विश्वास-प्रस्तुतिः
[६१]
अथ शूद्राणां विहितनिषिद्धधर्माः
लघुपराशरः ।
विक्रीणन् मद्यमांसादि त्व् अभक्ष्यस्य च भक्षणम् ।
कुर्वन्न् अगम्यागमनं शूद्रः पतति तत्क्षणात् ॥
कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण शूद्रश् चाण्डालतां व्रजेत् ॥
यत् तु स एव,
लवणं मधु मद्यं च दधि तक्तं घृतं पयः ।
न दुष्येच् छूद्रजातीनां कुर्यात् सर्वेषु विक्रयम् ॥
इति, तद् आपदि ज्ञेयम् इति स्मृतिकौमुदी । असच्छूद्रपरम् उक्तम् । एवम् असच्छूद्राणां मद्यमांसभक्षणे ऽपि न [६२] दोषः निषिद्धमांसं विना । अतः सुरापशूद्रसंसर्गे न दोषः । पतितसंसर्गे हि सः न चायं तथा । द्विजानां तु निषेधात् पातित्यम् इति । तत्संसर्गे शूद्रस्य दोष एव शूद्रस्य वर्जने तु अभ्युदयः । तद् आह मनुः ।
न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ इति ।
सच्छूद्रैर् वर्ज्यम् एव । यत् तु कालिकापुराणे,
विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक् ।
मधु चर्म सुरां लाक्षां भुक्त्वा मांसं च पञ्चमम् ॥ इति ।
अत्र “अनापदि मध्वादिनिषेधः” इति कल्पतरुः । पराशरपुराणे ऽपि ।
पिण्याकम् आसवस् तैलं गव्यं तक्रादिकं तथा ।
शूद्राद् एव तु सङ्ग्राह्यं न द्विजेभ्यः कदाचन ॥
स्कान्दे प्रभासखण्डे ।
न दर्भान् उद्धरेच् छूद्रो न पिबेत् कापिलं पयः ।
मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि ॥
नोच्चरेत् प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् ।
न शिखी नोपवीती स्यान् नोच्चरेत् संस्कृतां गिरम् ॥
न पठेद् वेदवचनं त्रिषवं न हि सेवयेत् ।
नमस्कारेण मन्त्रेण क्रियासिद्धिर् भवेत् ध्रुवम् ॥
निषिद्धाचरणं कुर्वन् पितृभिः सह मज्जति ।
मूलम्

मराठी
यानन्तर शूद्राचे विहित निषिद्ध धर्म साङ्गतो.
लघुपराशर ह्मणतो की, “मद्य (दारु), व माम्स याञ्चा विक्रय करीत असल्यास; व में खाण्याला योग्य नव्हे ते खात असल्यास; ज्या स्त्रियेचा सम्भोग करण्यास योग्य नाही, अ शीचा सम्भोग करीत असल्यास शूद्र तत्काल पतित होतो. कपिला गायीचे दूध पिण्याने, व ब्राह्मणस्त्रीच्या सम्भोगानेम्, आणि वेदाक्षराञ्च्या अर्थविचाराने शूद्र चाण्डाल होतो." में त्याच पराशराने साङ्गितले आहे. की, “मीठ, मध, मद्य, दही, ताक, तूप, दूध याञ्चा विक्रय केला असतां शूद्रजातीला दोष नाही. त्याने वरील पदार्थ इतर सर्व वर्णांस विक त द्यावे.’ परन्तु तेंही आपत्कालीं करावेम्, असें स्मृतिकौमुदीम्त साङ्गितले आहे. अथवा तें असच्छूद्रपर असे समजावेम्. याप्रमाणे असच्छूद्राला दारु, माम्स इत्यादि विकलें असतां जसा दोष नाहीम्; तसाच भक्षण केले असतांही दोष नाही; परन्तु निषिद्ध1 मांसा वाञ्चून, निषिद्ध मांसाविषयी दोष आहे.
ह्मणूनच मद्य पिणाऱ्या शूद्राशी संसर्ग ( घराम्त चाकरीस वगैरे ठेवून त्याकडून सेवा करून घेणें ) केला असतांही दोष नाही. कारण, तो दोष पतितसंसर्ग केल्याने प्राप्त होतो. आणि दारु वगैरे पिणारा शूद्र तसा पतित होत नाही; परन्तु ब्राह्मणास मद्यप्राशनाचा निषेध आहे, ह्मणून तो मद्य प्राशनाने पतित होतो. अशाञ्चा शूद्राने संसर्ग केला असता त्यास दोष आहेच. क दाचित् शूद्र मद्यमांसादि सेवन न करील तर, त्याचा उदय ( महत्वप्राप्ति ) होईल. तेच मनु ह्मणतो, जसे-“मांसभक्षण, मद्यप्राशन, स्त्रीसम्भोग, ही शूद्रास दोषकारक नाहीत. कारण, या तिन्ही कर्माविषयी प्राणिमात्राञ्ची प्रवृत्ति2 साहजिकच आहे. तथापि ही वयं केली असतां महत्फल प्राप्त होते.” सच्छूद्रान्नी पूर्वी साङ्गितलेली मद्यप्राशनादि वर्ज करावी.
जे कालिकापुराणांत “सर्व वस्तूञ्चा विक्रय करीत असतां शूद्र दोषी होत नाहीत, परन्तु, मध, कातडे, दारु, लाख, आणि माम्स या पाम्च वस्तूञ्चा मात्र शूद्रान्नी विक्रय करूं नये,” असे साङ्गितले आहे. या वाक्याम्त मध इत्यादि पाम्च वस्तूञ्च्या विक्रयाचा जो निषेध आहे तो आपत्काल नसतां आहे; अर्थात् आपत्तीम्त याञ्चा विक्रय केल्यास दोष नाही, असे कल्पतरु ह्मणतो. पराशरपुराणान्तहि “पेण्ड, आसव3, तेल, गायीचे दूध, ताक, इत्यादिक शूद्रापासूनच विकत घ्यावेम्, द्विजाम्पासून कदापि घेऊ नये.” असे साङ्गितले आहे.
