११ श्राद्धनिर्णयः

विश्वास-प्रस्तुतिः

अथ शूद्रश्राद्धनिर्णयः

तत्र “श्राद्धक्रियारतः” इति प्रागुक्तेर् नित्यनैमित्तिककाम्येषु सिद्धो ऽधिकारः । एवं स्त्रीणाम्,

स्वभर्तृप्रभृति त्रिभ्यः स्वपितृभ्यस् तथैव च ।
विधवा कारयेच् छ्राद्धं यथाकालम् अतन्द्रिता ॥

इति स्मृतिरत्नावल्यां वृद्धमनूक्तेः । तच् च श्राद्धं स्त्रीशूद्राणां मन्त्रवर्जं तूष्णीं भवति,

स्त्रीणाम् अमन्त्रकं श्राद्धं तथा शूद्रासुतस्य च ।
प्राग् द्विजाश् च व्रतादेशात् ते च कुर्युस् तथैव तत् ॥

इति हेमाद्रौ मरीचिवचनात् ।

अयम् एव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः ।
अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥

इति ब्राह्मोक्तेश् च । अस्य श्राद्धप्रकरणत्वे ऽपि परिभाषात्वाच् [५४] छूद्रस्य स्नानदानादौ सर्वत्र विप्रेण मन्त्रपाठः कार्यः । सो ऽपि पौराणस्यैव । एवं स्त्रिया अपीति शूलपाणिः प्राग् द्विजाश् चेत्य् अचूडा अत्रिवर्षपरम्,

अनुपेतो ऽपि कुर्वीत मन्त्रवत् पैतृमेधिकम् ।
यद्य् असौ कृतचूडः स्याद् यदि स्याच् च त्रिवत्सरः ॥

इति सुमन्तूक्तेः ।

मूलम्

मराठी

यानन्तर शूद्राचा श्राद्धनिर्णय साङ्गतो.

पूर्वी याज्ञवल्क्य वचनाम्त “श्राद्धकर्मरत” असे झटले आहे त्यावरून नित्य1, नैमित्तिक2, व काम्य3 श्राद्धकर्माचे ठायीं शूद्रास अधिकार सिद्ध झाला, व असाच स्त्रियांसही झाला. कारण, " आपला पति इत्यादि तीन, व आपला बाप, आजा, आणि पणजा याञ्च्या उद्देशाने यथाकाली आलस्य न करितां विधवास्त्रीने श्राद्ध करावें.’ अशी स्मृ. तिरत्नावलीत वृद्धमनूची उक्ति आहे. याप्रकारे ज्या श्राद्धाविषयीं स्त्रीशूद्राम्स अधि कार आहे; ते त्याञ्चे मन्त्ररहित तूष्णीं4 होते. कारण, “स्त्रिया, शूद्र, व अनुपनीत द्विज यान्नी अमन्त्रक श्राद्ध करावें.’’ असें हेमाद्रीम्त मरीचीचे वचन आहे, व “हाच विधि मन्त्रर हित शूद्रास उक्त आहे. मन्त्राधिकाररहित असलेल्या शूद्राचे श्राद्ध, आपण पठण केलेल्या मन्त्राने ब्राह्मण सम्पादन करितो.” अशी ब्राह्मपुराणोक्ति आहे. येथे हे पूर्वोक्त ब्राह्मवचन श्राद्धप्रकरणांत घेतले आहे; याकरितां त्याची अन्यत्र प्रवृत्ति होऊ नये परन्तु तें परिभा पारूप आहे, या हेतूस्तव शूद्राच्या स्नानदानादि सर्व कर्माम्त ब्राह्मणाने मन्त्रपाठ करावा; व तोही पौराणमन्त्राचाच. “स्त्रीकर्तृक कर्मान्तही असेच करावें.” असे शूलपाणि ह्म णतो. तसेम्च पूर्वोक्त मरीचिवचनाम्त “उपनयनाच्या पूर्वी द्विजान्नी.’ असें झटले आहे; तें चौल, अथवा तीन वर्षे पुरी होण्यापूर्वी द्विजान्नी अमन्त्रक करावें एतदर्थ आहे, असे समजावे. कारण, “अनुपनीत द्विजानेही पितृसम्बन्धी श्राद्धादिकर्म समन्त्रक करावेम्, परन्तु जर तो चौल झालेला, अथवा तीन वर्षाञ्चा असेल तर.” अशी सुमन्तूची उक्ति आहे.

