१० दत्तकपुत्रविधिः

विश्वास-प्रस्तुतिः

अथ दत्तकपुत्रविधिः

व्याहृत्यादिहोमस्य पुत्रप्रतिग्रहाङ्गत्वात् तत्र च स्त्रीशूदयोर् अनधिकारात् तयोर् दत्तकः पुत्रो न भवत्य् एवेति रुद्रधरादयः । विप्रद्वारा होमादि कारयेद् इति वर्धमान-हरिनाथादयो गौडाः । सम्बन्धतत्त्वे ऽप्य् एवम् । प्रयोगपारिजाते शौनकः

अपुत्रो मृतपुत्रो वा पुत्रार्थं समुपोष्य च ।
वाससी कुण्डले दत्वा उष्णीषं चाङ्गुलीयकम् ॥
बन्धून् अन्नेन सम्भोज्य ब्राह्मणांश् च विशेषतः ।
अन्वाधानादि यत् तन्त्रं कृत्वाज्योत्पवनान्तकम् ॥
दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् ।
देवस्य त्वेति मन्त्रेण हस्ताभ्यां परिगृह्य च ॥
अङ्गाद् अङ्गेत्य् ऋचं जप्त्वा आघ्राय शिशुमूर्धनि ।
गृहमध्ये तम् आधाय चरुं हुत्वा विधानतः ॥
यस् त्वा हृदेत्य् ऋचा चैव तुभ्यम् अग्रे ऋचैकया ।
सोमो ददद् इत्य् एताभिः प्रत्यृचं पञ्चभिस् तथा ॥
स्विष्टकृदादिहोमं च कृत्वा शेषं समापयेत् ।

मिताक्षरादौ वसिष्ठेन तु व्याहृतिभिर् आज्येन होम उक्तः । स च विप्रद्वारा कारणीयः । विशेषस् तु मत्कृते निर्णयसिन्धौ [९४] ज्ञेयः । स च दत्तकः पञ्चवर्षमध्ये ग्राह्यो नोर्ध्वम् । ऊर्ध्वं तु “पञ्चमाद् वर्षान् न दत्ताद्याः सुता नृप” इति कालिकापुराणात् । ऊर्ध्वं तु स्वदानेच्छोर् एव1 दानम् ।

विक्रयं चैव दानं च न देयाः स्युर् अनिच्छवः ।
दाराः पुत्राश् च सर्वस्वम् आत्मनैव तु योजयेत् ॥

इति हेमाद्रौ व्यासोक्तेः । यत् तु याज्ञवल्क्यः

स्वकुटुम्बाविरोधेन देयं दारसुताद् ऋते ।

इति, तत् स्वदानानिच्छुपुत्रपरम् इत्य् अन्यत्र विस्तरः ।

इति दत्तकपुत्रविधिः

मूलम्

मराठी

आतां दत्तकपुत्रविधि साङ्गतो.

त्याम्त शूद्राने दत्तक घ्यावा किंवा काय ? याविषयी अनेक मते आहेत. ती अशी की, “दत्तक पुत्र घेण्यास व्याहृतिहोम अवश्य असून तो पुत्रप्रतिग्रहाचा अङ्गभूत आहे, व स्त्रीशूद्राम्स तो होम करण्याचा अधिकार नाहीम्; ह्मणून त्याम्स दत्तक पुत्र होतच नाहीं,” असें रुद्रधरादि ग्रन्थकाराञ्चे मत आहे. “ब्राह्मणद्वारा होमादि करून स्त्रीशूद्रान्नी दत्तक पुत्र घ्यावा,” असें वर्धमान, व हरिनाथ इत्यादि गौड ह्मणतात. सम्बन्धतत्त्वनामक ग्रन्थाम्त असेच आहे. प्रयोगपारिजाताम्त शौनक ह्मणतो, “ज्यास पुत्र मुळीच झाला नसेल, किंवा होऊन मेला असेल त्यास पुत्र घेण्याची इच्छा असल्यास १ दिवस उपवास करून, त्या मुलास २ वस्त्रे, कुण्डलेम्, पागोटेम्, आङ्गठी वगैरे देऊन त्याच्या बन्धूस, व ब्राह्मणाम्स भोजन घालून अन्वाधानादि में तन्त्र आहे, ते आज्योत्पवनापर्यम्त करून पुत्र देणाराकडेस जाऊन, मला पुत्र दे ह्मणून मागावा. त्याने दिल्यावर देवस्य खा० या मन्त्राने दोनी हातान्नी त्या मुलास घेऊन, अङ्गादङ्गात ही ऋचा ह्मणून, त्याच्या मस्तकास हुङ्गून, आपल्या घरी त्यास आणून यस्वा हृदा० या ऋचे, व तुभ्यमग्ने० आणि सोमोदद० ह्या ऋचान्नी प्रतिचेस यथाविधि चरु हवन करून, स्विष्टकृदादि होम करून, होमशेष समाप्त करावें.” मिताक्षरादि ग्रन्थाम्त वसिष्ठाने तर व्याहृतीन्नी आज्यहोम करण्यास साङ्गितला आहे. तो ब्राह्मणद्वारा करण्यास योग्य आहे. याविषयी विशेष प्रकार निर्णयसिन्धूवरून जाणावा. दत्तक पुत्र घेणें तो ५ वर्षाञ्च्या आम्त असावा. त्याहून अधिक वयाचा घेऊ नये. कारण,- “पाञ्चव्या वर्षावर वयाचे दत्तकादिक पुत्र घेतां येत नाहीत,’ असें कालिकापुराणवचन आहे. कदाचित् पाम्च वर्षांहून अधिक व याचा दत्तक घेण्याचा व देण्याचा असेल तर जो पुत्र त्याविषयीं राजी असेल त्याच पित्याच्याने दान करवेल; इतराञ्चे करता येणार नाही. “कारण, पुत्राञ्चा विक्रय, व दान हे प्रौढ असून त्याञ्ची इच्छा नसेल तर होत नाही. स्त्रिया, पुत्र अथवा सर्वस्व हैं आपलं आपणच द्यावेम्2” अशी हेमाद्रीम्त व्यासोक्ति आहे. जे तर याज्ञवल्क्य ह्मणतो की,-“स्त्री पुत्रादि में द्यावयाचे ते आपल्या कुटुम्बाच्या अविरोधाने द्यावें,” ते आपल्या दानाविषयी इच्छा न करणाऱ्या पुत्राविषयी आहे असे समजावे. याविषयी अन्यत्र सविस्तर लिहिले आहे.

इति श्रीशूद्रकमलाकरे दत्तकपुत्रविधिः॥

  1. प्- इव ↩︎ ↩︎

  2. येथे “स्त्रिया, पुत्र , अथवा सर्वख हे आपले आपणच द्यावे,” असे हटले आहे, व त्याप्रमाणे स्त्रीपुत्रादि देतां येईल; परन्तु साम्प्रत आपल्यास आपण देता येत नाही. कारण,-आपल्यास आपण देणे यास स्वयन्दत्त. ह्मणतात. असा पुत्र कलियुगाम्त वय आहे. याविषयी निर्णयसिन्धूतील कलिवर्जप्रकरण पाहिले असतां सम. जेल. अतएव पूर्वोक्तवचनाचा अर्थ- मातापितराङ्कडून आपणच आपणास देववावे, असा ध्यावा. ↩︎