तसेम्च स्कन्दपुराणांत प्रभासखण्डाम्त “शूद्राने दर्भ कापूं नयेत. कपिला गायीचे दूध पिऊ नये. पळमाच्या मधल्या पानावर जेवू नये. ओङ्काराचा, व इतर वैदिक मन्त्राञ्चा उच्चार करूं नये. पुरोडाश4 खाऊ नये. ब्राह्मणांसारखी शेण्डी राखू नये. उपवीत धारण करूं नये. संस्कृत वाणी उच्चारूं नये. वेदवाक्य पठन करूं नये. त्रिकाल स्नान करूं नये. पूर्वी साङ्गितल्याप्र. माणे मन्त्र न मटले तरी नमस्कार मन्त्रानेच त्याच्या कर्माची सिद्धि खचीत होईल. तो निषिद्ध आचरण करूं लागल्यास पितरांसहवर्तमान नरकाम्त बुडेल.” असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[६३] अन्यान्य् अपि निषिद्धानि मात्स्ये कलिधर्मेषु ।
ततः प्रभृत्य् अयं लोकः सर्वो व्यापत्स्यते भृशम् ।
इत्य् उपक्रम्य,
ब्राह्मणाः शूद्रयोनिस्थाः शूद्रा वै मन्त्रयोनयः ।
उपस्थास्यन्ति तान् विप्रान् पदार्थम् अभिलिप्सवः ॥
लैङ्गे ऽपि ।
शूद्राणां मन्त्रयोनिश् च सम्बन्धो ब्राह्मणैः सह ।
भवतीह कलौ तस्मिन् शयनासनभोजनैः ॥
राजानः शूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति ते ।
शूद्राश् च ब्राह्मणाचाराः शूद्राचाराश् च ब्राह्मणाः ॥
अक्षत्रियाश् च राजानो विप्राः शूद्रोपजीविनः ।
शूद्राभिवादिनः सर्वे ब्राह्मणैर् अभिवन्दिताः ॥
आसनस्थान् द्विजान् दृष्ट्वा न चलन्त्य् अल्पचेतसः ।
ताडयन्ति द्विजेन्द्रांश् च शूद्रा वै स्वल्पबुद्धयः ॥
आस्ये निधाय वै हस्तं कर्णे शूद्रस्य वै द्विजाः ।
नीचस्य च तदा वाक्यं वदन्ति विनयेन तु ॥
अधीयन्ते तथा वेदान् शूद्रा धर्मार्थकोविदाः ।
यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः ॥
तस्माद् आयुर् बलं रूपं कलिं प्राप्य प्रहीयते ।
तदा त्व् अल्पेन कालेन सिद्धिं गच्छन्ति मानवाः ॥
धन्या धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ।
त्रेतायां वार्षिको धर्मः
इत्य् उक्त्वा,
तदह्ना प्राप्यते कलौ ॥
इत्य् उक्तम् ।

अन्यहि निषिद्ध कमें मत्स्यपुराणी कलिधर्मात साङ्गितली आहेत. ती, “त्याकाला पासून ( कलियुग लागल्यापासून ) हा लोक सर्वहि अत्यम्त पीडित होईल. असा उपक्रम करून-” ब्राह्मण शूद्रांसारखे अध्ययनरहित अज्ञानी स्थित होतील. शूद्र हे ब्राह्मणा सारखे ज्ञानसम्पन्न होतील. वेदाचा अर्थ जाणण्याकरितां ब्राह्मण शूद्राञ्जवळ जातील.” असे साङ्गितले आहे. लिङ्गपुराणान्तहि-“या कलियुगाम्त बहुतकरून शूद्र मन्त्रज्ञानी होतील व याञ्चा एकत्र निजणे, बरोबर भोजन करणे, एक ठिकाणी बसणे, यांहीङ्करून ब्राह्मणांशी सम्बम्ध होईल. राजे प्रायः शूद्रच होतील. मग ते ब्राह्मणांला बाधा करतील. शूद्र ब्राह्मणाञ्चा आचार घेतील. ब्राह्मण शूद्राञ्चा आचार घेतील. राजे क्षत्रिय नसतील. ब्राह्मण शूदाने दिलेल्यावर निर्वाह करतील. सर्व ब्राह्मण शूद्रांला नमस्कार करतील. ब्राह्मणान्नी ज्यांस नम स्कार केला आहे असे ते शूद्र, विचार अल्प असल्यामुळे आपल्याजवळ ब्राह्मण आलेले पाहूनहि त्यान्ना उत्थापन देणार नाहीत. ते अल्पबुद्धि शूद्र, ब्राह्मणांस मारतील. आपल्या पेक्षां नीच अशा शूद्राञ्च्या कानाम्त कांहीं साङ्गावयाचे असले तर, ब्राह्मण आपल्या तोण्डा आड हात ठेऊन मोठ्या नम्रतेने साङ्गतील. तसेम्च शूद्र वेदाचें अध्ययन करतील, व धर्म, अर्थ जाणणारे होतील. शूद्राम्पासून झालेले राजे अश्वमेध करतील. या अकर्मापासून मनु ध्याञ्चे आयुष्य, बल, रूप, कलियुगाम्त दिवसेन्दिवस कमी होत जाईल. त्या काली (कलियुगान्त) तर मनुष्य अल्प कालाने केलेल्या कर्माच्या सिद्धीला पावतील. असे जरी आहे तथापि, जे पुण्यवान् असतील ते कलियुगाचा अन्तकाल प्राप्त झाला असतां स्वधर्मा चरण करतील. त्रेतायुगाम्त एक वर्षपर्यम्त आचरण केलेल्या धर्माचें फल कलियुगाम्त एका दिवसाम्त प्राप्त होतेम्” असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[६४] कौर्मेऽप्य् एते श्लोकाः पाठान्तरयुताः । कौर्मे ।
शुक्लदन्ता जितास्याश्1 च मुण्डाः काषायवाससः ।
शूद्रा धर्मं वरिष्यन्ति युगान्ते समुपस्थिते ॥
ताडयन्ति द्विजेन्द्रांश् च शूद्रा राजोपजीविनः ।
उच्चासनस्थान् शूद्रांश् च द्विजमध्ये परन्तप ॥
पुष्पैश् च भूषणैश् चैव तथान्यैर् मण्डनैर् द्विजाः ।
शूद्रान् अभ्यर्चयन्त्य् अल्पश्रुतभाग्यबलान्विताः ॥
न प्रेक्षन्तो ऽर्चतश् चापि शूद्रा द्विजवरान् नृप ।
सेवावसरम् आलोक्य द्वारि तिष्ठन्ति च द्विजाः ॥
वाहनस्थान् समावृत्य शूद्रान् शूद्रोपजीविनः ।
सेवन्ते ब्राह्मणांस् तांस् तु स्तुवन्ति स्तुतिभिः कलौ ॥
अध्यापयन्ति वै वेदान् शूद्रान् शूद्रोपजीविनः ।
पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं5 घोरम् आश्रिताः ॥
अत्र तस्माद् एवं न कुर्याद् इति निषिध्यते ।

कूर्मपुराणान्तही हेच श्लोक पाठान्तराने घेतले आहेत. जसे-“कलियुगाम्त शुक्लदन्त, जिन हे ज्याञ्चे नाम्व आहे असे मस्तकमुण्डन करणारे, भगव्या छाट्या अङ्गावर घेणारे असे ढोङ्गी शूद्र धर्माचरण करतील. शूद्र जातीचे राजे आपल्या आश्रयाने उपजीविका करणाऱ्या ब्राह्मणांस मार देतील. हे शत्रुतापना, अल्प अशा शास्त्रज्ञान, भाग्य, बल, यांहीङ्क रून युक्त असे ब्राह्मण आपल्या जातीच्या मोठ्या समुदायाम्त उम्च आसनावर शूद्रांस बसवून फुलेम्, अलङ्कार, व वस्त्रादिकान्नी त्याञ्चे पूजन करतील. हे राजा, ते शूद्र मोठमोठ्या ब्राह्मणान्नी पूजा केली तथापि त्याङ्कडेस ढुङ्कून सुद्धा पाहणार नाहीत. मग ते ब्राह्मण चाकरीची वेळ पाहून त्याञ्च्या द्वारावर उभे राहतील. रथ, गाडी, घोडे, इत्यादिकांवर बसणाऱ्या शूद्र राजाञ्ची त्याञ्चे कामदार झालेले ब्रामण, त्याञ्च्या सभोवती राइन सेवा करतील (छत्र चामरादिक धरतील ). ब्राह्मण, भाटासारखे त्या शूद्राञ्ची स्तुति करतील. शूद्रांस वेद पदवितील. त्याञ्च्याच आश्रयाने पोट भरतील. भयङ्कर नास्तिकपणा ज्यांनीं खीकार केला आहे असे ते ब्राह्मण त्याञ्च्या जवळ वेदपाठ करतील," असे साङ्गितले आहे. येथे जसे जसे करतील ह्मणून साङ्गितले आहे, ते सर्वहि निन्दापूर्वक आहे; तस्मात् तें करूं नये असा निषेध होतो.
