१० पञ्च महायज्ञाः

विश्वास-प्रस्तुतिः

[५३] तथा शूद्राणां पञ्चमहायज्ञाश् च भवन्ति,

भार्या-रतः शुचिर् भृत्य-
भर्ता श्राद्ध-क्रिया-रतः ।
नमस्कारेण मन्त्रेण
पञ्चयज्ञान् न हापयेत् ॥

इति याज्ञवल्क्योक्तेः । एतच् च मिताक्षरायां स्पष्टम् । भारते राजधर्मेषु,

तस्माच् छूद्रः पाकयज्ञैर्
यजेत व्रतवान् स्वयम् ।
दक्षिणा पाकयज्ञानां
हिरण्यं तु विधीयते ॥

ते च वाजसनेयिशाखया कार्याः, “शूद्रा वाजसनेयिनः” इति गौडनिबन्धे दक्षोक्तेः । हरिहरभाष्ये विवाहप्रकरणे ऽप्य् एवम् उक्तम् । अन्यत्प्रयोगे व्यक्तीभविष्यतीति सङ्क्षेपः ।

इति श्रीजगद्गुरुनारायणभट्टसूरिसूनुरामकृष्णभट्टात्मज-

कमलाकरभट्टकृते शूद्रधर्मतत्त्वे शूद्रसंस्काराः ।

मूलम्

[५३] तथा शूद्राणां पञ्चमहायज्ञाश् च भवन्ति,

भार्यारतः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥

इति याज्ञवल्क्योक्तेः । एतच् च मिताक्षरायां स्पष्टम् । भारते राजधर्मेषु,

तस्माच् छूद्रः पाकयज्ञैर् यजेत व्रतवान् स्वयम् ।
दक्षिणा पाकयज्ञानां हिरण्यं तु विधीयते ॥

ते च वाजसनेयिशाखया कार्याः, “शूद्रा वाजसनेयिनः” इति गौडनिबन्धे दक्षोक्तेः । हरिहरभाष्ये विवाहप्रकरणे ऽप्य् एवम् उक्तम् । अन्यत्प्रयोगे व्यक्तीभविष्यतीति सङ्क्षेपः ।

इति श्रीजगद्गुरुनारायणभट्टसूरिसूनुरामकृष्णभट्टात्मज-

कमलाकरभट्टकृते शूद्रधर्मतत्त्वे शूद्रसंस्काराः ।

मराठी

तसेच शूद्राने पञ्चमहायज्ञही करावेत, कारण, “स्वस्त्रियेचेठायीं रत असून नेहमी शुद्ध असणारा, आणि आपल्या सेवकाञ्चे पोषण करणारा, व श्राद्धकर्मतत्पर अशा शूद्राने ‘नमः’ मन्त्राने पञ्चमहायज्ञ करावे; व ते कधीही चुकवू नयेत.” अशी याज्ञ वल्क्याची उक्ति आहे, व शूद्राने पञ्चमहायज्ञ करावे, हे मिताक्षरत स्पष्ट आहे. तसेम्च महाभारताम्त शान्तिपर्वान्तर्गत राजधर्मात " तस्मात् शूद्राने स्वतः व्रतस्थ असून पाकयज्ञान्नी यजन करावे. पाकयज्ञाञ्ची दक्षिणा तर सुवर्ण द्यावें.” असे साङ्गितले आहे. ते पाकयज्ञ वाजसनेयिशाखेने1 करावे. कारण, “शूद्र हे वाजसनेयी आहेत.” अशी गौड निबन्धाम्त दक्षाची उक्ति आहे. हरिहरभाष्याम्त विवाहप्रकरणामध्ये असेम्च साङ्गितले आहे. अवशिष्ट राहिलेलेम्, पञ्चमहायज्ञप्रयोग साङ्गतेवेळी स्पष्ट करूम्. ॥ इति श्रीजगद्गुरु नारायणभट्टसूरिसूनुरामकृष्णभट्टात्मजकमलाकरभट्टकृते शूद्रधर्मतत्वे शूद्रस्य संस्काराः ॥


  1. ह्या नावाची यजुर्वेदाची एक शाखा आहे. या वाजसनेयिसंहितेस शुक्लयजुर्वेदसंहिता असे म्ह णतात, येथे ‘शूद्र वाजसनेयी’ असें मटले आहे हे अमळसे चमत्कारिक, व विचारणीय आहे; तथापि त्या विषयी येथे विशेष विचार न लिहितां तें काम वाचकांवर सोपवितो. परन्तु यावरून शुद्र वाजसनेयिशाखी आहेत असे मात्र समजू नये. कारण, त्याम्स अविद्यत्व असल्या कारणाने ब्राह्मणादिकाञ्चेपरि शाखासम्बम्ध मु. कीच असण्याचा सम्भव नाही. येथे शुद्ध वाजसनेयी असें ह्मणण्याचे इतकेच कारण की त्याञ्चे पञ्चमहायज्ञ वाजसनेयी जसे करतात तद्वत् करावे; इतकेम्च साङ्गण्याकरितां आहे. ↩︎