विश्वास-प्रस्तुतिः

स्मृत्यर्थसारे अनुपनीताः स्त्रीशूद्राश् च श्राद्धम् ऋत्विजा कारयेयुः स्वयं वामन्त्रकं कुर्युः । द्विजस्त्रियस् तु स्वयं सङ्कल्पमात्रं कृत्वा वैदिकमन्त्रयुक्तं सर्वं ब्राह्मणद्वारा कारयेयुर् इति प्रयोगपारिजातः । अत एव स्त्रीणाम् इत्य् कृतविवाहस्त्रीपरम् इति हेमाद्रिर् आह । अनुपनीतस् तु वैदिकमन्त्रयुक्तं सर्वं स्वयम् एव कुर्यात् । विशेषस् तु निर्णयसिन्धौ ज्ञेयः । शूद्रस्य तु सदाऽमश्राद्धम् एव,

सदा चैव तु शूद्राणाम् आमश्राद्धं विधीयते ।

इति सुमन्तूक्तेः । पृथ्वीचन्द्रोदये [५५] मास्त्स्ये ऽपि ।

एवं शूद्रो ऽपि सामान्यं
वृद्धिश्राद्धं च सर्वदा ।
नमस्कारेण मन्त्रेण
कुर्याद् आमान्नवत् सदा ॥

तत्रैव वृद्धपराशरः

आमान्नेन तु शूद्रस्य तूष्णीं तु द्विजपूजनम् ।
आमश्राद्धं तु निर्वाप्य सजातीन् आशयेद् अथ ॥

स एव

आमं शूद्रस्य पक्वान्नं पक्वम् उच्छिष्टम् उच्यते ।

तेन शूद्रगृहे पक्वहोमो नेति केचित् । हेमाद्रौ भविष्ये

धर्मेप्सवस् तु धर्मज्ञा यदि शूद्राः प्रकुर्वते ।
अग्नौकरणमन्त्रश् च नमस्कारो विधीयते ॥

अग्नये कव्यवाहनाय नमः । सोमाय पितृमते नम

इत्य् अयं मन्त्रः ।

मूलम्

स्मृत्यर्थसारे अनुपनीताः स्त्रीशूद्राश् च श्राद्धम् ऋत्विजा कारयेयुः स्वयं वामन्त्रकं कुर्युः । द्विजस्त्रियस् तु स्वयं सङ्कल्पमात्रं कृत्वा वैदिकमन्त्रयुक्तं सर्वं ब्राह्मणद्वारा कारयेयुर् इति प्रयोगपारिजातः । अत एव स्त्रीणाम् इत्य् कृतविवाहस्त्रीपरम् इति हेमाद्रिर् आह । अनुपनीतस् तु वैदिकमन्त्रयुक्तं सर्वं स्वयम् एव कुर्यात् । विशेषस् तु निर्णयसिन्धौ ज्ञेयः । शूद्रस्य तु सदाऽमश्राद्धम् एव,

सदा चैव तु शूद्राणाम् आमश्राद्धं विधीयते ।

इति सुमन्तूक्तेः । पृथ्वीचन्द्रोदये [५५] मास्त्स्ये ऽपि ।

एवं शूद्रो ऽपि सामान्यं वृद्धिश्राद्धं च सर्वदा ।
नमस्कारेण मन्त्रेण कुर्याद् आमान्नवत् सदा ॥

तत्रैव वृद्धपराशरः

आमान्नेन तु शूद्रस्य तूष्णीं तु द्विजपूजनम् ।
आमश्राद्धं तु निर्वाप्य सजातीन् आशयेद् अथ ॥

स एव

आमं शूद्रस्य पक्वान्नं पक्वम् उच्छिष्टम् उच्यते ।

तेन शूद्रगृहे पक्वहोमो नेति केचित्हेमाद्रौ भविष्ये

धर्मेप्सवस् तु धर्मज्ञा यदि शूद्राः प्रकुर्वते ।
अग्नौकरणमन्त्रश् च नमस्कारो विधीयते ॥

अग्नये कव्यवाहनाय नमः । सोमाय पितृमते नम

इत्य् अयं मन्त्रः ।

मराठी

स्मृत्यर्थसाराम्त “अनुपनीत, व स्त्रिया आणि शूद्र ह्यान्नी ऋत्विजाकरवी श्राद्ध कर वावेम्; अथवा स्वयमेव अमन्त्रक करावें.” असे साङ्गितले आहे. “द्विनस्त्रियान्नी तर सङ्कल्प मात्र आपण करून वैदिकमन्त्रयुक्त सर्व श्राद्ध ब्राह्मणद्वारा करावें.” असे प्रयोगपरि जातकर्ता ह्मणतो. अतएव “स्त्रीणाममन्त्रकं हे वाक्य ज्या स्त्रीचा विवाह झाला नाही तिला लागू आहे5.” असें हेमाद्रि ह्मणतो. अनुपनीताने तर वैदिकमन्त्रयुक्त सर्व श्राद्ध स्वयमेव करावें6.