विश्वास-प्रस्तुतिः
[६५] स्कान्द-कौर्मयोः कलिधर्मेषु ।
यत्रोमाया नरो वक्ता संवादो नारदस्य तु ।
तत्र बौद्धं च जैनं च शाक्तं शैवं च वैष्णवम् ॥
योगज्ञानमतं भ्रान्तं विरुद्धं वेदशास्त्रतः ।
वर्तिष्यन्ते कलौ ब्रह्मन् तन्मतेन द्विजातयः ॥
स्त्रियः शुश्रूषणं पत्युर् विप्राणां शूद्रजातयः ।
पित्रोः पुत्राः परित्यज्य जपहोमादिसाधनम् ॥
कुर्वन्ति काम्यकर्माणि दृष्टार्थानि पतन्त्य् अधः ।
लौकिकैर् नामभिर् गीतैर् देवताराधनं तु यत् ॥
शूद्रादीनाम् अयं धर्मो न द्विजानां कदाचन ।
शूद्राणां कृतकैर् गीतैर् देवताग्रे कलौ युगे ॥
नृत्यं कुर्वन्ति विप्राद्या अवज्ञाय श्रुतीरितम् ।
गायन्ति विधवा गीतं श्रोतॄणाम् अपि पापदाः ॥

स्कन्दपुराण आणि कूर्मपुराण यान्तील कलिधर्माम्त “जेथें उमापति (शङ्कर) धर्म वक्ता असून नारदाचा संवाद आहे, तेथे बौद्धशास्त्र, व जैनशास्त्र, इत्यादि नास्तिक मताञ्चे निरूपण झाले आहे, जेथे शाक्त, शैव, वैष्णव, योगशास्त्र इत्यादिकाञ्ची मते के वळ भ्राम्त झाली आहेत, असें वेदशास्त्रादिकाम्स विरुद्ध पाखण्ड स्वीकारून तदनुसार मोठमोठे ब्राह्मण वर्तन करतील. स्त्रिया नवऱ्याची सेवा सोडतील. शूद्र ब्राह्मणादि काञ्ची सेवा सोडतील. पुत्र पित्याची मेवा सोडून जप होम इत्यादिकेङ्करून सिद्ध हो णारी दृष्टार्थ अशी काम्य कर्मे आचरतील. व ती साङ्ग न झाल्यामुळे अधोगतीस जातील. लौकिक नावान्नी देवाचे भजन करणे, व लौकिक गीते (अभङ्गादि) गाऊन देवाराधन करणे हा शूद्रादिकाञ्चा धर्म, तो ब्राह्मणांस कदापि आचरण्यास योग्य नसतां ते आचरण करतील. शूद्रान्नी केलेली गीते देवाञ्च्या अग्रभागीं गातील. वेदाज्ञा नसताही ब्राह्मण नृत्यादि6 करतील. विधवा, गायन करतील. में गायन श्रवण केले असतां मोठा दोष प्राप्त होईल” असें साङ्गितले आहे.
विश्वास-प्रस्तुतिः
विष्णुपुराणे ।
अपहाय निजम् कर्म कृष्ण कृष्णेति वासिनः ।
ते हरेर्द्वेषिणः पापा धर्मार्थं जन्म यद् धरेः ॥
तत्रैव ।
द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।
निजान् अञ्चति वै लोकान् शूद्रो धन्यतरस् ततः ॥
दानं च दद्याच् छूद्रो ऽपि पाकयज्ञैर् यजेन् न च ।
पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत वै नरः ॥
पाकयज्ञाः पञ्चमहायज्ञाः, पाकशब्दस्य तं पाकेन मनसेत्यादौ प्राशस्त्यार्थत्वात् । यद् वा यो ऽस्मत्पाकतर इतिवद् अल्पार्थः । मदनपारिजाते बृहस्पतिः ।
शौचं ब्राह्मणशुश्रूषा सत्यम् अक्रोध एव च ।
शूद्रकर्म तथा मन्त्रो नमस्कारो ऽस्य चोदितः ॥
भारते आनुशासनिके पर्वणि ।
दृष्ट्वा पितामहः शूद्रम् अभिभूतं तु तामसैः ।
द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् ॥
नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तितः ।
द्विजशुश्रूषया शूद्रः परं श्रेयो ऽधिगच्छति ॥
अहिंसकः शुभाचारो देवताद्विजपूजकः ॥
शूद्रो धर्मफलैर् इष्टैः स्वधर्मेणैव युज्यते ।
तथा ।
स्वाहाकारनमस्कारौ मन्त्रौ शूद्रो विधीयताम् ।
ताभ्यां शूद्रः पाकयज्ञैर् यजेत ब्रह्मवान्2 स्वयम् ॥

विष्णुपुराणांत कलिधर्मवर्णनप्रसङ्गी “जे स्वकीय कर्माचा त्याग करून कृष्ण कृष्ण असें ह्मणणारे ते, हरीचे द्वेष्टे’ होत. कारण, देवाञ्चे अवतार वर्णाश्रमधर्म7 स्थापन कर ण्याकरितां आहेत.
