०१ प्रवेशः

विश्वास-प्रस्तुतिः

[७३]

अथ शूद्रस्य संस्कारप्रयोगाः

तत्रादौ सर्वकर्माङ्गत्वात् पुण्याहवाचनम् आचारानुसारेणोच्यते । व्यासः

सम्पूज्य गन्धमाल्याद्यैर् ब्राह्मणान् स्वस्ति वाचयेत् ।
काम्यकर्मणि माङ्गल्ये सङ्ग्रामाद्भुतदर्शने ॥

यमः

सोङ्कारं ब्राह्मणे कुर्यान् निरोङ्कारं महीपतौ ।
उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तयेत् ॥

कर्ताऽऽचम्य सुमुखश् चैकदन्तश् चेत्यादि पठित्वा श्रुत्वा वा देशकालौ सङ्कीर्त्य अमुककर्म करिष्ये । तदङ्गतया गणेशपूजनं पुण्याहवाचनं करिष्ये । इति सङ्कल्प्य गणेशं पूजयेत् । यथा ।

हे हेरम्ब त्वम् एह्य् एहि अम्बिकात्र्यम्बकात्मज ।
सिद्धिबुद्धियुत त्र्यक्ष सर्वलोकपितः पितः ॥
नागास्य नागहार त्वं गणनाथ चतुर्भुज ।
भूषितः स्वायुधैर् दिव्यैः पाशाङ्कुशपरश्वधैः ॥
आवाहयामि पूजार्थं रक्षार्थं च मम क्रतोः ।
इहागत्य गृहाण त्वं पूजां रक्ष च मे क्रतुम् ॥

इत्य् आवाह्य षोडशोपचारैः सम्पूज्य पात्रे सफलम् अर्घ्यम् आदाय ।

रक्ष रक्ष गणाध्यक्ष त्र्यक्ष त्रैलोक्यरक्षक ।
भक्तानाम् अभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो देव षाण्मातुराग्रज ।
वरदस् त्वं वरं देहि वाञ्छितार्थप्रदो भव ॥
अनेन फलदानेन फलदो भव मे प्रभो ।

इत्य् अर्घ्यं दत्वा, वक्रतुण्ड महाकायेति प्रार्थयेत् । यद् वा ।

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय सितसर्पविभूषिताय गौरीसुताय गणनाथ नमो नमस् ते ।
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस् ते ।

नमस् ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।
नमस् ते रुद्ररूपाय करिरूपाय ते नमः ॥

इति प्रार्थना । ततः स्वाग्रे धान्यराशिद्वये कलशौ संस्थाप्य, तत्र गन्धदूर्वापञ्चपल्लवफलहेमपञ्चरत्नादि क्षिप्त्वा, धान्यपूर्णं पात्रद्वयं न्यस्य, तत्र

पाशहस्तं च वरुणम् अम्भसाम्1 पतिम् ईश्वरम् ।
आवाहयामि यज्ञे ऽस्मिन् पूजेयं प्रतिगृह्यताम् ॥

इति वरुणम् आवाह्य सम्पूज्य, कलशस्य मुखे विष्णुर् इत्याद्यैः सम्प्रार्थ्य,

मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव आशिषः प्रार्थयन्ते (प्रार्थनाम् आह) एताः सत्या आशिषः सन्तु । अवनिकृतजानुमण्डलः कमलमुकुलसदृशम् अञ्जलिं शिरस्य् आधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वा, दीर्घा नागा नद्यो गिरयस् त्रीणि विष्णुपदानि च तेनायुः प्रमाणेन पुण्याहं दीर्घम् आयुर् अस्तु, शिवा आपः सन्तु, सौमनस्यम् अस्तु । अक्षतं चारिष्टं चास्तु । गन्धाः पान्तु । सुमङ्गल्यं चास्तु । अक्षताः पान्तु । आयुष्यम् अस्तु । पुष्पाणि पान्तु । सौश्रियमस्तु ॥ ताम्बूलानि पान्तु । ऐश्वर्यमस्तु ॥ दक्षिणाः पान्तु ॥ बहुदेयं चास्तु ।

