०४ प्रासङ्गिकम्

विश्वास-प्रस्तुतिः

[८६]

प्रासङ्गिकम्

एतदन्तं सर्वत्र संस्कारेषु समानम् । यत्र तु ग्रहयज्ञतुलादौ ऋत्विग्वरणं तत्राचाराच् छरावे ।

आपः क्षीरं कुशाग्राणि दधि दूर्वाक्षतास् तथा ।
सर्षपाः कुङ्कुमं चेति अर्घो ऽष्टाङ्गः प्रकीर्तितः ।

इति अष्टाङ्गम् अर्घं कृत्वा पिधाय,

स्वागतं भो द्विजश्रेष्ठा मदनुग्रहकारकाः ।
इदम् अर्घ्यम् इदं पाद्यं भवद्भिः प्रतिगृह्यताम् ॥

इति पादार्घम् आचारात् कृत्वाचार्यब्राह्मर्त्विग्वरणं कृत्वा ब्राह्मणान् प्रार्थयेत् ।

ब्राह्मणाः सन्तु मे शस्ताः पापात् पान्तु समाहिताः ।
वेदानां चैव दातारः पातारः सर्वदेहिनाम् ॥
जपयज्ञैस् तथा होमैर् दानैश् च विविधैः पुनः ।
देवानां च पितॄणां च तृप्त्यर्थं याजकाः कृताः ॥
येषां देहे स्थिता वेदाः पावयन्ति जगत्त्रयम् ।
रक्षन्तु सततं ते मां जपयज्ञे व्यवस्थिताः ॥
ब्राह्मणा जङ्गमं तीर्थं लोकेषु त्रिषु विश्रुतम् ।
येषां वाक्योदकेनैव शुद्ध्यन्ति मलिना जनाः ॥
पावनाः सर्ववर्णानां ब्राह्मणा ब्रह्मरूपिणः ।
सर्वकर्मरताः नित्यं वेदशास्त्रार्थकोविदाः ॥
श्रोत्रियाः सत्यवाचश् च देवध्यानरता सदा ।
यद् वाक्यामृतसंसिक्ता ऋद्धिं यान्ति नरद्रुमाः ॥
अङ्गीकुर्वन्तु कर्मैतत् कल्पद्रुमसमाशिषः ।
यथोक्तनियमैर् युक्ता मन्त्रार्थे स्थिरबुद्धयः ॥
यत् कृपालोचनात् सर्वा ऋद्धयो वृद्धिम् आप्नुयुः ।
मम यज्ञे जपे पूज्याः सन्तु मे नियमान्विताः ॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
देवध्यानरता नित्यं प्रसन्नमनसः सदा ॥
अदुष्टभाषिणः सन्तु मा सन्तु परनिन्दकाः ।
ममापि नियमा ह्य् एते भवन्तु भवताम् अपि ॥

आस्तां प्रासङ्गिकम् ।

मूलम्

मराठी

येथपर्यम्त सर्व संस्काराम्त पुण्याहवाचन वगैरे करावयाचें तें एकसारखेच; परन्तु जेथे ग्रहयज्ञ, तुलादान, इत्यादि कर्मात ऋत्विज वरावयाचे असतात, तेथें आचारानुसार एका शरावाम्त ( परळाम्त ) उदक, दूध, दर्भाची अग्रे, दही, दूर्वा, अक्षता, मोहऱ्या, आणि कुङ्कू ही घालावी. यास अष्टाङ्ग अर्घ्य ह्मणतात. असे करून तो परळ झाङ्कून-“स्वागतं भो द्विजश्रेष्ठा मदनुग्रहकारकाः ॥ इदमय॑मिदं पायं भवद्भिः प्रतिगृह्यताम्” या मन्त्राने यथाचार पादाय॑ वगैरे देऊन, आचार्य ब्रह्मा इत्यादि ऋत्विज वरून, हात जोडून ब्राह्मणाञ्ची प्रार्थना करावी. तिचे मन्त्र -

ब्राह्मणाः सन्तु मे शस्ताः पापात्पान्तु समाहिताः ॥
वेदानां चैव दातारः पातारः सर्वदेहिनाम् ॥१॥
जपयज्ञैस्तथा होमैर्दानैश्च विविधैः पुनः ॥
देवानां च पितॄणां च तृप्त्यर्थं याजकाः कृताः ॥ २ ॥
येषां देहे स्थिता वेदाः पावयन्ति जगत्त्रयम् ॥
रक्षन्तु सततं ते मां जपयज्ञे व्यवस्थिताः ॥ ३ ॥
ब्राह्मणा जङ्गमं तीर्थं लोकेषु त्रिषु विश्रुतम् ॥
येषां वाक्योदकेनैव शुद्ध्यन्ति मलिना जनाः ॥ ४ ॥
पावनाः सर्ववर्णानां ब्राह्मणा ब्रह्मरूपिणः ॥
सर्वकर्मरता नित्यं वेदशास्त्रार्थकोविदाः ॥५॥
श्रोत्रियाः सत्यवाचश्च देवध्यानरताः सदा ॥
यद्वाक्यामृतसंसिक्ता ऋद्धिं यान्ति नरद्रुमाः ॥ ६ ॥
अङ्गीकुर्वन्तु कर्मैतत् कल्पद्रुमसमाशिषः ॥
यथोक्तनियमैर्युक्ता मन्त्रार्थे स्थिरबुद्धयः ॥ ७ ॥
यत्कृपालोचनात्सर्वा ऋद्धयो वृद्धिमाप्नुयुः ॥
मम यज्ञे जपे पूज्याः सन्तु मे नियमान्विताः ॥ ८ ॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ॥
देवध्यानरता नित्यं प्रसन्नमनसः सदा ॥ ९ ॥
अदुष्टभाषिणः सन्तु मा सन्तु परनिन्दकाः ॥
ममापि नियमा ह्येते भवन्तु भवतामपि ॥ १० ॥

येथपर्यम्त १० मन्त्रान्नी प्रार्थना करावी. हा विशेष येथे प्रसङ्गानुसार सां गितला आहे. बाकी सर्व पूर्ववत् आहे असें जाणावेम्.