त्या धर्माचा त्याग करतात ह्मणून, हे धर्मद्वेष्टे होत.” असे साङ्गितले आहे. आणखी त्याच विष्णुपुराणांत " हा शूद्र द्विजसेवेनेम्च पाकयज्ञ8 करण्यास अधिकारी आहे, व त्याच सेवेने या लोकी धन्य होऊन, अन्यत्र (परलोकी) स्वकर्मार्जित लोकांला प्राप्त होतो.
शूद्राने दान द्यावे, द्विजसेवेवाञ्चून पाकयज्ञान्नी यजन करूं नये. पित्याचें श्राद्धादि सर्व कर्म करावें." असे साङ्गितले आहे. मदनपारिजात नामक ग्रन्थाम्त बृहस्पति-“शुद्धता, ब्राह्मणसेवा, सत्य बोलणे, शान्ति, ही शूद्राञ्ची, कमें होत. तसाच याला इतर मन्त्राम्बद्दल नमस्कार (मन्त्र) साङ्गितला आहे” असें ह्मणतो. महाभारताम्त अनुशासन पात “ब्रह्मदेव शूद्राला तमोगुणान्नी व्याप्त झालेला, अर्थात् तामसी; असा पाहून, त्याला ब्राह्मणसेवारूप धर्म आचरण्यास साङ्गता झाला. कारण, शूद्राचे तामस9 स्वभाव, ब्राह्मणसेवेनें नाश पावतात. आणि, तो शूद्र त्याञ्च्या सेवेनें कल्याणास पात्र होतो.
शूद्राने, स्वभावेङ्करून अहिंसक असावे. तसेञ्च, द्विजाञ्ची पूजा करावी, उत्तम आचार करावा, असे केल्यास, तो स्वकीय धर्माच्या उत्तम फलान्नी युक्त होतो. तसेच याने “स्वाहा;” आणि " नमः” हे मन्त्र ह्मणावेत. या मन्त्रान्नी, मन्त्रवान् अशा शूद्राने, स्वतः पाकयज्ञान्नी यजन करावें." असे साङ्गितले आहे.
विश्वास-प्रस्तुतिः
सञ्चयांश् च न कुर्वीत जातु शूद्रः कथञ्चन ।
पापीयान् हि धनं लब्ध्वा बाधेतापि गरीयसः ॥
राज्ञा वा समनुज्ञातः कामं कुर्वीत धर्मतः ।
आपस्तम्बः ।
शुश्रूषा शूद्रस्येतरेषां वर्णानां पूर्वस्मिन् पूर्वस्मिन् निश्रेयसं भूयः ।
बौधायनः ।
शूद्राणाम् आर्याधिष्ठितानां मासि मासि वपनम् अर्थवद् आचमनकल्प उपवीतं वस्त्रविन्यासाद् इति ।
अर्यो वैश्यः । “अर्यः स्वामिवैश्ययोः” इति पाणिनिः । मनुर् अपि ।
शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥
शौचम् आचमनं सूतसूतकं चैव वैश्यवत् ।
उच्छिष्टं भाण्डस्थः शेषः न तु भुक्तिपात्रस्थम् ॥
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविःप्लुतमिति पूर्वोक्तेः ।
त्रिर् आचमनं पञ्चदशरात्रम् आशौचम् इत्य् अर्थः ।

शूद्राने कधीहि द्रव्यसञ्चय करूं नये. कारण, तो द्रव्यवान् झाल्याने, व स्वभावतः ता मस असल्यामुळे, ब्राह्मणादिकाम्स बाधा करील; असे असतांहि जर, राजाज्ञा झाली असेल तर, त्याने स्वधर्मकरून द्रव्यसङ्ग्रह करावा, असे साङ्गितले आहे. आपस्तम्ब नामक स्मृति कर्ता - “शूद्रांला इतर वर्णाञ्ची (ब्रा० दिकाञ्ची) सेवा करणे हा मुख्य धर्म होय. त्याम्त पूर्व पूर्व वर्णाञ्ची, अर्थात् वैश्याम्पेक्षां क्षत्रियाञ्ची; क्षत्रियांहून ब्राह्मणाञ्ची सेवा केल्यास, त्याञ्चे विशेष10 कल्याण होईल." असें ह्मणतो. बौधायन नामक स्मृतिकर्ता ह्मणतो की, “वैश्यांनीं अधिष्ठित ( पोसलेले ) अशा शूद्राञ्चे प्रतिमहिन्यास वपन (हजामत), तसाच आचमनकल्प11 ह्मणजे – द्विजाम्स साङ्गितल्याप्रमाणे न करितां केवळ उदक प्राशन मात्र करणे, आणि, उपवीताबद्दल पृ० ५८ येथे साङ्गितलेल्या प्रकारचे वस्त्र12 धारण करणे हे धर्मशा स्त्रास अनुसरून आहे." असे असावेम्. मनु ही, “यथान्याय वागणाऱ्या शूद्रान्नी प्रतिमासी वपन करावेम्. आणि वैश्यांसारखी त्याञ्ची शुद्धता व्हावी. त्यांनीं द्विजाञ्चें उच्छिष्ट13 (भां ड्यान्तील शेष अन्न) भोजन करावे. तसेम्च शौच, आचमन, व आशौच ही सर्व वैश्यासा रखी आचरावी; अर्थात् वैश्यांसारखें तीन वेळ आचमन करावेम्, आणि जननाशौच, व मृताशौच १५ रात्री धरावें." असें ह्मणतो.