इति विप्रहस्ते दत्वा । यं कृत्वा सर्वदेवयज्ञक्रिया-कर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तम् अहं नत्वा भवद्भिर् अनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । वाच्यताम् इति तैर् उक्ते,

मा विघ्नं मा च मे पापं मा सन्तु परिपन्थिनः ।
सौम्या भवन्तु सुखिनः सर्वे लोकाः सुखावहाः ॥

इति कर्ता वदेत् । विप्रास् तथास्त्व् इत्य् उक्त्वा,

करोतु स्वस्ति ते ब्रह्मा स्वस्ति वापि द्विजातयः ।
सरीसृपाश् च ये श्रेष्ठास् तेभ्यस् ते स्वस्ति सर्वदा ॥

[७४] ययातिर् नहुषश् चैव धुन्धुमारो भगीरथः ।
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्ति नित्यशः ॥
स्वस्ति ते ऽस्तु द्विपादेभ्यश् चतुष्पादेभ्य एव च ।
स्वस्त्य् अस्त्व् अपादेभ्यश् च सर्वेभ्यः स्वस्ति सर्वदा ॥
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ।
लक्ष्मीर् अरुन्धती चैव कुरुतां स्वस्ति ते ऽनघ ॥
असितो देवलश् चैव विश्वामित्रस् तथाङ्गिराः ।
स्वस्ति ते ऽद्य प्रयच्छन् तु कार्तिकेयश् च षण्मुखः ॥
विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः ।
दिग्गजाश् चैव चत्वारः क्षितिश् च गगनं ग्रहाः ॥
अधस्ताद् धरणीं यो ऽसौ नागो धारयते सदा ।
शेषश् च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥

इति वदेयुः । ततः कर्ता ।

भो ब्राह्मणाः मनः समाधीयताम् । समाहितमनसः स्म इति ते । प्रसीदन्तु भवतः । प्रसन्नाः स्मः इत्य् उक्ते । कुम्भाज् जलं पातयन् वदेत् ।

शान्तिर् अस्तु । पुष्टिर् अस्तु । तुष्टिर् अस्तु । वृद्धिर् अस्तु । अविघ्नम् अस्तु । आयुष्यम् अस्तु । आरोग्यम् अस्तु । शिवं कर्मास्तु । कर्मसमृद्धिर् अस्तु । पुत्रसमृद्धिर् अस्तु । धनधान्यसमृद्धिर् अस्तु । इष्टसम्पद् अस्तु । अरिष्टनिरसनम् अस्तु । यत् पापं तत् प्रतिहतम् अस्तु । यच् छ्रेयस् तद् अस्तु । उत्तरे कर्मण्य् अविघ्नम् अस्तु । उत्तरोत्तरम् अहर् अहर् अभिवृद्धिर् अस्तु । उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथिकरणमुहूर्तं नक्षत्रसम्पद् अस्तु । तिथिकरणमुहूर्त-नक्षत्रग्रहलग्नादिदेवताः प्रीयन्ताम् । दुर्गापाञ्चाल्यौ प्रीयेताम् । अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् । ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् । वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् । ब्रह्म च ब्राह्मणाश् च प्रीयन्ताम् । श्रीसरस्वत्यौ प्रीयेताम् । श्रद्धामेधे प्रीयेताम् । भगवती कात्यायनी प्रीयताम् । भगवती माहेश्वरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भवगती वृद्धिकरी प्रीयताम् । भगवती ऋद्धिकरी प्रीयताम् । भगवन्तौ विघ्नविनायकौ प्रीयेताम् । भगवान् स्वामी महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयताम् । हरिहरहिरण्यगर्भाः प्रीयन्ताम् । सर्वाश् च ग्रामदेवताः प्रीयन्ताम् । सर्वा इष्टदेवताः प्रीयन्ताम् । हता ब्रह्मद्विषः । हताः परिपन्थिनः । हता अस्य कर्मणो विघ्नकर्तारः । शत्रवः पराभवं यान्तु । शाम्यन्तु घोराणि । शाम्यन्तु पापानि । शाम्यन्त्व् ईतयः । शुभानि वर्धन्ताम् । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा अग्नयः सन्तु । शिवा औषधयः सन्तु । शिवा वनस्पतयः सन्तु । शिवा अतिथयः सन्तु । अहोरात्रे शिवे स्याताम् । शुक्राङ्गारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् । भगवान् नारायणः प्रीयताम् । भगवान् पर्जन्यः प्रीयताम् । भगवान् स्वामी महासेनः प्रीयताम् । पुण्याहकालान् वाचयिष्ये ।