एतत्सम्बन्धी विशेष शास्त्रार्थ निर्णयसिन्धूत पहावा. शूद्रास तर नेहमी आमश्रा द्धच विहित आहे. कारण, “नेहमीं शूद्रास आमश्राद्धच विहित होय.” अशी सुमन्तूची उक्ति आहे. पृथ्वीचन्द्रोदयाम्त मत्स्यपुराणांत “असें शूद्रानेही नमः मन्त्राने सामान्य श्राद्ध, व वृद्धिश्राद्ध आमान्नानेच करावें.” असे साङ्गितले आहे. त्याच पृथ्वीचन्द्रो दयाम्त वृद्धपराशर ह्मणतो की, “शूद्राने तूष्णीं ब्राह्मणाचे पूजन करून आमान्नाने श्राद्ध करावेम्, आणि आपल्या जातिवर्गास भोजन द्यावें.” असे साङ्गून नन्तर तोच ह्मणतो की, “शूद्राकडचे आमान्न शिजविलेल्या अन्नासारखेम्, व शिजविलले उच्छिष्टासारखें होतें.” ह्मणूनच “शूद्राच्या घरीं शिजलेल्या अन्नाने (चरूने) होम करूं नये.” असें कित्येक ह्मणतात. हेमाद्रीत भविष्यपुराणांत “धर्माची इच्छा करणारे, व स्वतः धर्मज्ञ असे शूद्र, जर श्राद्ध करतील तर त्यान्तील अग्नौकरणाचेठायीं नमः मन्त्राचे पठण त्यास वि हित आहे.“जसें-“अग्नयेकव्यवाहनाय नमः।सोमाय पितृमते नमः"असा मन्त्र ह्मणावा.

विश्वास-प्रस्तुतिः

आवाहनादिकर्तव्यं यथा शूद्रेण तच् छृणु ।
देवानां देवनाम्ना तु पितॄणां नामगोत्रतः ॥
पिण्डादि निर्वपेद् वीर नामतो गोत्रतस् तथा ।

शूद्राणां काश्यपं गोत्रम् इति हेमाद्रिः । एवं तर्पणादिषु ज्ञेयम् । ये तु ऋष्यपत्यत्वाभावाच् छूद्रे गोत्रम् एव नास्तीत्य् आहुस् ते मूर्खा एव । तत्रैव भविष्ये

शूद्रस् तु गृहपाकेन तत्पिण्डान् निर्वपेत् तथा ।
सक्तु मूलं फलं तस्य [५६] पायसं वा भवेत् स्मृतम् ॥

तेन “पक्वम् उच्छिष्टम् उच्यते” इत्य् एतद् विहितभिन्नपरम्, श्राद्धपरं वा । शूद्रकर्तृकवैश्वदेवपरम् इति स्मार्तगौडाः । अन्यथा सर्वत्र पक्वनिषेधाद् एव श्राद्धे ऽप्य् आमसिद्धेः, शूद्रस्यामविधिर् व्यर्थः स्यात् । तेन श्राद्धे सर्वत्रामप्राप्तौ पिण्डे पायसादेः प्रतिप्रसवः । देवताभ्यः पितृभ्यश् चेत्य् अयं वा नमस्कारमन्त्र इति विज्ञानेश्वर-मदनपालादयःहेमाद्रिस् तु शूद्रो ऽप्य् अमन्त्रवत् कुर्याद् अनेन विधिना बुध इति मात्स्ये मन्त्रनिषेधान् नाममन्त्रेणेत्य् आह । यच् च पृथ्वीचन्द्रोदये स्कान्दे,

राजकार्यनियुक्तस्य बन्धनिग्रहवर्तिनः ।
व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयेत् ॥

इति, तच् छूद्रे ऽपि तुल्यम् । किं तु श्राद्धे शूद्रस्य न ब्राह्मणः प्रतिनिधिः ।

ब्राह्मणो हीनवर्णस्य न कुर्याद् और्ध्वदेहिकम् ।
शूद्रो ऽपि वा ब्राह्मणस्य विना पारसवात् क्वचित् ॥

इति तत्रैव पारस्करोक्तेः । पारसवः ऊढशूद्रापुत्रः ।

“शूद्राने देव, व पितर याञ्चे आवाहनादि कसे करावें तें ऐक. देवाञ्चे आवाहन देवाञ्च्या नामाने (पुरुरवावसञ्ज्ञक इत्यादि) करावेम्. आणि पितराञ्चे, नाम, व गोत्र उच्चार करून करावे. हे वीरा7, पिण्डादिदानही नामगोत्रोच्चारपूर्वक करावें.” “शूद्राचे काश्यप8 गोत्र.” असे हेमाद्रि ह्मणतो. तर्पणादिकाविषयीही याचप्रमाणे जाणावें.