विश्वास-प्रस्तुतिः
[६७] यत् तु याज्ञवल्क्यः,
शुद्ध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ।
इति, तद् असच्छूद्रपरम् इति मदनपालः । अन्ततः तालुगाभिः ओष्ठोन्मार्जनघ्राणस्पर्शादिकं स्त्रीशूद्रयोर् न भवति इति,
त्रिः प्राश्यापो द्विर् उन्मृज्य खान्य् अद्भिः उपस्पृशेत् ।
इति याज्ञवल्क्येन त्रिःप्राशन एव तदुक्तेर् इति केचित् । अन्ये तूपलक्षणत्वात् स्त्रीशूद्रयोर् अपि भवति । अत एव स्त्री च शूद्रश् चेति शूद्रे विशेषमात्रम् उक्तम् इत्य् आहुः ।
गौतमः ।
शूद्रश् चतुर्थो वर्ण एकजातिस् तस्य सत्यम् अक्रोधः शौचम् आचमनार्थे पादप्रक्षालनम् एवैके । श्राद्धकर्म भृत्यभरणं स्वदारवृत्तिर् अनुज्ञातो ऽस्य नमस्कारो मन्त्रः पाकयज्ञैः स्वयं यजेतेत्य् एके । इति ।
पाकयज्ञैर् अष्टकादिभिः स्वयं यजेत नर्त्विगादिभिर् इति तद्भाष्ये स्वयम् इति पत्नीत्यादिव्यावृत्त्यर्थम् इति लक्ष्मीधरः। एकेत्य् उक्तेर् विप्रद्वारापि प्रतिष्ठादाव् उक्तत्वात् । शक्तः स्वयम् अशक्तस् तु विप्रद्वारा । सच्छूद्रः स्वयम् असच्छूद्रो विप्रद्वारेति जयपालः ।14

जे याज्ञवल्क्य-“स्त्री, व शूद्र हे टाळवेला पोहचेल असेम्, एकवेळ आचमन केल्याने शुद्ध होतात.” असें ह्मणतो; ते, “असच्छूद्रपर असावेम्" असें मदनपालाचे मत आहे. जें ब्राह्मणांस ओष्ठमार्जन, नासिकास्पर्श इत्यादि प्रकारचें[^१३] आचमन साङ्गितले आहे; ते तर स्त्रीशूद्रादिकाम्स वर्ण्य आहे. कारण, “स्त्रीशूद्रान्नी ३ वेळ उदक प्राशन करून २ वेळ उ न्मार्जन करून, इन्द्रियांस उदकयुक्त हस्ताने स्पर्श करावा.’ असे त्याच याज्ञवल्क्याने तीनवेळा उदक प्राशन केल्यानेच आचमन होते, असे साङ्गितले आहे.
[^१३] : ह्या केचिन्मताप्रमाणे स्त्रीशूद्रान्नी पुढे साङ्गितलेल्या प्रकारचे आचमन करूं नये असे होते, परन्तु तो प्रकार अवैदिक असल्याकारणाने स्त्रीशद्वान्नी आचरण्यास काही प्रत्यवाय नसावा असे वाटते. आचमनाचे श्रौत, तान्त्रिक इत्यादि प्रकार बहुत आहेत, त्यान्तून जो शूद्रांसहि आचरण करता येईल तो साङ्गतो:-केशवाय नमः, नारायणाय नमः, माधवाय नमः या तीन नांवान्नी ज्यावर फेम्स नसेल असें थण्ड पाणी, उजवा हात गायीच्या कानाच्या आकाराचा करून त्यावर घेउन तीन वेळ प्राशन करावेम्. गोविन्दाय नमः, याने उजवा हात धुवावा. विष्णवे नमः, व मधुसूदनाय नमः या दोहोन्नी, अनु क्रमें खालचा, व वरचा ओम्ठ धुवावा. त्रिविक्रमाय नमः याने ओण्ठावर उदकाचें प्रोक्षण करावेम्. वाम नाय नमः याने उदक अभिमन्त्रण करावे. श्रीधराय नमः याने डावा हात धुवावा. हृषीकेशाय नमः याने उजवा पाय धुवावा (पाणि लावावें). पद्मनाभाय नमः याने डावा पाय धुवावा. दामोदराय नमः याने मस्तकावर प्रोक्षण करावेम्. सङ्कर्षणाय नमः याने वरील ओम्ठ प्रोक्षावा. वासुदेवाय नमः याने उजव्या नाकपुडीला, व प्रद्युम्नाय नमः याने डाव्या नाकपुडीला स्पर्श करावा. अनिरुद्धाय नमः याने उजव्या नेत्रास, व पुरुषोत्तमाय नमः याने डाव्या नेत्रास स्पर्श करावा. अधोक्षजाय नमः याने उजव्या कानास, व नृसिंहाय नमः याने डाव्या कानास स्पर्श करावा. अच्युताय नमः याने नाभीला स्पर्श करावा. जनार्दनाय नमः याने हृदयास, व उपेन्द्राय नमः याने मस्तकास स्पर्श करावा. हरये नमः याने उजव्या दण्डास, आणि श्रीकृष्णाय नमः याने डाव्या दण्डास स्पर्श करावा. ह्मणजे आचमन होते. कित्येक ग्रन्थकार “पहिल्या तीन नांवान्नी आचमन करून पुढील दोहोन्नी हात धुवावे, आणि दो. होन्नी दोन गालाम्स माजेन करावे,आणि दोहोनी ओष्ठमाजेन, आणि एकेकाने हस्त व पाय याञ्चे माजेन करावे. बाकी सर्व वरीलप्रमाणे.” असें ह्मणतात. कदाचित एवढें विस्तृत आचमन करण्यास शक्ति नसेल तर; तीन वेळ उदक प्राशन करून हात धुवून उजव्या कानाला स्पर्श करावा. साम्प्रत हाच प्रकार बहुतकरून घेतात, पण पूर्वोक्त सर्व नांवें ह्मणतात याचे कारण काही समजत नाही.
ह्मणून शूद्राने तीनवेळ उदक प्राशन करावे, असे कित्येक धर्मशास्त्रकाराञ्चे मत आहे. अन्य ग्रन्थकार तर, “वरील याज्ञवल्क्याचे वचन, उपलक्षणभूत आहे; ह्मणून, स्त्रीशूद्रांलाहि ओष्ठमार्जनादि करण्यास अधिकार सिद्ध होतो, व याकरिताम्च पूर्व वचनान्त, “स्त्री आणि शूद्र असा शूद्रां विषयी विशेष मात्र पृथक् निर्देश करून साङ्गितला आहे” असें ह्मणतात. अन्य कि त्येक ग्रन्थकर्ते तर, जसें ऐकलें तसें ह्मणतात. गौतम नामक स्मृतिकर्ता ह्मणतो की, “शूद्र हा चवथा वर्ण होय. हा एकजाति 15 आहे, याला सत्यभाषण, क्रोधत्याग, शुद्धता ही विहित आहेत. ‘याने आचमनाबद्दल पाय धुवावे;’ असे कित्येक आचार्याचे मत आहे.
श्राद्धकर्म, सेवकाञ्चे पोषण, स्वकीय स्त्रीचेठायीं रत असणे, हे त्याचे धर्म होत. याला ‘नमः’ हा मन्त्र साङ्गितला आहे. किती एक आचार्याञ्चे मते यांनीं, पाकयज्ञान्नी16 स्वयमेव यजन करावें.” “शूद्राने स्वतः यजन करावेम्, ऋत्विजादिकाङ्कडून करवू नये.’ अशी त्या स्मृतीच्या भाष्यकर्त्याने वरील वचनाची व्याख्या केली आहे.