वाच्यन्ताम् ।

ब्राह्मं पुण्यम् अहर् यच् च स्वस्त्य् उत्पादनकारकम् ।
वेदवृक्षोद्भवं नित्यं तत् पुण्याहं ब्रुवन्तु नः ॥
दीयन्ते यत्र दानानि पूज्यन्ते2 च द्विजातयः ।
दृश्यते यत्र माङ्गल्यं तत् पुण्याहं सदास्तु मे ॥

मम गृहे ऽस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु । स्वस्ति पुण्याहम् इति त्रिर् विप्राः । ततः ।

स्वस्तिर् या चाविनाशाख्या पुण्यकल्याणवृद्धिदा ।
विनायकप्रिया नित्यं तां स्वस्ति भो ब्रुवन्तु नः ॥

मम गृहे स्वस्ति भवन्तो ब्रुवन्तु । आयुष्मते स्वस्ति इति विप्राः ।

सागरस्य तु या ऋद्धिर् महालक्ष्म्यादिभिः कृता ।
सम्पूर्णा पूर्णचन्द्रे वा ताम् ऋद्धिं भो [७५] ब्रुवन्तु नः ॥

मम गृहे ऋद्धिं भवन्तो ब्रुवन्तु । ऋध्यताम् इति त्रिर् विप्राः ।

पृथिव्याम् उद्धृतायां तु यत् कल्याणं पुरा कृतम् ।
ऋषिभिः सिद्धगन्धर्वैस् तत् कल्याणं ब्रुवन्तु नः ॥

मम गृहे कल्याणं भवन्तो ब्रुवन्तु । कल्याणम् इति त्रिर् विप्राः ।

ततः क्षीरोदधिसमुद्भूता मथ्यमाने महोदधौ ।
विष्णोश् चैव प्रिया नित्यं तां श्रियं भो ब्रुवन्तु नः ॥

मम गृहे श्रीर् अस्त्व् इति भवन्तो ब्रुवन्तु । अस्तु श्रीर् इति तैर् उक्ते वर्षशतं पूर्णम् अस्तु । शिवम् अस्तु । वंशाभिवृद्धिर् अस्तु । प्रजापतिः प्रीयताम् । ततो विप्राः ।

सुरास् त्वाम् अभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥
प्रद्युम्नश् चानिरुद्धश् च भवन्तु विजयाय ते ।
आखण्डलो ऽग्निर् भगवान् यमो वै निरृतिस् तथा ॥
वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः ।
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥
कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया मतिः ।
बुद्धिर् लज्जा वपुः शान्तिः कान्तिस् तुष्टिश् च मातरः ॥
एतास् त्वाम् अभिषिञ्चन्तु देवपत्न्यः समागताः ।
ऋषयो मुनयो गावो देवमातर एव च ॥
देवपत्न्यो द्रुमा नागा दैत्याश् चाप्सरसां गणाः ।
अस्त्राणि सर्वशस्राणि राजानो वाहनानि च ॥
औषधानि च रत्नानि कालस्यावयवाश् च ये ।
सरितः सागराः शैलास् तीर्थानि जलदा नदाः ॥
एते त्वाम् अभिषिञ्चन्तु सर्वकामार्थसिद्धये ।

इत्याद्यैः पूर्वोक्तैर् अभिषिञ्चेयुः । तत्र पत्नी वामे । ततः करोतु स्वस्ति ते3 ब्रह्मेत्याद्यैः पूर्वोक्तैर् यजमानस्य नीराजनतिलकौ आशीर्वादश् च । एवं सर्वत्र ।

इति कमलाकरभट्टकृतौ शूद्रस्य पुण्याहवाचनम् ।

मूलम्

मराठी

संस्कारादिप्रकरणम् २.

