विश्वास-प्रस्तुतिः
[९२]
अथ षष्ठीपूजा ।
मिताक्षरायां मार्कण्डेयः ।
रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कार्यं जन्मदानां तथा बलिः ॥
पुरुषाः सहस्रहस्ताश् च नृत्यगीतैश् च योषितः ।
रात्रौ जागरणं कुर्युर् दशम्यां चैव सूतके ॥
व्यासः ।
सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुद्धिर् जन्मनि कीर्तिता ॥
प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥
अपरार्के ब्राह्मे ।
कन्याश् चतस्रो राकाद्या वातघ्नी चैव पञ्चमी ।
क्रीडनार्था च बालानां षष्ठी च शिशुरक्षिणी ॥
खड्गे तु पूजनीया वै वैश्यैर् व्रात्यैर् द्विजातिभिः ।
राका अनुमतिः सिनीवाली कुहूर् इति चतस्र कन्या इत्य् अर्थः । पिता देशकालौ स्मृत्वा, ममास्य शिशोः सर्वारिष्टशान्त्यायुरारोग्यसिद्ध्यर्थं गणेशजन्मदाजीवन्तिकाराकादीनां पूजनं करिष्ये । इति सङ्कल्प्य । कलशं संस्थाप्य तत्र पूर्णपात्रे वस्त्रोपरि गणेशं जन्मदां जीवन्तिकां स्कन्दं राकाम् अनुमतिं सिनीवलीं कुहूं वातघ्नीं च प्रतिमास्व् आवाह्य । खड्गे शिशुरक्षिणीं कुड्ये लिखितां षष्ठीं चावाह्य । षोडशोपचारैः सम्पूज्य माषभक्तादिबलिं दत्वा प्रार्थयेत् ।
गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा ।
तथा ममाप्य् अयं बालः षष्ठिके रक्ष्यतां नमः ॥
इति ।
[९३]
इति षष्ठीपूजा ।
मूलम्

मराठी
आतां षष्ठीपूजन साङ्गतो. याविषयीं मिताक्षरत मार्कण्डेय ह्मणतो की, “स्त्री प्रसूत झाल्यानन्तर विशेषेकरून स हावी रात्र मोठ्या हुशारीने रक्षण करावी. ती अशी की, रात्री जागरण करावेम्. जन्मदा नामक देवीम्स बलि द्यावा. पुरुषान्नी हाताम्त शस्त्रे घेऊन व स्त्रियान्नी गायन, नाच इत्यादि करून दाहाव्या रात्रीही जागरण करावें.” व्यास ह्मणतो की, “बाळन्तिणीच्या घराम्त राहणान्या जन्मदा नांवाच्या ज्या देवी आहेत, त्याञ्ची पूजा करावी. त्याकरितां जननाशौ चान्तही धर्मशास्त्रकर्त्यान्नी शुद्धि साङ्गितली आहे.” ती प्रथम, ६ वा, व १० वा, या दिवशी आहे. या तिन्ही दिवशीं सूतकदोष मानूं नये." अपरार्कनामक ग्रन्थाम्त ब्रह्मपुराणान्त- “राका १, अनुमती २, सिनीवाली ३, कुहू ४ ह्या चार कन्या; आणि वाती ५ वी ह्याञ्चे प्रतिमांवर व सहावी शिशुरक्षिणी हिचे वैश्य, व संस्काररहित ब्राह्मण यान्नी तलवारीवर आवाहन करून पूजन करावे. यालाच जन्मदा असें ह्मणतात.” बापाने स्नान, व देशकालादि स्मरण करून,- “ममास्य शिशोः सर्वारिष्टशान्त्यायुरारोग्यसिद्ध्यर्थं गणेशजन्मदाजीवन्तिकाराकादीनां पूजनं करिष्ये” । असा सङ्कल्प करून, कलश ठेवून त्यावर पूर्णपात्राम्त नवीन वस्त्रावर,-
गणेशाय नमः । गणेशम् आवाहयामि १ जन्मदायै नमः । जन्मदाम् आवाहयामि २ जीवन्तिकायै नमः । जीवन्तिकामावाहयामि ३ स्कन्दाय नमः । स्कन्दमावाहयामि ४ राकायै नमः । राकामावाहयामि ५ अनुमत्यै नमः । अनुमतीमावाहयामि ६ सिनीवाल्यै नमः । सिनीवालीमावाहयामि ७ कुव्हे नमः । कुहूमावाहयामि ८ वातघ्न्यै नमः । वातघ्नीमावाहयामि
९ ह्या मन्त्रान्नी या देवताञ्चें स्वर्णप्रतिमांवर आवाहन करून, तलवारीवर- “शिशुरक्षिण्यै नमः । शिशुरक्षिणीमावाहयामि” ह्मणून हिचे आवाहन करावेम्; आणि भिन्तीवर षष्ठी देवीचें चित्र काढून- “षष्ठ्यै नमः । षष्ठीमावाहयामि" असे आवाहन करून, सर्व देवताञ्चें षोडशोपचार पूजन करून भाताचा राशि करून त्यावर उडीद, गुलाल वगैरे घालून तो बलि देऊन पुढील मन्त्राने प्रार्थना करावी. “गौरीपुत्रो यथा स्कन्दः शिशुले रक्षितः पुरा ॥ तथा ममाप्ययं बालः षष्टिके रक्ष्यतां नमः १" नन्तर सर्व रात्र वायें वाजवून जागरण करून प्रातःकालीं स्नान करून देवताञ्ची उत्तरपूजा करून त्याञ्चे विसर्जन करावेम्. कर्म ईश्वरार्पण करावेम्.
इति श्रीशूद्रकमलाकरे षष्ठीपूजनप्रयोगः ॥