“या वचनान्तला ‘वयम्’ शब्द, पत्नी इत्यादिकाञ्च्या निवृत्तीकरितां आहे.’ असें लक्ष्मीधर ह्मणतो. तसेञ्च, वरील वचनाम्त “एके” (कित्येक) असे हटले आहे, याचा हेतु इतकाच की, ब्राह्मणद्वारा देवप्रतिष्ठा इत्यादिक कर्माविषयीं शूद्रास अधिकार साङ्गितला आहे; ह्मणून येथेही सशक्त असल्यास स्वयमेव करावेम्, व अशक्त असल्यास ब्राह्मणाकडून करावे, असें सिद्ध होते. “सच्छूद्राने स्वयमेव करावेम्. व असच्छूद्राने विप्रद्वारा करावें.” असें जयपाल ह्मणतो.
विश्वास-प्रस्तुतिः
[६९] हेमाद्रौ भारते ।
श्राद्धकर्म नयश् चैव सत्यम् अक्रोध एव च ।
स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ॥
आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप ।
चातुर्वर्ण्यस्येति शेषः । शूद्राणां पुराणश्रवणेनात्मज्ञानम् । श्रोतव्य इति नियमस् तु द्विजपर इति व्रतहेमाद्रिः । भगवद्गीतासु ।
माम् उपाश्रित्य कौन्तेय ये ऽपि स्युः पापयोनयः ।
स्त्रियो वैश्याश्3 च शूद्राश् च ते ऽपि यान्ति परां गतिम् ॥
हेमाद्रौ विष्णुः ।
क्षमा शौचं दमो दानम् इन्द्रियं सत्यसंयमौ ।
अहिंसा गुरुशुश्रूषा तीर्थानुशरणं दया ॥
आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।
अनभ्यसूया च तथा धर्मः सामान्य उच्यते ॥

हेमाद्रीत महाभारतान्त-“श्राद्धकर्म, नीति, सत्य, समाधानता, स्वस्त्रीरति, सन्तोष, शुद्धता, निरन्तर गुणावर दोष न ठेवणे, आत्मज्ञान, सहनशक्ति, इतकी असणे हा चारी वर्णाचा साधारण धर्म होय. शूद्रांस पुराणश्रवणाने आत्मज्ञान प्राप्त व्हावेम्. “पुराणश्रवण करावेञ्च, हा नियम विप्रादिकांविषयी आहे.” असें व्रतहेमाद्रिकर्ता ह्मणतो. भगव द्गीतेन्त-हे अर्जुना, मला आश्रय करून राहणारे, जे स्त्रिया, वैश्य, व शूद्र, ते मोठे पापयोनि असले तथापि उत्तम गतीस पावतात.” असे साङ्गितले आहे. हेमाद्रीत विष्णु ह्मणतो की, “क्षमा, शौच, दम, दान, इन्द्रियनिग्रह, सत्य, अहिंसा, गुरुसेवा, तीर्थयात्रा, दया, आजव, लोभत्याग, देवब्राह्मणपूजा, अनसूया, हा चारही वणीञ्चा सामान्य धर्म आहे.”
विश्वास-प्रस्तुतिः
तद्वृत्तिम् आहतुर् मनु-पराशरौ ।
शुश्रूषैव तु शूद्रस्य धर्मो निःश्रेयसः17 परः ।
शुचिर् उत्कृष्टशुश्रूषुर् मृदुर् वाग् अनहङ्कृतः ॥
ब्राह्मणोपाश्रयो नित्यम् उत्कृष्टां जातिम् अश्नुते ।
शूद्रस् तु [७०] वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् यदि ॥
धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ।
स्वर्गार्थम् उभयार्थं वा ब्राह्मणान् एव राधयेत् ॥
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
यद् अतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥
विप्रसेवां विना कृतम् अपि स्नानदानाद्यकृतम् इत्य् अर्थः ।

शूद्रांने उदनिर्वाह कशावर करावा तें मनु, व पराशर साङ्गतात. ते असें-“शूद्रास सेवा हाच कल्याणकारक धर्म होय. तो स्वतः शुद्ध असून उत्तम सेवा करणारा, मृदु भाषी, अहङ्काररहित, ब्राह्माणाचा आश्रयी, असा शूद्र उत्तम जातीप्रत पावतो. जर शूद्र आपले पोट भरावें ह्मणून इच्छील तर, त्याने क्षत्रियाञ्ची चाकरी करावी, अथवा द्रव्यवान् वैश्याची चाकरी करून उदरनिर्वाह करावा. परन्तु स्वर्गार्थ अथवा उदरनिर्वाहार्थ ब्राह्म णाञ्चीच सेवा करावी. कारण, ब्राह्मणसेवा हेच शूद्राचे मुख्यकर्म आहे. याहून अन्य में कांहीं कर्म करील ते त्याचे निष्फल होते;” अर्थात् ब्राह्मणसेवेवाञ्चून, स्नानदानादि करून न केल्यासारखे होते. असा अभिप्राय आहे.
विश्वास-प्रस्तुतिः
सेव्यं प्रत्य् आह ।
प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः ।
शक्तिं चापेक्ष्य दाक्ष्यं च भृत्यानां परिसङ्ग्रहे ॥
तैर् द्विजैः पुत्रवद् असौ पालनीय इति मेधातिथिः ।
उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।
पुलकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदाः ॥
(पुलाका धान्यकणाः । उच्छिष्टं भुक्तशिष्टं) भाण्डस्थम् इति मेधातिथिः । गौतमः । तेभ्यो वृत्तिं लिप्सेत । जीर्णान्य् उपानच्छत्रवासः कूर्चादीन्य् उच्छिष्टप्राशनं शिल्पं वृत्तिश् च । यद्य् अर्यम् आश्रयेद् भर्तव्यस् तेन क्षीणो ऽपि शूद्रेण चोत्तरस् तदर्थो ऽस्य निचयः स्यात् । इति ।
क्षीणो वृत्तिहीनस् तेनार्येण भर्तव्यस् तेन शूद्रेण चोत्तर अर्यो भर्तव्य इत्य् अर्थः । उच्छिष्टदानं दासपरम् । अन्ये तु,
उच्छिष्टम् अन्नं दातव्यं शूद्रायागृहमेधिने ।
गृहस्थाय तु दातव्यम् अन्नम् एव दिने दिने ॥
इति व्याघ्रोक्तेर् उच्छिष्टनिषेधो गृहस्थपर इत्य् आहुः । मदनरत्ने ऽप्य् एवम् ।

याप्रमाणे शूद्राने सेवा करावी असे साङ्गितले. आता तो ज्याञ्ची सेवा करील; त्यांनीं त्याचे रक्षण कसे करावें तें साङ्गतो,-“ज्याची तो सेवा करील त्याने आपल्या कुटुम्बान्तून, यथायोग्य आपली शक्ति, व त्याची हुशारी पाहून, त्याला निर्वाहाकरितां द्रव्यादि द्यावें.” यावरून " त्या द्विजान्नीहि पुत्रासारखें याचे पालन करावें,” हे सिद्ध होते असे मेधातिथि ह्मणतो. “शूद्रास उच्छिष्ट18 अन्न, जुनी वस्त्रे, धान्यकण, तसेच जुने परिच्छेद (इतर सामान ) इत्यादि द्यावे.” असें ( मनु, व पराशर ) ह्मणतात. “उच्छिष्ट ह्मणने खयम्पाकाच्या भाण्ड्याम्त उरलेलें अन्न” असें मेधातिथि ह्मणतो.