यानन्तर शूद्राचे गर्भाधानादि सर्व संस्कारप्रयोग साङ्गतो. ते प्रयोग साङ्गण्यापूर्वी सर्व कर्मास अङ्गभूत असणारे पुण्याहवाचन आचारानुसार साङ्गतो. याविषयीं व्यास - “गन्धपुष्पादिकान्नी ब्राह्मणाञ्चे पूजन करून पुण्याहवाचन करावेम्. हे पुण्याहवाचन प्रत्येक काम्य4, व माङ्गलिक5 कर्मात, तसेच लढाईस जातेवेळी, व अद्भुतदर्शन6 झाले असतां अवश्य करावें.’ असें ह्मणतो. यम - “ब्राह्मणाविषयीं ओंकारसहित (ॐ पुण्याहम्), क्षत्रियांविषयीं ओङ्काररहित ( पुण्याहम् ), वैश्याविषयी उपांशु (हळू), आणि शूद्राविषयीं स्वस्ति (स्वस्ति पुण्याहम् ) असें पठण करावें.” असें ह्मणतो. प्रथम पुण्याहवाचनकर्त्याने पूर्वी साङ्गितल्याप्रमाणे आचमन करून, “सुमुखश्चैकदन्तश्च7” इत्यादि श्लोक ह्मणून, देशकालादिसङ्कीर्तन करून,-अमुक-( येथें में कर्तव्य कर्म असेल त्याचा उच्चार करावा. ) कर्म करिष्ये । असें ह्मणून उदक सोडावेम्.

नन्तर-तदङ्गतया गणेशपूजनं पुण्याहवाचनं च करिष्ये । असें ह्मणून उदक सोडावेम्. नन्तर गणेशपूजन करावे. तें,-“हे हेरम्ब खमेह्येहि अम्बिकाव्यम्बकात्मज ॥ सि. द्धिबुद्धियुत व्यक्ष सर्वलोकपितः पितः॥१॥ नागास्य नागहार वं गणनाथ चतुर्भु ज ॥ भूषितः स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः ॥ २ ॥ आवाहयामि पूजार्थ रक्षार्थ च मम क्रतोः॥ इहागत्य गृहाण वं पूजां रक्ष च मे क्रतुम्” ॥३॥ ह्या तीन मन्त्रान्नी गणपतीचे आवाहन करून, त्याचे सोळा उपचारान्नीं पूजन करावे. नन्तर एका पात्राम्त गन्ध, पुष्प, फल, यान्नी युक्त असें अध्ये घेऊन,-

रक्ष रक्ष गणाध्यक्ष देव त्रैलोक्यरक्षक ॥
भक्तानामभयङ्कर्ता त्राता भव भवार्णवात् ॥१॥
द्वैमातुर कृपासिन्धो देव षाण्मातुराग्रज ।
वरदस्त्वं वरं देहि वाञ्छितार्थप्रदो भव ॥२॥
अनेन फलदानेन फलदो भव मे प्रभो ॥

इत्यादि मन्त्र ह्मणून अर्घ्य द्यावेम्; आणि,

वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ॥
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

हा मन्त्र ह्मणून अथवा,

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ॥
नागाननाय सितसर्पविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥१॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ॥
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥२॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ॥
नमस्ते शिवरूपाय करिरूपाय ते नमः ॥३॥

या तीन मन्त्रानी प्रार्थना करावी. नन्तर आपल्यापुढे धान्याचे दोन राशी करून त्यांवर २ कलश ठेवून त्याम्त गन्ध, दूर्वा, पञ्चपल्लव, फल, सोने, पञ्चरत्ने घालून, त्यांवर धान्यान्नी भरलेली २ पू. र्णपात्रे ( ताह्मणे) ठेवून, तेथेम्,

पाशहस्तं च वरुणमम्भसां पतिमीश्वरम् ॥
आवाहयामि यज्ञेस्मिन्पूजेयं प्रतिगृह्यताम्

या मन्त्राने वरुणाचे आवाहन करून

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ॥
मूले त्वत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥ १ ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ २ ॥
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ॥
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥ ३ ॥
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥ ४ ॥
नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ ५॥
सर्वे समुद्राः सरितस्तीर्थानि जलदानदाः ॥
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥

या मन्त्रान्नी प्रार्थना करून, -

मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव8

असें पटल्यावर, यजमानाने भूमीवर गुडघे टेकून कमलाच्या कळ्यासारखा अञ्जली करून मस्तकावर ठेवून, त्याम्त उ जव्या हाताने उदकपूर्ण कलश, धारण करून, आशीर्वादार्थ ब्राह्मणाञ्ची प्रार्थना करावी.