जे कित्येक ग्रन्थकर्ते “शूद्र हे गोत्रप्रवर्तक ऋषीञ्चे पुत्र नव्हत, अतएव त्याम्स गोत्रच नाही.” असें ह्मणतात, ते मूर्खच होत. कारण, शूद्रास काश्यपगोत्र लागू आहे. तेथेच हेमाद्रीत भविष्यवचन आहे. ते असें की, “शूद्राने तर, घराम्त शिजविलेल्या अन्नाने श्राद्धसम्बन्धी पिण्डदानादिक करावेम्, ते अन्न सातु, मूल, फल, अथवा पायस हेच असावें.” यावरून पूर्वी साङ्गितलेल्या मरीचिवचनास हि विरोध येतो. तस्मात् हे वचन विहितभिन्नपर, अर्थात् सातु, मूल, फल, पायस याञ्चा निषेध करणारे नाही. अथवा तें वचन श्राद्धापुर्तेच आहे असे समजावेम्. “शूद्रकर्तृक वैश्वदे वपर,” असें स्मार्तगौड ह्मणतात. नाहीम्पेक्षां सर्वत्र पक्कान्नाचा (शिजविलेल्या अन्नाचा ) निषेध केला आहे; या हेतूस्तव आमान्नाने श्राद्ध करावे, असे सिद्ध असतां “शूद्राने आम श्राद्ध करावें.” हा विधि व्यर्थ होईल, व तेणेकरून श्राद्धाम्त सर्वत्र आमान्नाची प्राप्ति झाली असताम्, पिण्डसुद्धां आमानानेच द्यावे. असे होईल ह्मणून, “सक्तुमूलम्” या वाक्या ने पिण्डाविषयीं पायसादिकाञ्चा प्रतिप्रसव होतो. “देवताभ्यः पितृभ्यश्च हा अथवा नम स्कार मन्त्र घ्यावा.” असें विज्ञानेश्वर व मदनपालादिकाञ्चे मत आहे. हेमाद्री तर “शूद्रोप्यमन्त्रवत् ह्या मत्स्यपुराणवचनाम्त मन्त्राचा निषेध केला आहे. यास्तव नाम मन्त्रानेच श्राद्ध करावें.” असें ह्मणतो. जे पृथ्वीचन्द्रोदयाम्त स्कन्दपुराणवचन आहे की, राजाचे कार्य करणारा (सरकारी कामदार), बन्दिशाळेत असणारा, अथवा बलात्काराने अ डकवून ठेविलेला, अथवा सर्वप्रकारच्या सङ्कटाम्त असणारा, यान्नी ब्राह्मणाकरवी श्राद्धे कर वावी.” ह्मणून, तें ब्राह्मण, क्षत्रिय, वैश्य, शूद्र, याम्स समानच आहे. परन्तु श्राद्धाम्त शूद्रांला ब्राह्मण 8प्रतिनिधि होत नाही. कारण, ब्राह्मणानें खालच्या वर्णाचें और्वदेहिक करूं नये. शू द्राने ब्राह्मणाचेही करूं नये. केवल पारसवाने9 मात्र करावे. अशी पारस्कराची उक्ति आहे.

विश्वास-प्रस्तुतिः

[५७] विष्णुपुराणे

दानं च दद्याच् छूद्रो ऽपि पाकयज्ञैर् यजेत वा ।
पित्र्यादिकं च यत् सर्वं शूद्रः कुर्वीत तेन वै ॥

तेन पाकेन । इदं कलीतरपरम् इति स्मार्तगौडाः । यत् तु भारते राजधर्मेषु,

यवनाः किराता गान्धाराश् चीनाः शबरबर्बराः ।
शकास् तुषाराः कङ्काश् च पल्हवाश् चान्द्रमद्रकाः ॥

इत्य् उक्त्वा,

ब्रह्मक्षत्रप्रसूताश् च वैश्याः शूद्राश् च मानवाः ।
कथं धर्मान् चरिष्यन्ति सर्वे विषयवासिनः ॥

इति चोक्त्वा,

वेदधर्मक्रियाश् चैव तेषां धर्मो विधीयते ।
पितृयज्ञास् तथा कूपाः प्रपाश् च शयनानि वा ॥
दानानि च यथाकालं द्विजेभ्यो विसृजेत् सदा ॥

तथा ।

दक्षिणा सर्वयज्ञानां दातव्या भूतिम् इच्छता ।
पाकयज्ञा महार्हाश् च कर्तव्याः सर्वदस्युभिः ॥

म्लेच्छादीनां श्राद्धविधानं तद् अपि सजातीयभोजनद्रव्यदानादिपरम् । विष्णु-उशनसौ

न पक्वं भोजयेद् विद्वान् सच्छूद्रो ऽपि कदाचन ।
भोजयन् प्रत्यवायी स्यान् न च तस्य फलं लभेत् ॥

तत्रापि द्विजानां पाकनियमः यथा लघुहारीतः

एकोद्दिष्टं तु कर्तव्यं पाकेनैव सदा स्वयम् ॥

इति । यथा वा स्मृतिदर्पणे गालवः

मृताहं च सपिण्डं च गयाश्राद्धं महालयम् ।
आपन्नो ऽपि न कुर्वीत श्राद्धम् आमेन कर्हिचित् ॥