गौतम “शूद्राने ब्राह्मणां पासून आपल्या निर्वाहाची इच्छा करावी, त्याम्पासून जुनी वस्त्रे, उपानत् (पायतण, जोडा), छत्र, कूर्च, अशी घ्यावी, त्याञ्चे उच्छिष्ट भक्षावेम्, कलाकौशल्य करावे, आणि त्यावरच नि र्वाह करावा. जर वैश्याचा आश्रय केला असेल तर त्याने शूद्राचे पालन करावेम्. कदाचित् तो वैश्य दरिद्री झाला असून हा (शूद्र) जर द्रव्यवान् असेल तर, याने त्याचे पोषण करावेम्” असें ह्मणतो. येथे उच्छिष्ट ( पात्रशेष ) देण्यास साङ्गितले आहे, ते दासपर आहे असे समजावे. अन्य ग्रन्थकर्ते तर, “जो शूद्र गृहस्थाश्रमी नसेल त्यास उच्छिष्टान्न द्यावेम्. गृहस्थास तर उच्छिष्ट नसलेले अन्न, अथवा धान्य प्रतिदिवसीं द्यावेम्” असी व्याघ्रपा दाची उक्ति आहे. यावरून “उच्छिष्टनिषेध गृहस्थपर आहे.” असें ह्मणतात. मदनर नान्तहि असेम्च साङ्गितले आहे.
विश्वास-प्रस्तुतिः
[७१] तथा तपः शूद्रस्य सेवनम् । याज्ञवल्क्यः ।
शूद्रस्य द्विजशुश्रूषा तया जीवन् वणिक् भवेत् ।
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥
नृसिंहपुराणे ।
अयाचितं प्रदाता स्यात् कृषिं वृत्त्यर्थम् आश्रयेत् ।
पुराणं शृणुयान् नित्यं नरसिंहस्य पूजनम् ॥
उशनाः ।
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि चाप्य् अथ ।
विक्रयः सर्वपण्यानां शूद्रधर्म उदाहृतः ॥
देवलः ।
शूद्रधर्मस् त्रिवर्णशुश्रूषा कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुमृदङ्गवादनानि । इति ।
मनुः ।
अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्यये प्राप्ते जीवेत् कारुककर्मभिः ॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥
कुर्याद् इति शेषः । नृसिंहपुराणे ।
दूराच् छूद्रेणोपचर्यो ब्राह्मणो ऽग्निर् इव ज्वलन् ।
एवं धर्माचरणे लोकम् आह पैठीनसिः । गान्धर्वं शूद्रस्य स्थानम् इत्य् अर्थः ।
इति रामकृष्णभट्टसुतकमलाकरकृते शूद्रकधर्मतत्त्वे
शूद्राणां विहितनिषिद्धानि ।

शूद्रास द्विनसेवा हेच मुख्य तप. याविषयीं याज्ञवल्क्य ह्मणतो की, “शूद्रास द्विजसेवाच मुख्य आहे. तिनेच निर्वाह करील तर योग्य होय. कदाचित् तें न होईल तर, व्यापार करून पोट भरावेम्, किंवा नानातन्हेची कारागिरीची कामे करावी. परन्तु कोणत्याहि प्रकारें द्विजाञ्चे हित करावें.” नृसिंहपुराणांत “शूद्राने अयाचित द्यावे. उदरनिर्वाहार्थ कृषि करावी. नेहेमीं पुराण ऐकावे. नृसिंहाचे पूजन करावें," असे साङ्गितले आहे. उशना-“द्विजसेवा, सर्व प्रकारची शिल्पेम्, तसाच योग्यवस्तूञ्चा विक्रय, हा शूद्राञ्चा धर्म ऋषिवर्णित आहे” असें ह्मणतो. देवल-“विप्र, क्षत्रिय, वैश्य, याञ्ची सेवा, कुटुम्बपोषण, शेती, गुराञ्चे रक्षण, ओझी वाहणे, व्यापार, चित्र काढणे, नृत्य19, गायन, वेणु व मृदङ्गादि वायें वाजविणे, हा शूद्रधर्म होय” असें ह्मणतो. मनु-" शूद्र द्विजसेवा करण्यास अशक्त झाला असून त्याच्याने कुटुम्बपोषण होत नसल्यास त्याने कारुककर्मानी20 अर्थात् कारागिरीने निर्वाह करावा. परन्तु ज्या कर्मान्नी द्विनसेवा होईल अशाच प्रकारची नानात-हेची कारा गिरीची वगैरे कामें करावी.’ असे साङ्गतो.
नृसिंहपुराणांत “शूद्रानें तेजस्वी ब्राह्मणाची अग्नीसारखी दुरूनच सेवा करावी” असे साङ्गितले आहे. असें स्वधर्माचरण केले असतां शूद्रास कोणचा लोक मिळेल तें पैठीनसि साङ्गतो, जसें-“गन्धर्वलोक हे शूद्राचे स्थान होय.” इति श्रीशूद्रधर्मतत्त्वप्रकाशे शूद्रस्य विहितनिषिद्धनिरूपणं नाम प्रथमं प्रकरणं समाप्तिमगमत्.