ती असी की;-

एताः सत्या आशिषः सन्तु । दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेनायुःप्रमाणेन पुण्याहं दीर्घमायुरस्तु । शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु ।

येथपर्यम्त ब्राह्मणांनी ह्मणावे. मग यजमानानें– गन्धाः पान्तु असें ह्मटल्यावर, विप्रान्नी- सौमङ्गल्यं चास्तु; असे ह्मणावें. असेम्च यजमानानेम् - अक्षताः पान्तु, ब्राह्मणांनी आयुष्यमस्तु - यज० - पुष्पाणि पान्तु, ब्रा०- सौश्रियमस्तु; यज०- ताम्बूलानि पान्तु, ब्रा०- ऐश्वर्यमस्तु यज०- दक्षिणाः पान्तु, ब्रा०– बहुदेयं चास्तु. असे यजमान, व ब्राह्मण यान्नी ह्मणावेम्. नन्तर यजमाना ब्राह्मणाम्स अक्षता देऊन,-

यं कृत्वा सर्ववेदक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहं नत्वा भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये

येथपर्यम्त ह्मणावेम्. मग ब्राह्मणांनी वाच्यताम् झटले असताम्;

मा विघ्नं मा च में पापं मा सन्तु परिपन्थिनः ॥
सौम्या भवन्तु सुखिनः सर्वे लोकाः सुखावहाः ॥

असें कर्त्याने ह्मणावेम्. ब्राह्मणांनीम्- तथास्तु असें ह्मणून,-

करोतु स्वस्ति ते ब्रह्मा स्वस्ति वापि द्विजातयः ॥
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ॥ १ ॥
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः ॥
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु नित्यशः ॥ २॥
स्वस्ति तेस्तु द्विपादेभ्यश्चतुष्पादेभ्य एव च ॥
स्वस्त्यस्त्वपादकेभ्यश्च सर्वेभ्यः स्वस्ति सर्वदा ॥ ३ ॥
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ॥
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति ते सदा ॥ ४ ॥
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः ॥
स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः ॥ ५ ॥
विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः ॥
दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः ॥ ६ ॥
अधस्ताद्धरणीं योसौ नागो धारयते सदा ॥
शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥

येथपर्यम्त ७ मन्त्र ह्मणावे. नन्तर कल्ने - ब्राह्मणाः मनः समाधीयताम् असें मटलें असताम्, विप्रान्नी- समाहितमनसः स्मः असें ह्मणावे. आणखी यजमानानेम् - प्रसीदन्तु भवन्तः, ब्राह्मणांनी- प्रसन्नाः स्मः असे हटल्यावर स्थापित कलशान्तील पाण्याची धार ताह्मणाम्त सोडीत असताम्,