लौगाक्षिः

अन्नेनैवाब्दिकं कुर्याद् धेम्ना वामेन न क्वचित् । इति ।

तत्रापि शूद्रस्यामम् एव,

सदा चैव तु शूद्राणाम् आमश्राद्धं विधीयते ।

इति सुमन्तूक्तेः । शूद्रस्य दशपिण्डाद्यामेनैवेति हलायुधः

तन् न, पूर्ववचनैः पायसादेर् अपि विधानात् । तच् च शूद्रकर्तृकम् आमश्राद्धम् अपराह्ण एव । न तु द्विजवत् पूर्वाह्णे ।

मध्याह्नात् परतो यस् तु कुतुपः समुदाहृतः ।
आमश्राद्धं तु तत्रैव पितॄणां दत्तम् अक्षयम् ॥

इति सुमन्तूक्तेर् इत्य् अपरार्के हेमाद्रौ चोक्तम् । पुत्रजन्मनि हिरण्यश्राद्धम् एव । तदाह हेमाद्रौ संवर्तः

पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान् ।
न पक्वेन न चामेन कस्यामान्य्10 अभिकामयन् ॥

आमहेमश्राद्धादौ विशेषस् तु मत्कृते निर्णयसिन्धौ ज्ञेयः ।

विष्णुपुराणांत “शूद्राने दान द्यावे. पाकयज्ञान्नी (स्थालीपाकाम्त साङ्गितल्याप्रमाणे) यजन करावेम्. पितृसम्बन्धिक जे सर्व कर्म तें पाकयज्ञरीतीने करावें.” असे साङ्गितले आहे हे “कलिवाञ्चून इतर युगांविषयीं आहे.” असें स्मार्तगौड ह्मणतात. में भारतामध्ये राजधर्मात “यवन11 (मुसलमान वगैरे) भिल्ल, गान्धार, चीन, शबर, बर्बर, शक, तुषार, कङ्क. पल्हव, आन्ध्र, मद्रक” असे साङ्गून “ब्राह्मण आणि क्षत्रियाम्पासून झालेले, वैश्य, व शूद्र इत्यादि जातीची निरनिराळ्या देशाम्त राहणारी मनुष्ये धर्माचें कसें आचरण करतील?” असे साङ्गून “वैदिकधर्म, आणि क्रिया हाच त्याञ्चा धर्म असे विधान करितोम्, आणखी पितृयज्ञ (श्राद्धादिक), तसेम्च विहिरी, पाणपोयी, शय्यादान, वगैरे इतर दानें यथा काली सर्वदां त्यान्नी ब्राह्मणाला द्यावी.

तसेम्च कल्याणाची इच्छा करणाराने यज्ञ करून तत्सम्बन्धी दक्षिणाही द्यावी. आणखी उत्तम प्रकारचे पाकयज्ञ करावे. हा धर्म सर्व दस्यून्नी12 आचरण करण्यास योग्य अशा प्रकारचा आहे.” असे साङ्गितले आहे. येथे म्लेञ्छादि काम्स में श्राद्धाचे विधान केले आहे तेही त्यान्नी आपल्या जातीच्या लोकांस, भोजन अथवा भोजनाबद्दल द्रव्य देण्याविषयी त्याम्स अधिकार आहे. विष्णु, आणि उशना (शुक्र) ह्मणतात की “सच्छूद्रानेंहि (हे पुढे साङ्गू) शिजविल्या अन्नाने श्राद्धामध्ये भोजन कदापि घालू नये. जर भोजन घालील तर तो दोपी होईल, व त्या कर्माचे फल त्यास मिळणार नाही.” यावरून जेथें द्विजाम्स पाकाचा13 नियमच आहे; जसें लघुहारीत ह्म णतो की, “एकोद्दिष्ट श्राद्ध तर निरन्तर आपण पाकानेच करावें.” आणखी जसे स्मृतिद पणांत गालव ह्मणतो “मेलेल्या दिवसाञ्चे (मृतदिवशी करावयाचें ते ) प्रतिवार्षिक, सपिण्डी, गयाश्राद्ध, महालय, इतकी श्राद्धे मोठ्या सङ्कटाम्त पडलेला असतांहि आमान्नानें करूं नयेत.” लौगाक्षि ह्मणतो, की, प्रत्याब्दिक ( प्रतिवर्षी करावयाचें तें ) अन्नानेच क रावेम्. द्रव्यद्वारा अथवा आमान्नानें कदापि करूं नये.” असें लघुहारीत, गालव आणि लौगाक्षि हे द्विजान्नी एकोद्दिष्टादि श्राद्धे पक्वान्नानेच करावी असें ह्मणतात. तेथेही ती श्राद्ध शूद्राने आमान्नानेच करावी. कारण, “सदा चैवतु०” या सुमन्तुवचनाने, शूद्रास आमश्राद्धाचेच विधान केले आहे. “शूद्राचे दशपिण्डादिकही आमान्नानेच व्हावेत.” असें भट्टहलायुध ह्मणतो, परन्तु ते योग्य नाही. कारण, पूर्ववचनान्नी पायसान्दिकाञ्चेही विधान केले आहे. ते शूद्रकर्तृक आमश्राद्ध अपराह्नकालीम्च14 होते. द्विनासारखें पूर्वाह्नीं होत नाही. “मध्यान्हाहून पुढील जो काल त्यास कुतुपकाल15 असें ह्मणतात. त्याच कालामध्ये पितराम्स आमश्राद्ध दिलें असताम्, तें अक्षय होते. " असे सुमन्तूचे वचन आहे; ह्मणून अपरार्क आणि हेमाद्रि याम्मध्ये पूर्वाह्नीं आमश्राद्ध करूं नये, असे साङ्गितले आहे. पुत्रजन्मकालीं हिरण्यश्राद्धच16 करावेम्. तेच हेमाद्रीमध्ये संवर्त साङ्गतो; जसेम्- “बुद्धि मन्तानें पुत्रजन्मकालीं हिरण्यानेच श्राद्ध करावेम्. कल्याणेच्छूनें पक्क अथवा आम अन्नानें करूं नये. " आमश्राद्ध, व हिरण्यश्राद्ध इत्यादिकाञ्चा विशेष शास्त्रार्थ मी केलेल्या निर्णयसिन्धूवरून जाणावा.