एथपर्यम्त शूद्रांला कोणकोणती क आचरण करण्यास अधिकार आहे, व ती त्यांनीं कसकसी आचरावी ते निरनिराळ्या प्राचीन, व अर्वाचीन ग्रन्थकाराञ्च्या साधक बाधक म ताञ्चा अनुवाद करून न्याय, युक्ति, व त्याचे बलाबलत्व इत्यादि नीट पाहून सिद्ध केलें आहे. यान्तील कित्येक विषय साम्प्रत खालच्या प्रतीच्या सर्व लोकाम्स (शूद्रादिकाम्स) वरिष्ठाञ्चा (ब्राह्मणाञ्चा) धर्म आचरण्याची जी विलक्षण हौस उत्पन्न झाली आहे त्यामुळे वाईट वाटण्यासारखे आहेत, व त्यामुळे या ग्रन्थकारास ते कदाचित् दोषही देतील याम्त संशय नाही; परन्तु असे मानणे हे त्याञ्चे शुद्ध अज्ञान होय. कारण, मुळी वैदिक, अथवा पौराण धर्म आचरण करावा असें ज्या धर्मशास्त्रावरून आपणास समजते, त्याच शास्त्राम्त जर ब्राह्मणान्नीच वैदिक, व शूद्रान्नी पौराणच धर्म आचरावा असे स्पष्टपणे साङ्गितले अ सेल, व त्याचे एखाद्या ग्रन्थकर्त्याने निःपक्षपाताने उपपादन केले असेल तर, त्या सम्बन्धानें ग्रन्थकावर पक्षपातदोष ठेवून आपल्यास निषिद्ध असलेल्या धर्माचे आचरण करावे आणि आमी खऱ्या धर्माचा शोध लावणारे ह्मणून लोकाम्त मोठी शेखी मिरवावी, याम्त विशेष काय? हे त्याञ्चे त्यांसच माहित असेल. आमाम्स तर हा शुद्ध हेकटपणा आहे असे वाटते. प्रथमप्रकरणं समाप्तम् |
-
“निषिद्ध मांस” गांवडुकर, बैल, गाय, घोडा, गाढव इत्यादिकाञ्ची मांसें अति निषिद्ध आहेत. याञ्च्या भक्षणाने शूद्रही पतित होतो. ↩︎ ↩︎ ↩︎
-
स्त्रीसम्भोग मद्य आणि माम्स ही तीन सर्व मनुष्यांस दुसऱ्याच्या प्रेरणेवाञ्चून प्रिय असतात. हा विषय (भा० स्कम्० ११ अ० ३ श्लोक) याम्त सविस्तर वणिला आहे. ↩︎ ↩︎ ↩︎
-
हा पुरोडाश यज्ञाम्त प्रसिद्ध आहे. ↩︎
-
पोट भरण्याकरितां ब्राह्मणाने नृत्य करू नये, परन्तु ईश्वरप्रीत्यर्थ केल्यास दोष नाही, असे समजले पाहिजे. नाही पेक्षा " विलन उगायति मृत्यति कचित्” इत्यादिस्थली विरोध येईल. ↩︎
-
वर्णाश्रमधर्मास सोडून जे नेहमी चिपळ्या वाजवून राम राम, किंवा ज्ञानदेव तुकाराम करित बसतात त्यांनीं वरील वाक्य वाचावेम्, असी त्यांस आमची सूचना आहे. ↩︎
-
येथे “पाकयज्ञ” शब्दाने देवयज्ञादि पम्च महायज्ञाञ्चे ग्रहण करावे; कारण, पाकशब्द “तम्पाकेन.” इत्यादि ठिकाणी प्राशस्त्यार्थक मानला आहे, अतएव येथेही तसाच घ्यावा; किंवा अल्पार्थी घेउन पाकयज्ञ मणजे लहानसे यश असा अर्थ करावा. ↩︎
-
मोठ्याञ्ची सेवा करण्याम्त मोठा लाभ होतो. तो असा की, प्रथम त्याञ्चा सहवास होतो, व त्या निमि. ताने त्याञ्जकडून सन्मार्गाच्या गोष्टी ऐकण्यास मिळतात, त्याम्पासून ज्ञान प्राप्त होते, अर्थात् तामस भाव है अ ज्ञानापासून झाले आहेत. त्या अज्ञानाचा नाश होतो. व तामस भाव नाश पावतात, असा अभिप्राय आहे. ↩︎
-
ब्राह्मण हे शुद्ध सालिक असल्याकारणाने त्याञ्च्या सेवेपासून शूद्राचे स्वकीयतामसभावनाशरूप वि. शेष कल्याण होईल. असा अभिप्राय आहे. ↩︎
-
“आचमनकल्प” यान्तील कल्पशब्द समतावाचक आहे; यावरून ब्राह्मणादिकाम्स साङ्गितलेल्या आच मनासारखेञ्च, पण त्यापेक्षा काही कमी प्रकारचे आचमन शूद्राने करावे असें जाणावेम्. ↩︎
-
यावरून शूद्रानें जानव्याच्या ऐवजी चौकोनी शुभ्र वस्त्र दोन शेवटें जोडून जानव्यासारखें घालावेम्; असे सिद्ध होतम्. ↩︎
-
येथे उच्छिष्टशब्दाने ब्राह्मणभोजन होऊन स्वयम्पाकाच्या भाण्ड्यान्तील शेष राहिलेल्या अन्नाचे ग्रहण केले आहे. यावरून जेवलेल्या पात्रांवरील अवशिष्ट अन्नाचे ग्रहण होत नाहीम्; कारण, शूद्राला दान देऊ नये, उच्छिष्ट देऊ नये, तसेम्च यज्ञशेष देऊ नये, असे पूर्वी साङ्गितलेच आहे. ↩︎
-
शूद्रांस एकच जन्म आहे, उपनयनरूप दुसरे जन्म नाही, ह्मणून त्यास एकजाति म्हटले आहे. ↩︎
-
पूर्वी या शब्दाने पञ्चमहायज्ञाञ्चे ग्रहण करावे, असे साङ्गितले होते परन्तु येथे प्रकरणवशात् अष्टकादि श्राद्धाचे ग्रहण करावें हैं सयुक्त आहे. ↩︎
-
येथे उच्छिष्ट शब्द असून तो पात्राम्त शेष राहिलेल्या अन्नाचा वाचक आहे. मेधातिथि तो भाण्ड्यान्तील शेष राहिलेल्या अन्नाचा वाचक असें ह्मणतो; आणि असलें अन्न इतर सेवकाम्स द्यावेम्; परन्तु परम्परेच्या सेव काम्स (बन्द्यांस) पात्रशेषही देण्याला प्रत्यवाय नाही. ↩︎
-
येथे नृत्य इत्यादि शूद्राचा धर्म असे साङ्गितले आहे, ते साधारणतः आहे. वस्तुतः ही कमें सङ्करजा तीयाञ्ची आहेत. सच्छद्राची नव्हेत. तथापि येथे शुद्ध शब्दाचा साधारण अर्थ घेऊन त्याञ्ची कमै साङ्गितली आहेत यान्तील विशेष विचार जातिविवेक प्रकरणांत पहावा. ↩︎
-
ज्या कर्मानी मुख्यत्वेकरून ब्राह्मणाञ्ची सेवा होईल अशा प्रकारची त्यास विहित असलेली कोणतीही कर्मे करावी असा अभिप्राय आहे. ↩︎