०६ पुंसवनम्

विश्वास-प्रस्तुतिः

[८९]

अथ पुंसवनम् ।

द्वितीये तृतीये चतुर्थे वा मासि पुन्नक्षत्रे भर्ताभ्यङ्गं कृत्वा देशकालौ स्मृत्वा अस्यां मम भार्यायां जनिष्यमाणगर्भस्य पुंरूपताप्राप्त्यर्थं बीजगर्भसमुद्भवैनोनिबर्हणार्थं च श्रीपरमेश्वरप्रीत्यर्थं पुंसवनं करिष्ये । इति सङ्कल्प्य । गणेशपूजापुण्याहवाचनमातृकापूजानान्दीश्राद्धानि कृत्वा, समानवर्णसवत्सगोर् दधि पत्न्या दक्षिणपाणौ दत्वा मध्ये प्रागग्रं यवं द्वौ माषौ पार्श्वयोर् दत्वा किं पिबसीति त्रिः पृष्ट्वा पुंसवनं पुंसवनम् इति त्रिर् उक्त्वा सा प्राश्नीयात् । एवं त्रिः कुर्यात् ॥

इति पुंसवनम् ।

मूलम्

मराठी

आतां पुंसवनप्रयोग साङ्गतो.

हैम्, गरोदर झाल्यापासून २ । ३ किंवा चतुर्थ महिन्याम्त दिनशुद्धि पाहून, ज्या दिवशी पुरुषनक्षत्र1 असेल त्या दिवशी, भर्त्याने अभ्यङ्गस्नान करून देशकालादिसङ्कीर्तन करून

अस्यां मम भार्यायां जनिष्यमाणगर्भस्य पुंरूपताप्राप्त्यर्थंं बीजगर्भसमुद्भवैनोनिबर्हणार्थं च श्रीपरमेश्वरप्रीत्यर्थं पुंसवनं करिष्ये ।

असा सङ्कल्प करून उदक सोडावेम्.

आणि गणेशपूजन, पुण्याहवाचन, मातृकापूजन, व नान्दीश्राद्ध करून, एकरङ्गाची असून सवत्स अशा गायीचे दहीं स्त्रीच्या उजव्या हाताम्त ठेवून त्याम्त पूर्वदिशेस शेवट करून, एक यव आणि पार्श्वभागीं दोन उडीद देऊन - किं पिबसि असें त्रिवार स्त्रीस विचारावेम्. स्त्रीने पुंसवनम् असे उत्तर देऊन तें दहीं प्यावे. असे ३ वेळ करून (पृ० ८५ ओ०१३ येथे साङ्गितल्याप्रमाणे ) कर्म ईश्वरार्पण करावेम्.

इति श्रीकमलाकरे पुंसवनप्रयोगः ॥

  1. या पुंसवनास शुद्ध ५ मीपासून वद्य ५ मीपर्यम्त ४।९।१४।१५ या तिथि वर्ज करून, रवि, मङ्गळ, व गुरु या वारी करावेम्. कित्येक ग्रन्थकर्त्यान्नी चन्द्र, बुध, शुक्र हेही वार योग्यच साङ्गितले आहेत. तशीच पु नक्षत्रे, झ० पुष्य, श्रवण, हस्त, पुनर्वसु, मृग, अभिजित् (उत्तराषाढा आणि श्रवण याञ्चा सन्धि), मूळ व अनुराधा, अश्विनी या ९ नक्षत्राम्स पुनक्षत्रे झणतात. याञ्चा योग पाहून हा संस्कार करावा. ↩︎