विश्वास-प्रस्तुतिः

[५९] क्रियानिबन्धे व्यासः

हिरण्यम् आमश्राद्धीयं लब्धं यत् क्षत्रियाद् इतः ।
यथेष्टं विनियोज्यं स्याद् भुञ्जीयाद् ब्राह्मणान् स्वयम् ।

पिप्राल् लब्धं भुञ्जीयात् क्षत्रियादिलब्धे तु यथेष्टविनियोगः । तेनापि श्राद्धं वैश्वदेवादि न कार्यम् । देवोद्देशेन त्यक्तस्य देवतान्तराय त्यागायोगाद् इति देवयाज्ञिकः । शूद्रलब्धे तूक्तम् । तथैव षट्त्रिंशन्मते

आमं शूद्रस्य यत् किञ्चिच् छ्राद्धिकं प्रतिगृह्यते ।
तत् सर्वं भोजनायालं नित्यनैमित्तिके न तु ॥

गौडशुद्धितत्वे अङ्गिराः

शूद्रवेश्मनि विप्रेण क्षीरं वा यदि वा दधि ।
निवृत्तेन न भोक्तव्यं शूद्रान्नं तद् अपि स्मृतम् ॥
शूद्राद् विप्रगृहेष्व् अन्नं प्रविष्टं तु सदा शुचि ।

पराशरः

तावद् भवति शूद्रान्नं यावन् न स्पृशति द्विजः ।
द्विजातिकरसंस्पृष्टं सर्वं तन् न1 विरुध्यते ॥

विष्णुपुराणे

सम्प्रोक्षयित्वा गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

अङ्गिराः

पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहम् आगतम् ।

याप्रमाणे शूद्राने आमान्नश्राद्ध करावें झणून सिद्ध केलेम्; आताम्, तत्सम्बन्धी आमान्नाची व्यवस्था ब्राह्मणाने कशी करावी ते साङ्गतो. क्रियानिबन्धाम्त व्यास ह्मणतो की, “श्राद्धसम्बन्धी में आमान्न, अथवा द्रव्य क्षत्रिया दिकाम्पासून प्राप्त झाले असेल, त्याचा यथेष्ट विनियोग करावा. " तो असा की, ब्राह्मणाम्स भोजन द्यावे, अथवा आपण भोजन करावें.” ब्राह्मणापासून प्राप्त झाले असेल तर, स्वतः भोजन करावेम्; आणि क्षत्रियादिकाम्पासून मिळाले असेल तर, त्याचा इच्छेप्रमाणे विनियोग करावा, अशी वरील वचनाची व्यवस्था आहे. तथापि ह्या वचनावरून श्राद्ध मात्र करावे असे सिद्ध होते; परन्तु वैश्वदेवादि करू नये. कारण, " एका देवाच्या उद्देशानें त्याग केलेल्या द्रव्याचा अन्य देवतेच्या उद्देशाने त्याग करितां येत नाही." असे देवयाशिका, मत आहे. शूद्रापासून आमान्न प्राप्त झाले असता, त्याची कशी व्यवस्था करावी? याविषयी त्याच क्रियानिबन्धाम्त पत्रिंशन्मताम्त साङ्गितले आहे. जसें " ब्राह्मण शूद्रश्राद्धसम्बन्धी में कांहीं आमान्न ग्रहण करील, ते सर्वही भोजनास योग्य आहे. अर्थात् तेणेकरून भोजन करावेम्; परन्तु नित्य अथवा नैमित्तिक, करूं नये." तसेम्च गौडशुद्धित्तखाम्त अङ्गिरा ह्मणतो की, " ब्राह्मण निवृत्तिमार्गपर (प्रतिग्रह न घेणारा ) असेल तर, त्याने शूद्राच्या घराम्त दूध अथवा दहीं भक्षण करूं नये. कारण, तेंही शूद्रान्नच ह्मटले आहे. शूद्रापासून ब्राह्मणाच्या घराम्त आलेले अन्न ( आमान्न ) निरन्तर शुद्ध आहे. “पराशर ह्मणतो की, “तावत्कालपर्यम्त शूद्रान्न होतेम्, जोपर्यम्त ब्राह्मण त्याला स्पर्श करीत नाही. ब्राह्मणाचा हस्तस्पर्श झाला असतां तें सर्वही शुद्ध होतें.” विष्णुपुराणांत “शूद्राने आमान आपल्या घराम्त आणून दिलें असतां तें प्रोक्षण करून घ्यावेम्, " असे साङ्गितले आहे. अङ्गिरा - णतो की, “ ज्या पात्रान्तून शूद्राने दूध आणिलें असेल, त्यान्तून ते ब्राह्मणाने आपल्या पात्राम्त घ्यावेम्, ह्मणने शुद्ध होते.”

