा च गगनस्य च ॥
निक्षेपार्थमिमं दद्मि ते त्वां रक्षन्तु सर्वदा ॥ १ ॥
अप्रमत्तं प्रमत्तं वा दिवारात्रमथापि वा ॥
रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः ॥ २ ॥
हे मन्त्र पटल्यावर ब्राह्मणान्नीम् - “करोतु स्वस्ति ते ब्रह्मा” इत्यादि मन्त्र मणून आशीर्वाद द्यावा.
इति श्रीशूद्रकमलाकरे निष्क्रमणप्रयोगः ॥