9शान्तिरस्तु ।

पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु । कर्मसमृद्धिरस्तु । पुत्रसमृद्धिरस्तु । धनधान्यसमृद्धिरस्तु । इष्टसम्पदस्तु । अरिष्टनिरसनमस्तु । यत्पापं तत्प्रतिहतमस्तु । यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमहरहरभिवृद्धिरस्तु । उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथिकरणमुहूर्तनक्षत्रसम्पदस्तु । तिथिकरणमुहूर्तनक्षत्रग्रहलग्नादिदेवताः प्रीयन्ताम् । दुर्गापाञ्चाल्यौ प्रीयेताम् । अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् । ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् । वसिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् । ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । श्रीसरस्वत्यौ प्रीयेताम् । श्रद्धामेधे प्रीयेताम् । भगवती कात्यायनी प्रीयताम् । भगवती माहेश्वरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भगवती वृद्धिकरी प्रीयताम् । भगवती ऋद्धिकरी प्रीयताम् । भगवन्तौ विघ्नविनायकौ प्रीयेताम् । भगवान्स्वामी महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयताम् । हरिहरहिरण्यगर्भाः प्रीयन्ताम् । सर्वा ग्रामदेवताः प्रीयन्ताम् । सर्वाः कुलदेवताः प्रीयन्ताम् । सर्वा इष्टदेवताः प्रीयन्ताम् । हता ब्रह्मद्विषः । हताः परिपन्थिनः । हता अस्य कर्मणो विघ्नकर्तारः । शत्रवः पराभवं यान्तु । शाम्यन्तु घोराणि । शाम्यन्तु पापानि । शाम्यन्वीतयः । शुभानि वर्धन्ताम् । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा अग्नयः सन्तु । शिवा ओषधयः सन्तु । शिवा वनस्पतयः सन्तु । शिवा अतिथयः सन्तु । अहोरात्रे शिवे स्याताम् । शुक्राङ्गारकबुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् । भगवान्नारायणः प्रीयताम् । भगवान्पर्जन्यः प्रीयताम् । भगवान्स्वामी महासेनः प्रीयताम् । पुण्याहकालान्वाचयिष्ये ॥

येथपर्यम्त ह्मणावेम्. नन्तर द्विजान्नी वाच्यताम् असे प्रतिवचन दिल्यावर, यजमानाने -

ब्राह्मं पुण्यमहर्यच्च स्वस्त्युत्पादनकारकम् ॥
वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥ १ ॥
दीयन्ते यत्र दानानि पूज्यन्ते च द्विजातयः ॥
दृश्यते यत्र माङ्गल्यं तत्पुण्याहं सदास्तु मे ॥

असे २ मन्त्र ह्मणून - मम गृहे अस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु असें ह्मणावेम्. विप्रान्नी स्वस्ति पुण्याहम् असे ३ वेळ ह्मणावेम्. नन्तर यजमाना में -

स्वस्तिर्या चाविनाशाख्या पुण्यकल्याणवृद्धिदा ॥
विनायकप्रिया नित्यं तां स्वस्ति भो ब्रुवन्तु नः ॥

हा मन्त्र ह्मणून - मम गृहे स्वस्ति भवन्तो ब्रुवन्तु असें ह्म टल्यावर विप्रान्नीम्- आयुष्मते स्वस्ति असे ३ वेळ ह्मणावेम्. पुनः यजमानानें –

सागरस्य तु या ऋद्धिर्महालक्ष्यादिभिः कृता ।
सम्पूर्णा पूर्णचन्द्रे या तामृद्धिं भो ब्रुवन्तु नः ।

हा मन्त्र ह्मणून - मम गृहे ऋद्धिं भवन्तो ब्रुवन्तु असें मटल्यावर, विप्रान्नी ऋद्ध्यताम् असें ३ वेळ ह्मणावेम्. यजमानानेम् -

पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् ॥
ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः

हा मन्त्र ह्मणून - मम गृहे क ल्याणं भवन्तो ब्रुवन्तु असे मटल्यावर, विप्रान्नी- कल्याणम् असे ३ वेळ ह्मणावेम्. नन्तर-

क्षीरोदधिसमुद्भूता मथ्यमाने महोदधौ ॥
विष्णोश्चैव प्रिया नित्यं तां श्रियं भो ब्रुवन्तु नः ॥

हा मन्त्र ह्मणून- मम गृहे श्रीरस्त्विति भवन्तो ब्रुवन्तु असें लूट ल्यावर,- अस्तु श्रीः असें ब्राह्मणांनी ३ वेळ ह्मणून- “वर्षशतं पूर्णमस्तु । शिवमस्तु । वंशाभिवृद्धिरस्तु । प्रजापतिः प्रीयताम्" ॥ असे ह्मणावे. नन्तर विप्रान्नी पूजन केलेल्या कलशान्तील पाणी एका ताह्मणाम्त घेऊन, दोन विप्रान्नी त्या पाण्याने यजमानास अभिषेक करावा. त्या वेळी-