विश्वास-प्रस्तुतिः

पवित्रधारणस्य विचारः

[६०] तथा अनुपनीतस्त्रीशूद्रादेर् उत्तरीयेण सव्यापसव्ये ज्ञेये । तच् चोत्तरीयं वस्त्रोत्तरीयाभावे द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा परिमण्डलम् । षण्णवत्यङ्गुलं दीर्घम् इति जातूकर्ण्योक्तं ज्ञेयम् । तदभावे उपरिवासोमात्रम् ।

अपसव्यं क्रमाद् वस्त्रं कृत्वा कश्चित् सगोत्रजः ।

इति ब्राह्मोक्तेर् इति मैथिलवाचस्पतिःस्मृतिकौमुद्यां बौधायनः “शूद्राणाम्” इत्य् उपक्रम्य “उपवीतं वस्त्रविन्यासाद्” इति ।

तसेम्च अनुपनीत द्विज, स्त्रिया, व शूद्र याञ्चे सव्य आणि अपसव्य उत्तरीय17 वस्त्राने होते. जर तें उत्तरीय वस्त्र नसेल तर २।३ अथवा चार बोटें रुन्दी, आणि ९६ बोटे लां बीची रेशमी फीत जिची शेवटें जोडलेली असतील अशी, जातूकर्ण्यऋषीने साङ्गितलेल्या प्रकारची विहित आहे असें जाणावेम्. त्याच्या अभावी तर अङ्गावर घेण्याचे वस्त्र मात्र अ सावेम्. कारण, “कोणी एक गोत्रन पुरुष पैतृक कर्म करीत असताम्, त्याणे उपवस्त्र18 अप सव्य करून कर्म चालवावें." अशी ब्रह्मपुराणोक्ति आहे, ह्मणून मैथिलवाचस्पति लि हितो. स्मृतिकौमुदीत बौधायन " शूद्राणाम्" येथून उपक्रम करून ह्मणतो की, “ उत्तरीय वस्त्र उपवीतासारिखें केल्याने उपवीत होते.

विश्वास-प्रस्तुतिः

शङ्खः

चतुर्भिर् दर्भपिञ्जूलैर् ब्राह्मणस्य पवित्रकम् ।
एकैकं न्यूनम् उद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥

मण्डले तु शूद्रस्याभ्युक्षणं मतम् इत्यादि निर्णयसिन्धौ ज्ञेयम् । शूद्रस्य तिलकविधिर् उक्तः पराशरपुराणे

ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रञ्च वर्तुलं चतुरस्रकम् ।
अर्धचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् ॥

वेदनिष्ठ इत्य् उक्तेः शूद्रानुज्ञा । मदनपारिजाते ब्राह्मे

ऊर्ध्वपुण्ड्रं द्विजः कुर्यात् क्षत्रियस् तु त्रिपुण्ड्रकम् ।
अर्धचन्द्रं तु वैश्यश् च वर्तुलं शूद्रजातिषु ॥

विष्णु-आश्वलायनौ

शङ्खचक्राद्यङ्कनं च गीतनृत्यादिकं तथा ।
एकजातेर् अयं धर्मो न जातु स्याद् द्विजन्मनः ॥

पुरुषार्थप्रबोधशिवसर्वस्वादौ तु स्त्रीशूद्रयोर् विभूतिधारणम् अप्य् उक्तम् ।

इति रामकृष्णभट्टात्मजकमलाकरभट्टकृते

शूद्रधर्मप्रकाशे

शूद्रश्राद्धनिर्णयः ।

(यानन्तर पवित्रधारणाचा विचार साङ्गतो.)

याविषयी शङ्ख ह्मणतो की, “चार दर्भाच्या काड्यान्नी ब्राह्मणाचे पवित्रक होते. याम्त वर्णक्रमाने एकेक कमी केल्याने इतर वर्णाचें पवित्रक होते. अर्थात् क्षत्रियाचें तीन दर्भानी, वैश्याचे दोन दर्भानी, आणि शूद्राचे एक दर्भाने अशी होतात.”

  1. जी कर्मे न केली असतां प्रत्यवाय येतो त्याम्स नित्यकर्मे असें ह्मणतात. उदाहरणार्थ सन्ध्यावन्दनादि. ↩︎ ↩︎ ↩︎

  2. “नैमित्तिक” ह्मणजे काही एक निमित्तास उद्देशून केलेली कम.- उदाहरणार्थ ग्रहणसङ्क्रान्त्यादिकाम्. स उद्देशून केलेली दाने वगैरे. ↩︎

  3. ऐहिक अथवा पारलौकिक सुखादिप्राप्त्यर्थ केलेल्या कर्मास “काम्यकम” असें झणतात. उदाहर• णार्थ सङ्कठ्यादिक व्रतेम्, व तुलादि दाने वगैरे. ↩︎

  4. “तूष्णीम्” (उगीच) ह्मणजे मन्त्र वगैरे न ह्मणतां केवल ती क्रियामात्र करणे; अर्थात् स्त्रीशद्रकर्तक श्रादाम्त मन्त्र न ह्मणतां क्रियामात्र करावी; असे सिद्ध होते. ↩︎

  5. येथे “पूर्वोक्त हेमाद्रीने घेतलेलें मरीचिवचन विवाह न झालेल्या स्त्रीस लागू आहे.” असें ह्मटले आहे, त्याचे कारण असे की, विवाहित स्त्रीला आचार्यद्वारा समन्त्रक करण्याचा अधिकार आहे, व जातीचा ब्राह्मण असला तथापि त्यास उपनयनापूर्वी जसा वेदाधिकार नाहीम्; तसाच उपनयनस्थानीय असलेला विवाह झाल्यावाञ्चून स्त्रियाम्स वैदिककर्मसम्बन्धी अधिकार नाही. असे समजावेम्. ↩︎

  6. येथे “उपनयन न झालेल्याने वैदिक मन्त्रयुक्त सर्व श्राद्ध करावे.” असे साङ्गितले आहे. ते केवळ प्रति. वार्षिक श्राद्ध व अन्त्य कर्म करण्यापुरतेच आहे असे समजावे. कारण, पुत्र असतां ते अन्यास करण्याला अधिकार नाही. ↩︎

  7. हे सम्बोधन कृष्णाने धर्मराजास दिले आहे. सर्व भविष्यपुराणांत मुख्यलें कृष्णयुधिष्ठिरसंवाद आहे. ↩︎

  8. यद्यपि शद्राम्स गोत्रादि नाही असे पूर्वी झटले आहे व “सर्व प्रजा काश्यपी आहेत.” या श्रुतीवरून शुदास काश्यप गोत्री ह्मणतां येईल; तथापि गोत्रसम्बन्धास विशेष मानून जे जे कर्माधिकार ब्राह्मणादिकाम्स विहित आहेत ते शद्वाम्स नाहीत. ↩︎ ↩︎

  9. ही एक सङ्करजाती आहे याविषयी पुढे जातिनिर्णयाम्त वर्णन केले आहे. ↩︎

  10. प्- कल्याणान्य् ↩︎ ↩︎

  11. याञ्चे भेदवगैरे पुढे जातिनिर्णयाम्त सविस्तर वर्णिले जातील. ↩︎

  12. हा शब्द साधारण चोराञ्चा वाचक आहे. शबर म्लेञ्छादिकाम्स दस्यु असें ह्मणण्याचे कारण हेच की, बहुतकरून ते चोरीवर निर्वाह करीत असतात. ↩︎

  13. जेथें द्विजाम्स शिजविलेल्या अन्नाचे विधान केले असेल; तेथें शद्राम्स आमानच विहित आहे असें सम जावेम्. “सदा चैव तु शुद्राणामामश्राद्धं विधीयते.” असे वचन आहे. ↩︎

  14. ज्या दिवसाम्त जितकें दिनमान असेल त्याचे समान ५ विभाग करावे; त्यापैकी चवथ्या भागास अप राह ह्मणावेम्. हा श्राद्धास योग्य काल होय. ↩︎

  15. दिवसाच्या १५।१६ या दोन घटिकाम्स कतुपकाल असें ह्मणतात असें धर्मशास्त्रवेत्याचे मत आहे. ↩︎

  16. केवळ द्रव्यद्वारा करणे त्यास हिरण्यश्राद्ध ह्मणावेम्. ↩︎

  17. हे वनखण्ड बहुतकरून पैतृक कर्मात अवश्य घेण्याचा सम्प्रदाय आहे. ↩︎

  18. पाङ्घरण्याच्या धोत्रास उत्तरीयवस्त्र प्रणतात. व त्याने निर्वाह होतो. ↩︎