सुरास्त्वामभिषिचन्तु ब्रह्मविष्णुमहेश्वराः ॥
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ १ ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥
आखण्डलोऽग्निर्भगवान्यमो वै निरृतिस्तथा ॥ २ ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥३॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥
बुद्धिर्लज्जा वपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥ ४ ॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ॥
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥ ५ ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ६ ॥
ऋषयो मुनयो गावो देवमातर एव च ॥
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥ ७ ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ ८ ॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ ९ ॥

येथपर्यम्त ९ मन्त्र, आणि पूर्वी साङ्गितलेले “करोतु स्वस्ति ते ब्रह्मा.” ॥ इत्यादि ७ मन्त्र यान्नी अभिषेक करावा. अभिषेकाच्या वेळी यजमानाच्या डाव्या बाजूस यजमानस्त्री असावी. नन्तर, “करोतु स्वस्ति ते ब्रह्मा०” ॥ या मन्त्रान्नी यजमानास त्याच्या घरान्तील कोणी सुवासिनीने आरती दाखवावी. तसाच पुरोहिताने या मन्त्रान्नी यज मानास कुङ्कुमाचा तिलक लावावा. ब्राह्मणांनी याच मन्त्रानी आशीर्वाद द्यावा. याप्रमाणे कोणत्याही कर्मात पुण्याहवाचन करणे तें असेम्च करावेम्.

॥ इति पुण्याहवाचनप्रयोगः ॥

  1. प्- अर्णसां ↩︎ ↩︎

  2. प्- पूजान्ते ↩︎ ↩︎

  3. प् ओमित्स् ते ↩︎ ↩︎

  4. पुत्र इत्यादिकाञ्च्या प्राप्तीच्या उद्देशाने में करितात त्या कर्मास काम्य असे ह्मणतात. ↩︎

  5. विवाह, मौञ्जी इत्यादि कमें मङ्गलकार्ये होत. ↩︎

  6. काकमैथुन इत्यादिकाञ्चे दर्शन याम्स अदत झणतात. ही शान्तिसार इत्यादि ग्रन्थाम्त सविस्तर व णिली आहेत. ↩︎

  7. येथे सर्व कर्मारम्भी जे श्लोक वगैरे ह्मणावयाचे त्याञ्चे मूळाम्त हे केवळ प्रतीक घेतले आहे; तेवव्याने ज्यांला ते येत नसतील त्याञ्चा निर्वाह होणार नाही याकरितां ते साद्यम्त खाली लिहितोम्. कपिलो गजकर्णकः ॥ लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥१॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥२॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ३ ॥ शुक्राम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ४ ॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ॥ सर्वविघ्नहरस्तस्मै (श्री) गणाधिपतये नमः ॥५॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ॥६॥ सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ॥ येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥ ७ ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ॥ विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥८॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ॥ तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥९॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः ॥ देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ १० ॥ लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातापितृभ्यां नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः ॥ श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य आद्य ब्रह्मणोस्य द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमचरणे जम्बूद्वीपे भरतवर्षे बौद्धावतारे अमुकदेशे अमुकक्षेत्रे अमुकशके वर्तमानव्यावहारिक० एथपर्यम्त ह्मणून चालू वर्ष, अयन, ऋतु, महिना, पक्ष, तिथि, वार, नक्षत्र, योग, करण, व प्र हाञ्ची स्थाने वगैरे याञ्चा उल्लेख करून, एवङ्गणविशेषविशिष्टायां पुण्यतिथौ परमेश्वराझारूप सकलपुराणोक्तफलप्राप्त्यर्थः । हे पूर्वी ह्मणून मग कर्तव्यकर्माचा उल्लेख करून उदक सोडावे. ↩︎

  8. “ही वाक्ये झणत असतां प्रत्येक वाक्याच्या अन्नी स्थापित कलशांवर अक्षता टाकाव्या” असें ना रायणभट्टाने साङ्गितले आहे, वशिष्टसम्प्रदायही असाच आहे. ↩︎

  9. ही वाक्ये सर्वान्नी मिळून ह्मणावी, असा प्रयोगपारिजातकाञ्चा आशय असावा असे दिसते. ↩︎